23049: एकवचनं संबुद्धिः ======================= **Padacheda:** एकवचनम् | S | 1 | 1 | सम्बुद्धिः | S | 1 | 1 | Sutrartha --------- **सम्बोधने प्रथमायाः एकवचनम् सम्बुद्धि-संज्ञकं भवति ।** **सम्बोधने च** (2.3.47) इत्यनेन प्रथमा-विभक्तेः प्रयोगः सम्बोधनस्य विषये अपि भवति । अस्मिन्नेव सन्दर्भे प्रथमा-एकवचनस्य सुँ-प्रत्ययः यदा सम्बोधनार्थम् प्रयुज्यते, तदा तस्य 'सम्बुद्धिः' इति संज्ञा भवति । यथा - 'बाल' शब्दस्य सम्बोधनैकवचनस्य रूपम् एवम् सिद्ध्यति - बाल + सुँ [**सम्बोधने च** (2.3.47) इत्यनेन सम्बोधनस्य विवक्षायाम् प्रथमा । **स्वौजस्...** (4.1.2) इत्यनेन प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः] → बाल [**एङ्ह्रस्वात्सम्बुद्धेः** (6.1.69) इत्यनेन सम्बुद्धिवाचकस्य सुँ-प्रत्ययस्य लोपः] सम्बुद्धि-संज्ञायाः प्रयोगः **एङ्ह्रस्वात्सम्बुद्धेः** (6.1.69), **सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) एतादृशेषु सूत्रेषु कृतः दृश्यते । Sutrartha (English) ------------------- The प्रथमा-एकवचन when used in the context of सम्बोधन gets the term 'सम्बुद्धि'. Vasu English Summary -------------------- In the case of Vocative, the singular number of the 1st case-affix is called स्मबुद्धि। Vasu English Translation ------------------------ In the case of Vocative, the singular number of the 1st case-affix is called स्मबुद्धि। The vocative singular is called *sambuddhi*, when it is employed in the vocation. Thus (6.1.69) declares 'after an inflectien base ending in एङ् or in a short vowel, a consonant is elided if it be that of '*Sambuddhi*' as हे राम ॥ Kashika ------- आमन्त्रितप्रथमाया यदेकवचनं तत् संबुद्धिसंज्ञं भवति। हे पटो। हे देवदत्त। संबुद्धिप्रदेशाः — **एङ्ह्रस्वात् संबुद्धेः** (६.१.६९) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥ Balamanorama ------------ **एकवचनं संबुद्धिः** - हे रामसिति स्थिते,एङ्ह्रस्वात्संबुद्धेः॑ इति लोपं विधास्यन् संबुद्धिसंज्ञामाह — एकवचनम् ।प्रातिपदिकार्थलिङ्गे॑त्यतःप्रथमे॑त्यनुवृत्तं षष्ठआ विपरिणम्यते ।संबोधने चे॑त्यतः संबोधने इत्यनुवर्तते । तदाह-संबोधने इति ।सुः संबुद्धि॑रित्येव सुवचम् । प्रथमाग्रहणानुवृत्तेः सप्तमीबहुवचनस्य सुपो न ग्रहणम् । नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं शङ्क्यम् । 'ह्रस्वस्य गुणः' इति संबुद्धौ परतोऽङ्गस्य गुणविधिबलात्, संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधाच्च । एतेन तदन्तसंज्ञानिवृत्त्यर्थमेकवचनग्रहणमित्यपास्तम् । Tattvabodhini ------------- **एकवचनं संबुद्धिः** - एकवचनम् ।सुः संबुद्धि॑रित्येव सुवचम् । न च सप्तमीबहुवचनेऽतिप्रसङ्गः ।संबोधने प्रथमे॑त्यधिकारादेव तदभावादिति नव्याः । अत्र व्याचख्युः — ॒सुः संबुद्धि॑रिति वाच्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम् । अन्यथासामत्रित॑मिति पूर्वसूत्रे तदन्तस्यामत्रितसंज्ञा कृतेति प्रक्रमाऽभेदाय इयमपि संज्ञा तदन्तस्यैव स्यादिति । एङ्ह्रस्वात्संबुद्धेः । यद्यत्रहल्ङ्याब्भ्य॑ इत्यतो हलमननुवर्त्त्यएङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्याः संबुद्धेरलोप॑ इति व्याख्यायेत, हलनुवृत्तावप्यङ्गात्परा या संबुद्धिः तस्या यद्धलिति वा, उभयथापिहे ज्ञाने॑ति न सिध्येत् । लोपात्परत्वात्सोरतोऽभि कृते परत्वान्नित्यत्वाच्च अमि पूर्वत्वे च कृते एकादेशस्य परादिवद्भावे ह्रस्वान्तात्परत्वाभावात्, पूर्वान्तवद्भावे अम एवाभावादुभयत आश्रयणे नान्तादिवदिति निषेधादतो व्याचष्टे-एङन्तादित्वादिना चेदित्यन्तेन । Padamanjari ----------- एकवचनं संबुद्धिः॥ हे पटो इति। संबुद्धौ च'ह्रस्वस्य गुणः' इति गुणः,'सुः संबुद्धिः' इति वक्तव्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम्; अग्न्यथा प्रक्रमाभेदाय तदन्तस्य स्यात्॥ Nyaas ----- `हे पटो, हे देवदत्त` इति। अत्र सम्बुद्धिसंज्ञायां सत्याम्, **सम्बुद्धौ च** (7.3.106) इत्यधिकृत्य `ह्रस्वस्य गुणः` (7.3.108) इति गुणे **एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति सोर्लोपो यथायोगं भवति। अथ सुग्रहणमेव कस्मान्न कृतम्, न च सप्तमीबहुवचनस्य प्रसङ्गः, सम्बोधनप्रथमाधिकारात्? सत्यम्; किन्तु नैतदस्ति; प्रत्ययमात्रस्य संज्ञाविधानार्थमेकवचनग्रहणं कृतम् - हे पचनम्, हेपचमानेति; अन्यथा हि पूर्वेण यथा तदन्तस्य संज्ञा विहिता तथेहापि स्यात्। न चेहासंज्ञिनः कश्चिद्विशेषोऽङ्गीक्रियत इति सुशब्देन तदन्तमेव लक्ष्यते, ततश्च तदन्तकस्यैव संज्ञा स्यात्। तथा **एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति सोर्लोपो विधीयमानः **आदेः परस्य** (1.1.54) इत्यादेरेव स्यात्; प्रत्ययमात्रस्य न स्यात्। तस्मात् प्रत्ययमात्रस्य संज्ञा यथा स्यादित्येवमर्थमेकवचनग्रहणम्॥ Prakriyasarvasvam ----------------- सम्बोधनप्रथमाया एकवचनं सम्बुद्ध्याख्यम् ॥ Sarala ------ **सम्बोधने च** (२.३.४७) इत्यतः "सम्बोधने" इति **प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा** (२.३.४६) इति सूत्रतः "प्रथमा" इति चानुवर्त्योक्तं - **सम्बोधने इत्यादि** ॥ Sudha ----- **एकवचनमिति ।** **प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा**(2.3.46) इत्यतः प्रथमा इत्यनुवृत्तं, तच्च पष्ठ्या विपरिणम्यते । **सम्बोधने च**(2.3.47) इत्यतः सम्बोधने इत्यनुवर्तते, तदाह - **सम्बोधने इत्यादिना ।**