23019: सहयुक्तेऽप्रधाने ======================= **Padacheda:** सहयुक्ते | S | 7 | 1 | अप्रधाने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When the word सह 'with', is joined to a word the latter takes the 3rd case, when the sense is that the word in the 3rd case is not the principal but the accompaniment of the principal thing. Vasu English Translation ------------------------ When the word सह 'with', is joined to a word the latter takes the 3rd case, when the sense is that the word in the 3rd case is not the principal but the accompaniment of the principal thing. Ex. पुत्रेण सहागतः पिता 'the father has come with the son.' The same will be the result with the synonyms of सह as, पुत्रेण सार्द्धं 'with the son'. So also when the word सह is understood, as *Panini* himself uses in (1.2.65) वृद्धो युना &c. Why do we say 'when not the principal.' Observe, शिष्येण सहोपाध्यायस्य गौः. Bhashya ------- सहयुक्तेऽप्रधाने 477 (307 उपपदतृतीयासूत्रम् ॥ 2.3.2 आ. 2) (सूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमुदाहरणम्? ॥ (समाधानभाष्यम्) तिलैः सह माषान्वपतीति ॥ (समाधानबाधकभाष्यम्) तिलैर्मिश्रीकृत्य माषा उप्यन्ते। तत्र करणे इत्येव सिद्धम् ॥ (समाधानान्तरभाष्यम्) इदं तर्हि - पुत्रेण सहागतो देवदत्त इति। अप्रधाने कर्तरि तृतीया यथा स्यात् ॥ (समाधानबाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। प्रधाने कर्तरि लादयो भवन्तीति प्रधा1नकर्ता क्तेनाभिधीयते। यश्चाप्रधानं सिद्धा तत्र कर्तरि इत्येव तृतीया ॥ (समाधानान्तरभाष्यम्) इदं तर्हि - पुत्रेण सहागमनं देवदत्तस्येति। (समाधानबाधकभाष्यम्) षष्ठ्यत्र बाधिका भविष्यति ॥ (समाधानान्तरभाष्यम्) इदं तर्हि - पुत्रेण सह स्थूलः। पुत्रेण सह पिङ्गल इति। (पूर्वोक्तोदाहरणाभ्युपगमभाष्यम्) इदं चाप्युदाहरणम् - तिलैः सह माषान्वपतीति ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - तिलैर्मिश्रीकृत्य माषा उप्यन्ते तत्र करण इत्येव सिद्धम्-इति। (समाधानभाष्यम्) भवेत्सिद्धं यदा तिलैर्मिश्रीकृत्योप्येरन्। यदा तु खलु कस्य चिन्माषबीजावाप उपस्थितः तदर्थं च क्षेत्रमुपार्जितम् तत्रान्यदपि किंचिदुप्यते - यदि भविष्यति भविष्यतीति तदा न सिध्यति ॥ (1493 सूत्रप्रत्याख्यानवार्तिकम् ॥ 1 ॥) - सहयुक्तेऽप्रधानवचनमनर्थकमुपपदविभक्तेः कारकविभक्तिबलीयस्त्वादन्यत्रापि । ()। (भाष्यम्) सह युक्तेऽप्रधानवचनमनर्थकम् ॥ किं कारणम्?। उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात्। अन्यत्रापि उपपदविभक्तेः कारकविभक्तिर्बलीयसीइति प्रथमा भवति। एवमत्रापि उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति ॥ क्वान्यत्र?। गाः स्वामी व्रजतीति ॥ सह युक्ते ॥ 19 ॥ Kashika ------- सहार्थेन युक्तेऽप्रधाने तृतीया विभक्तिर्भवति। पुत्रेण सहागतः पिता। पुत्रेण सह गोमान्। पितुरत्र क्रियादिसंबन्धः शब्देनोच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम्। सहार्थेन योगे तृतीयाविधानात् पर्यायप्रयोगेऽपि भवति। पुत्रेण सार्धमिति। विनापि सहशब्देन भवति। **वृद्धो यूना०** (१.२.६५) इति निदर्शनात्। अप्रधान इति किम्? शिष्येण सहोपाध्यायस्य गौः॥ Siddhanta Kaumudi ----------------- सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसार्धंसमंयोगेऽपि । विनापि तद्योगं तृतीया । वृद्धो यूना (SK931) इत्यादिनिर्देशात् ॥ Balamanorama ------------ **सहयुक्तेऽप्रधाने** - सहयुक्ते । 'पृथग्विनानानाभिः' इतिवत् सहेनेत्येव सिद्धे युक्तग्रहणं सहार्थकशब्दानां साकमित्यादीनामपि ग्रहणार्थमित्याह — सहार्थेनेति । पुत्रेणेति । पितुरत्रागमनक्रियासंबन्धः शाब्दः, पुत्रस्य तु तत्साहित्यगम्य आर्थिक इति तस्याऽप्राधान्यम् । यद्यप्यागमनक्रियाकर्तृत्वादेव पुत्रात्तृतीया सिद्धा तथापि 'पुत्रेण सह स्थूल' इत्याद्येवास्य मुख्योदाहरणमिति भाष्ये स्पष्टम् । अर्थग्रहणस्य प्रयोजनमाह — एवं साकमिति । ननुपुत्रेणागतः पिते॑त्यत्र सहादिशब्दाऽभावात्कथं तृतीयेत्यत आह — विनापीति । वृद्धो यूना तल्लक्षणश्चेदि॑ति सूत्रे सहादिशब्दाऽभावेऽपि तदर्थावगमेऽपि तृतीयानिर्देशदर्शनादित्यर्थः । Tattvabodhini ------------- **सहयुक्तेऽप्रधाने** - सहयुक्ते ।सहेनाऽप्रधाने॑इत्येव वाच्ये युक्तग्रहणार्थग्रहणमित्याह — सहार्थेनेति । सहार्थकशब्देनसह — साकं — सार्धमित्यादिनेत्यर्थः । पुत्रेणेति । पितुरेवागमनक्रियासम्बन्धः शाब्दः, पुत्रस्य त्वार्थ इत्येतावतौवाऽस्याऽप्राधान्यमुच्यते । अप्रधानग्रहणं त्युक्तं शक्यम् । न चैवं पितुरपि तृतीयापत्तिः, तत्र प्रातिपदिकार्थमात्रे अन्तरङ्गत्वात्प्रथमोपपत्तेः । न च यत्र प्रथमा न प्राप्नोतिपुत्रेण सह पितुरागमन॑मित्यादौ तत्र प्रधानात्पितुरपि तृतीया स्यादतस्तद्वारणायाऽप्रधानग्रहणमावश्यकमिति वाच्यम् । कारकव्भक्तेर्बलीयस्त्वात्कर्तृकर्मणोः कृति॑इति षष्ठआ एव तत्र प्रवृत्तेरिति दिक् । Padamanjari ----------- सहयुक्तेऽप्रधाने॥ क्रियागुणद्रव्यैर्द्वयोः सम्बन्धे सति सहशब्दस्य प्रयोगो भवति, अतः'पुत्रेण सहगतः पिताः' इत्यादीनि क्रियादिसम्बन्धे यथाक्रममुदाहणान्युपन्यस्तानि। नन्वत्र सर्वतः सहार्थस्वभावादेव पितुः पुत्रस्य वा गमनादिना सम्बन्धः प्रतीयते, तत्कुतः पितुः प्राधान्यम्? केचिदाहुः - यस्य क्रियादिसम्बन्धो विशिष्टकालः प्रज्ञातः स यदान्यस्याप्रज्ञातविशिष्टकालक्रियासम्बन्धस्य तत्प्रतिपादनार्थमुपादीयते, यथा - ठयं पुरुषः कदागतःऽ इत्यपेक्षायाम् राज्ञा सहागतःऽ इति पुरुषागमनं विषिष्टकालमुपपादयितुं वाक्यं प्रवर्तत इति पुरुषस्य प्राधान्यम्, राज्ञस्तूपलक्षणत्वेनोपातत्वादप्राधान्यमिति। एवं तु'भृत्यैः सह राजागतः' इत्यत्र न स्याद्, न हि भृत्यागमनं प्रसिद्वकालं येन तत्कालत्वं राजागमनस्य प्रतिपाद्येत। यत्र चोभयोरप्यज्ञातक्रियादिसम्बन्धस्तत्रापि न स्यात् - पुत्रेण सहागतः पितेति। तस्माद्वक्तव्यमप्राधान्यमत आह - पितुरत्रेत्यादि। पूर्वं प्रज्ञातोऽप्रज्ञातो वा यस्य क्रियादिसम्बन्धः शब्देनोच्यते तस्य प्राधान्यम्। यस्य तु सहार्थान्यथानुपपत्या प्रतीयते तस्याप्रधान्यम्। कस्य तुनः शब्देनोच्यते? कस्य वा प्रतोयते? यस्य विवक्ष्यते। एतदुक्तं भवति - द्वयोस्तावत्क्रियासम्बन्धे सति सहशब्दस्य प्रयोगः, तत्र यदा द्वयोरपि क्रियादिसम्बन्धः शब्देनोच्यते - सहागतौ पितापुत्राविति, तदा द्वयोरपि प्राधान्यान्न भवति; यदा त्वेकस्य क्रियादिसम्बन्धं शब्देन प्रतिपिपादयिषत्यपरस्य सहार्थान्यथानुपपत्या तदा तस्याप्राधान्यातद्वाचिनस्तृतीयेति। एवं च कृत्वा सह शाखया प्रस्तरं प्रहरतीति यद्यपि प्रस्तरस्य प्रहरणसम्बन्धः प्रज्ञातः, सूक्तवाकेन प्रस्तरं प्रहरतीति, शाखायास्त्वज्ञातः; तथाप्युक्तेन न्यायेन शाखाशब्दातृतीया सिद्ध्यतीति विभक्तिव्यत्यासो न वाच्यः। ननु पुत्रेण सहागत इत्यादौ पितुरेव कर्तुः क्तादिभिरभिधानम्, न त्वप्रधानस्य पुत्रादेस्तस्यापि तु सहार्थसामर्थ्यात्कर्तृत्वं प्रतीयत - इत्यनभिहिते कर्तृकरणयोरिति तृतीया सिद्धा। इह तर्हि पुत्रेण सहागमनं पितुरिति'कर्तृ कर्मणोः कृति' इति षष्ठी प्राप्नोति, इह च तिलैः सह माषान्वपति तिलान्माषान्वपतीत्यर्थप्रतीतेर्द्धितीया प्राप्नोति, इह च पुत्रेण सह स्थूलः, पुत्रेण सह गोमानिति द्रव्यगुणसम्बन्धप्रतिपादन एव तात्पर्थमिति क्रियागन्धस्यैवाभअवात्कर्तृगन्धोऽपि नास्तीत्यारभ्यमेवावश्यं सूत्रम्। सहार्थेन योगे विधानादिति। युक्तग्रहणादर्थग्रहणं लभ्यते, अन्यथा'सहे प्रधाने' इत्येव वाच्यं स्यात्। विनापि सहशब्देन वृद्धो यूनोति निपातनादिति क्वचित्पठ।ल्ते। इहाप्रधानवचनं प्रधाननिवृत्यर्थ क्रियते, पितुस्तृतीया मा भूदिति; तत्र प्रातिपदिकमात्रापेक्षत्वादन्तरङ्गत्वात्प्रथमा भविष्यति, नार्थोऽप्रधानवचनेनेति मन्यमानः पृच्छति - ऊ प्रधान इति किमिति। शिष्येण सहोपाध्यायस्य गौरिति। यथात्राप्रधाने षष्ठीविषये तृतीया, एवं प्रधानेऽपि स्यादिति मन्यते। अत्राहुः - यथा ग्रामं न गच्छतीत्यादौ ग्रामगमनयोः पूर्वमभिसम्बन्धः प्रश्चान्नञा प्रति षिध्यते, एवमुपाध्यायस्य पूर्वं गवा सम्बन्धः पश्चातत्सम्बन्धविषिष्टस्य गोः सहार्थेन योगः; अन्यथा कस्य सहत्वं प्रतिपाद्येत, अतो गवा सम्बन्धस्यान्तरङ्गत्वा दुपाध्यायात् षष्ठी भविष्यतीति नार्थ एतेन॥ Nyaas ----- क्रियागुणद्रव्यसम्बन्धे हि सति सहयोगो भवति। अतः `पुत्रेण सहागतः` इत्यादीनि क्रियादिसम्बन्धे यथाक्रमुदाहरणानि वृत्तिकृतोपन्यस्तानि। सर्वत्र च पुत्रस्यात्राप्रधान्यमिति ततस्तृतीया भवति। ननु चोभयोरपि पितापुत्रयोः क्रियादिसम्बन्धः प्रतीयते, तत्कुतः पुत्रस्याप्राधान्यमितरस्य प्रधानभाव इत्याह - `पितुरत्र` इत्यादि। `यद्य्प्युभयगतः क्रियादिसम्बन्धः प्रतीयते, तथाऽप्युपात्तशब्दव्यापारापक्षया प्रधानाप्रधानव्यवस्थाः - शब्देन यस्य क्रियादिसम्बन्धः प्रत्याय्यते तत् प्रधानमितरदप्रधानमिति। इह तु पितुरव क्रियादिसंबन्धः प्रत्याय्यते शब्देन, न तु पुत्रस्य। कुत एतत्? शब्दशक्तस्वाभाव्यात्। तथाविधा हि शब्दशक्तिर्यतः पितुरेवात्र क्रियादिसम्बन्धं श्नोति प्रतिपादयितुम्, न पुत्रस्येति; एवञ्चागत इत्यादवेकवचनमुपपद्यते; अन्यथा हि द्वित्वाद्द्विवचनं स्यात्, यथा - पिततापुत्रावागताविति। `पुत्रस्य तु प्रतीयमानत्वादप्राधान्यम्` इति। अर्थात्स पुनरर्थः सहार्थयोगः। स च भेदाधिष्ठानत्वात् पुत्रस्य क्रियादिसम्बन्धमन्तरेण न सम्भवतीति सम्बन्धस्य नान्तरीयकत्वात् पुत्रस्यापि क्रियादिसम्बन्धं प्रत्याययति। `सहार्थेन योगे तृतीयाविधानात्` इति। कुतः पुनरेतदवगतं सहार्थेन योगे तृतीयाविधानमिति? युक्तग्रहणात्। तस्य चैतदेव प्रयोजनम् - सहार्थेन योगे तृतीया यथा स्यात्, नान्यत्। `शिष्येण सहोपाध्यायस्य गौः` इति। अत्र द्रव्यसम्बन्धः षष्ठऐवोपाध्यायस्योच्यत इत्यस्य प्राधान्यात्। तत्रासत्यप्रधानग्रहणे प्रधानेऽप्युपाध्याये स्यात्। ननु च परत्वात् षष्ठी भविष्यति? न भविष्यति; अशेषत्वात्। सति त्वप्रधानग्रहणे शेषोऽयं सम्पद्यत इति षष्ठी॥ Praudhamanorama --------------- **पुत्रेणेति ।** पितुरत्र क्रियासंबन्धः शाब्दः, पुत्रस्य तु आर्थ इति तस्याप्राधान्यम्। अप्रधानग्रहणं शक्यमकर्तुम्। न चैवं पितुरपि तृतीयापत्तिः। तत्र प्रातिपदिकर्थमात्रे अन्तरङ्गत्वात्प्रथमोत्पत्तेः। 'पितुरागमनम्' इत्यादौ कारकविभक्तेः प्राबल्याच्च। Prakriyasarvasvam ----------------- सहार्थेन योगे सत्यप्रधाने तृतीया स्यात् । गोपैः सह गतः कृष्णः । एवं सार्धं साकमित्यादि । सहार्थानामप्रयोगेऽपि । गोपैर्वनं गतः कृष्णः ॥ Sutra Prayogas -------------- * **दिशा** (शिशुपालवधम्): `सहयुक्तेऽप्रधाने` इति सहार्थे तृतीया। * **नाकलोकललनाभिर** (शिशुपालवधम्): `सहयुक्तेऽप्रधाने` इति सहार्थे तृतीया।