23028: अपादाने पञ्चमी ===================== **Padacheda:** अपादाने | S | 7 | 1 | पञ्चमी | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When the अपादान कारक -- ध्रुवमपायेऽपादानम् (1.4.24), is denoted, the 5th case-affix is used. Vasu English Translation ------------------------ When the अपादान कारक -- ध्रुवमपायेऽपादानम् (1.4.24), is denoted, the 5th case-affix is used. Ex. ग्रामादागच्छति 'he comes from the village' (1.4.24); वृकेभ्यो बिभेति (1.4.25), अध्ययनात् पराजयते (1.4.26) &c. Vart:- The fifth case-affix is employed in denoting the object, when the verbal participle ending in ल्यप् is elided; as प्रासादमारुह्य प्रेक्षते = प्रासादात् प्रेक्षते 'he sees from a palace.' Vart:- And under similar circumstances in denoting the location the place where an action is performed is put in the ablative case, as, आसने उपविश्य प्रेक्षते = आसनात् प्रेक्षते 'he sees from a seat.' Vart:- In questions and answers, the fifth case-affix is employed:- कुतो भवान् ? पाटलिपुत्राद् 'whence is your Honor coming? From *Pataliputra*' Vart:- That point of time or space from which distance in time or space is measured is put in the ablative case:-as, गवीधूमतः सांकाश्यं चत्वारि योजनानि '*Sankasya* is from *Gavidhuma* four *yojanas*.' कार्त्तिक्या आग्रहायणी मासे '*Agrahayana* is one month from *Kartika*. The word denoting the distance in time is put in the locative case, as मासे Vart:- In the above the word denoting the distance in space may be put either in the nominative or locative; as गवीधूमतः सांकाश्यं चत्वारि योजनानि or चतुर्षु योजनेषु । Bhashya ------- अपादाने पञ्ञ्चमी 486 (312 कारकपञ्ञ्चमीसूत्रम् ॥ 2.3.2 आ. 7 ॥) (न्यूनतावारणाधिकरणम्) (1500 वार्तिकम् ॥ 1 ॥ - पञ्ञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम् - (भाष्यम्) पञ्ञ्चमीविधाने ल्यब्लोपे कर्मणि पञ्ञ्चम्या उपसंख्यानं कर्तव्यम्। प्रासादमारुह्यप्रेक्षते - प्रासादात्प्रेक्षते ॥ (1501 वार्तिकम् ॥ 2 ॥) - अधिकरणे च - (भाष्यम्) अधिकरणे चोपसंख्यानं कर्तव्यम्। आसनात्प्रेक्षते। शयनात्प्रेक्षते ॥ (1502 वार्तिकम् ॥ 3 ॥) - प्रश्नाख्यानयोश्च - (भाष्यम्) प्रश्नाख्यानयोश्च पञ्ञ्चमी वक्तव्या। कुतो भवान्?। पाटलिपुत्रात् ॥ (1503 वार्तिकम् ॥ 4 ॥) - यतश्चाध्वकालनिर्माणम् - (भाष्यम्) यतश्चाध्वकालनिर्माणं ततः पञ्ञ्चमी वक्तव्या। गवीधुमतः सांकाश्यं चत्वारि योजनानि ॥ कार्तिक्या आग्रहायणी मासे ॥ (1504 वार्तिकम् ॥ 5 ॥) - तद्युक्तात्काले सप्तमी - (भाष्यम्) तद्युक्तात्काले सप्तमी वक्तव्या। कार्तिक्या आग्रहायणी मासे ॥ (1505 वार्तिकम् ॥ 6 ॥) - अध्वनः प्रथमा च - (भाष्यम्) अध्वनः प्रथमा च सप्तमी च वक्तव्या। गवीधुमतः सांकाश्यं चत्वारि योजनानि। गवीधुमतः सांकाश्यं चतुर्षु योजनेषु ॥ (आक्षेपभाष्यम्) तत्तर्हीदं बहु वक्तव्यम्? ॥ (प्रथमद्वितीयवार्तिकप्रत्याख्यानभाष्यम्) (भाष्यम्) न वक्तव्यम्।आपादाने इत्येव सिद्धम्। इह तावत्प्रासादात्प्रेक्षते शयनात्प्रेक्षते इति, अपक्रामति तत्तस्माद्दर्शनम् ॥ यद्यपक्रामति किं नात्यन्तायापक्रामति? संततत्वात् ॥ अथ वान्यान्यप्रादुर्भावात्। अन्या चान्या च प्रादुर्भवति ॥ (तृतीयवार्तिकप्रत्याख्यानभाष्यम्) प्रश्नाख्यानयोश्च पञ्ञ्चमी वक्तव्येति। इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते - कुतो भवानागच्छतीति, पाटलिपुत्रादागच्छामीति ॥ (चतुर्थवार्तिकप्रत्याख्यानभाष्यम्) यतश्चाध्वकालनिर्माणं तत्र पञ्ञ्चमी वक्तव्येति। इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते - गवीधुमतो निः-सृत्य सांकाश्यं चत्वारि योजनानि। कार्तिक्या आग्रहायणी मासे इति। इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते - कार्तिक्याः प्रभृत्याग्रहायणी मास इति ॥ (पञ्ञ्चमवार्तिकप्रत्याख्यानभाष्यम्) तद्युक्तात्काले सप्तमी वक्तव्येति। इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते - कार्तिक्याः प्रभृति आग्रहायणी गते मास इति ॥ (षष्ठवार्तिकप्रत्याख्यानभाष्यम्) अध्वनः प्रथमा च सप्तमी चेति। इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते - गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि भवन्ति, ततः सांकाश्यम्। चतुर्षु योजनेषु गतेषु ततः सांकाश्यमिति ॥ अपादाने ॥ 28 ॥ Kashika ------- अपादाने कारके पञ्चमी विभक्तिर्भवति। ग्रामादागच्छति। पर्वतादवरोहति। वृकेभ्यो बिभेति। अध्ययनात् पराजयते॥ पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम्॥ प्रासादमारुह्य प्रेक्षते, प्रासादात् प्रेक्षते॥ अधिकरणे चोपसंख्यानम्॥ आसन उपविश्य प्रेक्षते, आसनात् प्रेक्षते। शयनात् प्रेक्षते॥ प्रश्नाख्यानयोश्च पञ्चमी वक्तव्या॥ कुतो भवान्? पाटलिपुत्रात्॥ यतश्चाध्वकालनिर्माणं तत्र पञ्चमी वक्तव्या॥ गवीधुमतः सांकाश्यं चत्वारि योजनानि। कार्त्तिक्या आग्रहायणी मासे॥ तद्युक्तात् काले सप्तमी वक्तव्या॥ कार्त्तिक्या आग्रहायणी मासे॥ अध्वनः प्रथमा सप्तमी च वक्तव्या॥ गवीधुमतः सांकाश्यं चत्वारि योजनानि,चतुर्षु योजनेषु वा॥ Siddhanta Kaumudi ----------------- ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् ? वृक्षस्य पर्णं पतति । (वार्तिकम्) ॥ पापाज्जुगुप्सते । विरमति । धर्मात्प्रमाद्यति ॥ Laghu Siddhanta Kaumudi ----------------------- ग्रामादायाति। धावतोऽश्वात्पततीत्यादि॥ इति पञ्चमी॥ Balamanorama ------------ **अपादाने पञ्चमी** - अपादाने पञ्चमी । स्पष्टत्वान्न व्याख्यातम् । ग्रामादायातीति । आगच्छतीत्यर्थः । कस्मादित्याकाङ्क्षाविषयत्वाद्ग्रामोवधिरिति अपादानत्वात्पञ्चमी ।माथुराः पाटलीपुत्रकेभ्य आढतराः॑ इत्यादौ बुद्धिकल्पितविशेषावधित्वमादाय अपादानत्वमिति भाष्ये स्पष्टम् । ननु विश्लेषानुकूलचलनाऽनाश्रयभूतं यत्तदेव ध्रुवमिति व्याख्यायताम्, किमवधित्वविवक्षयेत्यत आह — धावतोऽआआत्पततीति । अआस्य चलनाश्रयत्वेऽपि पतनक्रियां प्रति कस्मादित्याकाङ्क्षाविषयत्वलक्षणमवधित्वं न विरुद्धमिति भावः ।जुगुप्सेति । जुगुप्साद्यर्थकधातुभिर्योगे जुगुप्सादिविषयस्यापादानत्वमित्यर्थः । पापाज्जुगुप्सत इति । पापविषये कुत्सितत्वबुद्ध्या न रमते इत्यर्थः । विरमतीति ।पापा॑दित्यनुषज्यते । पापविषये न प्रवर्तत इत्यर्थः । धर्मात्प्रमाद्यतीति । धर्मविषये मुह्यतीत्यर्थः । वास्तवसंयोगविश्लेषयोरभावाद्वचनमिदम् । यदा तु 'जुगुप्सते' इत्यादेर्जुगुप्सादिभिर्निवर्तत इत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् । Padamanjari ----------- अपादाने पञ्चमी॥ प्रासादादिति। अत्र ल्यबन्तस्याप्रयोगेऽप्यर्थो गम्यत इति द्वितीया प्राप्नोति। आसनादिति। सप्तम्यत्र प्राप्नोति। प्रत्याख्यानं तु - प्रेक्षणमुचक्षुषा पदार्थानां ज्ञानम्, तैजसं चक्षुर्बहिर्निः सृत्य विषयान् गृह्णाति, निःसरणाङ्गके च प्रेक्षणे धातुर्वर्तते, तत्राङ्गभूतनिः सरणं प्रति प्रासाद उपातविषयमपादानं भवति - प्रासादात्प्रेक्षत इति, कोर्थः? प्रासादप्रदेशाच्चाक्षुषं तेजो निः सार्य पदार्थान् गृह्णातीति। प्रश्नाख्यानयोश्चेति। विशिष्टे प्रश्नाख्याने गृह्यएते यत्र लोके पञ्चमी प्रयुज्यते। इह न भवति - कस्यायमर्थो राज्ञोऽर्थ इति। कुतो भवानिति। क्रियाया अभावादनपादानत्वात् फलवद्वचनप्रत्यक्षादिप्रमाणसिद्धामागमनादिक्रियामपेक्ष्येदं प्रयुज्यते, तत्र प्रयोक्तुराख्यातुश्च मनसि विपरिवर्तमानमागमनं प्रत्यपेक्षितक्रियमपादानम् - पाटलिपुत्रादिति। यतश्चेति। यदवधित्वेनाश्रित्याध्वकालयोः परिच्छेदस्तत इत्यर्थः। गवीधुमन्नाम नगरम्, सांकाश्यं तपोवनम्। कृतिकायुक्ता पौर्णमासी कार्तिकी, पौर्णमास्याम्'लुबविशेषे' इति लुब्न भवति'सास्मिन्पौर्णमासी' इत्यधिकारे'विभाषा फल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' इति निर्देशात्। अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वात्स्वार्थिकोऽण्, ठाग्रहायण्यश्वत्थात्ऽ इति निपातनाण्णत्वम्। तद्यौ क्तादिति। तेन पञ्चम्यन्तार्थेनार्थद्वारेण युक्तात्काले वर्तमानान्मासादिशब्दादित्यर्थः। यद्वा - तया पञ्चम्या युक्तो योऽर्थः कार्तिक्यादिस्ततः परो यः कालो मासादिस्तत्र वर्तमानादित्यर्थः। अर्थतश्च परत्वं न शब्दत इति व्यवहितेऽपि भवति, कार्तिक्याग्रहायण्योर्मध्यवर्ती मासः कार्तिक्याः परो भवति। अध्वन इति। तद्यौक्तादित्यपेक्ष्यते। प्रत्याख्यानं तु-वाक्यैकदेशस्यात्र प्रयोगः। तदयमर्थः - गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि बवन्ति ततः सांकाश्यम्, चतुर्षु योजनेषु गतेषु सत्सु सांकाश्यमितिष गतानिति क कर्मणि निष्ठा, यदा जनैर्योजनानि गतानि भवन्ति ततस्तैः सांकाश्यं प्राप्यत इत्यर्थः। यद्वा - अध्ववर्तिनां निः सरणं गमनं वाध्वन्यारोप्य निःसृत्य गतानिति ल्यपः कर्तरि क्तस्य च प्रयोगः तस्य प्रतीयमाननिः सरणक्रियापेक्षपापादानत्वम्, गतानीति च प्रातिपदिकार्थस्याव्यतिरेकात्प्रथमा गतेषु सत्स्विति'यस्य च भावेन भावलक्षणम्' इति सप्तमी, आग्रहायणी माम इति कार्तिक्याः परत्र मासे गते सति आग्रहायणी भवतीत्यर्थः। तत्र दिग्योगलक्षणा पञ्चमी, सप्तमी पूर्ववत्॥ Nyaas ----- `वृकेभ्यो बिभेति` इति। **भीत्रार्थानां भयहेतुः** (1.4.25) इत्यपादानत्वम्। अध्ययनात् पराजयत इत्यत्र **पराजेरसोढः** (1.4.26) इत्यपादानत्वम्। `विपराभ्याञ्जेः` (1.3.19) इत्यात्मनेपदम्।`पञ्चमीविधाने इत्यादि। यदेतत् पञ्चमीविधानमत्र ल्यब्लोपे पञ्चमो स्यादित्युपसंख्यानम् = व्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानम् - इह पूर्वसूत्राच्चकारोऽनुवर्तते। स चानुक्तसमुच्चयार्थः। तेन ल्यब्लोपे कर्मणि पञ्चमी भविष्यति।`अधिकरणे चोपसंख्यानम्` इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु पूर्ववच्चकारानुक्तसमुच्चयार्थत्वमाश्रित्य कर्तव्यम्।