23050: षष्ठी शेषे ================= **Padacheda:** षष्ठी | S | 1 | 1 | शेषे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The 6th-Case-affix is used in the remaining cases, that is to say, where there is a sense, such as the relation between property and its owner etc. different from that of a word related to a verb and from that of a Nominal-stem. Vasu English Translation ------------------------ The 6th-Case-affix is used in the remaining cases, that is to say, where there is a sense, such as the relation between property and its owner etc. different from that of a word related to a verb and from that of a Nominal-stem. Ex. राज्ञः पुरुषः 'the king's man' पशोः पादः 'beast's foot' पितुः पुत्रः 'father's son.' Bhashya ------- षष्ठी शेषे 508 (अथ षष्ठीप्रकारणम्) (324 शेषषष्ठीसूत्रम् ।2.3.3। आ.2सू.) (शेषशब्दार्थनिरूपणाधिकरणम्) (आक्षेपभाष्यम्) शेष इत्युच्यते। कः शेषः? ॥ (समाधानभाष्यम्) कर्मादिभ्यो ये ऽन्ये ऽर्थाः स शेषः ॥ (आक्षेपभाष्यम्) यद्येवं शेषो न प्रकल्पते। न हि कर्मादिभ्योन्येर्थाः सन्ति ॥ इह तावद् - राज्ञः परुषः इति राजा कर्ता, पुरुषः संप्रदानम्। वृक्षस्य शाखा इति वृक्षः शाखाया अधिकरणम्। तथा यदेतत्स्वं नाम चतुर्भिरेतत्प्रकारैर्भवति - क्रयणाद्, अपहरणाद्, याञ्ञ्चायाः, विनिमयादिति। अत्र च सर्वत्र कर्मादयः सन्ति ॥ (समाधानभाष्यम्) एवं तर्हि कर्मादीनामविवक्षा शेषः ॥ (आक्षेपभाष्यम्) कथं पुनः सतो नामाविवक्षा स्यात्? ॥ (समाधानभाष्यम्) सतोप्यविवक्षा भवति। तद्यथा - अलोमिका एडका, अनुदरा कन्येति ॥ असतश्च विवक्षा भवति। तद्यथा - समुद्रः कुण्डिका। विन्ध्यो वर्धितकमिति ॥ (शेषग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं पुनः शेषग्रहणम्? ॥ (1527 समाधानवार्तिकम् ॥ 1) - प्रत्ययावधारणाच्छेषवचनम् - (भाष्यम्) प्रत्ययावधारणाच्छेषग्रहणं कर्तव्यम्। प्रत्यया नियताः, अर्था अनियताः। तत्र षष्ठी प्राप्नोति। तत्र शेषग्रहणं कर्तव्यं षष्ठीनियमार्थम् - शेष एव षष्ठी भवति, नान्यत्रेति ॥ (1528 समाधानवार्तिकम् ॥ 2 ) - अर्थावधारणाद्वा - (भाष्यम्) अथ वा अर्था नियताः, प्रत्यया अनियताः, ते शेषेऽपि प्राप्नुवन्ति। तत्र शेषग्रहणं कर्तव्यं शेषनियमार्थम् - शेषे षष्ठ्येव भवति नान्येति ॥ (शेषग्रहणप्रत्याख्यानभाष्यम्) अर्थनियमे शेषग्रहणं शक्यमकर्तुम्। कथम्?। अर्था नियताः, प्रत्यया अनियताः। ततो वक्ष्यामि - षष्ठी भवतीति। तन्नियमार्थं भविष्यति - यत्र षष्ठी चान्या च प्राप्नोति तत्र षष्ठ्येव भवतीति ॥ (1529 आक्षेपवार्तिकप्रथमखण्डम् ॥ 