23004: अन्तराऽन्तरेण युक्ते =========================== **Padacheda:** अन्तरा-अन्तरेण | S | 0 | 0 | युक्ते | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A word joined with (or governed by) the word अन्तरा or अन्तरेण takes the second case-affix. Vasu English Translation ------------------------ A word joined with (or governed by) the word अन्तरा or अन्तरेण takes the second case-affix. The *anuvritti* of *dvitiya* is understand here and not that of *tritiya*. Both these words *antara* and *antarena* are *Nipatas*. They govern the accusative. This debars the genitive case. The word *antara* means 'between' while *antarena* means 'besides that,' 'without,' 'exception,' 'with reference to' 'regarding.' As, अन्तरेण पुरुषकारं न किंचिल्लभ्यते nothing can be gained without exertion. अन्तरा or अन्तरेण त्वां च मां च कमंडलुः 'the bowl is between thee and me.' कोऽन्यस्त्वां मां तरेण शक्तः प्रतिकर्तुम् 'who else but thee is able to retaliate.' Why do we say 'when joined with ?' Observe अन्तरा तक्षशिलां च पाटलिपुत्रं स्रुघ्नस्य प्राकारः. Bhashya ------- अन्तरान्तरेण युक्ते 462 (296 द्वितीयासूत्रम् ॥ 2.3.1 आ.4 ॥) (अन्तरेणेतिशब्दार्थनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) इह कस्मान्न भवति - किं ते बाभ्रवशालङ्कायनानामन्तरेम गतेनेति? ॥ (समाधानभाष्यम्) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति। अथ वा यद्यपि तावदयमन्तरेणशब्दो दृष्टापचारो निपातश्चानिपातश्च। अयं तु खल्वन्तराशब्दोऽदृष्टापचारः निपात एव। तस्यास्य कोन्यः सहायो द्वितीयो भवितुमर्हति - अन्यदतो निपातात्। तद्यथा - अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते, नाश्वो न गर्दभः ॥ (1472 वार्तिकम् ॥ 1 ॥) - अन्तरान्तरेणयुक्तानामप्रधानवचनम् - (भाष्यम्) अन्तरान्तरेणयुक्तानामप्रधानग्रहणं कर्त्तव्यम्। अप्रधाने द्वितीया भवतीति वक्तव्यम्। अन्तरा त्वां मां च कमण्डलुरिति कमण्डलोर्द्वितीया मा भूदिति ॥ (आक्षेपभाष्यम्) कः पुनरेताभ्यां कमण्कण्डलोर्योगः?। (समाधानभाष्यम्) यत्तत्त्वां च मां चान्तरा तत्कमण्डलोः स्थानम्। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। कमण्डलोर्द्वितीया कस्मान्न भवति?। उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति ॥ अन्तरान्तरे ॥ 4 ॥ Kashika ------- द्वितीया स्वर्यते,न तृतीया। अन्तरान्तरेणशब्दौ निपातौ साहचर्याद् गृह्येते। आभ्यां योगे द्वितीया विभक्तिर्भवति। षष्ठ्यपवादोऽयं योगः। तत्रान्तराशब्दो मध्यमाधेयप्रधानमाचष्टे। अन्तरेणशब्दस्तु तच्च विनार्थं च। अन्तरा त्वां च मां च कमण्डलुः। अन्तरेण त्वां च मां च कमण्डलुः। अन्तरेण पुरुषकारं न किंचिल्लभ्यते। युक्तग्रहणं किम्? अन्तरा तक्षशिलां च पाटलिपुत्रं च स्रुघ्नस्य प्राकारः॥ Siddhanta Kaumudi ----------------- आभ्यां योगे द्वितीया । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ॥ Balamanorama ------------ **अन्तराऽन्तरेणयुक्ते** - अन्तरान्तरेणयुक्ते । 'अन्तरा' इत्याकारान्तमव्ययं, नतु टाबन्तम् । अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तमिति भाष्ये स्थितम् । अन्तरा त्वां मां हरिरिति । तव च मम च मध्ये हरिरित्यर्थः । 'अन्तरा मध्ये' इत्यमरः । अन्तरेण हरिमिति । हरेर्वर्जने सुखं नास्तीत्यर्थः ।पृथिग्विनान्तरेणर्ते हिरुङ्नाना वर्जने इत्यमरः ।किमनयोरन्तरेण गतेने॑त्यत्र तु अन्तरशब्दो विशेषवाची । अनयोर्विशेषेण ज्ञातेनेत्यर्थः । अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाऽभावान्न तद्योगे द्वितीया । नचैवं सतिहलोऽनन्तराः संयोगः॑ इत्यत्र द्वयोश्चैवान्तरा कश्चि॑दिति भाष्यप्रयोगः कथमिति शङ्क्यम्, मध्यत्वनिमित्तमवधित्वं हि ययोर्निर्णीतं तत्र द्वितीया । ययोस्तु न तन्निर्णयस्तत्र संबन्धसामान्ये षष्ठएव भवति युक्तग्रहणादिति कैयटः । Tattvabodhini ------------- **अन्तराऽन्तरेणयुक्ते** - अन्तरान्तरेण । प्रतिपदोक्तत्वान्निपातयोरेव ग्रहणं न तु टाबन्ततृतीयान्तयोः, परस्परसाहचर्याच्च । तद्यथा गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्न त्वाचर्यपरशुरामयोः । तेन किमनयोरन्तरेणावगतेनेति सिद्धम् । किमनयोर्विशेषण ज्ञातेनेत्यर्थः । अन्तरा त्वां मामिति । तव मम च मध्ये इत्यर्थः । हरिशब्दात्तु द्वितीया न भवति, अन्तरङ्गतया प्रथमाया एवोत्पत्तेः । अन्तरेण हरिमिति । हरिं विनेत्यर्थः ।मध्ये॑इत्यर्थेऽप्यन्तरेणशब्दो वर्तते,मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोद्र्वयं सः॑ इति । चलच्चामरयोद्र्वयं यस्य मध्ये इत्यर्थः । युक्ताग्रहणान्नेह, — ॒अन्तरा त्वां मां कृष्णस्य मूर्तिः॑ । इह कृष्णान्न द्वितीया, अन्तराशब्दप्रयोगेऽपि अन्तरेत्यनेनाऽनन्वयात् । Padamanjari ----------- अन्तरान्तरेण युक्ते॥ अन्तरान्तरेणशब्दावित्यादि। ननु यथा नौर्नावि बद्धा नेतरेतरत्राणाय भवति ताद्दगेतत्, द्वयोरपि निपातत्वव्यभिचारात्, सत्यम्; साहचर्यात्साजात्यं लक्ष्यते, सजातीयविजातीयभावे सजातीयप्रत्ययो भवति, तद्यथा - गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्भवति, न त्वाचार्यपरशुरामयोः। यद्वा अन्तराशब्देनातृतीयान्तेन साहचर्यादन्तरेणेत्यस्याप्यतृतीयान्तस्य ग्रहणम्, स च निपात एव। तथान्तरेण शब्देनाटाबन्तेन साहचर्यादन्तराशब्दस्याप्यटाबन्तस्यैव ग्रहणम्, स च निपात एव। षष्ठएयपवादो योग इति। असत्यस्मिन्योगे शेषत्वात् षष्ठी प्राप्नोति। सति त्वस्मिन्नुपयुक्तत्वात् षष्ठी न भवतीत्यपवादत्वमेतत्। मध्यमाधेयेति। आधेयपरतन्त्रमित्यर्थः। सपब्तम्यन्तस्य मध्यशब्दस्यार्थे वर्तत इति यावत्। अन्तरा त्वां च मां च कमण्डलुरिति। तव च मम च मध्ये कमण्डलुरित्यर्थः। अत्र यथा मध्यस्यावध्यपेभायामवधिभूताभ्यां युष्मदस्मद्भ्यां योगः, तथाऽऽधारस्याधेयपरतन्त्रत्वादाधेयेन कमण्डलुनापि योगततोऽपि द्वितीया प्राप्नोति, नैष दोषः, कमण्डलुरित्यत्र तिष्ठत्यस्तीति वा क्रियापदानुषङ्गात्कमण्डलुः कर्ता, स च तिङभिहित इति प्रथमैव भविष्यति, कारकविभक्तित्वात्। तदेतत्'सहयुक्ते' प्रधानेऽ इत्यत्रोपपादयिष्यामः। निपातयोर्ग्रहणादिह न भवति, किं तेन तयोरन्तरेण ज्ञातेन! विशेषवचनोऽयम् - अन्तरायां पुरि वसतीति स्रुघ्नस्य प्राकार इति, नात्र स्रुघ्नस्यान्तराशब्दार्थेन योगः, किं तर्हि? प्राकारेण॥ Nyaas ----- `अन्तरान्तरेणशब्दौ निपातौ साहचर्याद्गृह्रेते` इति। अयमन्तराशब्दो यद्यपि स्त्रीप्रत्ययान्तोऽस्ति, तथाऽस्त्रीप्रत्ययान्तोऽपि;अन्तरेणशब्दस्त्वस्त्रीप्रत्ययान्तो गृह्रते। यश्चास्त्रीप्रत्ययान्तोऽन्तराशब्दः स निपात एवेत्यन्तराशब्दस्य तावन्निपातस्य ग्रहणम्। अतस्तेन निपातेन साहचर्यादन्तरेणशब्दस्यापि तस्यैव ग्रहणम्। तेनानिपातो यस्तृतीयान्तोऽन्तरेणशब्दः, यश्च टाबन्तोऽन्तराशब्दस्ताभ्यां योगे द्वितीया न भवति। किं ते बाभ्रावाणां शालङ्कायमानाञ्चान्तरेण गतेन? ग्रामयोरन्तरायां पुरि वसतीत्यन्तरशब्दोऽत्र विशेषवचनः। गमिरपि ज्ञानवचनः। किं ते विशेषण ज्ञानेनेत्यर्थः। `षष्ठपवादोऽयं योगः` इति।र शेषलक्षणायां षषठआं प्राप्तायामस्यारम्भात्। षष्ठआपवादत्वमस्य योगस्यान्तरान्तरेणशब्दार्थप्रदर्शनद्वारेण विस्पष्टीकर्त्तुमाह - `तत्र` इत्यादि। मध्यं हि सम्बन्धिशब्दत्वादमध्यभूतं द्वितीयं सम्बन्धिनमपेक्ष्य भवति। तत्र यदपेक्षं मध्यत्वं ततो मध्येन व्यतिरेके समुपजनिते षष्ठी प्राप्नोति। विनार्थोऽपि शेष एव। अत्रापि षष्ठएव प्राप्नोति। `अन्तरा त्वाञ्च माञ्च कमण्डलुः` इति। तव मम मध्ये कमण्डलुरित्यर्थः। अथ कमण्डलुशब्दाद्द्वितीता कस्मान्न भवति? सत्यप्यन्तरान्तरेणयोगे तस्य प्राधान्यात्। तथा हि - कमण्डलोः स्वार्था प्रवृत्तिः , युष्मदस्मदोस्तु परार्था; कमण्डलुविशेषणत्वेन तयोः प्रवृत्तत्वात्। तत्र कमण्डलोः स्वार्थे वर्तमानात् प्राधान्येनावस्थित्वात् प्रातिपदिकार्थादप्रच्युतत्वात् परत्वात् प्रथमैव भवति। द्वितीयायास्त्वप्रधाने युष्मदस्मच्छब्देऽवकाश इति ताभ्यां तेनेव प्रथमान्तेन कमण्डलुनोपजनिते व्यतिरेके षष्ठआं प्राप्तायां द्वितीया विधीयते। `अन्तरेण पुरुषकारम्` इति। विना पुरुषकारेणेत्यर्थः। `अन्तरा तक्षशिलां पाटलिपुत्रञ्च रुआउघ्नस्य प्राकारः` इति। अत्र रुआउघ्नः प्राकारविशेषणत्वेनोपक्षीणसामर्थ्य इति न भवति त्सयान्तराशब्देन योगः॥ Praudhamanorama --------------- **अन्तरा त्वां मामिति।** तव मम च मध्ये इत्यर्थः। Prakriyasarvasvam ----------------- आभ्यां योगे द्वितीया स्यात् । द्वावपि मध्ये इत्यर्थे विनार्थे च स्वरादिसूत्र उक्तौ । अन्तरा वान्तरेणासौ क्षमां रमां च स्थितो हरिः । नान्तरा माधवं मुक्तिर्नान्तरेण हरिं सुखम् ॥ ५२६ ॥ येन तेनेति योगेऽपि द्वितीयामाह भोजराट् । गिरिं तेन हरेः क्रीडा नदीं येन कदाचन ॥ तच्चिह्ने देश इत्यर्थौ लक्षणार्थेऽव्यये इमे ॥ ५२७ ॥ Sutra Prayogas -------------- * **गगनार्णवम्** (शिशुपालवधम्): `अन्तरान्तरेणयुक्ते` इति द्वितीया। * **वैदेहीमन्तरा** (भट्टिकाव्यम्): `अन्तरा ऽन्तरेण युक्ते` इति षष्ठ्यपवादाद् द्वितीया।