`प्रश्नाख्यानयोश्च` इत्यादि। वक्तव्येति व्याख्यातव्येत्यर्थः। व्याख्यानन्तु तामेव चकारानुवृत्तिमाश्रित्य कर्तव्यम्। अथ वा - अत्रापादान इत्येवं सिद्धा पञ्चमी। तथा हि कुतो भवानित्य्तरागच्छतीति प्रतीयते, पाटलिपुत्रादित्यत्राप्यगच्छामीति; अतः स्फुटमेवापादानत्वम्।`यतश्चाष्वकाल` इत्यादि। यतः प्रभृत्यध्वनः कालसय् निर्माणमियत्तापरिच्छेदस्तत्र पञ्चमी वक्तव्या। एतदुक्तं भवति - अध्वनि काले च निर्मीयमाणे यदवश्रिभूतत्वेन विवक्ष्यते तत्र पञ्चमी वक्तव्या = व्याख्येया। व्याख्यानन्तु पूर्ववच्चाकारानुवृत्तिमाश्रित्य कर्तव्यम्। अथ वा- अध्वनि निर्मीयमाणे अपादान इत्येवं सिद्धा पञ्चमी। तथा हि - गवीधुमतः साङ्काश्यं चत्वारि योजनानीत्यत्र निःसृत्येति क्रिया गम्यते। अतो युक्तमेवापादानत्वम्। कार्त्तिक्या आग्रहायणी मास इत्यत्रापि परेणेति शब्दो गम्यते। तत्रोत्तरसूत्रेण दिग्योलक्षणा पञ्चमी भविष्यति।`तद्युक्तात्काले` इत्यादौ तदित्यनेन पञ्चमी सम्बध्यते। पञ्चमीयुक्तात् परो यः कालस्तत्र सप्तमी वक्तव्या = व्याख्येया। व्याख्यानं तु कार्त्तिक्या आग्रहायणी मास इत्यत्र `यस्य च भावेन भावलक्षणम्` (2.3.37) इत्यनेन सप्तमी सिद्धा। कार्त्तिक्याः परो यो मासस्तत्सत्तयाऽऽग्रहायण्या भावो लक्ष्यते।`अध्वनः प्रथमा` इत्यादि। तद्युक्तादिति वर्तते। तत्र यदा साङ्काश्यस्य योजनादभेदो विवक्ष्यते तदा प्रथमा। `गवीषुमतः साङ्काश्यं चत्वारि योजनानि` इति। भेदविवक्षायान्तु `यस्य च भावेन भावलक्षणम्` (2.3.37) इति सप्तमी। तथा हि गवीधुमतः सांकाश्यं चतुर्षु योजनेषु गतेषु सत्सु भवतीत्येषोऽर्थः प्रतीयते। तत्र योजनस्य सम्बन्धि सम्बन्धि गमनं साङ्काश्यभावस्य लक्षणं भवति॥ Praudhamanorama --------------- **धावत इति।** इह क्रियाविशिष्टस्याप्यश्वास्य प्रकृतधातूपात्तक्रियां प्रत्यवधित्वं न विरुद्ध्यते । 'परस्परस्मान्मेषावपसरतः' इत्यत्र तु सृधातुना गतिद्वयस्याप्युपादानाद् एकनिष्ठां गतिं प्रतीतरस्यापादानत्वं न विरुध्यते। उक्तं च— अपाये यदुदासीनं चलं वा यदि वाऽचलम्। ध्रुवमेवातदावेशात्तदपादानमुच्यते॥ पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ। तस्याप्यश्वास्य पतने कुड्यादि ध्रुवमिष्यते॥ मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्। मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्॥ इति। पर्वतात्पततोऽश्वात्पततीत्यत्र तु पर्वतावधिकपतनाश्रयोऽश्वस्तदवधिकं देवदत्तादिनिष्ठपतनमित्यर्थः। पञ्चम्यर्थेऽवधौ अभेदेन संसर्गेण प्रकृत्यर्थो विशेषणम्, प्रत्ययार्थस्तु क्रियायां, स च धर्मी न तु धर्ममात्रम्, विभक्त्यर्थे विहितस्य बहुव्रीहेर्धर्मिपरताया निर्विवादत्वात्। उद्धृतौदना स्थालीत्यत्र हि ओदनकर्मकोद्धरणावधिभूतेत्यर्थः। **जुगुप्सेति।** भाष्यकारस्तु जुगुप्सादीनां तत्पूर्वकनिवृत्तिलक्षकतामाश्रित्य सूत्रेण तत्सिद्धिमाहुः। एवमुत्तरसूत्रेष्वपि । Prakriyasarvasvam ----------------- ग्रामादागच्छति । धावतोऽश्वात्पतति । 'जुगुप्साविरामप्रमादार्थानामुपसंख्या- नम् । पापाज्जुगुप्सते । पापाद् विरमति, निवर्तते वा । धर्मात् प्रमाद्यति स्खलति वा ।। Vartika ------- ल्यब्लोपे कर्मण्यधिकरणे च । Sutra Prayogas -------------- * **मध्यात्** (शिशुपालवधम्): `ल्यब्लोपे कर्मण्यधिकरणे च` इति वार्त्तिकेन पञ्चमी।