22026: दिङ्नामान्यन्तराले ========================= **Padacheda:** दिङ्-नामानि | S | 1 | 3 | अन्तराले | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Words which are the names of the points of the compass are compounded, when the compound signifies the intermediate point and the compound so formed is बहुव्रीही। Vasu English Translation ------------------------ Words which are the names of the points of the compass are compounded, when the compound signifies the intermediate point and the compound so formed is बहुव्रीही। Thus दक्षिणपूर्वादिक् *dakshina-purva*, 'south-east,' (the direction midway between south and east.) पूर्वोत्तरा 'north-east.' The word नाम is introduced in the sūtra to indicate that no compounding takes place when the words denoting direction are derivative words whose primary signification is not indicative of direction; as ऐन्द्र्यश्चकौबेर्याश्च दिशोर्यदन्तरालम् ' the point between cast and north'. Here the words ऐन्द्री 'east' and कौबेरी 'north' though denoting directions, are derivatively so, and hence no compounding. Bhashya ------- दिङ्नामान्यन्तराले (446) (284 बहुव्रीहिसंज्ञासूत्रम् ॥ 2.2.2 आ.3) (285 बहुव्रीहिसंज्ञासूत्रम् ॥ 2.2.2 आ.4) 447 तेन सहेति तुल्ययोगे ॥2.2.27 ॥ (प्रत्याख्यानाधिकरणम्) (1404 प्रत्याख्यानवार्तिकम् ॥ 1 ॥) ॥ दिक्समाससहयोगयोश्चान्तरालप्रधानाभिधानात् ॥ (भाष्यम्) दिक्समाससहयोगयोश्चाशिष्यो बहुव्रीहिः ॥ किं कारणम्?। अन्तरालप्रधानाभिधानात्। दिक्समासे सहयोगे चान्तरालं प्रधानं चाभिधीयते तत्रान्यपदार्थ इत्येव सिद्धम् ॥ (आक्षेपभाष्यम्) यद्येवं दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति ॥ (समाधानभाष्यम्) अद्य पुनरियं सैव दक्षिणा सैव पूर्वेति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धो भवति ॥ (समाधानबाधकभाष्यम्) न सिध्यति। भाषितपुंस्कस्य पुंवद्भावः। न चैतौ भाषितपुंस्कौ ॥ (समाधानसाधकभाष्यम्) ननु च भोः दक्षिणशब्दः पूर्वशब्दश्च पुंसि भाष्येते ॥ (समाधानबाधकभाष्यम्) समानायामाकृतौ यद्भाषितपुंस्कम्। आकृत्यन्तरे चैतौ भाषितपुंस्कौ। दक्षिणा पूर्वेति दिक्शब्दौ। दक्षिणः पूर्व इति व्यवस्थाशब्दौ ॥ (आक्षेपभाष्यम्) यदि पुनर्दिक्शब्दा अपि व्यवस्थाशब्दाः स्युः। कथं यानि दिगुपदिष्टानि कार्याणि? ॥ (समाधानभाष्यम्) यदा दिशो व्यवस्थां वक्ष्यन्ति ॥ (आक्षेपभाष्यम्) यदि हि यो यो दिशि वर्तते स दिक्शब्दः, रमणीयादिष्वतिप्रसङ्गो भवति - रमणीया दिक् शोभना दिगिति ॥ अथ मतमेतत् - दिशि दृष्टो दिग्दृष्टः दिग्दृष्टः शब्दो दिक्शब्दः यो दिशं न व्यभिचरतीति, न रमणीयादिष्वतिप्रसङ्गो भवति, पुंवद्भावस्तु न प्राप्नोति ॥ (समाधानभाष्यम्) एवं तर्हि सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः दक्षिणोत्तरपूर्वाणामित्येवमर्थम् ॥ (प्रत्याख्यानाभ्युपगमभाष्यम्) एवं च कृत्वास्तु - ।दिक्समाससहयोगयोरन्तरालप्रधानाभिधानात्। इत्येव ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोतीति ॥ (समाधानभाष्यम्) नैष दोषः। सर्वनाम्नो वृत्तिमात्रे पुंवद्भावेन परिहृतः ॥ (1405 प्रत्याख्यानबाधकवार्तिकम् ॥ 1 ॥) ॥ मत्वर्थे वा पूर्वस्य विधानात् ॥ (भाष्यम्) अथ वा मत्वर्थे पूर्वो योगः। अमत्वर्थार्थोयमारम्भः ॥ (1406 प्रत्याख्यानबाधकवार्तिकम् ॥ 2 ॥) ॥ कबभावार्थो वा ॥ (भाष्यम्) अथ वा कब् मा भूदिति ॥ दिङ्नामानि ॥ 26 ॥ तेन सहेति ॥ 27 ॥ Kashika ------- दिशां नामानि दिङ्नामानि। दिङ्नामानि सुबन्तान्यन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो भवति। दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम्, दक्षिणपूर्वा दिक्। पूर्वोत्तरा। उत्तरपश्चिमा। पश्चिमदक्षिणा॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः॥ नामग्रहणं रूढ्यर्थम्। इह मा भूत् — ऐन्द्र्याश्च कौबेर्याश्च दिशोर्यदन्तरालमिति॥ Siddhanta Kaumudi ----------------- दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्र्याश्च कौबेर्याश्चान्तरालं दिक् ॥ Laghu Siddhanta Kaumudi ----------------------- इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः। द्युतित्वा, द्योतित्वा। लिखित्वा, लेखित्वा। व्युपधात्किम्? वर्तित्वा। रलः किम्? एषित्वा। सेट् किम्? भुक्त्वा॥ Balamanorama ------------ **दिङ्नामान्यन्तराले** - दिङ्नामानि । नामानीत्यनन्तरंसुबन्तानि परस्पर॑मिति शेषः । प्राग्वदिति । समस्यन्ते, स च बहुव्रीहिरित्यर्थः ।नामानी॑ति बहुत्वविवक्षितमित्यभिप्रेत्योदाहरति — दक्षिणस्याश्चेति । दक्षिणपूर्वेति । स्त्रीत्वं लोकात् । यद्वा अन्तरालमिह दिगेव गृह्रते ।सर्वनाम्नो वृत्तिमात्रे पुंवत्त्व॑मिति भाष्यम् । यद्यप्युपसर्जनत्वान्न सर्वनामत्वन्तथापि भूतपूर्वगत्या सर्वनामत्वमादाय पुंवत्त्वं भवति,अत एव भाष्यात् । ननु दिसोरन्तराले इत्येव सिद्धे नामग्रहणं किमर्थमित्यत आह — नामग्रहणादिति । दिक्षु रूढाः शब्दाःदिङ्नामानी॑त्यनेन विवक्षिताः । ऐन्द्रीशब्दः कोबैरीशब्दश्चेन्द्रसंबन्धात्कुबेरसंबन्धाच्च प्रवृत्तौ यौगिक एव, न रूढ इति भावः । Padamanjari ----------- दिङ्नामान्यन्तराले॥ दक्षिणपूर्वेति। अन्तरालस्यान्यपदार्थत्वात्पूर्वणैव सिद्धे वचनमिदं त्वमत्वर्थेपि यथा स्यात्प्रथमार्थेपि यथा स्याद्वैयधिकरण्येऽपि यथा स्यात्। किं च'विभाषा दिक्समासे बहुव्रीहौ' इत्यत्र दिशां प्रतिपदोक्तस्य बहुव्रीहेर्ग्रहर्ण यथा स्यात्, यास पूर्वा सोतरास्योन्मुग्धस्य तस्मै उतरपूर्वाय देहीत्यत्र मा भूदित्येवमर्थः। अतस्तदर्थोऽप्ययमारम्भः। कबभावार्थं च'शेषाद्विभाषा' इत्यत्र शेषाधिकारविहितस्य बहुव्रीहेर्ग्रहणम्। ठनेकमन्यपदार्थेऽ इत्यत्रैव शेषग्रहणमनुवर्तते, तेनात्र कम्न भवति।'सर्वनाम्नो वृत्तिमात्रे' इति मात्रग्रहणाद्'विभाषा दिक्समासे' इति यदा सर्वनामसंज्ञा नास्ति तदापि भवति॥ Nyaas ----- `दक्षिणपूर्वा` इति। प्रथमार्थेऽप्ययं समास इष्यते, अमत्वर्थेऽपि तत्पूर्वेण न सिध्यतीत्यममत्वर्थं आरम्भः प्रतिपदविधानार्थश्च। **विभाषा दिक्समासे बहुव्रीहौ** (1.1.28) इत्यत्र दिशां यः समासः प्रतिपदविहितस्तस्य ग्रहणमिष्यते। प्रतिपदविहितश्च समासो दिशामेव भवति यद्ययं योग आरभ्यते, नान्यथा। `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः` इति। स पुनः `स्त्रियां पुंवत्` (6.3.33) इति योगविभागेन सिध्यतीति वेदितव्यम्। `नामग्रहणं रूढर्थम्` इति। लोके ये रूढञा दिक्शब्दास्तत्परिहार्थमित्यर्थः। `ऐन्द्रआश्च कौबेर्याश्च` इति। नेमौ रूढिशब्दौ, किं तर्हि? योगिकौ - इन्द्रस्येयमैन्द्री, कुबेरस्येयं कौबेरी। **तस्येदम्** (4.3.120) इत्यण्॥ Prakriyasarvasvam ----------------- दिशां नामानि मध्ये वाच्ये समस्यन्ते । (वा० २-१-५१) इति पुंवत्त्वम् । दक्षिणपूर्वा दिक् । तयोर्मध्यमित्यर्थः । नामशब्दोक्तेः ऐन्द्र्यादिशब्दानां न समासः ॥