22034: अल्पाच्तरम् ================== **Padacheda:** अल्प-अच्-तरम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In a द्वन्द्व compound, that word-form which has fewer vowels, is to be placed first. Vasu English Translation ------------------------ In a द्वन्द्व compound, that word-form which has fewer vowels, is to be placed first. Thus प्लक्ष +न्यग्रीध = प्लक्षन्यग्रोधौ ; and धबखदिरपलाशाः ॥ When there are many words, there is no fixed rule. As शंखदुन्दुभिवीणाः or वीणाशंखदुन्दुभयः. Bhashya ------- अल्पाच्तरम् (454) (289 पूर्वनिपातनियमसूत्रम् ॥ 2 ।2।2 आ. 8 सू.) (तरबर्थविचाराधिकरणम्) (आक्षेपभाष्यम्) किमयं तन्त्रं तरनिर्देशः, आहोस्विदतन्त्रम्? ॥ (प्रत्याक्षेपभाष्यम्) किं चातः? ॥ (प्रथमपक्षे दूषणभाष्यम्) यदि तन्त्रम् द्वयोर्नियमः बहुष्वनियमः ॥ तत्र को दोषः?। शङ्खदुन्दुभिवीणानामिति न सिध्यति। दुन्दुभिशब्दस्यापि पूर्वनिपातः प्राप्नोति ॥ (द्वितीयपक्षे दूषणभाष्यम्) अथातन्त्रम्, मृदङ्गशङ्खतूणवाः पृथङ् नदन्ति संसदि प्रासादे धनपतिरामकेशवानाम् इत्येतन्न सिध्यति ॥ (प्रथमपक्षाङ्गीकारभाष्यम्) यथेच्छसि तथाऽस्तु। अस्तु तावत्तन्त्रम् ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - द्वयोर्नियमो बहुष्वनियमः इति। तत्र शङ्खदुन्दुभिवीणानामिति न सिध्यति। दुन्दुभिशब्दस्यापि पूर्वनिपातः प्राप्नोति - इति ॥ (समाधानभाष्यम्) नैष दोषः। यदेतद् अल्पाच्तरम् इति, तद् अल्पाज् इति वक्ष्यामीति ॥ (द्वितीयपक्षाभ्युपगमभाष्यम्) अथ वा पुनरस्त्वतन्त्रम् ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - मृदङ्गशङ्खतूणवाः पृथङ् नदन्ति संसदि प्रासादे धनपतिरामकेशवानाम् इत्येतन्न सिध्यति - इति ॥ (1439 समाधानवार्तिकम् ॥ 1 ॥) ॥ अतन्त्रे तरनिर्देशे शङ्खतूणवयोर्मृदङ्गेन समासः ॥ (भाष्यम्) अतन्त्रे तरनिर्देशे शङ्खतूणवयोर्मृदङ्गेन सह समासः करिष्यते। शङ्खश्च तूणवश्च शङ्खतूणवौ। शङ्खतूणवौ च मृदङ्गश्च मृदङ्गशङ्खतूणवाः। रामश्च केशवश्च रामकेशवौ। रामकेशवौ च धनपतिश्च धनपतिरामकेशवाः धनपतिरामकेशवानामिति ॥ (बहुनां प्राप्तौ नियमाधिकरणम्) (आक्षेपभाष्यम्) अथ यत्र बहूनां पूर्वनिपातप्रसङ्गः किं तत्रैकस्य नियमो भवति। आहोस्विदविशेषेण ॥ (1440 समाधानवार्तिकम् ॥ 2 ॥) ॥ अनेकप्राप्तावेकस्य नियमोऽनियमः शेषेषु ॥ (भाष्यम्) अनेकस्य प्राप्तावेकस्य नियमो भवति, शेषेष्वनियमः। पटुमृदुशुक्लाः। पटुशुक्लमृदव इति ॥ (न्यूनतापूर्त्यधिकरणम्) (1441 पूर्वनिपातवार्तिकम् ॥ 3 ॥ ॥ ऋतुनक्षत्राणामानुपूर्व्येण समानाक्षराणाम् ॥ (भाष्यम्) ऋतुनक्षत्राणामानुपूर्व्यण समानाक्षराणां पूर्वनिपातो वक्तव्यः। शिशिरवसन्तावुदगयनस्थौ। कृत्तिकारोहिण्यः ॥ (1442 पूर्वनिपातवार्तिकम् ॥ 4 ॥) ॥ अभ्यर्हितम् ॥ (भाष्यम्) अभ्यर्हितं च पूर्वं निपततीति वक्तव्यम्। मातापितरौ। श्रद्धामेधे ॥ (1443 पूर्वनिपातवार्तिकम् ॥ 5 ॥) ॥ लघ्वक्षरम् ॥ (भाष्यम्) लघ्वक्षरं पूर्वं निपततीति वक्तव्यम्। कुशकाशम्। शरचापम् ॥ (आचार्यान्तरमतप्रदर्शकभाष्यम्) अपर आह - सर्वत एवाभ्यर्हितं पूर्वं निपततीति वक्तव्यम्। लघ्वक्षरादपीति ॥ दीक्षातपसी श्रद्धातपसी ॥ (1444 पूर्वनिपातवार्तिकम् ॥ 6 ॥) ॥ वर्णानामानुपूर्व्येण ॥ (भाष्यम्) वर्णानामानुपूर्व्यण पूर्वनिपातो भवतीति वक्तव्यम्। ब्राह्मणक्षत्रियविट्शूद्राः ॥ (1445 पूर्वनिपातवार्तिकम् ॥ 7 ॥) ॥ भ्रातुश्च ज्यायसः ॥ (भाष्यम्) भ्रातुश्च ज्यायसः पूर्वनिपातो भवतीति वक्तव्यम्। युधिष्ठिरार्जुनौ ॥ (1446 पूर्वनिपातवार्तिकम् ॥ 8 ॥) ॥ संख्याया अल्पीयसः ॥ (भाष्यम्) संख्याया अल्पीयसः पूर्वनिपातो भवतीति वक्तव्यम्। एकादश द्वादश ॥ (1447 पूर्वनिपातवार्तिकम् ॥ 9 ॥) ॥ धर्मादिषूभयम् ॥ (भाष्यम्) धर्मादिषूभयं पूर्वं निपततीति वक्तव्यम्। धर्मार्थौ अर्थधर्मौ। कामार्थौ अर्थकामौ। गुणवृद्धी वृद्धिगुणौ। आद्यन्तौ अन्तादी ॥ अल्पाच्तरम् ॥ 34 ॥ Kashika ------- द्वन्द्व इति वर्तते। अल्पाच्तरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। प्लक्षश्च न्यग्रोधश्च, प्लक्षन्यग्रोधौ। धवखदिरपलाशाः। बहुष्वनियमः — शङ्खदुन्दुभिवीणाः, वीणा — शङ्खदुन्दुभयः॥ ऋतुनक्षत्राणामानुपूर्व्येण समानाक्षराणां पूर्वनिपातो वक्तव्यः॥ हेमन्तशिशिरवसन्ताः। चित्रास्वाती। कृत्तिकारोहिण्यौ। समानाक्षराणामिति किम्? ग्रीष्मवसन्तौ॥ लघ्वक्षरं पूर्वं निपततीति वक्तव्यम्॥ कुशकाशम्। शरशादम्॥ अभ्यर्हितं च पूर्वं निपततीति वक्तव्यम्॥ मातापितरौ। श्रद्धामेधे। दीक्षातपसी॥ वर्णानामानुपूर्व्येण पूर्वनिपातः॥ ब्राह्मणक्षत्रियविट्शूद्राः। समानाक्षराणामित्यत्र नास्ति॥ भ्रातुश्च ज्यायसः पूर्वनिपातो वक्तव्यः॥ युधिष्ठिरार्जुनौ॥ संख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः॥ द्वित्राः। त्रिचतुराः। नवतिशतम्॥ Siddhanta Kaumudi ----------------- शिवकेशवौ । (वार्तिकम्) ॥ हेमन्ताशिशिरवसन्ताः । कृत्तिकारोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ । (वार्तिकम्) ॥ कुशकाशम् । (वार्तिकम्) ॥ तापसपर्वतौ । (वार्तिकम्) ॥ ब्राह्मणक्षत्रियविट्शूद्राः । (वार्तिकम्) ॥ युधिष्ठिरार्जुनौ ॥ Laghu Siddhanta Kaumudi ----------------------- शिवकेशवौ॥ Balamanorama ------------ **अल्पाच्तरम्** - अल्पाच्तरम् । अल्पः=अल्पसङ्ख्योऽच्यस्य तदल्पाच्, तदेवाऽल्पाच्तरम् । अत एव निपातनात्स्वार्थे तरप्, कुत्लाऽभावश्च । अल्पसङ्ख्याऽच्कं पदं द्वन्द्वे पूर्वं प्रयोज्यमित्यर्थः । शिवकेशवाविति । हरिहरयोरन्यतरोत्कर्षवादस्य पाषण्जवादत्वादिति भावः । यदि तु 'द्विवचनविभज्य' इत्यादिशयार्थे तरप्स्यात्, तदा 'धवखदिरपलाशा' इत्यत्र बहुषु न स्यादिति प्राञ्चः । शब्देन्दुशेखरे तु प्रकर्षार्थक एवायं तरबिति स्थितम् । ऋतुनक्षत्राणामिति ष समानसङ्ख्याऽच्कानाम् ऋतूनां नक्षत्राणां च द्वन्द्वे आनुपूर्व्येण=क्रमेण पूर्वनिपातो वक्तव्य इत्यर्थः । हेमन्तशिशिरबसन्ता इति । त्रयाणामृतूनामानुपूर्व्यं लोकप्रसिद्धम् । एवं कृत्तिकादिनक्षत्राणामपि । ग्रीष्मवसन्ताविति । विषमाक्षरत्वान्न वसन्तस्य पूर्वनिपातः, किंतु अल्पाच्त्वाद्ग्रीष्मस्य पूर्वनिपातः । लघ्वक्षरं पूर्वं । लघु अक्षरमच् यस्य तद्द्वन्द्वे पूर्वं प्रयोज्यमिति वक्तव्यमित्यर्थः । कुशकाशमिति । समाहारद्वन्द्वोऽयम् । अभ्यर्हितं चेति । श्रेष्ठः पूर्वं प्रयोज्य इति वक्तव्यमित्यर्थः । तापसपर्वताविति । पर्वतस्य स्थावरजन्मतया तापसस्य तदपेक्षया अभ्यर्हितत्वं बोध्यम् । भाष्ये तु मातापितरावित्युदाहृतम् ।गर्भधारणपोषाभ्यां पितुर्माता गरीयसी॑त्यादिस्मृतेरिति तदाशयः ।वर्णानामानुपूर्व्येणेति । एषां क्रमेण पूर्वनिपातः ।ब्राहृक्षत्रियविट्छूद्वा वर्णाः॑ इत्यमरः । तेषामानुपूर्व्यं तुप्रजापतिरकामयत प्रजायेयेति, स मुखतस्त्रिवृत्तं निरमिभीते॑त्यादितैत्तिरीयब्राआहृणादिसिद्धम् । भ्रातुज्र्यायस इति । ज्येष्ठभ्रातुः पूर्वनिपात इत्यर्थः ।अत्र 'द्वन्द्वे घि'अजाद्यदन्त॑मिति विधिद्वयम् 'अल्पाच्तरं'लघ्वक्षरं पूर्वम्,ऋतुनक्षत्राणाम्, 'अभ्यर्हितं च' 'भ्रातुज्र्यायसः' इति विधिभिः परत्वाद्बाध्यते । भाष्ये तुसर्वत एवाभ्यर्हितं पूर्वं निपतती॑ति मतान्तरं स्थितम् । Tattvabodhini ------------- **अल्पाच्तरम्** - अल्पाच्तरम् । अतएव निपातनात्स्वार्थे तरप्, कुत्वचुत्वयोरभावश्च । यदि तु प्रकर्षे तरप् स्यात्तदाद्वयेरेव नियमः स्यात्, द्विवचनान्तोपपदत्वविषय एव तरपो विधानात् ।