3 ) - षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेधः - (भाष्यम्) षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेधो वक्तव्यः। राज्ञः पुरुष इत्यत्र राजा विशेषणम्, पुरुषो विशेष्यः। तत्र प्रातिपदिकार्थो व्यतिरिक्त इति कृत्वा प्रथमा न प्राप्नोति। तत्र षष्ठी स्यात् तस्याः प्रतिषेधो वक्तव्यः ॥ (1530 आक्षेपवार्तिकद्वितीयखण्डम् ॥ 4) - तत्र प्रथमाविधिः - (भाष्यम्) तत्र षष्ठीं प्रतिषिध्य प्रथमा विधेया। राज्ञः पुरुषः ॥ (आक्षेपपरिहारभाष्यम्) उक्तं पुर्वेण। किमुक्तम्!। न वा वाक्यार्थत्वाद् इति । यदत्राधिक्यं वक्यार्थः सः ॥ (आक्षेपभाष्यम्) कुतो नु खल्वलेतत् - पुरुषे यदाधिक्यं स वाक्यार्थ इति, न पुना राजनि यदाधिक्यं स वाक्यार्थः स्यात् ॥ (समाधानभाष्यम्) अन्तरेणापि पुरुषशब्दस्य प्रयोगं राजनि सोर्थो गम्यते, न पुनरन्तरेण राजशब्दस्य प्रयोगं पुरुषे सोर्थो गम्यते ॥ अस्ति कारणं येनैतदेवं भवति ॥ किं कारणम्?। राजशब्दाद्धि भवान् षष्ठीमुच्चारयति। अङ्ग हि भवान् पुरुषशब्दादप्युच्चारयतु गंस्यते सोर्थः ॥ (आक्षेपभाष्यम्) ननु च नैतेनैवं भवितव्यम्। न हि शब्दकृतेन नामार्थेन भवितव्यम्। अर्थकृतेन नाम शब्देन भवितव्यम् ॥ (समाधानभाष्यम्) तदेतदेवं दृश्यताम् - अर्थरूपमेवैतदेवंजातीयकं येनान्तरेणापि पुरुषशब्दस्य प्रयोगं राजनि सोर्थो गम्यते ॥ किं पुनस्तत्?। स्वामित्वम् ॥ किं कृतं पुनस्तत्?। स्वकृतम् ॥ तद्यथा - प्रातिपदिकार्थानां क्रियाकृता विशेषा उपजायन्ते तत्कृताश्चाख्याः प्रादुर्भवन्ति - कर्म करणमपादानं संप्रदानमधिकरणम् - इति। ताश्च पुनर्विभक्तीनामुत्पत्तौ कदाचिन्निमित्तत्वेनोपादीयन्ते कदाचिन्न ॥ (आक्षेपभाष्यम्) कदा विभक्तीनामुत्पत्तौ निमित्तत्वेन नोपादीयन्ते? ॥ (समाधानभाष्यम्) यदा व्यभिचरन्ति प्रातिपदिकार्थम्। यदा हि न व्यभिचरन्ति, आख्याभूता एव तदा भवन्ति - कर्म करणमपादानं संप्रदानमधिकरंणमिति ॥ (आक्षेपभाष्यम्) यथैव तर्हि राजनि स्वकृतं स्वामित्वं तत्र षष्ठी भवति। एवं पुरुषेऽपि स्वामिकृतं स्वत्वं तत्र षष्ठी प्राप्नोति ॥ (समाधानभाष्यम्) राजशब्दादुत्पद्यमानया षष्ठ्याभिहितः सोर्थ इति कृत्वा पुरुषशब्दात्षष्ठी न भविष्यति ॥ (आक्षेपभाष्यम्) न तर्हीदानीमिदं भवति - पुरुषस्य राजेति? ॥ (समाधानभाष्यम्) भवति। राजशब्दात्तु तदा प्रथमा ॥ (आक्षेपभाष्यम्) न तर्हीदानीमिदं भवति - राज्ञः पुरुषस्येति? ॥ (समाधानभाष्यम्) भवति बाह्यमर्थमभिसमीक्ष्य ॥ षष्ठी शेषे ॥ 50 ॥ Kashika ------- कर्मादिभ्योऽन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसंबन्धादिः शेषः, तत्र षष्ठी विभक्तिर्भवति। राज्ञः पुरुषः। पशोः पादः। पितुः पुत्रः॥ Siddhanta Kaumudi ----------------- कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधोदकस्योपस्कुरुते । भजे शंभोश्चरणयोः । फलानां तृप्तः ॥ Laghu Siddhanta Kaumudi ----------------------- कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः संबन्धः शेषस्तत्र षष्ठी। राज्ञः पुरुषः। कर्मादीनापि सम्बन्धमात्रविवक्षायां षष्ठ्येव। सतां गतम्। सर्पिषो जानीते। मातुः स्मरति। एधोदकस्योपस्कुरुते। भजे शम्भोश्चरणयोः॥ इति षष्ठी ॥ Balamanorama ------------ **षष्ठी शेषे** - अथ षष्ठी । षष्ठी शेषे । उक्तादन्यः शेषः । 'कर्मणि द्वितीया' इत्यादिसूत्रेषु द्वितीयादिविधिषु हि कर्मकर्तृकरणसंप्रदानापादानाधिकरणकारकाण्यनुक्रान्तानि । प्रथमाविधौ प्रातिपदिकार्थोऽनुक्रान्तः । एतेभ्योऽन्यः स्वस्वामिभावादिसंबन्धः शेषपदार्थ इत्यर्थः । तत्राऽसति बाधके संबन्धो विशेषरूपेण सामान्यरूपेण च भासते,न हि निर्विशेषं सामान्यमि॑ति न्यायात् । सति तु बाधकेमातुः स्मरती॑त्यादौ संबन्धत्वेनैव भानम् । कर्मत्वादिविशेषरूपेणापि भाने द्वितीयादिप्रसङ्गादिति स्थितिः । 'राज्ञ पुरुष' इत्यत्र स्वस्वामिभावरूपविशेषात्मना संबन्धत्वरूपसामान्यात्मना च संबन्धः षष्ठर्थः । राजाश्रितस्वामित्निरूपितस्वत्वात्मकसंबन्धाश्रयः पुरुष इति बोधः । आश्रयत्वादि तु संसर्गमर्यादया भासते । तत्र पुरुषो मुख्यं विशेष्यम् । संबन्धस्त्वाधेयतया पुरुषविशेषणम् । राजा तु आश्रयतया संबन्धविशेषणम् । संबन्धस्त्वाधेयतया राजानं प्रति विशेष्यं,प्रधानप्रत्ययार्थवचनमि॑ति वचनेन प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यावगमात् । अत एव पुरुषशब्दादपि न षष्ठी, राजनिरूपितसंबन्धाश्रयः पुरुष इति बोधे संबन्धस्य प्रकृत्यर्थपुरुषं प्रति विशेषणत्वेन विशेष्यत्वेन च भानानुपपत्तेः । यदा तु पुरुषगतस्वत्वनिरूपितस्वामित्यरूपसंबन्धाश्रयो राजेति बोधः, तदा पुरुषस्य राजेति पुरुषशब्दात् षष्ठी भवत्येवेत्यन्यत्र विस्तरः । सतां गतमित्यादौ कर्तृतृतीयादिकमाशङ्क्याह — कर्मादीनामपीति । कर्मत्वकर्तृत्वादीनामपि संबन्धत्वसामान्यात्मना विवक्षायां षष्ठ्येव, नतु कारकविभक्तय इत्यर्थः । तथाच 'क्तस्य च वर्तमाने' इति सूत्रे भाष्यं — कर्मत्वादीनामविवक्षा शेषः॑ इति । सतां गतमिति । भावे क्तः । सत्संबन्धि गमनमित्यर्थः । कर्तृत्वविवक्षायां तु सद्भिर्गतमिति तृतीया भवत्येव । कृद्योगलक्षणा षष्ठी तु न भवति,न लोके॑ति निषेधात् । सर्पिषो जानीते इति । करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः । करणत्वस्य संबन्धत्वविवक्षायां तु षष्ठी, कर्त्राश्रिता सर्पिःसम्बन्धिनी प्रवृत्तिरिति बोधः । मातुः स्मरतीति । कर्मत्वविवक्षायां मातरं स्मरतीत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु देवदत्तकर्तृकं मातृसम्बन्धि स्मरणमित्यर्थः । एधोदकस्योपस्कुरुते इति । एधशब्दोऽकारान्तः पुंलिङ्गः, 'कारके' इति सूत्रे 'एधाः पक्ष्यन्ते' इति भाष्यप्रयोगात् । एधाश्च उदकानि चेति द्वन्द्वात् षष्ठी, जातिरप्राणिना॑मित्येकवद्भावः । कर्मत्वविवक्षायां एधोदकं शोषणगन्धद्रव्याधानादिना परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु एधोदकसम्बन्धि परिष्करणमिति बोधः । एधश्शब्दः सकारान्तोऽप्यस्ति नपुंसकलिङ्गः । काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् स्त्रियाम् इति कोशात्, यथैधांसि समिद्धोऽग्निः॑ इत्यादिदर्शनाच्च । तथा सति एधः-दकस्ये॑तिच्छेदः, उदकशब्दसमावेशे एध उदकस्येत्यापत्तेः । उदकशब्दपर्यायो दकशब्दोऽप्यस्ति, भुवनममृतं जीवनं स्याद्दकं च॑ इति हलायुधकोशात् । तथा च एधः कर्तृ उदकं परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु षष्ठी, निम्बकरञ्जादिकाष्ठविशेषप्रज्वलिताग्नितप्तोदकस्य गुणविशेषो वैद्यशास्त्रप्रसिद्धः । भजे शम्भोश्चरणयोरिति । अत्र चरणयोः कर्मत्वस्य शेषत्वविवक्षायां षष्ठी । शम्भुचरणसंबन्धि भजनमित्यर्थः । फलानां तृप्त इति । अत्रापि करणत्वस्य शेषत्वविवक्षायां षष्ठी । फलसंबन्धिनी तृप्तिरिति बोधः । Tattvabodhini ------------- **षष्ठी शेषे** - षष्ठी शेषे । उक्तादन्यः शेषः । कर्मादयश्च प्रातिपदिकार्धपर्यन्ता उक्ताः, तत्र द्वितीयादीनां विधानात्, अतो प्रति प्राधान्यादप्रधानादेव षष्ठी । प्रत्ययार्थस्त्विह पुरुषविशेषणम् । राजनिरूपितसेवकत्वसम्बन्धवान् पुरुष इत्यर्थविवक्षायां प्रधानात्पुरुषशब्दान्न षष्ठी, उक्तन्यायविरोधात्, शेषत्वाऽभावाच्च ।राज्ञः पुरुषस्तिष्ठकती॑त्यादौ पुरुषशब्दो हि प्रातिपदिकार्थमात्रवृत्तिः ।राज्ञः पुरुषेण कृत॑मित्यादौ तु कारकार्थकः । यदा तु पुरुषनिरूपित सेव्यत्वसम्बन्धवान् राजेत्यर्थविवक्षा तदा पुरुषशब्दादपि षष्ठी भवत्येव पुरुषय राजेति । यत्तुअप्रधानं शेष॑इति कैश्चिदुक्तम् । तन्न । प्रातिपदिकार्थमात्रे शुक्लः पटः श्यामो घट इत्यादौ विशेषणे षष्ठीप्रसङ्गात् । न च प्रथमाया बाधः, तस्याः प्रधाने चरितार्थत्वात् । कर्मादीनामपीति । यथा विशेषाऽविवक्षायां रूपवानिति प्रयुज्यते, विशेषविवक्षायां तु नीलः पीत इत्यादि, तथेदमपि न्यायसिद्धमिति भावः । सतां गतमिति । सत्पुरुषसम्बन्धि गमनमित्यर्थः । सन्तो गच्छन्तीत्यत्र त्वाख्यातेन कर्तृत्वसम्बन्धस्योक्तत्वात्सम्बन्धमात्रविवक्षां कर्तुं न शक्यते इति षष्ठीह न भवति, किंन्तु प्रातिपदिकार्थम#आत्रे प्रथमैवेत्याहुः । सर्पिषो जानीते इति । वस्तुतः करणस्य सम्बन्धमात्रविवक्षायां षष्ठी । सर्पिः — सम्बन्धि प्रवर्तनमित्यर्थः ।अकर्मकाच्च॑अनुपसर्गाज्ज्ञः॑ इत्यनेन वा जानातेस्तङ् । अन्ये तु व्याचख्युः — कर्मणः शेषत्वविवक्षाया षष्ठी । सर्पिःसम्बन्धि ज्ञानमित्यर्थ इति । एधोदकस्येति । एधाश्च उदकं चैषां समाहार एधोदकम् ।॒जातिरप्राणिनाम् इत्येकवद्भावः । यद्वा च दकं चेति विग्रहे पूर्ववदेकवद्भावः । यद्वा एधांसि च दकं चेति वुग्रहे पूर्ववदेकवद्भावः । उदकपर्यायो दकशब्दोऽप्यस्ति । तथा च हलायुधः -॒भुवनममृतं जीवनीयं दकं चे॑ति । उपस्कुरुते इति । गन्धनादिसूत्रेणात्मनेपदम् ।