23009: यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ============================================= **Padacheda:** यस्मात् | S | 5 | 1 | अधिकम् | S | 1 | 1 | यस्य | S | 6 | 1 | च | S | 0 | 0 | ईश्वरवचनम् | S | 1 | 1 | तत्र | S | 0 | 0 | सप्तमी | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Where a word is governed by a कर्मप्रवचनीयाः (1.4.83) in the sense of 'more than' उपोऽधिके च (1.4.87) or 'lord of' अधिरीश्वरे (1.4.97) there the 7th case-affix (locative) is used. Vasu English Translation ------------------------ Where a word is governed by a कर्मप्रवचनीयाः (1.4.83) in the sense of 'more than' उपोऽधिके च (1.4.87) or 'lord of' अधिरीश्वरे (1.4.97) there the 7th case-affix (locative) is used. Ex. उपखार्याम् द्रोणः 'A *Drona* is more than a *Khari*,' अधिब्रह्मदत्ते पंचालाः '*Brahmadatta* is the lord of *Panchalas*.' The phrase यस्यचेश्वरवचनं indicate that both the thing owned and the owner may be in the locative. See (1.4.97). This aphorism debars the accusative. Bhashya ------- यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी 467 (301 कर्मप्रवचनीये सप्तमीसूत्रम् ॥ 2। 3। 1 आ. 9) (इर्श्वरवचनशब्दार्थनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) कथमिदं विज्ञायते - यस्य चैश्वर्यमीश्वरता इर्श्वरभावस्तस्मात्कर्मप्रवचनीययुक्तादिति। आहोस्विद् यस्य स्वस्येश्वरस्तस्मात्कर्मप्रवचनीययुक्तादिति?। (भाष्यम्) कश्चात्र विशेषः? ॥ (1477 प्रथमपक्षदूषणवार्तिकम् 1) - यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदवचनात्सिद्धम् - (भाष्यम्) यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदन्तरेण वचनं सिद्धम्। अधि ब्रह्मदत्ते पञ्ञ्चालाः। आधृतास्ते तस्मिन् भवन्ति। सत्यमेवमेतत् - नित्यं परिग्रहीतव्यं परिग्रहीत्रधीनं भवति ॥ (1478 द्वितीयदूषणवार्तिकम् ॥ 2 ॥) - प्रथमानुपपत्तिस्तु - (भाष्यम्) प्रथमा नोपपद्यते ॥ कुतः?। पञ्ञ्चालेभ्यः ॥ (आक्षेपभाष्यम्) का तर्हि स्यात्? ॥ (समाधानभाष्यम्) षष्ठीसप्तम्यौ स्वामीश्वराधिपतिदायाद् इति ॥ (बाधकभाष्यम्) न तत्राधिशब्दः पठ्यते ॥ (साधकभाष्यम्) यद्यपि न पठ्यते। अधिरीश्वरवाची ॥ (बाधकभाष्यम्) न तत्र पर्यायवचनानां ग्रहणं भवति ॥ कथं ज्ञायते?। यदयं कस्य चित्पर्यायवचनस्य ग्रहणं करोति - अधिपतिदायाद इति। (समाधानान्तरभाष्यम्) षष्ठी तर्हि प्राप्नोति। (बाधकभाष्यम्) शेषलक्षणा षष्ठी; अशेषत्वान्न भविष्यति ॥ (समाधानान्तरभाष्यम्) द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति ॥ (बाधकभाष्यम्) सप्तम्योक्तत्वात्तस्यार्थस्य द्वितीया न भविष्यति ॥ (साधकभाष्यम्) भवेद्योऽधेर्ब्रह्मदत्तस्य चाभिसंबन्धः स सप्तम्योक्तः स्यात्। यस्तु खल्वधेः पञ्ञ्चालानां चाभिसंबन्धस्तत्र द्वितीया प्राप्नोति ॥ (1479 शेषपूर्तिवार्तिकम् ॥ 3 ॥) - स्ववचनात्तु सिद्धम् - (भाष्यम्) अस्तु - यस्य स्वस्येश्वरस्तस्मात्कर्मप्रवचनीययुक्तादिति ॥ (स्वस्मिन्नपि सप्तमीविधानानर्थक्याक्षेपभाष्यम्) एवमप्यन्तरेण वचनं सिद्धम्। अधि ब्रह्मदत्तः पञ्ञ्चालेषु - आधृतः स तेषु भवति। सत्यमेवमेतत् - नित्यं परिग्रहीता परिग्रहीतव्याधीनो भवति ॥ (द्वितीयदूषणभाष्यम्) प्रथमानुपपत्तिस्तु ॥ प्रथमा तु नोपपद्यते ॥ कुतः?। ब्रह्मदत्तात् ॥ (प्रत्याक्षेपभाष्यम्) का तर्हि स्यात्?। (समाधानभाष्यम्) षष्ठीसप्तम्यौ - स्वामीस्वराधिपतिदायाद - इति ॥ (समाधानबाधकभाष्यम्) न तत्राधिशब्दः पठ्यते (समाधानसाधकभाष्यम्) यद्यपि न पठ्यते। अधिरीश्वरवाची ॥ (समाधानबाधकभाष्यम्) न तत्र पर्यावचनानां ग्रहणं भवति ॥ कथं ज्ञायते?। यदयं कस्यचित्पर्यायवचनस्य ग्रहणं करोति - अधिपतिदायाद - इति ॥ (समाधानसाधकभाष्यम्) शेषलक्षणा षष्ठी, अशेषत्वान्न भविष्यति ॥ (समाधानसाधकभाष्यम्) द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति ॥ (समाधानबाधकभाष्यम्) सप्तम्योक्तत्वात्तस्याभिसंबन्धस्य द्वितीया न भविष्यति ॥ (प्रत्याक्षेपसमाधानसाधकभाष्यम्) भवेद्योधेः पञ्ञ्चालानां चाभिसंबन्धः स सप्तम्योक्तः स्यात्। यस्तु खल्वधेर्ब्रह्मदत्तस्य चाभिसंबन्धः तत्र द्वितीया प्राप्नोति ॥ (व्याख्यानान्तरभाष्यम्) एवं तर्हि - स्ववचनात्तु सिद्धम्()इति। अधिः स्वं प्रति कर्मप्रवचनीयसंज्ञो भवतीति वक्तव्यम् ॥ (आक्षेपभाष्यम्) एवमपि यदा ब्रह्मदत्तेधिकरणे सप्तमी तदा पञ्ञ्चालेभ्यो द्वितीया प्राप्नोति (कथम्?।) कर्मप्रवचनीययुक्ते द्वितीया इति ॥ (समाधानभाष्यम्) उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यतिं ॥ यस्मादधिकम् ॥ 9 ॥ Kashika ------- कर्मप्रवचनीययुक्त इति वर्तते। यस्मादधिकं यस्य चेश्वरवचनं कर्मप्रवचनीयैर्युक्ते तत्र सप्तमी विभक्तिर्भवति। उप खार्यां द्रोणः। उप निष्के कार्षापणम्। यस्य चेश्वरवचनमिति स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमी विभक्तिर्भवति। अधि ब्रह्मदत्ते पञ्चालाः, अधिपञ्चालेषु ब्रह्मदत्त इति। द्वितीयापवादो योगः॥ Siddhanta Kaumudi ----------------- अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । सप्तमी शौण्डैः (SK717) इति समासपक्षे तु रामाधीना । अषडक्ष (SK2079) इत्यादिना खः ॥ Balamanorama ------------ **यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी** - यस्मादधिकम् ।कर्मप्रवचनीययुक्ते॑ इत्यनुवर्तते । तदाह — अत्र कर्मप्रवचनीयेति । शेषषष्ठपवादः । उप पराध इति । अवधित्वं सप्तम्यर्थः । तदाह — परार्धादधिका इत्यर्थ इति । यस्मादधिकं संख्यान्तरं न विद्यते तत्परार्धम् । तदपेक्षयेत्यर्थः । 'उपोऽधिके च' इति उपेत्यस्य कर्मप्रवचनीयत्वस्येदं फलम् । यस्येआरवचनमित्यस्य यत्सम्बन्धी ईस्वर उच्यते तत सप्तमीत्येकोऽर्थः । इह यच्छब्देन स्वमुच्यते । #एवंच स्ववाचकात्सप्तमीति लभ्यते । ईआरशब्दो भावप्रधानः । यस्येआरत्वमुच्यते ततः सप्तमीत्यन्योऽर्थः । यन्निष्ठमीआरत्वमुच्यते ततः सप्तमीति यावत् । स्वामिवाचकात्सप्तमीति लभ्यते । तदाह — ऐआर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमीति । अधि भुवि राम इति । अधिरीश्वरपर्यायः । संबन्धः सप्तम्यर्थः । भुवः स्वामी राम इत्यर्थः । अत्र स्ववाचकात्सप्तमी । अधि रामे भूरिति । अत्र अधिः स्वशब्दपर्यायः । सम्बन्धः सप्तम्यर्थः । रामस्य स्वभूता भूरित्यर्थः । अत्र स्वामिवाचकात्सप्तमी । समासपक्षे त्विति । शौण्डादिगणे अधिशब्दस्य पठितत्वेन तेनाऽधिशब्देन रामे इति सप्तम्यन्तस्य समासे सति 'सुपो धातु' इति सुब्लुकि रामाधिशब्दात्अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः॑ इति खप्रत्यये 'आयनेयीनीयियः' इति तस्य ईनादेशे रामाधीना भूरिति सिध्यति । रामस्वामिकेत्यर्थः । विभक्त्यर्थे अव्ययीभावे त्वधिरामं भूः । रामाधिकरणिका भूरित्यर्थः । खप्रत्ययस्तु न, अध्युत्तरपदत्वाऽभावात् । Padamanjari ----------- यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ यस्मादधिकं तदस्मिन्नधिकमिति च निर्देशादधिकशब्दयोगे पर्यायेण सप्तमीपञ्चम्यौ भवतः। उपखार्थो द्रोण इति। ठुपोऽधिके चऽ इति कर्मप्रवचनीयसंज्ञा। यस्य चेश्वरवचनमित्यादि। द्वयमनेनोच्यते, द्वयोरपि भवति, तत्रापि पर्यायेणेति तत्र द्वयोरपि तावद्भवति, कथम्? ईश्वर उच्यते येन तदोश्वरवचनमैश्वर्यम्, अथ वा ईश्वरशब्दो भावप्रधानः ईश्वरः तस्योक्तिरीश्वरचनम्, यस्य स्वामिन ईश्वरत्वमुच्यते ततः सप्तमीत्यर्थः। अथ वा - यस्येति स्वं निर्दिश्यते, यस्य स्वस्येश्वर उच्यते ततः स्वात्सप्तमीत्यर्थः। पर्यायेण वा भवति; शेषविषये कर्मप्रवचनीयविभक्त्यारम्भादेकत उत्पन्नया विभक्त्या द्विष्ठस्यापि संबन्धस्याभिधानात्। अधि ब्रह्मदत इति।'