ततश्चधरवदिरपलाशा॑इत्यादौ बहुषु नियमो न स्यात् । ऋतुक्षत्राणामिति । ऋतूनामानुपूर्व्यं प्रादुर्भावकृतं, नक्षत्राणां तूदयकृतम् ।अभ्यर्हितं च । अभ्यर्हितं च ।वासुदेवार्जुनाभ्यां वुनि॑ति निर्देशेनेदं ज्ञाप्यत इति चतुर्थे भाष्यम् ।अल्पाच्तरम्अजाद्यदन्त॑मिति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तमकुर्वन् ज्ञापयतिसर्वतोऽभ्यहितं पूर्व॑मिति तत्रैव सूत्रे वक्ष्यते ।भ्रातुज्र्यायसः । युधिष्ठिरार्जुनाविति । इन्द्रपुत्रत्वाद्विष्णोरंशत्वाच्छूरत्वाद्वाऽभ्यर्हितत्वमर्जुनेऽप्यस्तीति न तेन नियमः सिध्यतीति भावः । Padamanjari ----------- अल्पाच्तरम्॥ अत एव निपानतात्स्वार्थे तरप्, कुत्वाभावश्च। यदि तु प्रकर्षे तरप् चेतदा'धवखदिरपलाशाः' इत्यादौ बहुषु सन्निहितेषु द्विवचनोपपदत्वाभावादस्याप्रवृतावनियमः स्यात्। द्वयोरेव तु स्यात् - प्लक्षन्यग्रोधाविति। शङ्खदुन्दुभिवीणा इति। तूर्याङ्गानामित्येकवद्भावो न भवति; तूर्यशिल्पोपजीविनामेव तत्र ग्रहणात्। नियतद्रव्यविवक्षायां जातिरत्वाभांवात्'जातिरप्राणिनाम्' इत्येतदपि न भवति। शङ्खवीणाभ्यां दुन्दुभेर्द्वन्द्वे दुन्दुभिशङ्खवीणा इत्यपि भवति। एवं मृदङ्गश्च शङ्खपणवौ च मृदङ्गशपणङ्खवाः, धनपतिश्च रामकेशवौ च प्रासादो धनपतिरामकेशवानामित्यादि भवति। तथा होता च पोता च नेष्टा चोद्राता चेति बहूनां युगपद् द्वन्द्वे तृतीयस्योतरपदमनन्तरमिति तस्यैवानङ् भवति, नेतरयोः - होतृपोतृनेष्टोद्रातारः। द्वयोर्द्वयोर्द्वन्द्वे त्रयाणामप्यानङ् भवति - होतापोतानेष्टोद्रातार इति। एवमन्यत्रापि द्वन्द्वक्रियायामानुपूर्व्यविशेषाद्रूपविशेषो वेदतव्यः। पूर्वाभ्यामल्पाच्तरमित्येतत्पूर्वानुसारेण गम्य मानत्वाद् वृतौ न पठितम्।'द्वन्द्वे घि' इत्यस्यावकाशः - पटुअगुप्तौ, ठल्पाच्तरम्ऽ इत्यास्यावकाशः - प्लक्षन्यग्रोधौ; वअगग्नी इत्यत्रोभयप्राप्तौ अल्पाच्तरमित्येतद्भवति। अजाद्यदन्तमित्यस्यावकाशः - उष्ट्रखरम्, अल्पाच्तरमित्यस्य स एव; वागिन्द्रावित्यत्रोभयप्राप्तौ ठल्पाच्तरम्ऽइत्येतद्भवति। ऋतुनक्षत्राणामिति। ऋतूनामानुपूर्व्यं प्रादुर्भावकृतम्, नक्षत्राणामुदयकृतम्। मातापितराविति। ठाचायं!श्रेष्ठो गुरूणाम्, मातेत्येके, इति स्मृतिः।'