22006: नञ्
==========
**Padacheda:** नञ् | S | 0 | 0 |
Sutrartha
---------
****
Vasu English Summary
--------------------
The negative word नञ् is compounded with a case-inflected word with which it is in construction, and the compound is तत्-पुरुष।
Vasu English Translation
------------------------
The negative word नञ् is compounded with a case-inflected word with which it is in construction, and the compound is तत्-पुरुष।
As न ब्राह्मणः = अब्राह्मणः 'who is not a *Brahmana*,' (though a man). The म् of न is elided by (6.3.73):
Vart: - The न् of न is also elided even when the second member is a verb, provided that censure is implied as अपचसि त्वं जाल्म 'thou cookest not O knave.'
The word नञ् has six senses: (1) सादृश्य 'likeness or resemblance'; as अब्राह्मणः 'one like a *Brahmana* and wearing the sacred thread &c., but not a *Brahmana*, but a *Kshatriya* or a *Vaisya*.' (2) अभाव 'absence,' 'negation,' 'want,' or 'privation,' as अज्ञान 'absence of knowledge.' (3) भेदः 'difference' or 'distinction,' as अपटः 'not a cloth, but something different from or other than a cloth'. (4) अल्पता 'smallness,' 'diminution' used as diminutive particle, as अनुदरा' having a slender waist.' (5) अप्राशस्त्य 'badness,' 'unfitness,' having a depreciative sense, as अकाल 'wrong or improper time.' (6) विरोध 'opposition,' 'contrariety,' as अनीतिः 'opposite of morality,' 'immorality.'
Bhashya
-------
नञ् (426) (271 तत्पुरुषसंज्ञासूत्रम् ॥ 2.2.1। आ.5 ) (नञ्ञ्समासस्याप्युत्तरपदार्थप्रधानतासाधनाधिकरणम्) (आक्षेपभाष्यम्) किंप्रधानोयं समासः? ॥ (समाधानभाष्यम्) उत्तरपदार्थप्रधानः ॥ (आक्षेपभाष्यम्) यद्युत्तरपदार्थप्रधानः, अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोति ॥ (समाधानभाष्यम्) अन्यपदार्थप्रधानस्तर्हि भविष्यति ॥ (आक्षेपभाष्यम्) यदि अन्यपदार्थप्रधानः अवर्षा हेमन्तः इति हेमन्तस्य यल्लिङ्गं वचनं च तत्समासस्यापि प्राप्नोति ॥ (समाधानभाष्यम्) पूर्वपदार्थप्रधानस्तर्हि भविष्यति ॥ (आक्षेपभाष्यम्) यदि पूर्वपदार्थप्रधानः, अव्ययसंज्ञा प्राप्नोति। अव्ययं ह्यस्य पूर्वपदमिति ॥ (आक्षेपबाधकभाष्यम्) नैष दोषः। पाठेनाव्ययसंज्ञा क्रियते। न च नञ्समासस्तत्र पठ्यते ॥ (आक्षेपसाधकभाष्यम्) यद्यपि नञ्ञ्समासो न तत्र पठ्यते, नञ् तु पठ्यते ॥ पाठेनाप्यव्ययसंज्ञायां सत्यामभिधेयवल्लिङ्गवचनानि भवन्ति। यश्चेहार्थोभिधीयते न तस्य लिङ्गसंख्याभ्यां योगोस्ति ॥ (समाधानभाष्यम्) नेदं वाचनिकमलिङ्गता असंख्यता वा ॥ किं तर्हि?। स्वाभाविकमेतत्। तद्यथा - समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते। अपरे न। न चेदानीं कश्चिदर्थवानिति कृत्वा सर्वैरर्थवदि्भः शक्यं भवितुम्, कश्चिद्वानर्थक इति सर्वैरनर्थकैः। तत्रकिमस्माभिः शक्यं कर्तुम् - यन्नञ्ञः प्राक् समासाल्लिङ्गसंख्याभ्यां योगो नास्ति, समासे च भवति। स्वाभाविकमेतत् ॥ (समाधानान्तरभाष्यम्) अथ वा आश्रयतो लिङ्गवचनानि भविष्यन्ति। गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति। तद्यथा - शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति यदंसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भवति। एवमिहापि यदसौ द्रव्यं श्रितो भवति समासस्तस्य यल्लिङ्गं वचनं च तत्समासस्यापि भविष्यति ॥ (प्रागुक्तपक्षाश्रयणभाष्यम्) अथ वा पुनरस्तु - उत्तरपदार्थप्रधानः ॥ (आक्षेपस्मारणम्) ननु चोक्तम् - अब्राह्मणमानयेत्युक्तेब्राह्मणमात्रस्यानयनं प्राप्नोति - इति ॥ (समाधानभाष्यम्) नैष दोषः प्र् इदं तावदयं प्रष्टव्यः - अथेह राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं कस्मान्न भवति? ॥ अस्त्यत्र विशेषः - राजा विशेषकः प्रयुज्यते, तेन एवंविशिष्टस्यानयनं भवति ॥ इहापि तर्हि नञ्ञ्विशेषकः प्रयुज्यते, तेन नञ्ञ्विशिष्टस्यानयनं भविष्यति ॥ (आक्षेपभाष्यम्) कः पुनरसौ? ॥ (समाधानभाष्यम्) निवृत्तपदार्थकः ॥ (नञ्ञो वाचकत्वद्योतकत्वान्यतरनिर्णयाधिकरणम्) (आक्षेपस्मारणम्) यदा पुनरस्यार्थो निवर्तते। किं स्वाभाविकी निवृत्तिः, आहोस्विद्वाचनिकी? ॥ (प्रत्याक्षेपभाष्यम्) किं चातः?। (स्वाभाविकपक्षे दूषणभाष्यम्) यदि स्वाभाविकी, किं नञ् प्रयुज्यमानः करोति? ॥ (वाचनिकपक्षे दूषणभाष्यम्) अथ वाचनिकी। तद्वक्तव्यम् - नञ् प्रयुज्यमानः पदार्थं निवर्तयति - इति ॥ (प्रथमपक्षाभ्युपगमभाष्यम्) एवं तर्हि - स्वाभाविकी निवृत्तिः ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - किं नञ् प्रयुज्यमानः करोतीति ॥ (समाधानभाष्यम्) नञ् प्रयुज्यमानः पदार्थं निवर्तयति। कथम्?। कीलप्रतिकीलवत्। तद्यथा - कील आहन्यमानः प्रतिकीलं निर्हन्ति ॥ (आक्षेपभाष्यम्) यद्येतन्नञ्ञो माहात्म्यम्, स्याद् - न जातु चिद्राजानो हस्त्यश्वं बिभृयुः, नेत्येव राजानो ब्रूयुः ॥ (सिद्धान्तपक्षाभ्युपगमभाष्यम्) एवं तर्हि स्वाभाविकी निवृत्तिः ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - किं नञ् प्रयुज्यमानः करोतीति ॥ (समाधानभाष्यम्) नञ्ञ्निमित्ता तूपलब्धिः। तद्यथा - समन्धकारे द्रव्याणां समवस्थितानां प्रदीपनिमित्तं दर्शनम्। नच तेषां प्रदीपो निर्वर्तको भवति ॥ (आक्षेपभाष्यम्) यदि पुनरयं निवृत्तपदार्थकः, ब्राह्मणशब्दः किमर्थं प्रयुज्यते? ॥ (समाधानभाष्यम्) एवं यथा विज्ञायेत - अस्य पदार्थो निवर्तते इति। नेत्युक्ते संदेहः स्यात् - कस्य पदार्थो निवर्तत इति। तत्रासंदेहार्थो ब्राह्मणशब्दः प्रयुज्यते। एवं चैतत् ॥ (समाधानान्तरभाष्यम्) अथ वा सर्व एते शब्दा गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति ॥ तपः श्रुतं च योनिश्चेत्येतद् ब्राह्मणकारकम् ॥ तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ॥ 1 ॥ तथा गौरः शुच्याचारः पिङ्गलः कपिलकेश इत्येतानप्यभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति ॥ समुदायेषु च वृत्ताः शब्दा अवयवेष्वपिं वर्तन्ते। तद्यथा - पूर्वे पञ्ञ्चालाः। तैलं भुक्तम्। घृतं भुक्तम्। शुक्लो नीलः कपिलः कृष्ण इति। एवमयं समुदाये ब्राह्मणशब्दः प्रवृत्तोऽवयवेष्वपि वर्तते जातिहीने गुणहीने च। गुणहीने तावत् - अब्राह्मणोयम् यस्तिष्ठन् मूत्रयतिअब्राह्मणोयं, यस्तिष्ठन्भक्षयति ॥ जातिहीने संदेहाद् दुरुपदेशाच्च ब्राह्मणशब्दो वर्तते। संदेहात्तावद्गौरं शुच्याचारं पिङ्गलं कपिलकेशं दृष्ट्वाध्यवस्यति ब्राह्मणोयमिति। तत उपलभते नायं ब्राह्मणः- अब्राह्यणोयमिति। तत्र संदेहाद् ब्राह्मणशब्दो वर्तते। जातिकृता चार्थस्य निवृत्तिः ॥ दुरुपदेशाच्च। दुरुपदिष्टमस्य भवति अमुष्मिन्नवकाशे ब्राह्मणस्तमानयेति। स तत्र गत्वा यं पश्यति तमध्यवस्यति ब्राह्मणोयमिति। ततश्च पश्चादुपलभते नायं ब्राह्मणः-अब्राह्मणोयमिति(निर्ज्ञातं तस्य भवति)। तत्र दुरुपदेशाच्च ब्राह्मणशब्दो वर्तते। जातिकृता चार्थस्य निवृत्तिः ॥ आतश्च संदेहाद् दुरुपदेशाद्वा। न ह्ययं कालं माषराशिवर्णमापणे आसीनं दृष्ट्वाध्यवस्यति ब्राह्मणोयमिति निर्ज्ञातं तस्य भवति ॥ (फलान्तरसंग्रहभाष्यम्) इदं खल्वपि भूय उत्तरपदार्थप्राधान्ये सति संगृहीतं भवति ॥ किम्?। अनेकमिति ॥ किमत्र संगृहीतम्?। एकवचनम् ॥ (आक्षेपभाष्यम्) कथं पुनरेकस्य प्रतिषेधे (द्वि) बहूनां संप्रत्ययः स्यात्? ॥ (समाधानभाष्यम्) प्रसज्यायं क्रियागुणौ ततः पश्चान्निवृत्तिं करोति। तद्यथा - आसय शायय भोजय अनेकमिति ॥ (आक्षेपभाष्यम्) यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्र क्रियागुणौ प्रसज्येते। यत्र तु खलु पुनर्न प्रसज्येते तत्र कथम्-अनेकं तिष्ठतीति? ॥ (समाधानभाष्यम्) भवति चैवंजातीयकानामप्येकस्य प्रतिषेधेन बहूनां संप्रत्ययः। तद्यथा - न न एकं प्रियम् न न एकं सुखमिति ॥ (भावप्रत्यये स्वरदोषपरिहाराधिकरणम्) (आक्षेपभाष्यम्) इहाब्राह्मणत्वमब्राह्मणता परत्वात् त्वतलौ प्राप्नुतः ॥ तत्र को दोषः?। स्वरे हि दोषः स्यात्। अब्राह्मणत्वमित्येवं स्वरः प्रसज्येत। अब्राह्मणत्वमिति चेष्यते ॥ (समाधानभाष्यम्) नञ्ञ्समासे भाववचने उक्तम्। किमुक्तम्? ॥ त्वतल्भ्यां नञ्ञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थम्। इति ॥ नञ् ॥ 6 ॥
Kashika
-------
नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। न ब्राह्मणः, अब्राह्मणः। अवृषलः॥
Siddhanta Kaumudi
-----------------
नञ् सुपा सह समस्यते ॥
Laghu Siddhanta Kaumudi
-----------------------
नञ् सुपा सह समस्यते ॥
Balamanorama
------------
**नञ्** - नञ् । इदं समानाधिकरणाधिकारस्थं नेत्यभिप्रेत्याह-सुपा समस्यत इति ।
Tattvabodhini
-------------
**नञ्** - नञ् । इहनलोपो नञः॑इत्यत्र विशेषणार्थो ञकारः । तत्फलं च नैकदेत्यत्राऽलोपः ।अव्यये नञ्कुनिपाताना॑मित्यव्ययपूर्वपदप्रकृति स्वरार्थं ञकतारोच्चारणमित्यन्ये । सुपा सह समस्यत इति । उतरपदार्थप्रधानोऽयं समासः । तथाहि आरोपितत्वं नञा द्योत्यते । तथा च अब्राआहृणशब्दादारोपितो ब्राआहृण इति बोधे अर्थाद्द्ब्राहृणभिन्न इति पर्यवस्यति । अतएवाऽनुसर्जनत्वादतस्मिन्नस इत्यादौ सर्वनामकार्यं सिध्यति । तत्पुरुषस्यौत्सर्गिकमुत्तरपदार्थप्राधान्यमप्येवं सति निर्बाधम् ।एतत्तदो॑रिति सूत्रेऽनञ्समासग्रहणं चेह लिङ्गमित्यादि मनोरमायानुसन्धेयम् ।
Padamanjari
-----------
नञ्॥ विभक्तिञकारयोर्विशेषाभावाद् ञकारोच्चारणम्। सुपानशब्दस्य विशेषणात्पामादिलक्षणस्य नस्यासुवन्तत्वादेवाग्रहणं सिद्धम्। इहाब्राह्मणादिशब्देः क्षत्रियाद्यभिधानमिष्यते, तत्र जातिमात्रपरे ब्राह्मणशब्दे न विद्यते ब्राह्मण्यं यस्य सोऽब्राह्मणः क्षत्रियादिरित्यन्यपदार्थप्रधानः समासो भवति। तत्र नाप्राप्ते बहुव्रीहावारम्भादनेन तस्य बाधनादब्राह्मणको देश इत्यपि न सिद्ध्यति; न हि प्रवृत्तिनिमितमात्रनिष्ठेषु ब्राह्मणादिशब्देष्वयं समासः, नद्वन्निष्ठेष्विति नियामकमस्ति। इह चावर्षा हेमन्त इति हेमन्तस्य यद्वचने तत्समासस्य प्राप्नोति, लिङ्गे तु परवल्लिङ्गमिति वचनाद्दोषाभावः। इह च