22028: तेन सहेति तुल्ययोगे ========================== **Padacheda:** तेन | S | 3 | 1 | सह | S | 0 | 0 | इति | S | 0 | 0 | तुल्ययोगे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word सह 'together' is compounded with a word ending with the third case-affix and the compound is बहुव्रीही ; provided that, the companion and the person accompanied are equally effected by any action or thing, in the same manner. Vasu English Translation ------------------------ The word सह 'together' is compounded with a word ending with the third case-affix and the compound is बहुव्रीही ; provided that, the companion and the person accompanied are equally effected by any action or thing, in the same manner. Thus सह पुत्रोणागतः=सपुत्रः ( (6.3.82), सह changed to स ) 'he has come accompanied by his son'. सच्छात्रः 'accompanied by the pupil.' सकर्मकरः 'accompanied by the servant.' Why do we say '*tulya*-*yoga*'? Witness 'the she-ass carries the whole burden, though there exist her ten sons.' How do we get the forms like सकर्मकः, सलोमकः, सपक्षकः &c., in which there is no '*tulya*-*yoga*'? It shows that this condition is of limited operation (तुल्य गोगबचनं प्रायिकं). Bhashya ------- तेन सहेति तुल्ययोगे (447) दिङ्नामान्यन्तराले (446) (284 बहुव्रीहिसंज्ञासूत्रम् ॥ 2.2.2 आ.3) (285 बहुव्रीहिसंज्ञासूत्रम् ॥ 2.2.2 आ.4) (प्रत्याख्यानाधिकरणम्) (1404 प्रत्याख्यानवार्तिकम् ॥ 1 ॥) ॥ दिक्समाससहयोगयोश्चान्तरालप्रधानाभिधानात् ॥ (भाष्यम्) दिक्समाससहयोगयोश्चाशिष्यो बहुव्रीहिः ॥ किं कारणम्?। अन्तरालप्रधानाभिधानात्। दिक्समासे सहयोगे चान्तरालं प्रधानं चाभिधीयते तत्रान्यपदार्थ इत्येव सिद्धम् ॥ (आक्षेपभाष्यम्) यद्येवं दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति ॥ (समाधानभाष्यम्) अद्य पुनरियं सैव दक्षिणा सैव पूर्वेति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धो भवति ॥ (समाधानबाधकभाष्यम्) न सिध्यति। भाषितपुंस्कस्य पुंवद्भावः। न चैतौ भाषितपुंस्कौ ॥ (समाधानसाधकभाष्यम्) ननु च भोः दक्षिणशब्दः पूर्वशब्दश्च पुंसि भाष्येते ॥ (समाधानबाधकभाष्यम्) समानायामाकृतौ यद्भाषितपुंस्कम्। आकृत्यन्तरे चैतौ भाषितपुंस्कौ। दक्षिणा पूर्वेति दिक्शब्दौ। दक्षिणः पूर्व इति व्यवस्थाशब्दौ ॥ (आक्षेपभाष्यम्) यदि पुनर्दिक्शब्दा अपि व्यवस्थाशब्दाः स्युः। कथं यानि दिगुपदिष्टानि कार्याणि? ॥ (समाधानभाष्यम्) यदा दिशो व्यवस्थां वक्ष्यन्ति ॥ (आक्षेपभाष्यम्) यदि हि यो यो दिशि वर्तते स दिक्शब्दः, रमणीयादिष्वतिप्रसङ्गो भवति - रमणीया दिक् शोभना दिगिति ॥ अथ मतमेतत् - दिशि दृष्टो दिग्दृष्टः दिग्दृष्टः शब्दो दिक्शब्दः यो दिशं न व्यभिचरतीति, न रमणीयादिष्वतिप्रसङ्गो भवति, पुंवद्भावस्तु न प्राप्नोति ॥ (समाधानभाष्यम्) एवं तर्हि सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः दक्षिणोत्तरपूर्वाणामित्येवमर्थम् ॥ (प्रत्याख्यानाभ्युपगमभाष्यम्) एवं च कृत्वास्तु - ।दिक्समाससहयोगयोरन्तरालप्रधानाभिधानात्। इत्येव ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोतीति ॥ (समाधानभाष्यम्) नैष दोषः। सर्वनाम्नो वृत्तिमात्रे पुंवद्भावेन परिहृतः ॥ (1405 प्रत्याख्यानबाधकवार्तिकम् ॥ 1 ॥) ॥ मत्वर्थे वा पूर्वस्य विधानात् ॥ (भाष्यम्) अथ वा मत्वर्थे पूर्वो योगः। अमत्वर्थार्थोयमारम्भः ॥ (1406 प्रत्याख्यानबाधकवार्तिकम् ॥ 2 ॥) ॥ कबभावार्थो वा ॥ (भाष्यम्) अथ वा कब् मा भूदिति ॥ दिङ्नामानि ॥ 26 ॥ तेन सहेति ॥ 27 ॥ Kashika ------- सहेत्येतच्छब्दरूपं तुल्ययोगे वर्तमानं तेनेति तृतीयान्तेन सह समस्यते, बहुव्रीहिश्च समासो भवति। सह पुत्रेणागतः, सपुत्रः। सच्छात्रः। सकर्मकरः। तुल्ययोग इति किम्? सहैव दशभिः पुत्रैर्भारं वहति गर्दभी। विद्यमानैरेव दशभिः पुत्रैर्भारं वहतीत्यर्थः। कथं सकर्मकः सलोमकः सपक्षक इति, न ह्यत्र तुल्ययोगो गम्यते? किं तर्हि? विद्यमानता। प्रायिकं तुल्ययोग इति विशेषणम्। अन्यत्रापि समासो दृश्यते॥ Siddhanta Kaumudi ----------------- तुल्ययोगे वर्तमानं सहेत्येतत्तृतीयान्तेन प्राग्वत् ॥ Balamanorama ------------ **तेन सहेति तुल्ययोगे** - तेन सहेति । तुल्ययोगे इति । युगपत्कालिकक्रियायोगे इत्यर्थः । तृतीयान्तेनेति । तेनेत्यनेन तल्लाभादिति भावः । प्राग्वदिति समस्यते स बहुव्रीहिरित्यर्थः । असामानाधिकरण्यार्थं कबभावार्थं चेदम् । Tattvabodhini ------------- **तेन सहेति तुल्ययोगे** - तेन सहेति । तुल्ययोगे किम् ।सहैव दशभिः पुत्रैर्भारं वहति गर्दभी॑ । इह सहशब्दो न तुल्ययोगवचनः, भारकर्मकवहनक्रियायं पुत्राणामननन्वयात् । किं तु विद्यमानवचनः, दशसु पुत्रेषु विद्यमानोष्वित्यर्थः, एतच्च सहशब्दस्य विद्यमानर्थत्वमप्यस्तीति वक्तुमुक्तम् । प्रत्युदाहरणशरीरं तुसह पुत्रै॑रित्येवेति बोध्यम् । तृतीया तुसहयुक्ते॑इत्यनेनैव । Padamanjari ----------- तेन सहेति तुल्ययोगे॥ तुल्ययोग इति। तुल्ययोगःऊसमानसम्बन्धः। सपुत्र इति।'वोपसर्जनस्य' इति सभावः। नन्वत्र पिता प्रधानमन्यपदार्थोऽभिधेयः, सत्यम्; व्यधिकरणयोः प्रथमार्थेऽपि यथा स्यादित्ययमारम्भः, कबभावार्थं च। उक्तश्चात्र कबभावः। दशभिः पुत्रैरिति। इत्थम्भूतेत्यर्थः। प्रायिकमिति। ज्ञापकात्, यदयं'विभाषा साकाङ्क्षे' ,'च्छन्दस्यनेकमपि साकाङ्क्षम्' ,'पूर्वादिनिः' 'सपूर्वाच्च' ,'सपूर्वायाः प्रथमायाः' 'विभाषा सपूर्वस्य' इति विद्यमानार्थेऽपि समासं निर्द्दिशति, तज्ज्ञापयति - प्रायिकं विशेषणमिति॥ Nyaas ----- `तुल्ययोगे वर्तमानम्` इत्यादि। तुल्योगः = समानसम्बन्धः। तं यदा सहशब्दोद्योतयति तदासौ तत्र वर्तते। `सपुत्रः` इति। सह पुत्रेणेति विग्रहः कर्तव्यः। **सहयुक्तेऽप्रधाने** (2.3.19) इति तृतीया। **वोपसर्जनस्य** (6.3.82) इति सहस्य सभावः। अत्र सपुत्र आगतो देवदत्त इति देवदत्तस्य पुत्रस्य चागमनेन तुल्यसम्बन्धः सहशब्देन द्योत्यते। अथ कथं पुनः सकर्मक इत्यादौ स्यात्? कथञ्च न स्यादित्याह - `न ह्यत्र` इत्यादि। `प्रायिकम्` इति।असर्वविषयमित्यर्थः। कुतः पुनः प्रयिकत्वमस्य लभ्यते? इतिकरणात्। ननु चान्यदितिकरणस्य प्रयोजनमस्ति, किं तत्? सहशब्दः स्वरूपपदार्थको यथा गम्येत; अन्यथा ह्रर्थनिर्देशोऽयं विज्ञायेत। ततश्च साकं साद्र्धमित्यादयोऽपि समस्येरन्? नैवं ब्राऊमः; - इह सूत्रे य इतिकरणस्ततो लभ्यत इति, किं तर्हि? पूर्वसूत्राद्योऽनुवर्तते तत इति॥ Prakriyasarvasvam ----------------- सहेत्येतत् तुल्ययोगे द्योत्ये तृतीयान्तेन समस्यते, स च समासो बहुव्रीहिसंज्ञः ।। Vartika ------- सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः । Sutra Prayogas -------------- * **सलक्ष्मणं** (रघुवंशम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः। * **सशैवलासङ्गमपि** (कुमारसम्भवम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः। * **सहंसपाते** (कुमारसम्भवम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः। * **सज्यं** (किरातार्जुनीयम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः। * **सपुष्पहासाः** (किरातार्जुनीयम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः। * **सहेमकक्ष्याः** (किरातार्जुनीयम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः। * **साद्रिजलधिजलवाहपथं** (किरातार्जुनीयम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः। * **सदिक्** (किरातार्जुनीयम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः। * **सासिः** (किरातार्जुनीयम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः। * **सकर्णकैः** (शिशुपालवधम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः। * **सरुजेव** (शिशुपालवधम्): `तेन सह-` इति बहुव्रीहिः। * **सरत्नपुष्पैः** (शिशुपालवधम्): `तेन सहेति तुल्ययोगे` इति बहुव्रीहिः।