उपात्प्रतियत्ने॑ति सुट् । नचैवंज्ञोऽविदर्थस्य करणे॑,अधीगर्थदयेशां कर्मणि॑,कृञः प्रतियत्ने॑,रुजार्थानां भाववचनानामज्वरेः॑,आशिषि नाथः॑,जासिमिप्रहणनाटक्राथपिषां हिंसायाम्,॒व्यवह्मपणोः समर्थयोः॑,कृत्वोर्थप्रयोगे कालेऽधिकरणे॑ इति शेषषष्ठीविधानार्थेयमष्टसूत्री निष्फला स्यादिति वाच्यम्,सर्पिषो ज्ञान॑मित्यादौ तस्याः समासनिवृत्तिफलकत्वात् । तथा हिज्ञोऽविदर्थस्य — ॑ इत्यादौशेषे॑ इत्यनुवर्तते, शेषत्वेन विवक्षते तु करणादौ षष्ठी सिद्ध#ऐव । तदमर्थः — इह षष्ठएव न तु तल्लुक् । तथा च लुकः प्रयोजकीभूतः समास एव न भवतीति । न चाष्टसूत्र्या लुङ्बात्रनिवृत्तिफलकत्वमेवास्तु, समासस्तु स्वीक्रियतामिति वाच्यम् । इष्टानुरोधेन समास एव न भवतीति व्याख्यानस्योचितत्वात् । तथा च वार्तिकं॒प्रतिपदविधाना षष्ठी न समस्यते॑ इति । हरिश्चाह -॒कारकैव्र्यपदिष्टे च श्रूयमाणक्रिये पुनः । प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये॑ इति । एवं च शेषत्वविवक्षायां सर्पिषो ज्ञानं, मातुः स्मरणमित्यादीन्यसमस्तान्येव साधूनि ।हरिस्मरण॑मित्यादीनि तु शेषत्वाऽविवक्षायां कृद्योगषष्ठआ समासे बोध्यानि । तत्र च कारकपूर्वकत्वात्गतिकारक -॑ इत्यादिना कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तत्वं भवति । शेषषष्ठआ समासे तु अन्तोदात्तत्वं स्यात्तच्चाऽनिष्टम् । तथा च स्वरार्थेयमष्टसूत्रीति निष्कर्षः । किं चमातुः स्मृत॑ मित्यादौ समासाऽभावोऽपि फलम्, न हि तत्र कारकषष्ठी लभ्यते,न लोके॑ ति निषेधात् । आह च — ॑ निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते । शेषलक्षणया षष्ठआ समासस्तत्र नेष्यते॑ इति । एतच्च मनोरमायां स्थितम् । Padamanjari ----------- षष्ठी शेषे॥ उपयुक्तादन्यः शेषः, कर्मादयश्च प्रातिपदिकार्थपर्यन्ता उपयुक्ता इत्याह - कर्मादिभ्योऽन्य इति। ननु न कर्मादिभ्योऽन्यः प्रातिपदिकार्थस्य व्यतिरकः संभवति, कथम्? क्रियामन्तरेण संबन्धानुपपतेः, सर्वत्र स्यास्तन्निमितानां कर्मादीनां चावश्यम्भावात्। तथा हि - राज्ञः पुरुष इति राजा कर्ता; राजा द्रव्यं पुरुषाय ददातीत्यर्थसंप्रत्ययात्। वृक्षस्य शाखेति। लोकप्रसिद्ध्या वृक्षोऽधिकरणम्, तार्किकप्रक्रियया तु शाखा। देवदतस्य गौरित्यादौ तु प्रतिग्रहणादौ कर्तृत्वं प्रतीयते - देवदतः प्रतिग्रहीता क्रेता विनिमाताऽपहर्ता वेति; उच्यते, नटस्य शृणोतीत्यत्र तावत्क्रियाकारकसंबन्धरूप एव शेषः, कथम्? ठाख्यातोपयोगेऽ इत्युपयोगग्रहणान्नटस्यापादनसंज्ञा नास्ति, दुह्यादिपरिगणनाच्चाकथितत्वेऽपि कर्मसंज्ञा नास्ति, तदयं नटः कारकमेव शेषः। यच्चोक्तम् - क्रियायास्तन्निमितानां च सर्वत्र भावान्नान्यः प्रातिपदिकार्थस्य व्यतिरेक इति, तन्न;प्रतिग्रहक्रयादिजन्यस्य सर्वलोकप्रसिद्धस्य स्वस्वाभिभावादिसंबन्धस्यापि दुरपलापत्वात्। यदि च परस्परमुपकार्योपकारकभावे संबन्धानुपपतेः क्रियाकारकसंबन्धोऽपि सर्वत्र वस्तुस्थित्याऽस्तीत्युच्येत्, अस्तु तथा, न कश्चिद्दोषः; न हि यद्यद्वस्तुस्थित्यास्ति ततदभिधातव्यम्, यदेव तु