असोऽसर्वस्मै इत्युतरपदार्थस्योपसर्जनत्वात्यदादिकार्यं सर्वादिकार्यं च न स्यात्। यदा त्वसत्सामान्यवर्तमानो नञ् ब्राह्माणादिभिर्विशेष्यते, ब्राह्मणत्वेनासत्क्रियान्तरेण तु सन् क्षत्रियादिकोऽब्राह्मण इति, तदा पूर्वपदार्थप्रधानम्; तत्र नञर्थस्य प्राधान्यात्संख्यायोगः चसमासस्य न स्यात्, वाचनिकी तु परवल्लिङ्गता भवतु। स्यादेतत् - शब्दशक्तिस्वाभाव्यादसत्वरूपमर्थं वाक्ये न नञाचष्टे, समासे तु सत्वरूपम्, तेन सिद्धः संख्यअयोगः? एवमप्यपवादेनानेनाव्ययीभावस्य बाधादमक्षिकमिति न सिद्ध्यति, तस्य तु निर्मक्षिकमित्यादिरवकाशः, असोऽसर्वस्मै इति च पूर्ववत्स्मायाद्यसिद्धिः। अस्तु तर्ह्यत्रोतरपदार्थप्रधानः? यद्येवम्, ब्राह्मणमात्रस्यानयनं प्राप्नोति? यद्यौतरपदार्थप्रधानता तत्र हेतुः, इहापि तर्हि राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति? अस्त्यत्र विशेषः, राजा विशेषकः प्रयुज्यते। इहापि तर्हि नञ् विशेषकः प्रयुज्यते? कथं नञ् नाम स्यात्, अनियतगुणस्य गुणविशेषप्रतिपादनाय हि विशेषणं प्रवर्तते, न तदुपघाताय। नञा च ब्राह्मणार्थः सर्वात्मना प्रतिषिध्यमानः प्रतिषिध्यत इति कथमसतः प्राधान्यं स्यात्!तस्मादुतरपदार्थप्राधान्यमिच्छताऽस्मिन्विषये नञनर्थकः, अन्वाख्यनसामर्थ्यातु साधुत्वमेवंभूत स्यार्थवदनर्थकावयवस्य समासस्येति वाच्यम्, ततश्च ब्राह्मणमात्रस्यानयनं प्राप्नोति? नैष दोषः; निवृतपदार्थकोऽत्र ब्राह्मणशब्दः, सा च निवृत्तिः स्वाभाविकी नञा द्योत्यते, कोऽपर्थः? केवलो ब्राह्मणशब्दः प्रयुज्यमानः प्रसिद्धिवशान्मुख्यमेव ब्राह्मणमाचष्टे; नञ्प्रयोगेण तु क्षत्रियादौ सादृश्यादिना निमितेनाध्यारोपितं ब्राह्मण्यं न तात्विकमिति द्योत्यते। तदेवं मुख्यो ब्राह्मणशब्दस्यार्थो निवृतः जातश्चामुख्यः क्षत्रियादिरिति न ब्राह्मणमात्रानयनम्, नापि न कस्यचिदानयनमिति सिद्धम्। उक्तं च - 'प्राक् समासात्पदार्थानां निवृत्तिर्द्योत्यते नञा। स्वभावतो निवृतानां रूपभेदादलक्षिता॥' इति। स्यादेतत् - अर्थप्रत्यायनाय शब्दः प्रयुज्यते ब्राह्मणार्थश्चेन्निवृत्तिः, किं मुधा ब्राह्मणपदं प्रयुज्यते? तन्न; असति ब्राह्मणपदे नेत्येतावत्सुच्यमाने कस्यार्थोऽत्र निवर्तयितुमिष्ट इति न ज्ञायते। ब्राह्मणपदे तु सति तदर्थस्य क्षत्रियादौ मुख्यः सताविरहः प्रतीयते। अन्यद्दर्शनम् - सर्व एते शब्दा गुणसमुदाये वर्तन्ते, स्मर्यन्ते च - 'तपः श्रुतं च योनिश्चेत्येतद्ब्राह्मण्यकारणम्। तपः श्रुताभ्यां यो हीनो जातिब्राह्मण एव सः॥'