22019: उपपदमतिङ् ================ **Padacheda:** उपपदम् | S | 1 | 1 | अतिङ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- An उपपद of attendant word तत्रोपपदं सप्तमीस्थम् (3.1.92) which does not end with a tense-affix (3.4.78) is invariably compounded with that with which it is in construction. The compound thus formed is तत्-पुरुष। Vasu English Translation ------------------------ An उपपद of attendant word तत्रोपपदं सप्तमीस्थम् (3.1.92) which does not end with a tense-affix (3.4.78) is invariably compounded with that with which it is in construction. The compound thus formed is तत्-पुरुष। Thus कुम्भकारः 'one who wakes pots,' नगरकारः 'one who makes cities.' Why do we say 'which does not end with a tense-affix'? Observe एधानाहारको व्रजति 'he goes to bring fuel.' It might be objected, that the question of compounding with a word ending in a tense-affix is irrelevant; since the *anuvritti* of the words सुप् सुपा is understood here, so that तिङ् will find no scope. To this we reply that we should infer that the words सुप् सुपा should not be read into this and the last aphorism. The following *Paribhasha* also arises from this *sūtra*. गतिकारको पपदानां कृद्धिः सह समासाचनं प्राक् सुबुत्पत्तेः ॥ "It should be stated that *Gatis*, *Karakas*, and *Upapadas*, are compounded with bases that end with *krit*-affixes, before a case-termination or feminine affix has been added to the latter." The result is that *Upapadas* and *Gatis* are rot compounded by *sūtras* 18 and 19 with case-infected nouns, but they are compounded with primary nouns before a case-termination or feminine affix is added to the latter. The same considerations apply to *karakas* also. Thus अश्वक्रीती 'a female brought in exchange for a horse,' is formed correctly. अश्वेन क्रीयते सा = अश्वक्रीत ; add ङीष (4.1.50) and we have अश्वक्रीती. If on the other hand, the feminine affix ate had beca added to क्रीत previous to its composition with अश्व the form would have been अश्वक्रीता, and we should have had no base ending with short अ and in that case ङीष् could not have been added by (4.1.50). Bhashya ------- उपपदमतिङ् (439) (279 तत्पुरुषसंज्ञासूत्रम् ॥ 2.2.1 आ.13) (गतिकारकोपपदानामितिपरिभाषाधिकरणम्) (आक्षेपभाष्यम्) अतिङिति किमर्थम्? ॥ (समाधानभाष्यम्) कारको व्रजति, हारको व्रजति ॥ (प्रत्याख्यानभाष्यम्) अतिङिति शक्यमवक्तुम् ॥ (आक्षेपभाष्यम्) कस्मान्न भवति - कारको व्रजति, हारको व्रजति? ॥ (समाधानभाष्यम्) सुप्सुपेति वर्तते ॥ (समाधानवार्तिकावतरणभाष्यम्) अत उत्तरं पठति - (1373 समाधानवार्तिकम् ॥ 1 ॥) ॥ उपपदमतिङिति तदर्थप्रतिषेधः ॥ (व्याख्याभाष्यम्) उपपदमतिङिति तदर्थस्यायं प्रतिषेधः ॥ कस्य?। तिङर्थस्य ॥ कः पुनस्तिङर्थः? क्रिया ॥ (1374 न्यासान्तरवार्तिकम् ॥ 2 ॥) ॥ क्रियाप्रतिषेधो वा ॥ (व्याख्याभाष्यम्) अथ वा व्यक्तमेवेदं पठितव्यम् - उपपदमक्रियेति ॥ (आक्षेपभाष्यम्) अथ - अक्रियेति किं प्रत्युदाह्रियते? ॥ (प्रत्युदाहरणभाष्यम्) कारको गतः, कारको यातः ॥ (बाधकभाष्यम्) नैतत्क्रियावाचि ॥ किं तर्हि? द्रव्यवाचि ॥ (प्रत्युदाहरणान्तरभाष्यम्) इदं तर्हि - कारकस्य गतिः कारकस्य व्रज्येति ॥ (बाधकभाष्यम्) एतदपि द्रव्यवाचि। कथम्?। कृदभिहितो भावो द्रव्यवद्भवतीति ॥ (सिद्धान्तसमाधानभाष्यम्) एवं तर्हि सिद्धे सति यद् अतिङ् इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः - अनयोर्योगयोर्निवृत्तं सुप्सुपेति ॥ किमेतस्य ज्ञापने प्रयोजनम्?।गतिकारकोपपदानां कृदि्भः सह समासो भवति इत्येषा परिभाषा न कर्तव्या भवति ॥ (आक्षेपभाष्यम्) यद्येतज्ज्ञाप्यते केनेदानीं समासो भविष्यति? ॥ (समाधानभाष्यम्) समर्थेन ॥ (आक्षेपभाष्यम्) यद्येवं धातूपसर्गयोरपि समासः प्राप्नोति पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेनेति ॥ (समाधानभाष्यम्) नैतदस्ति। पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण। साधनं हि क्रियां निर्वर्तयति। तामुपसर्गो विशिनष्टि। अभिनिर्वृत्तस्य चार्थस्योपसर्गेण विशेषः शक्यो वक्तुम् ॥ (उपपदसमासबलीयस्त्वाधिकरणम्) (1375 विप्रतिषेधवार्तिकम् ॥ 3 ॥) ॥ षष्ठीसमासादुपपदसमासो विप्रतिषेधेन ॥ (भाष्यम्) षष्ठीसमासादुपपदसमासो भवति विप्रतिषेधेन। षष्ठीसमासस्यावकाशः - राज्ञः पुरुषो राजपुरुषः। उपपदसमासस्यावकाशः - स्तम्बेरमः कर्णेजपः। इहोभयं प्राप्नोति - कुम्भकारो नगरकारः। उपपदसमासो भवति विप्रतिषेधेन ॥ (1376 विप्रतिषेधप्रत्याख्यानवार्तिकम् ॥ 4 ॥) ॥ न वा षष्ठीसमासाभावादुपपदसमासः ॥ (भाष्यम्) न वार्थो विप्रतिषेधेन। किं कारणम्? षष्ठीसमासस्याभावादुपपदसमासो भविष्यति गतिकारकोपपदानां कृदि्भः सह समासवचनं प्राक्सुबुत्पत्तेः इति समासवचनात् ॥ (उक्तवार्तिकद्वयवैर्यथ्यभाष्यम्) अथ वा विभाषा षष्ठीसमासः। यदा न षष्ठीसमासस्तदोपपदसमासो भविष्यति ॥ (वैर्यथ्यबाधकभाष्यम्) अनेनैव यथा स्यात्। तेन मा भूदिति ॥ कश्चात्र विशेषः - तेन वा स्यादनेन वा?। अयमस्ति विशेषः - उपपदसमासो नित्यसमासः, षष्ठीसमासः पुनर्विभाषा ॥ (नित्यसमासलक्षणाधिकरणम्) (वैर्यथ्यसाधकाक्षेपभाष्यम्) ननु च नित्यं यः समासः स नित्यसमासः यस्य विग्रहो नास्ति ॥ (वैर्यथ्यबाधकभाष्यम्) नेत्याह। नित्याधिकारे यः समासः स नित्यसमासः ॥ (वैर्यथ्यसाधकभाष्यम्) नैवं शक्यम्। अव्ययीभावस्य ह्यनित्यसमासता प्रसज्येत। तस्मान्नित्यः समासो नित्यसमासः यस्य विग्रहो नास्ति ॥ उपपद ॥ 19 ॥ Kashika ------- नित्यमिति वर्तते। उपपदमतिङन्तं समर्थेन शब्दान्तरेण सह समस्यते नित्यम्, तत्पुरुषश्च समासो भवति। कुम्भकारः। नगरकारः। अतिङिति किम्? एधानाहारको व्रजति। ननु च सुप् सुपेति वर्तते, तत्र कुतस्तिङन्तेन सह समासप्रसङ्गः? एवं तर्हि ज्ञापयत्येतयोर्योगयोः सुप् सुपेति न संबध्यत इति। तेन **गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः** (परि० ७५) इत्येतदुपपन्नं भवति। अश्वक्रीती। धनक्रीती॥ Siddhanta Kaumudi ----------------- उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिङ् किम् । मा भवान् भूत् । माङि लुङ् (SK1219) इति सप्तमीनिर्देशान्माङुपपदम् । अतिङ्ग्रहणं ज्ञापयति सुपेत्येन्नेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते । सुपेति च निवृत्तम् । तथा च [(परिभाषा - ) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः] इति सिद्धम् ॥ व्याघ्री । अश्वक्रीती । कच्छपी ॥ Laghu Siddhanta Kaumudi ----------------------- उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः। कुम्भं करोतीति कुम्भकारः। अतिङ् किम्? मा भवान् भूत्। माङि लुङिति सप्तमीनिर्देशान्माङुपपदम्। **गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः** (परिभाषा) । व्याघ्री। अश्वक्रीती। कच्छपीत्यादि॥ Balamanorama ------------ **उपपदमतिङ्** - उपपदमतिङ् । सुबन्तमिति । 'सुबामन्त्रिते' इत्यतस्तदनुवृत्तेरिति भावः । समर्तेनेति । प्रथमान्तं समर्थग्रहणं तृतीयान्ततया विपरिणम्यत इति भावः । अतिङन्तश्च समास इति । सूत्रे तिङिति तदन्तग्रहणमिति भावः । समासः तिङन्तघटितो न भवतीत्यर्थः । अतिङ् किम् , कारको व्रजति ।तुमुन्ण्वुलो क्रियायां क्रियार्थाया॑मिति व्रजतावुपपदे कृञो ण्वुल्, अकादेशः ।उपपदं समर्थेने॑त्येतावत्युक्ते इहाप्युपपदसमासः स्यात् । अतोऽतिङ्ग्रहणम् । नचैवं सुबित्यनुवृत्तेः प्रयोजनाऽभाव इति वाच्यं, 'चर्मकार' इत्यत्र नलोपार्थकत्वात् ।उपपदमतिङन्तं समर्तेन समस्यते॑ इति व्याख्याने तु सुबिति नानुवर्तेत । ततश्च 'चर्मकार' इत्यत्र नलोपो न स्यादिति भावः । कुम्भिमिति । कुम्भं करोतीत्यर्थः ।कर्मण्य॑णिति कर्मीभूतकुम्भवाचकपदे उपपदे कृञ्धातोः कर्तरि अण्प्रत्ययेअचो ञ्णिती॑ति वृद्धौ रपरत्वे कारशब्दः । तेन कुम्भशब्दस्य समासे कुम्भकारशब्द इत्यर्थः । ननु कुम्भं करोतीति कथं विग्रहप्रदर्शनम्, 'अतिङन्तः समास' इत्युक्तत्वादित्यत आह — कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यमिति । लोके प्रयोगानर्हत्वमलौकिकत्वम् ।प्रत्ययोत्तरपदयोश्चे॑ति सूत्रभाष्यरीत्या अलोकिकविग्रहवाक्य एव समासप्रवृत्तिः । कुम्भं करोतीति तदर्थप्रदर्शनमात्रमिति भावः । कुम्भ अम्-कार इत्यपपाठः, कृद्योगे षष्ठआ विधानात् । मा भवान्भूदिति । अत्र भूदिति तिङन्तेन माङः समासनिवृत्त्यर्थमतिङ्ग्रहणमिति भावः । भवानिति पदं तु समासाऽभावसूचनाय मध्ये प्रयुक्तम् । ननु माङस्तृतीयधात्वधिकारे सप्तमीनिर्दिष्टत्वं तु अदृष्टं येन तस्य उपपदत्वात्समासः प्रसज्यत इत्यत आह — माङिति । ननु अतिङ्ग्रहणं व्यर्थं, मा भवान्भूदित्यत्र सुपेत्यनुवृत्त्यैव समासनिवृत्तिसंभवादित्यत आह — अतिङ्ग्रहणमिति । एवंच उपपदमसुबन्तेन समस्यत इति फलितम् । गतिसमासोऽप्यसुबन्तेनेत्याह — पूर्वसूत्र इति । उत्तरसूत्रात्पूर्वसूत्रेऽनुवृत्तिरपकर्षः । 'कुप्रादयः' इतिगति॑रिति च योगो विभज्यते । कुप्रादयः सुबन्तेन समस्यन्ते । गतिस्तु समर्थेन समस्यते । अतिङन्तश्च समास इति व्याख्येयमिति यावत् । ततः किमित्यत आह — तथा चेति ।गतिकारकोपपदानां कृदन्तैः सह सुबुत्पत्तेःप्राक्समासो वक्तव्य॑ इति प्राचीनव्याकरणोक्तं सिद्धं भवतीत्यर्थः । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः, तथाप्येकदेशानुमतिद्वारा प्राचीनपरिबाषेयं सिध्यति । अथ परिभाषायाः फलं दर्शयितुं गतिसमासमुदाहरति — व्याघ्रीति । व्याजिघ्रतीति व्याघ्रः ।व्याङ्पूर्वाद्घ्राधातोः 'आतश्चोपसर्गे' इति कः,आतो लोप इटि चे॑त्याल्लोपः ।