23007: सप्तमीपञ्चम्यौ कारकमध्ये =============================== **Padacheda:** सप्तमी-पञ्चम्यौ | S | 1 | 2 | कारक-मध्ये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A noun denoting time or place gets the affix of the 7th or the 5th case when the sense applied is that the time or space is the interval between one action and another (or implies an interval of time and space between कारक-s. Vasu English Translation ------------------------ A noun denoting time or place gets the affix of the 7th or the 5th case when the sense applied is that the time or space is the interval between one action and another (or implies an interval of time and space between कारक-s. Ex. अद्य भुक्त्वा देवदत्तो द्व्यहे द्व्यहाद्वाभोक्ता 'having dined today, *Devadatta* will dine in or after two days.' Here the 'time' is the interval between the agent and his power of eating. So also इहस्थोऽयमिष्वासः क्रोशात् क्रोशे वा लक्ष्यं विध्येत् 'standing here, he will hit a mark at the distance of one *kos*. Here *kos* is the interval between the agent and the object or the object and the ablation, or the object and the location. The rule (1.3. 10) does not apply here. Bhashya ------- सप्तमीपञ्ञ्चम्यौ कारकमध्ये 465 (299 सप्तमीपञ्ञ्चमीसूत्रम् ॥ 2.3.1 आ.7 ॥) (न्यूनतपूर्त्यधिकरणम्) (1475 विवक्षितपूर्ति वार्तिकम् 1) ( - क्रियामध्ये -) (भाष्यम्) क्रियामध्य इति वक्तव्यम्। इहापि यथा स्यात् - अद्य देवदत्तो भुक्त्वा द्व्यहाद्भोक्ता, द्व्यहे भोक्ता ॥ कारकमध्य इतीयत्युच्यमाने इहैव स्यात् - इहस्थोयमिष्वासः क्रोशाल्लक्ष्यं विध्यति, क्रोशे लक्ष्यं विध्यति। यं च विध्यति यतश्च विध्यति तयोस्तन्मध्यं भवति ॥ (तृतीयाक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। नान्तरेण साधनं क्रियायाः प्रवृत्तिर्भवति। क्रियामध्यं चेत्कारकमध्यमपि भवति। तत्र कारकमध्ये इत्येव सिद्धम् ॥ सप्तमीपञ्ञ्चम्यौ ॥ 7 ॥ Kashika ------- कालाध्वनोरिति वर्तते। कारकयोर्मध्ये यौ कालाध्वानौ, ताभ्यां सप्तमीपञ्चम्यौ विभक्ती भवतः। अद्य भुक्त्वा देवदत्तो द्व्यहे भोक्ता, द्व्यहाद् वा भोक्ता। त्र्यहे त्र्याहाद् वा भोक्ता। कर्तृशक्त्योर्मध्ये कालः। इहस्थोऽयमिष्वासः क्रोशे लक्ष्यं विध्यति, क्रोशाल्लक्ष्यं विध्यति। कर्तृकर्मणोः कारकयोः कर्मापादानयोः कर्माधिकरणयोर्वा मध्ये क्रोशः। संख्यातानुदेशो न भवति, अस्वरितत्वात्॥ Siddhanta Kaumudi ----------------- शक्तिद्वयमध्ये यौ कालाध्वनौ ताभ्यामेते स्तः । अद्य भुक्त्वाऽयं द्व्यहे द्व्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते । तदस्मिन्नधिकम् (SK1846) इति यस्मादधिकम् (SK645) इति च सूत्रनिर्देशात् । लोके लोकाद्वा अधिको हरिः ॥ Balamanorama ------------ **सप्तमीपञ्चम्यौ कारकमध्ये** - सप्तमीपञ्चम्यौ । कारकशब्दः कर्तृत्वादिशक्तिपरः, न तु कत्र्रादिपरः, व्याख्यानात् । मध्यस्यावधिद्वयसापेक्षत्वात्कारकयोर्मध्यमिति विग्रहः । तदाह — शक्तिद्वयमध्ये इति । 'कालाध्वनोः' इत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यत इत्याह — यौ कालाध्वानाविति । अद्य भुक्त्वेति । सामीपिकाधिकरणत्वे सप्तम्यामेव प्राप्तायां वचनम् । अद्य भुक्त्वा द्व्यहे अतीते तत्समीपे तृतीयेऽह्नि भोक्तेत्यर्थः । भविष्यति लुट् । कर्तृशक्त्योरिति । अद्यतनभुजिक्रियानिरूपितकर्तृत्वस्य, द्व्यहोत्तरदिनगतभुजिक्रियागिरूपितकर्तृत्वस्य चेत्यर्थः । कारकशब्दस्य कत्र्रादिपरत्वे त्विह न स्यात्, क्त्वाप्रत्ययस्य कत्र्रेकत्वे विधानात् । कर्तृशक्तिस्तु भुजिक्रियाभेदाद्भिद्यत एव । कारकद्वयमध्येऽप्युदाहरति — इहस्थोऽयमिति । इहापि देशतः सामीपिकमधिकरत्वं पञ्चमीसप्तम्योरर्थः । इहतिष्ठन्नयमिष्वास इषुणा क्रोशोत्तरसमीपदेशे लक्ष्यं विध्येदित्यर्थः । कर्तृकर्मशक्त्योरिति । कर्तृत्वकर्मत्वरूपशक्त्योर्मध्य इत्यर्थः । कारकशब्दस्य कत्र्रादिपरत्वे त्विहैव स्यात् । अद्य भुक्त्वायमित्यत्र न स्यादिति सूचयितुमिदमष्युदाहृतम् । ननु लोके लोकाद्वा अधिको हरिरित्यत्र अवधित्वसंबन्धे शेषषष्ठएवोचितेत्याशङ्क्याह — अधिकशब्देनेति । लोके लोकाद्वेति । अवधित्वसंबन्धः सप्तमीपञ्चम्योरर्थः । लोकापेक्षया श्रेष्ठ इत्यर्थः । Tattvabodhini ------------- **सप्तमीपञ्चम्यौ कारकमध्ये** - सप्तमीपञ्चम्यौ ।कालाध्वनो रत्यन्तसंयोगे ॑ इत्यतः कावाध्वनोरित्यनुवर्तते, तच्च पञ्चम्या विपरिणम्यते, तदाह -यौ कावाध्वानौ ताभ्यामिति । इह कालाध्वभ्यां विभक्त्योर्यथासंख्यं न भवत्यस्वरितत्वात् । अद्य भुक्त्वाऽयमिति । नन्वत्र कर्ता एक एव, तत्कथं कारकयोर्मध्ये कालः । सत्यम् । नात्र शक्त्याश्रयं द्रव्यं कारकमिति व्यवह्यियते, किंतु शक्तिरेव । सा च कालबेदाद्भिद्यत एव । एका हि अद्य भुजेः साधनम्, अपरा व्द्यहेऽतीते भुजेः । तदेतव्द्याचष्टे — — कर्तृशक्त्योर्मध्येऽयं काल इति । (५६४) यस्मादधिकं यस्य चेआरवचनं तत्र सप्तमी ।२.३.९ ।यस्मादधिकम् । उप परार्ध इति ।उपोऽधिके चे॑ त्यनेनउपे॑त्यस्य कर्मप्रवचनीयसंज्ञा ।यस्य चेआरवचन॑मित्यस्य तन्त्रादिना अर्थद्वयं विवक्षितम् । तथा हि यस्येत्यनेन स्वं निर्दिश्यते, यस्य स्वस्य संबन्धी ईआर उच्यते ततः सप्तमीति व्याख्याने स्वावा चकात्सप्तमीत्येकोऽर्थः ।ईआर॑ शब्दो भावप्रधानः । यन्निष्ठमीआरत्वमुच्यते ततः सप्तमीति व्याख्याने स्वाभिवाचकात्सप्तमीत्यपरः । एवं स्थिते फलितमाह — स्वस्वामिभ्यां पर्यायेणोति । अन्यतरस्मादुत्पन्नयैव सप्तम्या इतरनिष्ठसंबन्थस्याप्युक्तत्याद्युगपदुभाभ्यां न सप्तम स्यादिति भावः । रामाधीनेति । विभक्त्यर्थेऽव्ययभावे त्वधिरामम् । Padamanjari ----------- सप्तमीपञ्चम्यौ कारकमध्ये॥ कारकमध्य इति। मध्यस्यावधिद्वयापेक्षत्वाद् द्विवचनान्तेन समासः, कालाध्वनोश्चैतद्विशेषणमित्याह - कारकयोर्मध्ये यौ कालाध्वानाविति। अद्य भुक्त्वेत्यादि। ननुं चात्र देवदत एकः कर्ताः तत्कथं कारकयोर्मध्ये काल इत्याह - कर्तृशकत्योरिति। स्यादेवं यदि द्रव्यं कारकं स्यात्, शक्तिस्तु कारकम्, सेह भिद्यते - एका अद्य भुजेः साधनम्, अपरा द्व्यहभुजेः, तेनानयोर्मध्ये काल इत्यर्थः। कर्तृकर्मणोरिति। इषूनस्यतीष्वासः पुरुषः स कर्ता, इष्वसने व्यधने स्थाने वा कर्म लक्ष्यम्। अर्मापादानयोरिति। कर्म तदेव सामर्थ्याद् गम्यमानं धनुरपादानं यतः शरा अपयन्ति। कर्माधिकरणयोर्वेति। कर्म तदेवाधिकरणमिहेति निर्द्दिष्टः प्रदेशः। इह कालाध्वानौ द्वौ, सप्तमीपञ्चम्यावपि द्वे, ततश्च संख्यातानुदेशः प्राप्नोति - कालात्सप्तमी, अध्वनः प्रञ्चमीति, अत आह - संख्यातानुदेश इत्यादि। अस्वरितत्वादिति। स्वरितेन लिङ्केन यथासंख्यमित्येतत् तत्रैव प्रतिपादितम्॥ Nyaas ----- `अद्य भुक्त्वा देवदत्तो द्व्यहे भोक्ता, द्व्यहाद्भोक्ता` इति। ननु चात्र एक एव कर्ता, कारकभेदे सति तन्निबन्धनो मध्यव्ययपदेशो भवति, तत् कथमसति कारकभेदे कारकयोर्मध्ये कालो भवतीत्यत आह - `कर्त्तृशक्त्योः`इत्यादि। न हि द्रव्यं कारकम्, किं तर्हि? शक्तिः, सा चेह भिद्यते। तथा हि - देवदत्ते द्वे शक्ती व्यवस्थिते; एकाद्य भुजेः साधनम्, अपरा द्व्यहेऽतीतीति कर्त्तृशक्तिभेदे सति युक्तो मध्यव्यपदेशः। `कर्त्तृकर्मणोः` इत्यादि। इष्वासः कर्ता, लक्ष्यं कर्म। `कर्मापादानयोः` इति। कर्म तदेव। अपादानं यतः परो निर्याति। `कर्माधिकरणयोर्वा` इति। इहेत्यनेन यन्निर्दिश्यतेतदधिकरम्। कर्म च तदेव। `तयोर्मध्ये क्रोशः` इति। क्रोशस्येहापादानाधिकरमत्वाभावात् सप्तमीपञ्चम्यौ न भवतिः। न हि क्रोशाच्छरोऽपैति, किं तर्हि? तदेकदेशात्। नापि क्रोशे व्यवस्थितं लक्ष्यम्, किं तर्हि? तदेकदेश एव। तस्मात् क्रोशस्य शेषत्वात् षष्ठआं प्राप्तायां सप्तमीपञ्चम्यौ विधीयेते। अथात्र संख्यातानुदेशः कस्मान्न भवति? यावता कालाध्वनौ हि द्वौ, सप्तमीपञ्चम्यावपि द्व, अत एव सामात् संख्यातनुदेशेन भवितव्यम्- कालात् सप्तमी, अध्वनः पञ्चमीत्यत आह - `संख्यातानुदेशः` इत्यादि। **स्वरितेनाधिकारः** (1.3.11) इत्यत्र स्वरितेनेति योगविभागः कृतः, तत पूर्वेणापि सम्बध्यते। यत्र स्वरितत्वं प्रतिज्ञायते तत्र यथासंख्यं यथा स्यात्। इह तु स्वरितत्वं नास्ति, अतो न भवति संख्यातानुदेशः॥ Prakriyasarvasvam ----------------- कारकद्वयमध्यस्थयोः कालाध्वनोरेते स्तः । अद्य भुक्त्वायम् द्व्यहे द्व्यहाद् वा भोक्ता । इह स्थितो धानुष्कः क्रोशे लक्षं विध्यति, क्रोशाद् वा । अत्र पूर्वदिनभोक्तुरुर्ध्वदिनभोक्तुश्च भेदे कल्पिते कर्त्रोर्मध्ये कालः । तथा वेधितृवेध्ययो- र्मध्येऽध्वा ॥ Sutra Prayogas -------------- * **मासे** (भट्टिकाव्यम्): `सप्तमीपञ्चम्यौ कारकमध्ये` इति सप्तमी।