इति तथा च श्रुतिः - 'षड् व्याधयो यं पुरुषं तपन्ति जैह्वो हार्द औदरो रैतसश्च। तप्तश्च घर्मः शिशिरश्च शीतः ब्राह्मणस्तं स्मरार्थं गरुत्मन्' ॥ इति गौरः शुच्याचारः पिङ्गलकेश इत्यादयश्च धर्माः, तदेषां समुदाये ब्राह्मणशब्दः, एवं क्षत्रियादिशब्देष्वपि द्रष्टव्यम्। एवं स्थिते समुदायेषु वृताः शब्दाः अवयवेष्वति वर्तन्त इति न्यायाज्जातिभिन्ने गुणभिन्ने वा यदा ब्राह्मणशब्दो वर्तते तदा स्वाभाविकी जातिगुणनिवृत्तिर्नञा द्योत्यते, अविष्टांशसद्भावप्रतिपादनाय ब्राह्मणशब्दप्रयोगः। यद्येवम्, द्वयोरपि भिन्नविषयत्वप्रसङ्गः, कथम्? यस्यांशस्य सद्भावं ब्राह्मणशब्द आह, न तस्याभावं नञाह; यस्याभावं नञाह, न तस्य सद्भावं ब्राह्मणशब्द आह? नैष दोषः; द्वावप्येतौ समुदायावलम्बिनौ कृतवत्, तद्यथैकदेशकरणाकरणाभ्यामेकमेव वस्तु कृतं चाकृतं च भवति, तथेहाप्येकदेशविभागात् समुदाय एव निवृत उत्यते, एकदेशसद्भावाच्च स एव सन्नभिधीयत इति सर्वमनवद्यम्। इहानेको जन आगत इति द्व्यादिष्वेकत्वमारोपितं प्रतीयते, मुख्यं तु प्रतिषिध्यते, क्षत्रियादाविव ब्राह्मण्यमित्येकवचनमेव भवति द्व्यादिसंख्या प्रतीयते। तदेवमुतरपदार्थप्रधान इति स्थितम्। अत्र च लिङ्गम् - ठेततदोः सुलोपो' कोरनञ्ऽ इत्यत्रानञ्समासग्रहणम्। अन्यथैततदोरर्थद्वारेण सम्बन्धिनः सोर्लोपो विधीयमानो नैषो ददात्यसो ददातीत्यत्र कथं प्राप्नुयात्। इह न ब्राह्मणस्य भाव इति भावेन नञा च युगपत्सम्बन्धे विवक्षिते त्वतलौ च प्राप्नुतः, समासश्च; तत्र यदि परत्वात्वतलौ कृत्वा पश्चात्पुनः प्रसङ्गविज्ञानान्नञ्समासः, क्रियते, ततः'तत्पुरुषे तुल्यार्थ' इति पूर्वपदप्रकृतिस्वरेणाद्यौदातं पदं स्यात्, प्रत्ययस्वरो नञ्स्वरश्चेष्यत इति समासे कृते त्वतलौ कार्यौ। आह च - त्वतल्भ्यां नञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थमिति। तत्र भावप्रत्ययस्तावत्प्रकृत्यर्थस्य सापेक्षत्वेनासामर्थ्यान्न भवति, नञ्समासस्तु प्रधानस्य सापेक्षत्वाद्भवति॥
Nyaas
-----
नञो ञकारः **नलोपो नञः** (6.3.73) इति विशेषणार्थः, पामनपुत्रादिषु मा भूत्। **लोमादिपामादिपिच्छादिभ्यः शनेलचः** (5.2.100) । अथाब्राआहृण इति किंप्रधानोऽयं समासः? उत्तरपदार्थप्रधानस्तत्पुरुषः, यथा - राजपुरुष इति। पूर्वपदार्थप्रधानोऽव्ययीभावः, यथा - अमक्षिकमिति। अन्यपदार्थप्रधानो बहुव्रीहिः, यथा - अब्राआहृणको देश इति। यद्येवम्, अब्राआहृणमानयेत्युक्ते ब्राआहृणमात्रस्यानयनं प्राप्नोति? अथ निवृत्तिपदार्थकोऽयं ब्राआहृणशब्दः, सा च निवृत्तिः स्वाभाविकी नञा द्योत्यत इति मतम्, एवं च सत्यभाव एवास्यार्थ इत्यब्राआहृणमानयेत्युक्ते न कस्यचिदानयनं प्राप्नोति? नैष दोषः;सर्वं हि पदं स्वार्थे प्रयुज्यमानं प्रयोगप्रतिज्ञानमपेक्षते। तथा चोक्तम् - `आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया` इति।