पितुर्द्दशगुणं माता गौरवेणातिरिच्यते' इति च। श्रद्धामेधे इति। सत्यां श्रद्धायामर्थक्रियाकारिणी मेधेत्यभ्यर्हितत्वं श्रद्धायाः। दीक्षातपसी इति दीक्षार्थं तप इत्यभ्यर्हितत्वं दीक्षायाः। लघ्वक्षरादपि तपसो विप्रतिषेधादभ्यर्हितमित्येतदेव भवति। समानाक्षराणामित्यत्र नास्तीति। तेन ऋतुनक्षत्राणामित्यत्रैव वर्णग्रहणं न कृतमिति भावः। वर्णानामुत्पत्तिकृतमानुपूर्व्यं श्रूयत एव -'मुखतो ब्राह्मणमसृजद्वाहुभ्यां राजन्यमूरुभ्यां वैश्यं पद्भ्यां शूद्रम्' इति। संख्याया अल्पीयस्या इति। द्वन्द्वे चाद्वन्द्वे चेत्याहुः। अल्पीयस इति पाठे अल्पीयसोऽर्थस्य वाचिकाया इत्यर्थः। नवतिशतमिति। द्वन्द्वः,'द्व्येकयोः' इति तु सौत्रो निर्देशः॥ Nyaas ----- `ऋतुनक्षत्राणाम्` इत्यादि। ऋतूनामानुपूर्व्य प्रादुर्भावकृतम्, नक्षत्राणामुदयकृतम्। ऋतुनक्षत्राणामित्यत्रैव वर्णग्रहणं कस्मान्न कृतमिति पर्यनुयोगदोषमाशङ्क्याह - `समानाक्षराणाम्` इत्यादि। असमानाक्षराणामपि वर्णानामानुपूर्व्येण पूर्वनिपात इष्यत इति पृथग्वचनम्। आनुपूर्व्यञ्च वर्णानां जन्मकृतमिति लोकव्यवहारे प्रसिद्धम्। प्रसिद्धिश्च श्रुतिकृता। श्रुतौ हि पठते `मुखते ब्राआहृणमसृजत्, बाहुभ्यां राजनयम्, ऊरुभ्यां वैश्यम्, पद्भ्यां शूद्रम्` इति। `संख्याया अल्पीयस्याः` इति द्वन्द्वे चेति वक्तव्यम्। `द्वित्राः,त्रिचतुराः` इति बहुव्रीहिः। `नवतिशतम्` इति द्वन्द्वः॥ Prakriyasarvasvam ----------------- अल्पाच्कं द्वन्द्वे प्राक् स्यात् । कृष्णशङ्करौ । अत्रापि बहुष्वनियमः । शङ्खदुन्दुभिवीणाः । वीणाशङ्खदुन्दुभयः । 'लघ्वक्षरं पूर्वम्' । हरकृष्णौ । 'अभ्यर्हितं च' । वासुदेवफल्गुनौ । अभ्यर्हितत्वविवक्षायां सर्वविधिबाधेन प्राङ्निपातो ज्ञेयः । न नरनारायणादिषु (स० ३-३-७९) इति भोजः । वर्णानामानुपूर्व्येण । ब्राह्मण- क्षत्रियविट्च्छूद्राः । ऋतुनक्षत्राणां च तुल्याक्षराणाम् । हेमन्तशिशिरौ । कृत्तिकारो- हिण्यौ । अतुल्याक्षराणां न क्रमः । ग्रीष्मवसन्तौ । अन्यत्रापि क्रमवतां क्रमेणैवेष्टम् । फाल्गुनचैत्रौ मासौ । एकादशीद्वादश्यौ । 'भ्रातृषु ज्यायसः ।' युधिष्ठिरार्जुनौ । द्वन्द्वे घीत्याद्यनित्यं स्याद् वनगिर्योर्युवाल्पयोः । आक्रोशदैन्ययोः स्थूलबलयोरिति वर्णनात् ॥ ४०२ ॥ राजदन्तादिषु दम्पती जम्पतीति जायाया दम्भावजम्भावौ निपात्येते । जं दमिति च जायार्थेऽव्ययद्वयमित्यन्ये । तेन जम्भावो जायात्वमित्याद्यपि । इति । अथ समाहारद्वन्द्वः— इतरेतरयोगेऽपि समुदायः प्रकल्प्यते । समाहारोऽप्यसावेवं तद्वेदस्तु हरोदितः ॥ ४०३ ॥ आद्ये तु संहता वाच्यास्तेन द्विवचनादयः । समाहारे तु सङ्घातो वाच्यस्तेनैकतैव हि ॥ ४०४ ॥ एकवद्भूतानां क्लीबत्वनियमात् क्लीबत्वम् । स्त्रीणां पुरुषाणां च समाहारः स्त्रीपुरुषम् ॥ Vartika ------- अनेकप्राप्तावेकस्य नियमोऽनियमः शेषे ।