पाघ्राध्मादेट्दृशः शः॑ इति तु न भवति,जिघ्रतेः संज्ञायां नेति वाच्य॑मिति निषेधात् । आङो घ्रशब्देन गतिसमासः । आघ्रशब्देन वेर्गतिसमासः । तत्र यदि घ्रशब्दस्य सुबन्तत्वमपेक्ष्येत, तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिः स्यात्, स्वार्थद्रव्यलिङ्गसङ्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्यकुत्सिते॑इति सूत्रस्थभाष्यदर्शितस्यङ्याप्प्रातिपदिका॑दित्यत्रास्माभिः प्रपञ्चितत्वात् । ततश्च सुबुतपत्तये लिङ्गसङ्ख्याकारकं क्रमेणाऽपेक्ष्यमिति प्रथमं लिङ्गसंयोगे सति अदन्तत्वाट्टाप्स्यात् । न तु जातिलक्षणङीष्, घ्रशब्दमात्रस्य जातिवाचित्वाऽभावात् । ततश्च घ्राशब्देन सुबन्तेन समासे सति व्याघ्राशब्दस्याऽदन्तत्वाऽभावाज्जातिलक्षणो ङीष् न स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिद्धं, तथापि गतित्वसंभवमात्रेणेदमित्याहुः । वस्तुतस्तु आङो घ्राशब्देन उपपदसमासः, 'आतश्चोपसर्गे' इति सप्तमीनिर्देशात् । वेस्तु आघ्रशब्देन गतिसमास इति तदंशे गतिसमासोदाहरणमित्याहुः । अथ कारकसमासमुदाहरति — अआक्रीतीति । अओन क्रीतेति विग्रहे 'कर्तृकरणे कृता' इति समासः ।क्रीतात्करणपूर्वा॑दिति ङीष् । सुबन्तेन समासे तूक्तरीत्या पूर्वं टापि अदन्तत्वाऽभावान्ङीष् न स्यादिति भावः । उपपदसमासमुदाहरति-कच्छपीति । कच्छः=तीरं, तेन तस्मिन्वा पिबतीतिकच्छपो । 'सुपि स्थः' इत्यत्र सुपी॑ति योगविभागात्कः, उपपदसमासः, । तस्य सुबन्तापेक्षायामुक्तरीत्या टाबेव स्यान्न तु जातिलक्षण ङीषिति भावः । Tattvabodhini ------------- **उपपदमतिङ्** - समर्थेनेति । तेनमहान्तं कुम्भं करोती त्यादी नातिप्रसङ्गः । अतिङन्तश्चेति । सुबिति तु अनुवर्तत एवेति अतिङन्तमिति नोक्तमिति भावः । कुम्भ असिति । अमिति तु नोक्तं, कृद्योगे षष्ठीविधानात् । अतिङ् किमिति । सुपेत्यधिकारात्किमनेनेति प्रश्नः ।इतरो वक्ष्यमाणं ज्ञापकं मनसि निधाय प्रत्युदाहरति -मा भवानिति । समासाऽभावसूचनायभवा॑निति मध्ये प्रयुक्तम् । पूर्वसूत्र इति ।कुप्रादयः॑गतिः॑इति योगं विभज्यकुप्रादयऋ सुबन्ताः सुबन्तेन समस्यन्ते, गतिस्तु सुबन्तोऽतिङन्तेन समस्यते॑इति व्याख्येयमित्यर्थः । तथाचेति । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः, तथापि त्रितयविषयिणी प्राचां परिभाषा एकदेशानुमतिद्वारा इहापि ज्ञाप्यत इति भावः । कारकांशे तुकर्तृकरणे कृते॑ति सूत्रस्थबहुलग्रहणमुक्तार्थे साधकमित्यपि मनोरथायां स्थितम् । प्रागिति । कृदन्ताच्चरमपदात्सुबुत्पत्तेः पूर्वं समास इत्यर्थः । प्रथमान्तसुब्ग्रहणं त्विहानुवर्तत एव, तेनराजदर्शी॑ त्यादौ पूर्वपदे नलोपादि कार्य सिद्द्यति । परिभाषाफलं दर्शयन् गतिमुदाहरति — व्याघ्रीति । व्याजिघ्रतीति व्याघ्री ।आतश्चोपसर्गे॑इतीति कः ।पाघ्राध्माधे॑डिति शस्तु संज्ञायां न भवति, व्याघ्रादिभिरिति निर्देशादिति वक्ष्यते । व्याङोघ्र॑शब्देन गतिसमासः । स यदि घ्रशब्दस्य सुबन्ततामापेक्षेत, तर्हि सुबुत्पत्तये सङ्ख्याद्यपेक्ष्यं, ततः प्रागेव लिङ्गयोग इति लिङ्गनिमित्तप्रत्ययेन टापा भाव्यं न तु ङूषा । घ्र शब्दमात्रस्य जातिवाचित्वाऽभावात्, ततो घ्राशब्देन समास इत्यदन्तत्वाऽभाबाज्जातिलक्षणो ङीष् न स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिद्धं तथापि गतिग्रहणमाङो घ्रशब्देन समासे पश्चादाघ्रशब्देन विशब्दस्य समासार्थमावश्यकमेव । आङ्पूर्वाद्धातोः कप्रत्ययविधानादाङयुपपदसंज्ञाभ्युपगमेऽपि विशब्दे तदनभ्युपगमादिति बोध्यम् । कारकमुदाहरति — अआक्रीतीति । अओन क्रीति ।कर्तृकरणे कृते॑ति समासः ।