विवक्षितं तदेव स्वनिमितां विभक्तिं प्रसूते। तत्र स्वस्वामिभावादिसंबन्धविवक्षायां सन्नपि क्रियाकारकसंबन्धो न विवक्ष्यत इति द्वितीयाद्यभावे षष्ठी भविष्यति। एवं च मातुः स्मरति, न माषाणामश्नीयात्, अनुकरोति भगवतो नारायणस्येत्यादौ श्रूयमाणेऽपि क्रियाशब्दे मातृसंबद्धं स्मरणमिति संबन्धमात्रं विवक्षितम्, कर्मत्वं तु सदप्यविवक्षितमिति षष्ठी भवति। उक्तं च - संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः। श्रुतायामश्रुतायां च क्रियायां सोऽभिधीयते॥ इति॥'षष्ठी शेषे' इति चेद्विशेष्यस्य प्रतिषेधः स्वस्वामिभावादिसंबन्धः षष्ठ।ल्र्थः, स च द्विष्ठः। तत्र यद्यप्येकस्मादप्युत्पन्नयापि षष्ठ।ल द्विष्ठस्यापि संबन्धस्यावगमादुभाभ्यां षष्ठी न भवति, तथापि कदाचिद्विशेष्यादपि प्राप्नोति, प्रथमा च न प्राप्नोति; संबन्धस्याधिकस्य भावात्, न वा वाक्यार्थत्वात्। यदत्र पुरुषस्याधिक्यं स वाक्यार्थः, राज्ञ इत्येतत्पदसन्निधानात्पुरुषस्य संबन्धः प्रतीयते, पुरुषप्रातिपदिकं तु स्वार्थमात्रे वर्तत इति तत्र प्रथमा च भविष्यति, षष्ठी च न भविष्यतीति। एतदुक्तं भवति - राज्ञ इति केवलपद उच्चार्यमाणे संबन्धित्वमनियतप्रतियोगिकमवगम्यते, पुरुषपदसन्निधौ तु सविशेषस्य प्रतीतिरित्येतावत्, ततश्चानियतं स्वमपेक्ष्य प्रथममेव संबन्धाश्रया षष्ठी भवति। ननु च षष्ठयुच्चारणानुच्चारणकृतो यो विशेषोऽङ्ग भवान् पुरुषपदादपि षष्ठीमुच्चारयतु, गंस्यते स विशेषः? नैतत्सुष्ठूअच्यते, न हि शब्दस्य भावाभावाभ्यामर्थस्य भावाभावौ क्रियेते, किं तर्हि? विद्यमान एवार्थः प्रतिपिपादयिषितश्च वाचकपदप्रयोगे हेतुर्भवति। तत्र गुणस्य परोपकाकत्वेन विवक्षितत्वातदन्ते षष्ठी भवति, पुरुषस्य तूपकार्यत्वात्वात्स्वनिष्ठत्वेन विवक्षितत्वात्प्रथमा भवति। तत्र च संबन्धो गुणे पदं निधाय प्रधानमपि स्पृशति, गुणश्च प्रधानोपकाराय प्रवृतोऽन्यथानुपपते रूपान्तरमाश्रयति। प्रधानं तु स्वनिष्ठत्वेन न रूपान्तरं भजते, उक्तं च - द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते। तत्राभिधीयमानः सन् प्रधानेऽप्युपयुज्यते॥ इति। यदा तु पुरुषस्याप्रधान्यं राज्ञश्च प्राधान्यं विवक्ष्यते, तदा पुरुषस्य राजेत्यपि भवत्येव; यदा च राज्ञः पुरुषस्य गृहमिति तत्पुरुषस्य गृहादिसंबन्धो विवक्ष्यते तदैकस्यापि वस्तुनो भिन्नविषयो गुणप्रधानभावो न विरुद्ध्यत इति द्वाभ्यामपि षष्ठी भवति। राज्ञ इति हि षष्ठ।ल राजपुरुषयोरेव संबन्धोऽभिहितः, न पुरुषस्य गृहस्य च। इह पञ्चके प्रातिपदिकार्थे'कर्मणि द्वितीया' इत्यादौ चार्थनियमपक्षे शेषग्रहणं शक्यमकर्तुम्, कथम्? कर्मादयो नियताः, शेषोऽनियतः, ततश्च स्वादिसूत्रेण द्वितीयादिषु षष्ठ।लं च शेषे प्राप्तेषु षष्ठीत्येतावदप्युच्यमानं नियमार्थं सम्पद्यते - षष्ठ।