22014: कर्मणि च =============== **Padacheda:** कर्मणि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- A word ending with a sixth case-affix is not compounded with another, when the force of the genitive is that of the accusative. Vasu English Translation ------------------------ A word ending with a sixth case-affix is not compounded with another, when the force of the genitive is that of the accusative. The anuvritti of क्त does not extend to this aphorism. The word karma qualifies *shashthi*. *Sutra* (2.3.66) declares the conditions when, instead of the accusative, the genitive may be employed i. e., when the agent and the object of the action denoted by the nouns formed by *krit* affixes, are both used in a sentence, the object is put in the genitive case and not the agent; as आश्चर्यो गवां दोहोऽगोपालकेन 'the milking of cows without a cowherd is a wonder.' रोचते ओदनस्य भोजनं देवदत्तेन 'eating of rice agrees with Devadatta.' साधु खलु पयसः पानं देवदत्तेन 'the drinking of milk by Devadatta is indeed excellent.' विचित्रा सूत्रस्य कृतिः पाणिनिना 'wonderful is the structure of sutras by Panini. Bhashya ------- कर्मणि च(434) (276 तत्पुरुषनिषेधसूत्रम् ॥ 2। 2। 1 आ.10सू) (चकारस्येत्यर्थकतानिरूपणाधिकरणम्) (आक्षेपभाष्यम्) कथमिदं विज्ञायते - कर्मणि या षष्ठी सा न समस्यत इति। आहोस्वित् - कर्मणि यः क्तः - इति ॥ कुतः संदेहः? उभयं प्रकृतम्। तत्रान्यतरच्छक्यं विशेषयितुम् ॥ (विशेषजिज्ञासाभाष्यम्) कश्चात्र विशेषः? ॥ (1350 प्रथमपक्षे दूषणवार्तिकम् ॥ 1 ॥) ॥ कर्मणीति षष्ठीनिर्देशश्चेदकर्तरि कृता समासवचनम् ॥ (व्याख्याभाष्यम्) कर्मणीतिषष्ठीनिर्देशश्चेदकर्तरि कृता समासो वक्तव्यः प्र् इध्मप्रव्रश्चनः पलाशशातनः प्र्प्र् (1351 सूत्रवेर्यथ्यापत्तिवार्तिकम् ॥ 2 ॥) ॥ तृजकाभ्यां चानर्थकः प्रतिषेधः ॥ (भाष्यम्) तृजकाभ्यां चानर्थकः कर्तरि प्रतिषेधो भवति। अपां स्रष्टा। पुरां भेत्ता। यवानां लावकः। कर्मणीत्येव सिद्धम् ॥ (द्वितीयपक्षाभ्युपगमभाष्यम्) अस्तु तर्हि - कर्मणि यः क्त इति ॥ किमुदाहरणम्?। ब्राह्मणस्य भुक्तं वृषलस्य पीतमिति ॥ (1352 दूषणवार्तिकम् ॥ 3 ॥) ॥ क्तनिर्देशेऽसमर्थत्वादप्रतिषेधः ॥ (व्याख्याभाष्यम्) क्तनिर्देशेऽसमर्थत्वाद् अप्रतिषेधः अनर्थकः प्रतिषेधः अप्रतिषेधः ॥ समासः कस्मान्न भवति?। असार्मथ्यात् ॥ कथमसामर्थम्?। सापेक्षमसमर्थं भवतीति। द्रव्यमत्रापेक्ष्यते ओदनः ॥ (1353 वार्तिकम् ॥ 4 ॥) ॥ प्रतिषेध्यमिति चेत्कर्तर्यपि प्रतिषेधः ॥ (व्याख्याभाष्यम्) अथैवं सति प्रतिषेधः कर्तव्य इति मन्यसे, कर्तर्यपि प्रतिषेधो वक्तव्यः स्यात्-ब्राह्मणस्य गतः ब्राह्मणस्य ज्ञात इति ॥ (1354 वार्तिकम् ॥ 5 ॥) ॥ पूजायां च प्रतिषेधानर्थक्यम् ॥ (भाष्यम्) पूजायां च प्रतिषेधोऽनर्थकः - राज्ञां पूजितः राज्ञामर्चित इति। कर्मणीत्येव सिद्धम् ॥ (1355 सिद्धान्तवार्तिकम् ॥ 