22037: वाहिताग्न्यादिषु ======================= **Padacheda:** वा | S | 0 | 0 | आहिताग्नि-आदिषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- In the compounds अहिताग्नि and the like, the निष्ठा-formed word may optionally be placed first. Vasu English Translation ------------------------ In the compounds अहिताग्नि and the like, the निष्ठा-formed word may optionally be placed first. Thus अग्न्याहितः or आहिताग्निः 'one who has consecrated fire.' 1. आहिताग्नि. 2.जातपुत्र. 3. जातदन्त. 4. जातश्मश्रु. 5. तैलपीत. 6.घृतपीत. 7. मद्यपीत. 8.ऊढभार्य. 9. गवार्थ . आकृतिगणोऽयम् . 1. गडुकण्ठ. 2. अस्युद्यत् . 3. (अरमुद्यत). 4.दण्डपाणिप्रभृतयोऽपि. This आहिताग्नि class is *akritigana*; so that words like a &c., must be looked for in this class. Kashika ------- निष्ठेति पूर्वनिपाते प्राप्ते विकल्प उच्यते। आहिताग्न्यादिषु निष्ठान्तं पूर्वं वा प्रयोक्तव्यम्। अग्न्याहितः। आहिताग्निः। जातपुत्रः। पुत्रजातः। जातदन्तः। जातश्मश्रुः। तैलपीतः। घृतपीतः। ऊढभार्यः। गतार्थः। आकृतिगणश्चायम्। तेन गडुकण्ठप्रभृतय इहैव द्रष्टव्याः॥ Siddhanta Kaumudi ----------------- आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् । (वार्तिकम्) ॥ अम्युद्यतः । दण्डपाणिः । क्वचिन्न । विवृतासिः ॥ Balamanorama ------------ **वाऽऽहिताग्न्यादिषु** - वाऽऽहिताग्न्यादिषु ।निष्ठायाः पूर्वं प्रयोग॑ इति शेषः । आहिताग्निरिति । आहिताः=आधानेन संस्कृता अग्नयो येनेति विप्रहः । प्रहरणार्थेभ्य इति । आयुधार्थेभ्य इत्यर्थः । निष्ठायामुदाहरति - अस्युद्यत इति । असिः उद्यतो येनेति विग्रहः । सप्तम्या उदाहरति — दण्डपाणिरिति । दण्डः पाणौ यस्येति विग्रहः ।निष्ठे॑त्यस्य 'सप्तमीविशेषणे' इत्यस्य चा.डयमपवादः । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । विवृतासिरिति । विवृतः=कोशान्निष्कासितोऽसिर्येनेति विग्रहः । एवंजातीयान्याहिताग्न्यादित्वकल्पनया समाधेयानीत्याहुः । *****इति बालमनोरमायां बहुव्रीहिसमासः*****अथ भावकर्मप्रक्रिया ।अथ भावकर्मतिङ्प्रकरणं निरूप्यते ।लः कर्मणी॑त्यत्र सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च, अकर्मकेभ्यस्तु भावे कर्तरि च लकारा विहिताः । तेषु कर्तरि लकारा निरूपिताः । अथेदानीं भावकर्मणोर्लकारा निरूप्यन्ते इति प्रतिजानीते — अथेति । 'निरूप्यन्ते' इति शेषः । तत्रशेषात्कर्तरि परस्मैपदम्,॒अनुपराभ्यां कृञः॑ इत्यादिपरस्मैपदविधिषु प्राप्तेष्वाह — भावकर्मणोरिति तङिति । Prakriyasarvasvam ----------------- एषु निष्ठाया वा पूर्वता स्यात् । 'आहिताग्निजातपुत्रजातदन्तजातश्मश्रु- पीतघृतपीततैलपीतमद्यपीतविषोढभार्यगतार्थच्छिन्नशीर्षादिषु वा' (स० ३-३- १००) । वेत्युक्तः अग्न्याहितः । पुत्रजातः । इत्यादि । आयुक्तेः दधिपीतः । पीतदधिकः इत्यादि । पुत्रहतः पुत्रजग्धश्च राजदन्तादिष्विति माधवः । हतजग्धपरस्य पुत्रस्य क्षेपे 'अनचि च' (८–४–४७) इति द्वित्वं वा वाच्यम् । तेन द्वित्वं विनापि । अक्षेपे तु द्वित्वमेव इति ॥ Sutra Prayogas -------------- * **देहबद्धम्** (रघुवंशम्): `वाहिताग्न्यादिषु` इति वाहिताग्न्यादित्वात् साधुः। * **देहबद्धम्** (कुमारसम्भवम्): `वाहिताग्न्यादिषु` इति आहिताग्न्यादित्वान्निष्ठायाः परनिपातः। * **शरीरबद्धः** (कुमारसम्भवम्): `वाहिताग्न्यादिषु` इति पाठात् साधुः। * **लोहितचन्दनोचितः** (किरातार्जुनीयम्): `वाहिताग्न्यादिषु` इति निष्ठान्तस्य परनिपातः। * **धैर्यकलिता** (शिशुपालवधम्): `वाहिताग्न्यादिषु` इति निष्ठायाः परनिपातः। * **मद्य-पीत** (भट्टिकाव्यम्): `वाहिता - स्यादिषु` इति निष्ठान्तस्य परनिपातः।