क्रीतात्करणपूर्वा॑दिति ङीष् । सुबन्तेन समासे तु टापा भाव्यमित्यदन्तत्वाऽभावात्क्रीतात्करण -॑ इत्यये ङीष् न स्यादिति ज्ञेयम् । उपपदमुदाहरति — कच्छपीति । कच्छेन पिबतीति कच्छमी ।सुपि॑इति योगविभागात्कः । इहापि समासस्य सुबन्ततापेक्षायां टाबेव स्यान्न ङीषित्यादि व्याघ्रात्यत्रेव बोध्यम् । प्राचातु॒उपपदमतिङन्तं समस्यते॑इत्युक्तं, तदसत्, तथा सति प्रथमान्तसुब्ग्रहणनिवृत्त्यापत्त्याराजदर्शी॒॑चर्मकार॑इत्यादौ नलोपो न स्यात्, पदान्तत्वात् । प्राटितेत्यादौअतो गुणे॑ इति पररूपं च स्यात् । स्यादेतत् — कच्छेन साधनेन पिबतीतियर्थाभ्युपगमे कच्छस्य कारकत्वेन कच्छपीति रूपसिद्धौ नेदमुपपदस्याऽसाधारणोदाहरणमिति चेत्, एवं तर्हिभाषवापिणी॑त्युदाहर्तव्यम् ।सुप्यजातौ॑इति णिनौ कृते माषोपपदस्य कृदन्तेन समासेप्रातिपदिकान्ते॑त्यादिनापूर्वपदस्थान्निमित्तात्परस्या समासप्रतिपदिकान्तनकारस्य णत्वं सिद्द्यति । सुबन्तेन समासे त्वन्तरङ्गत्वान्नान्तलक्षणे ङीपि पश्चाद्वापिनीशब्देन समासे गर्गभगिनीत्यत्रेव णत्वं न स्यादित्येके । अन्ये तु कच्छेन हेतुना पिबतीत्यर्थविवक्षायां कच्छस्याऽकारकत्वात्कच्छपूत्युपपदस्योदाहरणं सम्यगेवेत्याहुः । Padamanjari ----------- उपपदमतिङ्॥ एधानाहारको व्रजतीति।'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति ण्वुल्। अतिङिति किमिति। येनाभिप्रायेण पृष्ट्ंअ तमाविष्करोति। ननु चेति। एतज्ज्ञापयतीति। स्यादेतत् - मुख्यस्य तिङ्न्तस्य प्रतिषेधोऽनर्थक इति। यस्तेन समानार्थः सुबन्तस्तस्य प्रतिषेधो विज्ञायते। तत्र यद्यपि कालकारकसंख्योपग्रहयुक्तः पूर्वापरीभूतः क्रियारूपस्तिङ्न्तार्थप्रधानोऽर्थो न सुबन्तस्य सम्भवति, तथापि क्रियावाचित्वमात्रेण तदर्थत्वमाश्रीयते, क्रियावाच्युपपदं न समस्यत इत्यर्थः। तेन कारको गतः, कारकस्य व्रज्येति गतब्रज्याशब्दयोः कारकशब्देन समासो न भवति; अन्यथा हि क्रियार्थायामिति सप्तमीनिर्देशेनोपपदत्वादनयोरपि समासः स्यादिति? तन्न; अनुपपदत्वात्। क्रियायां क्रियार्थायामिति सप्तमीनिर्देशेन क्रियावाचिन उपपदत्वम्, धातुरेवात्र क्रियावचनस्तदाश्रयश्च ण्वुल् प्रत्ययः। गतशब्दस्तु क्रियोपसर्जनं कर्तारमाह, व्रज्याशब्दोऽपि यस्तस्य सिद्धता नाम धर्मस्तत्र धञादयो भवन्तीति धात्वर्थस्य सिद्धतायां वर्तन्ते, अतो यत्क्रियावाचित्वादुपपदं न तत्सुबन्तम्, यत्मुबन्तं न तत्क्रियावाचि नाप्युपपदमिति नार्थ एवमनातिङ्ग्रहणेन। एतयोर्योगयोरिति। ननु चास्मिन्नेव योगे तदनभिसम्बन्धो युक्तः, यत्रातिङ्ग्रहणमस्ति, न पूर्वत्र? एवं मन्यते - योगविभागेनातिङ्ग्रहणं पूर्वसूत्रेणापि सम्बन्धनीयमिति। यद्येवम्, कुशब्दे प्रादिषु चातिप्रसङ्गः, तत्रापि प्राक् सुबुत्पतेः समासः स्यात्? एवं तर्हि पूर्वसूत्रे गतिग्रहणं पृथक्कृत्य तेनैवातिङ्ग्रहणं सम्बन्धनीयम्। गतिकारकोपपदानाम्, अस्यायमर्थः - गतीनां कारकाणामुपपादानां च कृद्भिः सह यः समासस्तेनतेन लक्षणेन स उतरपदात्सुबुत्पतेः प्रागेव कार्यः, पूर्वपदन्तु सुबन्तमेव समस्यत इति। गतीनां तावत् - व्याजिघ्रतीति व्याघ्री'पाघ्राध्माधेट्द्दशः शः' इति प्राप्तस्य जिघ्रतेः'संज्ञायां प्रतिषेधो वक्तव्यः' इति निषेधात् ठातश्चोपसर्गेऽ इति कः, व्याङेर्घ्रशब्देन गतिसमासः, स यद्यौतरपदे सुबन्ते जाते पश्चात्स्यात्, ततः सुबुत्पतये संख्याकर्मादियोगो विवक्षितव्यः, तद्योगाच्च प्रागेव लिङ्गयोगः स्वार्थमभिधाय शब्द इति न्यायात्, ततश्च लिङ्गनिमितः प्रत्ययो