6 ॥) ॥ तस्मादु भयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः ॥ (भाष्यम्) तस्माद् उभयप्राप्तौ कर्मणि इत्येवं या षष्ठी तस्याः प्रतिषेधो वक्तव्यः ॥ (आक्षेपभाष्यम्) स तर्हि वक्तव्यः? ॥ (समाधानभाष्यम्) न वक्तव्यः। इत्यर्थेऽयं चः पठितः - कर्मणि च कर्मणीत्येवं या षष्ठी ॥ कर्मणि च ॥ 14 ॥ Kashika ------- क्तेनेति निवृत्तम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। **उभयप्राप्तौ कर्मणि** (२.३.६६) इति षष्ठ्या इदं ग्रहणम्। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते मे ओदनस्य भोजनं देवदत्तेन। साधु खलु पयसः पानं देवदत्तेन। विचित्रा सूत्रस्य कृतिः पाणिनिना॥ Siddhanta Kaumudi ----------------- उभयप्राप्तौ कर्मणि (SK624) इति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन ॥ Balamanorama ------------ **कर्मणि च** - कर्मणि च । क्तेनेति निवृत्तम् । कर्मणि या षष्ठी सा न समस्यते इत्यर्थे अपां रुआष्टेत्यादावपि निषेधसिद्धेःतृजकाभ्यां कर्तरी॑ति व्यर्थं स्यात् । किं तु चकार इतिपर्यायः । कर्मणीति सप्तम्येकवचनमुच्चार्य यां षष्ठी विहिता सा न समस्यत इत्यर्थः । फलितमाह — उभयेत्यादिना । आश्चर्य इति । यद्यप्यत्रकर्तृकर्मणोः कृती॑त्येव कर्मणि षष्ठी, न तुउभयप्राप्तौ कर्मणी॑ति सूत्रेण, तस्य सूत्रस्य कर्मण्येव षष्ठी, न तु कर्तरीति नियमपरत्वात्, तथापि नियमसूत्राणां विधिरूपेण निषेधरूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः ।शब्दानुशासन॑मित्यत्र तु वस्तुत आचार्यस्य कर्तृत्वेऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याऽप्रवृत्तेर्नायं निषेधः, 'कृत्वोऽर्थप्रयोगे' इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः । यद्वा शेषे विभाषा अविशेषेण विभाषेत्याश्रित्य उभयप्राप्तावित्यभावपक्षेकर्तृकर्मणोः कृती॑त्येव षष्ठ्याः प्राप्तेर्नायं निषेध इत्यलम् । Tattvabodhini ------------- **कर्मणि च** - कर्मणि च । क्तेनेति नानुवर्तते,क्तेन च पूजाया॑मति निषेधवैयथ्र्यप्रसङ्गात् । षष्ठी त्वनुवर्तते, किंतु सापि या काचित्कर्मणि षष्ठी न गृह्रते ।अपां रुआष्टे॑त्यादावनेनैव सिद्धौतृजकाभ्यां कर्तरी॑ति निषेधवैयथ्र्यापत्तेः । किं चइध्मव्रश्चनः॑इत्यादौ समाससिद्धये वचनं कर्तव्यं स्यात् । न चकृद्योगलक्षमा षष्ठी समस्यते॑इति वार्तिकमस्त्येवेति वाच्यं, तस्य सिद्धान्ते प्रत्याख्यानात् । ततश्च निपातानामनेकार्थत्वादितीत्यर्थे चशब्दोऽयं, तदाह कर्मणीति या षष्ठीति । सप्तम्येकवचनान्तं पदमुच्चार्य या षष्ठी विहिता परिषेषिता वेत्यर्थः । मियमसूत्राणां विधिरूपेण निषेधरूपेण वेति द्वेधा प्रवृत्तेः स्वीकृतत्वात् । गवां दोह इति ।अगोपेने॑त्युपन्यासस्त्विह उभयप्राप्तिप्रदर्शनार्थः । अथ कथंशब्दानुशासन॑मिति । अत्र व्याचख्युः — शब्दानामितीयं षष्ठीकर्तृकर्मणो॑रिति विहिता, न तुउभयप्राप्तौ॑इत्यनेन, आचार्यस्य कर्तुः वस्तुतः सत्त्वेऽपीहानुपादानात् ।कृत्वोर्थप्रयोगे -॑इत्यतःप्रयोगे॑ इत्यनुवर्तनात्कर्तृकर्मणोरूपादान एवायं नियम इति स्वीकारात् ।