तच्च द्विविधं ज्ञानम् - सम्यक्, मिथ्या चेति। उभयमप्येतत् ब्राआहृणशब्दः प्रवर्तयति। यत्र सम्यग्ज्ञानपूर्वके ब्राआहृणशब्दप्रयोगे नास्ति नञो व्यापारः, न हि तत्र नञा किञ्चित क्रियते। मिख्याज्ञानपूर्वके तु विद्यत एव तस्य व्यापारः। तत्र हि तेन मिथ्याज्ञानप्रभावता परस्याख्यायते। मिथ्याज्ञानं च दुष्टेन्द्रियहेतुकम्। तच्चसादृश्यादृते न सम्भवतीति प्रतिषेधे सत्यत्तरपदार्थसदृशः समासार्थो जायते। तथा चोक्तम् - `नञिव युक्तमन्यसदृशाधिकरणे तथा ह्रर्थगतिः` (व्या।प।65) इति। तस्मादब्राआहृणमानयेत्युक्ते ब्राआहृणसदृशे क्षत्रियादौ प्रतीतिर्भवतीति न भवति पूर्वोकत्दोषावसरप्रसङ्गः॥
Praudhamanorama
---------------
नञ् ॥ उत्तरपदार्थप्रधानोऽयं समासः । तथा हि-आरोपितत्वं नञा द्योत्यते, आरोपमात्रं वा । विषयत्वन्तु संसर्गः । तथा च ‘अब्राह्मण’- शब्दादारोपितो ब्राह्मण इति बोधे, अर्थाद् ‘ब्राह्मणभिन्न’ इति पर्यवस्यति । अत एवाऽनुपसर्जनत्वाद् ‘अतस्मिन्नि’त्यादौ सर्वनामकार्य सिद्ध्यति । तत्पुरुषस्यौत्सर्गिकमुत्तरपदार्थप्राधान्यमप्येवं सति निर्बाधम् । ‘एतत्तदोरि’ति सूत्रेऽनञ्समासग्रहणं चेह लिङ्गम् । मीमांसकादयस्तु ‘ब्राह्मणभिन्न’ इत्यादि शाब्दबोध एवेत्याहुः । तन्मते ‘अस’ इत्यादेरतिसर्व इत्यादिसमकक्षत्वात् सर्वनामसञ्ज्ञाकार्यं, गणकार्यं च न स्यात् । यत्तु - ‘तत्सादृश्यमभावश्च तदन्यवं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ॥’ इति पठित्वा ‘अब्राह्मणः’, ‘अपापम्’, ‘अनश्वः,’ ‘अनुदरा कन्या’, अपशवो वा अन्ये गोअश्वेभ्यः’, ‘अधर्म’ इत्युदाहरन्ति । तत्तु यथायथम् आर्थिकाऽर्थमभिप्रेत्य कथञ्चिन्नेयम् । सर्वथाऽपि नञ्समासस्योत्तरपदप्राधान्यं भाष्योक्तं नाऽन्यथयितव्यम्। अत एवा ‘ऽनेकमन्यपदार्थ’ इत्यत्राऽनेकशब्दा- देकवचनं प्रयुक्तम् । माघेऽपि ‘सेव्यतेऽनेकया सन्नताऽपाङ्गन्ये’ति । कथं तर्हि ‘पतन्त्यनेके जलधेरिवोर्मय’ इति । उच्यते अध्यारोपितैकत्वानां प्रकृत्यर्थतया तत्र वास्तवबहुत्वाऽभिप्रायं बहुवचनम् । यद्वा समुदायबहुत्वे बहुवचनम् । रथोऽश्वो गजश्च प्रत्येकमनेकस्ततोऽनेकश्चाऽनेकश्चेत्येकशेषात् । यत्तु प्राचीनप्रक्रियायां व्याचक्षाणा आहुः, ‘नञ्विशिष्टेनोत्तरपदेन सादृश्यादयो लक्ष्यन्ते’ ‘इत्यादि । तत् स्वकीयग्रन्थसन्दर्भविरुद्धम्, आकरविरुद्धञ्च । यदपि विचारचिन्तामणावुक्तं - ‘समासे तूत्तरपदप्राधान्यं मासजातवत् । नञर्थमिलितं तच्च सदृशादीनि लक्षयेत् ॥’ इति । तदप्युक्तरीत्या भाष्यविरुद्धमिति स्पष्टमेव । यदि तु स्वातन्त्र्यमेवाऽवलम्ब्यते तर्हि कथञ्चित्समर्थयितुं शक्यम् । तथाहि-अस्तु लक्षणैव, तथा ऽपि नञ्समासे उत्तरपदप्राधान्यप्रयुक्तकार्याणि लप्स्यन्ते । ‘अनञ्समासे’ इति ज्ञापकात्, ‘उपेयप्रतिपत्यर्था उपाया अव्यवस्थिता’ इति न्यायात् । ‘समासे तु’ इति वदन् वाक्ये नञोऽसमस्तत्वात् क्रिययैवाऽन्वय इति ध्वनयति । यतः ‘सम्बोधनाऽन्तं, कृत्वोऽर्थाः, कारकं, प्रथमो वतिः । धातुसम्बन्धाऽधिकारनिष्पन्नमसस्तनञ् । तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् ॥ साधुत्वमष्टकस्याऽस्य क्रिययैवाऽवधार्यताम् ॥ युक्तं चैतत् । ‘त्वं पचसि’, ‘युवां पचथ,’ इत्यादौ नञ्समभिव्याहारे क्रियाया एव निषेधप्रतीतेरनुभवसिद्धत्वात् । भवतिप्रयोगेऽपि तथैव, न्याय्यत्वात् । ‘घटो नास्ति’, ‘घटौ न स्तः’, ‘अहं तत्र नास्मी’ त्यादौ वचनपुरुषव्यवस्थादर्शनाच्च । अन्यथाऽर्थाभावेऽव्ययीभावस्य दुर्वारत्वाच्च । यत्तु ‘भूतलाऽऽधेयत्वाभाववान् घट’ इत्यर्थवर्णनम् । तन्न । क्रियाऽनन्वये कारकविभक्तेर्दुर्लभत्वात् । तस्मात्कारकविशिष्टक्रियाया नञर्थेऽन्वयः शाब्द इत्येव तत्त्वम् । ‘भाष्यवार्त्तिक’ इत्युपलक्षणम् । साम्प्रदायिकरीत्या ‘पूर्वपदार्थप्राधान्येऽव्ययीभावः’, ‘उत्तरपदार्थप्राधान्ये तत्पुरुष’ इति विषयविवेकस्य, सुलभत्वात् । यत्तु वदन्ति - ‘यदा अभावसामान्ये नञ् वर्त्तते तदाऽव्ययीभावः । अभावविशेषविवक्षायां तत्पुरुष एव । तस्य नञर्थत्वाऽभावेन पूर्वपदार्थप्राधान्यासम्भवादि’ति । तन्न । ‘पापाऽभावोऽपापमिति स्वोक्ततत्पुरुषोदाहरणेऽपि’ ‘अभावत्वेनैवाभावभानेनाऽव्ययीभावस्य दुर्वारत्वात् । यदपि ‘विशेषस्य नञर्थत्वं नास्ती’ति । तदपि न । निर्विशेषस्य सामान्य स्याऽभावात् । ‘विशेषरूपेण वाच्यत्वं नास्ती’ति चेत् । तर्हि ‘अविध्नमि’- त्यादिरव्ययीभावो दत्तजलाञ्जलिरेव स्यादिति न किञ्चिदेतत् ।
Prakriyasarvasvam
-----------------
नञ् समर्थेन सुपा समस्यते । ‘नलोपो नञः’ (६-३-७३) इति नलोपः नञ्युक्तस्यार्थः षोढोक्तः शृङ्गारे— “तदन्यस्तद्विरुद्धश्च तदभावोऽपि तत्समः । तथापकृष्टश्चोत्कृष्टः क्रमेणागौरमङ्गलम् ॥ ३८५ ॥ असमृद्धिरविप्रास्तु तत्तुल्याः क्षत्त्रियादयः । अदेवा अपकृष्टाः स्युरुत्कृष्टार्थे त्वमानुषः” ॥ ३८६ ॥