भवन् घ्रशब्दमात्रस्याजातिवाचित्वादाप् स्यात्, ततश्च व्याङेर्घ्राशब्देन समासः, ततो व्याघ्राशब्दस्य जातित्वेऽप्यनकारान्तत्वाज्जातिलक्षणो ङीष् न स्यात्; प्राक् सुबुत्पतेः समासो भवन् लिङ्गयोगमपि नापेक्षत इत्यन्तरङ्गत्वात्स एव तावद्भवति पश्चात्स्त्रीप्रत्ययो भवन्ङीषेव भवति, पूर्वपदस्य तु सुबन्तत्वात्पदकार्याणि भवन्ति, निर्गत इति रुत्वम्, संय्यन्तेति परसवर्णविकल्प इत्यादीनि। कारकाणामभ्रेर्लिप्ताऽभ्रलिप्ती,'कर्तृ करणे कृता बहुलम्' इति समासः, यद्यौतरपदस्य सउबन्तत्वं स्यात्पूर्ववट्टाप् स्यात्, ततः'क्रीतात्करणपूर्वात्' 'क्तादल्पाख्यायाम्' इति ङीष् न स्याद्; अत इत्यधिकारात्, वचनसामार्थ्याद्वा पूर्वशब्दं व्यवस्थावचनमाश्रित्य वाक्यावस्थायामेव स्यात्, अत इत्यधिकारो वा व्यवच्छिद्येत। प्राक् सुबुत्पतेः समासे पूर्ववत्सिद्धमिष्टम्। अत्रापि पूर्वपदस्य सुबन्तात्वाच्चर्मक्रीतीत्यादौ नलोपादिकार्याणि भवन्ति। उपपदानाम् - कच्छेन पिबतीति'सुपि स्थः' इत्यत्र सुपीति योगविभागात्कः, कच्छपी, व्याघ्रीतुल्यम्, माषान्वपति'सुप्यजातौ णिनिस्ताच्छील्ये' माषवापिणी, ङीपः प्राक् समासे प्रातिपदिकस्यान्तो नकार इति णत्वं भवति। सुबन्तस्य तु समासे ङीप्समासस्यान्तो न तु नकार इति न स्यात्। अत्रापि पूर्वपदस्यसुबन्तत्वाच्चर्मकारादौ नलोपादिपदकार्य भवत्येव। अत्रोपपदग्रहणं गतिकारकव्यतिरिक्तोपपदपरिग्रहार्थम् - मृषावापिणी, इषद्दर्शाया अपत्यं ऐषद्दर्शेयः, अत्र दर्शशब्देन समासे सति समुदायात्स्त्रीभ्यो ढकं बाधित्वा दर्शाशब्दात् स्त्रीप्रत्ययलक्षणो ढक् स्यात्, स्त्रीप्रत्यये तदादिनियमाभावेऽपि दर्शाशब्दादपि कदाचित्स्यादित्येषा दिक्। जातान्यस्याः परिभाषायाः प्रयोजनानि। कथं पुनतिङ्ग्रहणेनायमर्थः साधयितुं शक्यः, यावता प्रथमान्तमतिङ्ग्रहणं प्रथमान्तस्यैव सुब्ग्रहणस्य निवृत्तिं सूचयेदिति पूर्वपदे पदकार्याणि न स्युः, उतरपदे चोक्तमिष्ट्ंअ न सिध्यति, तदेतत्क्रियमाणमतिङ्ग्रहणं विपर्ययमेव साधयति, तदपि गत्युपपदयोरेव कारकेषु तु'कर्तृ करणे कृता बहुलम्' इत्यादावस्याः कथाया अप्रसङ्ग एव? उच्यते - योगविभागेनातिङ्ग्रहणं गतिनापि संबध्यत इत्युक्तम्, एवं स्थिते योगद्वयविहितसमासमतिङ्ग्रहणेन विशेषयिष्यामः - गतिः समस्यते अतिङ् समासो भवति, उपपदं समस्यते अतिङ् च समासो भवतीति। तदेवम्ठ् माइङ् लुङ्ऽ मा कार्षीदित्यादौ तिङ्न्तेन समासो मा भूदित्येवमर्थं क्रियमाणमतिङ्ग्रहणं सुपेति तृतीयान्तस्य निवृत्तिं साधयतीति गत्युपपदयोस्तावत्सिद्धिमिष्टम्। वृतावपि'सुप् सुपेति न संबध्यते' इति समुदायस्य निवृत्तिर्विवक्षिता, न केवलस्य सुब्ग्रहणस्य। प्रत्युदाहरणमपि दिङ्मात्रं प्रदर्शितम्, न हि तत्र तिङ्न्तेन समासः, कि तर्हि? तिङ्न्तस्य सुबन्नेन,'कर्तृ करणे कृता बहुलम्' इत्यत्रापि कृतेति न वक्तव्यम्, कथम् ? कर्तृ करणयोः क्रियापेक्षत्वात्क्रियावचनेन तावत्समासः,धातुश्च क्रियावचनः, धातोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च, तत्र सुबधिकारातिङ्न्तेनाप्रसङ्गः, तदेतत् कृद्ग्रहणं कृदन्तावस्थायामेव यथा स्यादित्येवमर्थमिति केचित्। नेति वयम्। काष्ठ्èअः पचतितराम्, दध्ना भुक्तपूर्वीत्यादौ तद्धितान्तेन समासो मा भूदित्येवमर्थं कृद्गहणं कर्तव्यं कष्टश्रितादिषु प्राक्सुबुपतेः समासो न साधित इति कष्टश्रितेत्यादि न सिद्ध्यति। एव तर्हि गतिकारकोपपदानामिति परिभाषा पूर्वाचार्यैः पठिता सूत्रकारेणाप्यतिङ्ग्रहणेन तद्देश आश्रीता। तत्र सामान्यापेक्षां ज्ञाप्रकमिति कृत्स्नमेव परिभाषार्थं ज्ञापयतीति सिद्धमिष्टम्। तदेतत्प्रतिपद्यन्तां भाष्ये कृतपरिश्रमाः। नान्ये सहस्रमप्यन्धाः सूर्य पश्यन्ति नाञ्जसा॥ Nyaas ----- `एधानाहारको व्रजति` इति। `तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्` (3.3.10) इति ण्वुल्। `एतयोर्योगयोः सुप्सुपेति `{न सम्बध्यते इति मूलपाठः} नाभिसम्बध्यते` इति। ननु चास्मिन्नव योगे तदनभिसम्बन्दो युक्तो यत्रातिङग्रहणमस्ति, न तु पूर्वसूत्रेण, न हि तत्रातिङित्येतदस्ति? एवं मन्यते - `अतिङ` इति योगविभागः क्रियते, स च पूर्वसूत्रस्यापि शेषभूतो विज्ञायते। नन्वेवमप्यतिङिति प्रथमान्तेन निर्देशात् प्रथमान्तस्यैव सुबित्यस्य निवृत्तिर्युक्ता, न तृतीयान्तस्य सुपेत्यस्य? नैतदस्ति; समान्येन सुबधिकारनिवृत्त्युपलक्षणार्थत्वाद्युक्ता द्वयोरपि निवृत्तिः। `तेन` इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। पूर्वयोगेऽप्यतिङग्रहणात् `गत्युपसर्गसंज्ञकानांकृद्भिः सह प्राक् सुबुत्पतेः समासो भविष्यति` (व्या।प।138) इत्येतदुपपन्नं भवति। तथा हि तत्र गतयः कृद्भिः सह समस्यन्ते, अस्मिस्तु योगेऽतिङग्रहणात् कारकोपपदानां कृद्भिः समासः सुबुत्पत्तेः प्रागुपपन्नो भवति। तथा ह्यत्र कारकं कृद्भिः सह समस्यते प्राक् सुबुत्पत्तेः।समासे सति यदिष्टं सिध्यति तद्दर्सयन्नाह - `अआक्रीती` इति। अत्राआः करणं कारकम्, तद्वाचिनोऽआशब्दस्य **कर्तृकरणे कृता बहुलम्** (2.1.32) इति समासः। सुबुत्पत्त्यां स्तायं यदि स समासः स्यात् तदा प्रागन्तरङ्गत्वाट्टाप स्यात्, ततः सुप्, पश्चात् समासः, ततश्च `क्रीतात् करणपूर्वात्` (4.1.50) इति ङीष् न स्यात् ; अत इत्यधिकारात्। ङीषस्त्ववकाशः - धनेन क्रीतं क्रयणं यस्याः। प्राक्सुबुत्पत्तेः समासे सति टाप्न क्रियते, प्रथमतः समास एव भवति, तेनादन्तत्वान्ङीष् सिद्धो बवति। कथं पुनरआदेरुपपदत्वम्। यावता द्वितीयधात्वधिकारे सप्तम्या निर्देशः कृतः? नैष दोषः; न हि द्वितीयधात्वधिकारे यत् सप्तम्या निर्दिष्टं तदेवोपपदसंज्ञं भवति। अपि तु यदप्युपोच्चारितं पदं तदप्युपपदं भवत्येव, तदपि शास्त्रे **इतरेतरान्योन्योपपदाच्च** (1.3.16) इत्यादौ सूत्रे क्वचिदाक्षीयत #एव। तस्मादआआदिकमप्युच्चारितपदत्वादुपपमिह विवक्षितम्। पद्वं पुनस्तस्य पद्यते गम्यतेऽनेनार्थ इत कृत्वा; न तु सुबन्तत्वात्; इह सुपोऽसम्भवात्। सुबनुत्पत्तेः प्राक् समासात्। यदि तर्हि यदुपोच्चा4रितं पदं तदपीहोपपदं गृह्रते, तदातिप्रसङ्गः स्यात्; राजश्रितम#इत्यत्रापि प्राक् सुबुत्पत्तेः समासप्रसङ्गात्, तदतश्च पदत्वाभावान्नलोपो न भवति? असर्वविषयत्वादस्य ज्ञापकस्येत्यदोषः। न ह्रनेन सर्वत्र `गतिकारकोपपदानां कृद्भिः प्राक् सुबुत्पत्तेः समासो भवतिट इ#इत ज्ञाप्यते, किं तर्हि? क्वचिदेवेष्टविषये। कथमेतज्ज्ञायते? **तत्पुरुषे कृति बहुलम्** (6.3.14) इति कृदन्त उत्तरपदे सप्तम्या अलुग्विधानात्। यदि तर्हि सर्वत्रैव गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः स्यात् तदा सप्तम्याः कृदन्त उत्तरपदेऽलुग्विधानं नोपपद्यते - बिलेशय इत्यादौ, सप्तम्या असम्भवात्। तस्मात् क्वचिदेव प्राक् सुबुत्पत्तेः समासः, न सर्वत्रेति।एवञ्च कृत्वा `सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी` इत्यादौ टाबन्तेन समास उपपन्नो भवति॥ Praudhamanorama --------------- उपपदमतिङ् ॥ ‘अतिङि’ति नोपपदस्य विशेषणं, किन्तु समासस्य । एतच्च ‘अनवक्लृप्त्यमर्षयोरि’ति सूत्रे भाष्ये एव स्पष्टम् । तत्र हि ‘किंवृत्तस्याऽनधिकारादकिंवृत्तग्रहणाऽऽनर्थक्यमित्युक्त्वा ‘उपपदसञ्ज्ञाऽर्थं तर्हीत्याशङ्क्य अतिङिति समासप्रतिषेधात्सञ्ज्ञाऽऽनर्थक्यमि’ति सिद्धान्तितम् । तदेतदभिप्रेत्याऽऽह - **अतिङन्तश्चेति ।** ननु सुपेत्यधिकारात्तिङन्तेन न भविष्यति । तत्राऽऽह - **अतिङ्-ग्रहणमिति ।** **पूर्वसूत्र इति ।** ‘कुप्रादयः सुबन्ताः सुबन्तेन समस्यन्ते’ । ततो ‘गतिः’ । ‘गतिः सुबन्तोऽतिङन्तेन समस्यते’ इति व्याख्येयमित्यर्थः । **तथा चेति ।** यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभस्तथाऽपि त्रितयविषयिणी प्राचां परिभाषा एकदेशाऽनुमतिद्वारा इहापि ज्ञाप्यत इति भावः । यद्वा कारकांशे ‘कर्तृकरणे कृते’ तिसूत्रस्थं बहुलग्रहणमुक्ताऽर्थे साधकं बोध्यम् । **प्रागिति ।** कृदन्तादुत्तरपदात्सुबुत्पत्तेः प्रागित्यर्थः । प्रथमान्तं तु सुब्ग्रहणमिहाऽनुवर्तते एव । अत एव ‘राजदर्शी’ त्यादौ पूर्वपदे नलोपादिपदकार्यं सिद्ध्यति । परिभाषायाः फलं दर्शयन् गतिमुदाहरति - **व्याघ्रीति ।** व्याजिघ्रतीति व्याघ्री । ‘आतश्चोपसर्गे’ इति कः । ‘पाघ्राध्मे’ ति शप्रत्ययस्तु सञ्ज्ञायां नेति वक्ष्यते । व्याङोर्घ्रशब्देन गतिसमासः । स यदि प्रशब्दस्य सुबन्ततामपेक्षेत, तर्हि सुबुत्पत्तये सङ्ख्याद्यपेक्ष्यम् । ततः प्रागेव लिङ्गयोगः । लिङ्गनिमित्तश्च प्रत्ययष्टाबेव स्यान्नतु ङीष् । प्रशब्दमात्रस्य जातिवाचित्वाभावात् । ततो घ्राशब्देन समासे सति अदन्तत्वाऽभावाज्जातिलक्षणो डीष् न स्यादिति भावः । उपपदमुदाहरति - **कच्छपीति ।** कच्छेन पिबतीति कच्छपी । व्याघ्रीवत्सुपीति योगविभागात्कः । यत्तु प्राचा ‘उपपदमतिङन्तम्’ इति व्याख्यातं, तन्न । तथा सति प्रथमाऽन्तसुब्ग्रहणनिवृत्त्याऽऽपत्त्या बहुविप्लवाऽऽपत्तेः । तथा हि-’निर्गत इत्यत्र निसो रुत्वं, संयन्तेत्यत्र मोऽनुस्वारः, ‘राजदर्शी’ त्यादौ नलोपश्च न स्यात् । ‘प्राटिते’ त्यादौ ‘अतो गुणे’ इति पररूपं च स्यात् । एतेन अतिङ् किम् ? एधानाहारको व्रजतीति प्रत्युदाहरणमपि प्रत्युक्तम् । यदपि ‘कुगती’ति सूत्रे उक्तम्- अत्र सुप्सुपेत्यननुवृत्तेस्तिङापि समासः, ‘ऊरीकरोति’ इत्यादि । तदप्यसत् । तत्र शेषीकृतेनाऽतिङ्ग्रहणेनैव विरोधात् । तिङ्समासस्तु ‘सहे’ति योगविभागबललभ्यश्छान्दसश्चेति प्रागेवोक्तम् । लोके तु ‘प्रभवती’ त्यादौ उपसर्गः पृथक् पदमेव । काव्यादिपाठिनामैकपद्यभ्रमे तु धातूपसर्गयोः संहिताया नित्यत्वं मूलम् । कथं तर्हि ‘अग्न आयाही’ त्यादौ पदपाठे उपसर्गेष्ववसानमिति चेत् । पदपाठस्याऽपि व्याख्याविशेषतया तत्राऽनुकरणशब्दत्वेनोपसर्गत्वाऽभावात् । ‘प्रकृतिवदनुकरणमि’ त्यतिदेशस्य वैकल्पिकत्वात् । ‘यत्तदेतेभ्य’ इति सूत्रे त्यदाद्यत्वं कुर्वता, एकशेषं चाऽकुर्वता सूत्रकृतैव तथा ज्ञापितत्वादित्ति दिक् । Prakriyasarvasvam ----------------- क्रियापदादन्यदुपपदं समर्थेन सह समस्यते । स च समासस्तत्पुरुषसंज्ञः । समांसत्वेन प्रातिपदिकत्वे । Sutra Prayogas -------------- * **विमृश्यकारिणं** (किरातार्जुनीयम्): `उपपदमतिङ्` इति समासः। * **शिरसिजसंयमनाकुलैकपाणिः** (किरातार्जुनीयम्): `उपपदमतिङ्` इति समासः।