आश्चार्यो गवां दोहोऽगोपेने॑त्यत्र हि आश्चर्यं प्रतिपाद्यं तच्च यद्यशिक्षितो दोग्धा दुर्दोहा गावश्च दोग्धव्यास्तदैव निर्वहति न त्वन्यथा । अतः कर्तृकर्मणोर्विशिष्योपादानादस्तूभयप्राप्तिः, इह तुशब्दानामिदमनुशासनं, न त्वर्थाना॑मित्यर्थनिवृत्तिपरं वाक्यं, न तु कर्तृविशेषणिवृत्तिपरमतो नास्त्युभयप्राप्तिः । अस्तु यथाकथंचिदुभयप्राप्तिः, तथापि न क्षतिः,उभयप्राप्तौ॑इति सूत्रेअविशेषेणविभाषे॑ति पक्षस्यापि विद्यमानतया नियमाऽप्रवृत्तिपक्षे॒आचार्यस्य शब्दानुसासनमि॑ति प्रयोगसम्भवात् । यदि वा शेष लक्षणा षष्ठीति व्याख्यायते, तदा तु समासनिषेधशङ्कैवात्र नास्तीति । Padamanjari ----------- कर्मणि च ॥ उभयप्राप्तौ कर्मणीति। अनेकार्थत्वान्निपातानामितीत्यर्थे चशब्दोऽयम्, तेन कर्मणीत्युच्चार्य या षष्ठी विधीयते सा न समस्यत इत्यर्थः। यदि च या काचन कर्मणि षष्ठी गृह्यएत'कर्तरि च' इति निषेधं न कुर्याद्; अनेनेव सिद्धत्वात्। साधु पयसः पानमिति। कर्मणि च येन संस्पर्शादिति नित्यसमासार्थवचनमिति वक्ष्यति, तत्र पयः सुखमित्युदाहरिष्यते। इदं तु शरीरसुखस्याविवक्षायां रोगाद्यभिभूतोऽशक्नुवन्नेव यदा साधु पिबति, तदा द्रष्टव्यम॥ Nyaas ----- `**उभयप्राप्तौ कर्मणि** (2.3.66) इत्यस्याः षष्ठआ इदं ग्रहणम्` इति। एतच्च् पुनः `कर्तरि चट (2.2.16) इति प्रतिषेधाद्विज्ञायते। यदि हि कर्मणि या काचित् षष्ठी तस्याः सर्वस्या इदं ग्रहणं स्यात् तदा `कर्तरि च` (2.2.16) इति पुनः प्रतिषेधं न कुर्यात्; अनेनैव सिद्धत्वात्। यत्र हि कर्तरि तृजकौ विहितौ तत्र नियोगतः कर्मणि षष्ठआ भवितव्यम्। तस्मात् `कर्तरि च` (2.2.16) इति पुनः प्रतिषेधवचनादुभयप्राप्तौ कर्मणि या षष्ठी विहिता तस्या अत्र ग्रहणमवसीयते। **उभयप्राप्तौ कर्मणि** (2.3.66) इति षष्ठआ इह ग्रहणादिध्मव्रशच्नः; पलाशशातनः, इक्षुभक्षिकां मे धारयसीति समासनिषेधो न भवति॥ Praudhamanorama --------------- कर्मणि च ॥ यद्यत्र या का चन कर्मणि षष्ठी गृह्येत, तर्हि तृजकाभ्यां निषेधो व्यर्थः स्यात् । तस्मादव्ययानामनेकार्थत्वात् ‘इती’ त्यर्थे ‘च-’ शब्दोऽयम् । तदाह- **कर्मणीति या षष्ठीति ।** ‘सप्तम्येकवचनाऽन्तं पदमुच्चार्य या षष्ठी विहिता, परिशेषिता वे’त्यर्थः । नियमसूत्राणां विधिरूपेण, निषेधरूपेण वेति द्वेधा प्रवृत्तेः स्वीकृतत्वात् । Prakriyasarvasvam ----------------- ‘उभयप्राप्तौ कर्मणि’ (२-३-६६) इत्युक्ता षष्ठी न समस्यते । गिरेरुद्धरण हरिणा । अत्र ‘कर्तृकर्मणोः कृति’ (२-३-६५) इति हरौ गिरौ च षष्ठीप्राप्तौ ‘उभयप्राप्तौ कर्मणि’ इति नियमात् गिराव्एव षष्ठी जाता । सा न समस्यते । जनैरनिलसेवनमित्यादौ ‘कर्मणि च येन संस्पर्शात्—’ (३-३-११६) इति ल्युड्विधेरुपपदसमासः ॥ ‘उभयप्राप्तौ कर्मणि’ (२-३-६७) इत्युक्ता षष्ठी न समस्यते । गिरेरुद्धरणं हरिणा । अत्र ‘कर्तृकर्मणाः कृति’ (२-३-६५) इति हरौ गिरौ च षष्ठीप्राप्तौ ‘उभयप्राप्तौ कर्मणि’ इति नियमात् गिराव्एव षष्ठी जाता । सा न समस्यते । जनैरनिलसेवनमित्यादौ ‘कर्मणि च येन संस्पर्शात्—’ (३-३-११६) इति ल्युड्विधेरुपपदसमासः ॥