23013: चतुर्थी सम्प्रदाने
=========================
**Padacheda:** चतुर्थी | S | 1 | 1 |
सम्प्रदाने | S | 7 | 1 |
Sutrartha
---------
****
Vasu English Summary
--------------------
In denoting the सम्प्रदान-कारक -- कर्मणा यमभिप्रैति स सम्प्रदानम् (1.4.32), the 4th case-affix of the Dative is used after the noun.
Vasu English Translation
------------------------
In denoting the सम्प्रदान-कारक -- कर्मणा यमभिप्रैति स सम्प्रदानम् (1.4.32), the 4th case-affix of the Dative is used after the noun.
Ex. उपाध्यायाय गां ददाति 'He gives a cow to the teacher' देवदत्ताय रोचते 'it pleases *Devadatta*' (1.4.33) पुष्पेभ्यः स्पृहयति (1.4.36) 'he desires flowers.'
Vart:- The fourth case-affix should be employed when the sense is that of 'for the purpose thereof' as यूपाय दारु 'wood is for making posts.' कुण्डलाय हिरण्यं 'gold used for the purpose of making ear-ring.' रन्धनाय स्थाली 'pot for the sake of cooking.' अवहननायोलूखलं 'mortar for the sake of threshing.'
Vart:- The verb क्लृप and other verbs meaning 'to be fit or adequate for, result in, bring about, accomplish, produce, tend to,' govern the dative case: as, मूत्राय कल्पते यवागूः 'the barley gruel tends to produce urine.' So elso मूत्राय संपद्यते जायते वा यवागुः.
Vart:- The fourth case-affix is employed with the force of 'indicating a portent or calamity.' as.
वाताय कपिला विद्युदातपायाति लोहिनी ॥
पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥
'The reddish lightening portends wind, extremely red indicates heat, yellow portends rain and white lightening prognosticates famine.'
Vart:- The fourth case-affix should be employed in connection with the word हितः as गोभ्योहितं 'good for cows.'
Bhashya
-------
चतुर्थी सम्प्रदाने 471 (303 चतुर्थीसूत्रम् ॥ 2.3.13 ॥ आ) (न्यूनतापूर्त्यधिकरणम्) (न्यूनतापूरकवार्तिकम् ॥ 1 ॥) (1485 न्यूनतापूरकवार्तिकम् ॥ 1 ॥) - चतुर्थीविधाने तार्दथ्य उपसंख्यानम् - (भाष्यम्) चतुर्थीविधाने तार्दथ्ये उपसंख्यानं कर्तव्यम्। यूपाय दारु, कुण्डलाय हिरण्यमिति ॥ (आक्षेपभाष्यम्) किमिदं तार्दथ्यमिति? ॥ (समाधानभाष्यम्) तदर्थस्य भावः तार्दथ्यम् (आक्षेपभाष्यम्) तदर्थं पुनः किम्? ॥ (समाधानभाष्यम्) सर्वनाम्नोयं चतुर्थ्यन्तस्यार्थशब्देन सह समासः ॥ (आक्षेपभाष्यम्) कथं चात्र चतुर्थी? ॥ (आक्षेपसाधकभाष्यम्) यद्येवम्, इतरेतराश्रयं भवति ॥ केतरेतराश्रयता?। निर्देशोत्तरकालं चतुर्थ्या भवितव्यम्। चतुर्थ्या च निर्देशः। तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ॥ (तृतीयाक्षेपभाष्यम्) तत्तर्हि वक्तव्यम् ? ॥ (समाधानभाष्यम्) न वक्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति - भवति ह्यर्थशब्देन योगे चतुर्थी इति, यदयं चतुर्थी तदर्थार्थ - इति चतुर्थ्यन्तस्यार्थशब्देन सह समासं शास्ति ॥ न खल्वप्यवश्यं चतुर्थ्यन्तस्यैवार्थशब्देन समासो भवति ॥ किं तर्हि?। षष्ठ्यन्तस्यापि भवति। तद्यथा - गुरोरिदं गुर्वर्थमिति ॥ (आक्षेपभाष्यम्) यदि तार्दथ्ये उपसंख्यानं क्रियते नार्थः संप्रदानग्रहणेन। यो ह्युपाध्यायाय गौर्दीयते उपाध्यायार्थः स भवति। तत्र तार्दथ्य इत्येव सिद्धम् ॥ (समाधानभाष्यम्) अवश्यं संप्रदानग्रहणं कर्तव्यम्। याऽन्येन लक्षणेन संप्रदानसंज्ञा तदर्थम् - छात्राय रुचितं छात्राय स्वदितमिति। (आक्षेपभाष्यम्) तत्तर्ह्युपसंख्यानं कर्तव्यम्? ॥ (समाधानभाष्यम्) न कर्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति - भवति तार्दथ्ये चतुर्थी इति। यदयं चतुर्थी तदर्थार्थ - इति चतुर्थ्यन्तस्य तदर्थेन सह समासं शास्ति ॥ (1486 चतुर्थीविधानवार्तिकम् ॥ 2 ॥) - कॢपिसंपद्यमाने - (भाष्यम्) कॢपिसंपद्यमाने चतुर्थी वक्तव्या। मूत्राय कल्पते यवागूः। उच्चाराय यवान्नमिति। (1487 चतुर्थीविधानवार्तिकम् ॥ 3 ॥) - उत्पातेन ज्ञाप्यमाने - (भाष्यम्) उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या। वाताय कपिला विद्युदातपायातिलोहिनी। (कृष्णा सर्वविनाशाय दुर्भिक्षाय सिता भवेत् ॥ ) मांसौदनाय व्याहरति मृगः ॥ (1488 चतुर्थीविधानवार्तिकम् ॥ 4 ॥) - हितयोगे च - (भाष्यम्) हितयोगे चतुर्थी वक्तव्या। हितमरोचकिने हितमामयाविने ॥ चतुर्थी सं ॥ 13 ॥
Kashika
-------
संप्रदाने कारके चतुर्थी विभक्तिर्भवति। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति। देवदत्ताय रोचते। पुष्पेभ्यः स्पृहयतीत्यादि॥ चतुर्थीविधाने तादर्थ्य उपसंख्यानम्॥ यूपाय दारु। कुण्डलाय हिरण्यम्। रन्धनाय स्थाली। अवहननायोलूखलम्॥ क्ऌपिसंपद्यमाने चतुर्थी वक्तव्या॥ मूत्राय कल्पते यवागूः। उच्चाराय कल्पते यवागूः॥क्ऌपीत्यर्थनिर्देशः॥ मूत्राय संपद्यते यवागूः। मूत्राय जायते यवागूः॥ उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या॥
वाताय कपिला विद्युदातपायातिलोहिनी।
पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत्॥
॥ हितयोगे चतुर्थी वक्तव्या॥ गोभ्यो हितम्। अरोचकिने हितम्॥
Siddhanta Kaumudi
-----------------
विप्राय गां ददाति । अनभिहित इत्येव । दानीयो विप्रः । (वार्तिकम्) ॥ पत्ये शेते । (वार्तिकम्) ॥ पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ॥