सप्तमी शौण्ड्èअः' इति समासपक्षे ब्रह्मदताधीना इति भवति विभक्त्यर्थवृत्तित्वेऽधिब्रह्मदतमित्यव्ययीभावः। अयं योगः शक्योऽवक्तुम्, स्वामिन्याधारे पञ्चालाः स्थिता स्वेष्वाधारेषु ब्रह्मदतः स्थितः, तत्र यदा यदधिकरणं तत्र सप्तमी भविष्यति, एवं च कृत्वा ठधिरीश्वरेऽ इति कर्मप्रवचनीयसंज्ञा न वक्तव्या, ऐस्वर्यवषयश्चाधिः क्रियया नैव युज्यते। अतो गत्युपसर्गत्वबाधार्थापि न युज्यते॥ Nyaas ----- `उपखार्यां द्रोणः` इति। खार्या अधिको द्रोण इत्यर्थः। **उपोऽधिके च** (1.4.87) इत्युपशब्दस्य कर्मप्रवचनीयसंज्ञा। `यस्य चेआरवचनम्` इति। यस्य चेआरव्यपदेश इत्यर्थः। ईआरव्यदेशस्तु स्वामिन एव सम्भवति। तत्रैव सप्तम्या भवितव्यमिति कस्यचिद्भ्रान्ति स्यात्, अतस्तान्निराकर्त्तुमाह - `यस्य चेआरवचनम्` इत्यादि। यस्य चेआरवचनमित्यनेन द्वयोरपि = स्वस्वामिनोः पर्यायेण सप्तमी भवतीति। कथम्, यावता `अधिरीश्वरे` (1.4.96) इत्यनेनाधिकशब्दस्य कर्मप्रवचनीयसंज्ञा विहिता, ईआरस्तु स्वमी, स च स्वमपेक्ष्य भवति? स्वस्वामिसम्बन्धेऽधिशब्दः कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामी कर्मप्रवचनीयविभक्तया युज्यते, कदाचित् स्वमित्येतत् प्रतिपादितं प्रागेव। कथं पुनर्यस्य चेआरवचनमित्युच्यमाने स्वमपि कर्मप्रवचनीयविभक्त्या युज्यते, न हि तस्येआरव्यपदेशोऽस्ति? एवं तर्हि अनुक्तसमुच्चयार्थश्चकारः क्रियते, तेन यस्येआरव्यपदेशो नास्ति तत्रापि सप्तमी विज्ञायत इत्यदोषः॥ Praudhamanorama --------------- **पर्यायेणेति।** ईश्वरशब्दो भावसाधनः। यस्य स्वामिन ईश्वरत्वमुच्यते इत्येकं व्याख्यानम्। यस्येति स्वं निर्दिश्यते। यस्य स्वस्य ईश्वर उच्यते इत्यपरम्। एवं च व्याख्याभेदात्पर्यायेण विभक्तिः। सा च विशेषणात् षष्ठीवदिति भावः। इति सप्तमी॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां कारकप्रकरणम्॥ Prakriyasarvasvam ----------------- यस्मादधिकता बोध्या यस्य चेश्वरतोच्यते । कर्मप्रवचनीयेन तस्माद् भवति सप्तमी ॥ ५७१ ॥ अधिके-हरावुप न कश्चित् । तस्मादधिक इत्यर्थः । ईश्वरे चेशितव्ये च सप्तमीष्टा विकल्पतः । माधवेऽपि त्रिलोकीयं त्रिलोक्यामधि माधवः ॥ ५७२ ॥ ‘यस्मादधिकं–’ (२–३–९) ‘तदस्मिन्नधिकम्–’ (५–२–४५) इति च ज्ञापकादधिकशब्दयोगे पञ्चमी सप्तमी च सिद्धा ॥ इति प्रक्रियासर्वस्वे विभक्त्यर्थखण्डः । स्वनिर्मितत्वप्रणयावकुण्ठितः स्वकाव्यदोषं न बुधोऽपि बुध्यते । अतोऽत्र सूरीन् गुणदोषवेद्यान् मदुक्तिसंशोधनकार्यमर्थये ॥ Sutra Prayogas -------------- * **अधिरामे** (भट्टिकाव्यम्): `यस्मादधिकम्` इत्यादिना सप्तमी।