लेव भवतीति। यत्र च षष्ठी च प्रत्ययान्तरं च प्राप्नोति तत्रैवंविदधो नियम इत्यर्थाच्छेष एव भविष्यतीति उतरार्थमेव तदवश्यं शेषग्रहणं कर्तव्यम्। त्रिकपक्षे तु स्वार्थे षष्ठी मा भूदिति द्वितीयादीनामिव कर्मादिः शेषो वाच्यत्वेन विधातव्यः। तथा प्रत्ययनियमपक्षे कर्मादीनामनियतत्वातेष्वपि षष्ठ।लं प्राप्तायां शेष एव षष्ठी न कर्मादिष्विति षष्ठीनियमार्थं शेषग्रहणं कर्तव्यम्॥ Nyaas ----- कर्मादीनां प्रकृतत्वात् तदपेक्षया शेषत्वं विज्ञायत इत्याह - `कर्मादिभ्यो योऽन्यः` इति। कर्मादयः कारकविशेषास्तस्य सम्बन्धस्य हेतुभूताः, स तु फलभूतः। हेतुफलयोश्च प्रसिद्धमन्यत्वमिति तेभ्योऽन्यो भवति। प्रातिपदिकार्थ{व्यतिरिक्तः-काशिका।पदमञ्जरी च} व्यतिरेकः। व्यतिरेकः = आधिक्यम्। अथ वा - येन प्रातिपदिकार्थो व्यतिरिच्यते = व्यतिरेकीक्रियते स व्यतिरेकः। प्रातिपदिकार्थस्य व्यतिरेकः = प्रातिपदिकार्थव्यतिरेकः। स शेषः। कः पुनरसवित्याह - `स्वस्वामिकसम्बन्धादिः` इति। आदिशब्देनोवयवावयविप्रभृतेः सम्बन्धस्य ग्रहणम्। सम्बन्धश्च यद्यपि द्विष्ठस्तथापि तस्यैकत्वादेकत एव सम्बन्धिन उत्पद्यमानया षष्ठआ विभक्त्याऽभिहितत्वात् द्वितीयासम्बन्धिनःषष्ठी न भवति। एकस्मादुत्पद्यमानाऽपि षष्ठी विशेषणादेव भवति ; न विशेष्यात्। विशेष्यात्तु प्रथमैव भवति; यस्माच्छेषशब्दोऽयंयथा प्रकृतादन्यविशेषणमाचष्टे तथा परार्थमपि। एवं ह्रभियुक्ताः पुरुषा उपदिशन्ति - शेषः परार्थ इति। राज्ञा पुरुष इति स्वस्वामिकसम्बन्दस्योदाहरणम्। अत्र पुरुषस्य प्रादान्यम्, विशेष्यत्वात्। राज्ञोऽप्राधान्यम्, विशेषणत्वात्। विशेषणस्य परार्थत्वात् शेषभाव इति ततः षष्ठी भवति। यदा तु द्वावपि विशेषणभूतौ तृतीये सम्बन्धिन्यपेक्षितौ भवतः, तदा द्वाभ्यामपि षष्ठी भवति `राज्ञः पुरुषस्य गृहम्` इति।`पशोः पादः` इति। अत्रावयवावयिसम्बन्धे षष्ठी। `पितुः पुत्रः` इत्यत्र जन्यजनकसम्बन्धे षष्ठी। अथ शेषग्रहणं किमर्थम्, यावता **कर्मणि द्वितीया** (2.3.2) इत्येवमादौ प्रत्यनियमोऽर्थनियमश्चेति द्वावपि पक्षौ। तत्र प्रत्ययनियमपक्षे यदि शेषग्रहमं न क्रियेत तदा कर्मण्येव द्वितीयेति कर्मानियतम्, द्वितीया तु नियता; अतस्तत्रापि षष्ठी स्यादिति शेषग्रहणं कर्तव्यम्। शेष एव यथा स्यादन्यत्र माभूदिति अर्थनियमपक्षे तु शेषग्रहमं शक्यमकर्त्तुम्। यावता कर्मणि द्वितीयैवैति कर्म नियतम्, द्वितीया त्वनियता; तस्यामन्यत्रापि प्राप्तायां षष्ठीत्युच्यमानं सूत्रमिदं नियमार्थं भविष्यति - यत्र षष्ठी चान्या च प्राप्नोति तत्र षष्ठएव भवति। एवमन्यत्रापि वेदितव्यम्॥ Praudhamanorama --------------- **राज्ञ पुरुष इति।** प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यादप्रधानादेव षष्ठी, तदर्थश्च पुरुषे विशेषणम्। प्राधानात्तु न षष्ठी, उक्तन्यायविरोधात्, शेषाभावाच्च। पुरुषशब्दो हि यथायथं प्रातिपदिकार्थमात्रवृत्तिः, कारकार्थको वा। यदा तु नैवं तदा पुरुषशब्दापि षष्ठी भवत्येव। यत्त्वप्रधानं शेष इति, तन्न, प्रतिपदिकार्थमात्रे शुक्लो घट इत्यादौ विशेषणे षष्ठीप्रसङ्गात्। न च प्रथमाया बाधः, तस्याः प्राधान्ये चरितार्थत्वात्। **कर्मादीनामपीति।