Laghu Siddhanta Kaumudi
-----------------------
विप्राय गां ददाति॥
Balamanorama
------------
**चतुर्थी सम्प्रदाने** - चतुर्थी सम्प्रदाने । विप्रायेति । विप्रमुद्दिश्य गां ददातीत्यर्थः । अनभिहित इत्येवेति । अनुवर्तत एवेत्यर्थः । दानीयो विप्र इति । दानोद्देश्य इत्यर्थः ।कृत्यल्युटो बहुल॑मिति बहुलग्रहणात्संप्रदानेऽनीयर् । तेन कृता संप्रदानस्य विप्रस्याऽभिहितत्वान्न चतुर्थीति भावः । ननु दानक्रियाकर्मोद्देश्यस्यैव संप्रदानत्वे 'पत्ये शेते' इत्यत्र अकर्मकशयनक्रियोद्देश्यस्य पत्युः कथं संप्रदानत्वमित्याशङ्कायांक्रियाग्रहणमपि कर्तव्य॑मिति वार्तिकं प्रवृत्तम् ।तदेतदर्थतः सङ्गृह्णाति-क्रियया यमिति । क्रियोद्देश्यमपि संप्रदानमिति यावत् । पत्ये शेते इति । पति मुद्दिश्य शेते इत्यर्थः॥ नन्वेवमपि ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गः । न च कर्मसंज्ञाविधिवैयथ्र्यं शङ्क्यम्, अत एव तत्र कर्मत्वसंप्रदानत्वयोर्विकल्पोपपत्तेरिति चेन्न, 'पत्ये शेते' इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः सकर्मकस्थले कर्मसंज्ञया बाओधात् । तथाच अकर्मकक्रियोद्देश्यमपि संप्रदानमिति फलतीति भावः । कर्मणः करण संज्ञेत्यादि । वार्तिकमिदम् ।एकस्मिन्वाक्ये कर्मणः संप्रदानस्य च समवाये सती॑ति शेषः । यजधातुविषयमेवेदमित्यभिप्रेत्योदाहरति — पशुना रुद्रं यजत इति । अत्र यजधातुर्दानार्थक इत्यभिप्रेत्याह — ददातीत्यर्थ इति । इदं वार्तिकं छान्दसमेवेति कैयटः ।
Padamanjari
-----------
चतुर्थी संप्रदाने॥ तादर्थ्य इति। तच्छब्देन कार्थं प्रति निर्दिश्यते, तस्मै इदं तदर्थमिति समासेन विशिष्टकार्यप्रयोजनं कारणमभिधीयते। तदर्थस्य भावस्तादर्थ्यमिति ष्यञा कार्यकारणसम्बन्धोऽभिधीयते; समासकृतद्धितेषु सम्बन्धाभिधानां भावप्रत्ययेनेति वचनात्। तत्र द्विष्ठत्वेऽपि सम्बन्धस्य षष्ठीवद्विशेषणादेव चतुर्थी भवती - यूपाय दार्विति। हेतुतृतीयापि विशेष्यान्न भवति। हेतुहेतुमद्भावस्यापि चतुर्थ्यैव प्रत्यायितत्वात्, षष्ठीविषये च हेतुतृतीया। इह तु प्रातिपदिकार्थस्याव्यतिरेकात्प्रथमैव भवति। यदि तर्हि तादर्थ्य उपसंख्यानं क्रियते, नार्थः संप्रदाने चतुर्थ्या, योऽपि ह्युपाध्यायाय गौर्दीयते उपाध्यायार्थः स भवति। अवश्यं संप्रदानग्रहणं कर्तव्यम् रुच्यर्थानां प्रीयमाणःऽ इत्याद्यर्थम्। वलृपि संपद्यमान इति। संपतिरभूतप्रादुर्भावरूपोत्पतिरिह गृह्यते, तत्र यद्रूपमुपजायते ततो विकाराच्चतुर्थी। मूत्राय कल्पते यवागूरिति । प्रकृतिविकारयोर्भेदविवक्षायां चतुर्थी। अभेदविवक्षायां तु मूत्रं संपद्यते यवागूरिति प्रथमैव भवतीति केचिदाहुः। अन्ये त्वभेदविवक्षायामेव चतुर्थीमिच्छन्ति। यदा तु'जनिकर्तुः प्रकृतिः' इत्यपादानत्वं विवक्ष्यते, तदा विकाराच्चतुर्थी न भवतीति केचिदाहुः - मूत्रं संपद्यते यवाग्वा इति। अन्ये तत्रापि चतुर्थीमिच्छन्ति - मूत्राय संपद्यते यवाग्वा इति। उत्पातेनेति। प्राणिनां शुभाशुभयो सूचको भूतविकार उत्पातः। अरोचकिन इति। अरुचिःउअरोचकम्, रोगाख्यायाम्ऽ इति ण्वुल्, बहुलवचनादस्त्रीलिङ्गता॥
Nyaas
-----
`देवदत्ताय रोचते` इति। **रुच्यर्थानां प्रीयमाणः** (1.4.33) इति संप्रदानसंज्ञा। `पुष्पेभ्यः स्पृह्रति` इति। अत्र **स्पृहेरीप्सितः** (1.4.36) इत्यनेन।`तादर्थ्ये उपसंख्यानम्` इति। तच्छब्देन चतुथ्र्यन्तस्यार्थो निर्दिश्यते। तस्मा इदं तदर्थम्, तस्य भावस्तादथ्र्यम्। तत्र चतुथ्र्या उपसंख्यानम् = प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - `चतुर्थी` इति योगविभागः क्रियते, तेन तादर्थ्ये चतुर्थी भवतीति। अथवा **चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः** (2.1.36) इति तादर्थ्ये चतुर्थ्याः समासवचनं ज्ञापकं भवति - तादर्थ्येऽपि चतुर्थीति।`कॢपि सम्पद्यमाने` इत्यादि। कॢप्त्यर्थानां धानूनां प्रयोगे सम्पद्यमाने कर्तरि संपादनक्रियाविशिष्टे चतुर्थी वक्तव्या, व्याख्येयेत्यर्थः। व्याख्यानं तु तमेव योगविभागमाश्रित्य। तथा `उत्पातेन ज्ञाप्यमाने` इत्यादावपि। `मूत्राय कल्पते यवागूः` इति। यवागूर्मूत्रविकाररूपेण भवतीत्यर्थः। विकाररूपापत्तौ चतुर्ती विज्ञेया। तेनेह न भवति - देवदत्तस्य शालयः संपद्यन्त इति। यदा चाभेदविवक्षा तदा परत्वात् प्रथमैव भवति, न चतुर्थी - मूत्रमिदं संपद्यते यवागूरिति, उच्चारोऽयं सम्पद्यते यवौदन इति। यदा तु `जनिकर्त्तृः प्रकृतिः` (1.4.30) इति प्रकृतेरपादानात्वं विवक्ष्यते तदा यवाग्वा इति पञ्चम्येव स्यात् - मूत्रं सम्पद्यते यवाग्वा इति। `वाताय कपिला विद्युत्` इति। अत्र कपिलाविद्युदुत्पातो वातस्य लक्षणम्। तेन ज्ञाप्यमाने वाते चतुर्थी भवति। `अरोचकिने` इति। **अत इनिठनौ** (5.2.115) इतीनिः॥
Praudhamanorama
---------------
**दानीय इति।** बाहुलकात् सम्प्रदाने अनीयर्।
Prakriyasarvasvam
-----------------
शत्रवे प्रहरत्यस्त्रं ब्राह्मणाय ददाति गाम् । दानस्य कर्मणैवेति केचिद्, भाष्यमतं न तत् ॥ ५३२ ॥ क्रिययापीति वक्तव्यमुक्तं वा सूत्र एव तत् । सन्नह्यति मृधायासौ पत्यै शेते नितम्बिनी ॥ ५३३ ॥ अनभिहित इत्येव । दानीयो विप्रः ॥
Vartika
-------
तादर्थ्ये चतुर्थी वक्तव्या ।
Sutra Prayogas
--------------
* **शोभायै** (शिशुपालवधम्): `क्लपेः संपद्यमाने चतुर्थी वक्तव्या` (वा०) इति चतुर्थी।