** यथा विशेषाविवक्षायां रूपवानितीति, तद्विवक्षायां तु नीलः, पीतः इत्यादि प्रयुज्यते तथेदमपि न्यायसिद्धमिति भावः। **सतामिति।** एवं च 'नपुंसके भावे क्तस्य योगे शेषत्वविवक्षायां चे'ति 'तृप्त्यर्थानां करणे षष्ठी वे'ति च प्राचां ग्रन्थे पठ्यमानं नापूर्वं वचनमिति भावः। **सर्पिष इति।** ज्ञोऽविदर्थस्य करणे, अधीगर्थदयेशां कर्मणि, कृञः प्रतियत्ने, रुजार्थानां भाववचनानामज्वरेः, आशिषि नाथः, जासिनिप्रहणनाटक्राथपिषां हिंसायाम्, व्यवहृपणोः समर्थयोः, कृत्वोऽर्थप्रयोगे कालेऽधिकरणे इत्यष्टसूत्री तु नेह व्याख्याता, तस्याः समासनिवृत्तिफलकत्वात्। तथा हि- तत्र शेष इत्यनुवर्तते। शेषत्वेन विवक्षिते च करणादौ षष्ठी सिद्धैव। तदयमर्थः। इह षष्ठ्येव न तु तल्लुक्। तथा च लुकः प्रयोजकीभूतः समास एव नेति। तथा च वार्तिकम्- प्रतिपदविधाना चेत्यादि। हरिश्चाह- कारकैर्व्यपदिष्टं च श्रूयमाणक्रिये पुनः। प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये॥ इति। तेन शेषत्वविवक्षायां सर्पिषो ज्ञानं, मातुः स्मरणमित्यादीन्यसमस्तान्येव साधूनि। हरिस्मरणमित्यादीनि तु शेषत्वाविवक्षायां कृद्योगषष्ठ्या समासे बोध्यानि। तत्र च कारकपूर्वकत्वात् कृदुत्तरपदप्रकृतिस्वरः, शेषष्ठ्या समासे त्वन्तोदातत्त्वं स्यात्तच्चानिष्टम्। तथा च स्वरार्थेयमष्टसूत्रीति परमनिष्कर्षः। किं च मातुः स्मृतमित्यादौ समासाभावोऽपि फलम्। न हि तत्र कारकषष्ठी लभ्यते, 'न लोके'ति निषेधात्। आह च- निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते। शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते॥ इति। एवं स्थिते वृत्त्यादिग्रन्थेषु इह प्रकरणे उदाहरणं, प्रत्युदाहरणं च यद्यत् तिङन्तं तत् सर्वमुपलक्षणतया नेयमिति हरदत्तादयः। Prakriyasarvasvam ----------------- यत्रान्यविभक्तिर्नोक्ता तत्र सम्बन्धमात्रे षष्ठी स्यात् । यद्वा शेषोऽप्रधानं स्यात् तेन सम्बन्धिनोर्द्वयोः । विशेषणे हि षष्ठी स्यादन्यथा तु द्वयोर्भवेत् ॥ ५४४ ॥ राजः पुरुषः । न माषाणामश्नीयादिति भाष्योक्तेर्भुक्त्यर्थानां कर्मणि षष्ठी ज्ञापिता । अत एव ज्ञापनादन्यत्रापि कर्मादौ सम्बन्धमात्रविवक्षायां षष्ठीत्यन्ये । कृष्णस्य भजति । अक्षाणां दीव्यति । विप्रस्य ददातीत्यादि । Sutra Prayogas -------------- * **इक्ष्वाकूणाम्** (रघुवंशम्): `षष्ठी शेषे` इति षष्ठीविभक्तिः। * **स्मितस्य** (कुमारसम्भवम्): `माषाणामश्नीयात्` इति वत् सम्बन्धमात्रविवक्षया षष्ठी। * **वागधिपस्य** (किरातार्जुनीयम्): `षष्ठी शेषे` इति षष्ठी। * **मधुन** (शिशुपालवधम्): `षष्ठी शेषे` इति संबन्धसामान्ये षष्ठी। * **काकुत्स्थस्याऽङ्गुलीयकः** (भट्टिकाव्यम्): `षष्ठी शेषे` इति षष्ठी।