22003: द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ============================================= **Padacheda:** द्वितीय-तृतीय-चतुर्थ-तुर्याणि | S | 1 | 3 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The words द्वितीय 'second', तृतीय 'third', चतुर्थ 'fourth', तुर्य 'fourth', are optionally compounded with that word which signifies a thing that has parts, provided that the thing having parts is distinguished numerically by unity. The compound so formed is called तत्-पुरुष। Vasu English Translation ------------------------ The words द्वितीय 'second', तृतीय 'third', चतुर्थ 'fourth', तुर्य 'fourth', are optionally compounded with that word which signifies a thing that has parts, provided that the thing having parts is distinguished numerically by unity. The compound so formed is called तत्-पुरुष। This also debars *sūtra*9. By the force of the word 'optionally' used here, (2.2.9). also applies. The prohibition contained in (2.2.11). as to the compounding of a genitive with an ordinal, does not apply here; for that rule can find its scope in other ordinals than those mentioned here. As द्वितीयं भिक्षायाः=द्वितीयभिक्षा 'second begging'. When we apply *sutra* 9. we have भिक्षादितीयं. So also with the words तृतीयभिक्षा, चतुर्थभिक्षा, तुर्यभिक्षा. Vari: -The word तुरीय 'fourth' should also be included. As भिक्षातुरीय or तुरीयभिक्षा. But we cannot form compounds, for reasons given in the last *sutra*, of the phrases द्वितीयं भिक्षाया भिक्षुकस्य or द्वितीयं भिक्षाणाम् . Bhashya ------- द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् (423) (268 एकदेशितत्पुरुषसंज्ञासूत्रम् ॥ 2.2.1 आ.2 ॥ (अन्यतरस्यांग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अन्यतरस्यांग्रहणं किमर्थम्? ॥ (आक्षेपबाधकभाष्यम्) अन्यतरस्यां समासो यथा स्यात् - समासेन मुक्ते वाक्यमपि यथा स्याद् - द्वितीयं भिक्षाया इति ॥ (आक्षेपसाधकभाष्यम्) नैतदस्ति प्रयोजनम्। प्रकृता महाविभाषा तया वाक्यमपि भविष्यति ॥ (आक्षेपबाधकप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम्। एकदेशिसमासेन मुक्ते षष्ठीसमासो यथा स्याद् - भिक्षाद्वितीयमिति ॥ (आक्षेपबाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। अयमपि विभाषा, षष्ठीसमासोपि। तावुभौ वचनाद्भविष्यतः ॥ (समाधानभाष्यम्) अत उत्तरं पठति - (1341 समाधानवार्तिकम् ॥ 1 ॥) ॥ द्वितीयादीनां विभाषाप्रकरणे विभाषावचनं ज्ञापकमवयवविधाने सामान्यविधानाभावस्य ॥ (व्याख्याभाष्यम्) द्वितीयादीनां विभाषाप्रकरणे विभाषावचनं क्रियते। ज्ञापनार्थम्। किं ज्ञाप्यते? एतज्ज्ञापयत्याचार्यः - अवयवविधौ सामान्यविधिर्न भवतीति। किमेतस्य ज्ञापने प्रयोजनम्?। भिनत्ति छिनत्तीति श्नमि कृते शम्न भवतीति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। शबादेशाः श्यन्नादयः करिष्यन्ते ॥ (आक्षेपभाष्यम्) तत्तर्हि शपो ग्रहणं कर्तव्यम् ॥ (आक्षेपबाधकभाष्यम्) न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। कर्तरि शब् इति ॥ (आक्षेपसाधकभाष्यम्) तद्वै प्रथमानिर्दिष्टम्। षष्ठीनिर्दिष्टेन चेहार्थः ॥ (आक्षेपबाधकभाष्यम्) रुधादिभ्य इत्येषा पञ्चमी शबिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य इति ॥ (आक्षेपसाधकभाष्यम्) प्रत्ययविधिरयम् प्र्न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति प्र्प्र् (आक्षेपबाधकभाष्यम्) नायं प्रत्ययविधिः। विहितः प्रत्ययः प्रकृत एवानुवर्तते ॥ (समाधानसाधकभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः यत्रोत्सर्गापवादं विभाषा तत्रापवादेन मुक्ते उत्सर्गो न भवतीति ॥ (आक्षेपभाष्यम्) किमेतस्य ज्ञापने प्रयोजनम्? ॥ (प्रयोजनभाष्यम्) दिक्पूर्वपदान् ङीप् प्राङ्मुखी। प्राङ्मुखा। प्रत्यङ्मुखी। प्रत्यङ्मुखा। ङीपा मुक्ते ङीष् न भवति ॥ (प्रयोजनबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। वक्ष्यत्येतद् - ।दिकपूर्वपदान्ङीषोनुदात्तत्वम्। ङीब्विधाने ह्यन्यत्रापि ङीष्विषयाद् ङीप्प्रसङ्ग। इति ॥ (प्रयोजनान्तरभाष्यम्) इदं तर्हि प्रयोजनम् - अर्द्धपिप्पली, अर्द्धकोशातकी एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति ॥ उन्मत्तगङ्गं लोहितगङ्गमव्ययीभावेन मुक्ते बहुव्रीहिर्न भवति ॥ दाक्षिः प्लाक्षिः, इञ्ञा मुक्तेऽण् न भवति ॥ (आक्षेपभाष्यम्) यद्येतज्ज्ञाप्यते, उपगोरपत्यमौपगवः तद्धितेन मुक्ते उपग्वपत्यमिति न सिध्यति ॥ (समाधानभाष्यम्) अस्त्यत्र विशेषः - द्वे ह्यत्र विभाषे दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् समर्थानां प्रथमाद्वा इति च। तत्रैकया वृत्तिर्विभाषा। अपरया वृत्तिविषये विभाषापवादः ॥ (आक्षेपभाष्यम्) क्रियमाणेपि वै अन्यतरस्यांग्रहणे षष्ठीसमासो न प्राप्नोति। किं कारणम्?। पूरणेनेति प्रतिषेधात् ॥ (समाधानभाष्यम्) नैतत्पूरणान्तम्। अना एतत्पर्यवसन्नम् ॥ (समाधानबाधकभाष्यम्) एतदपि पूरणान्तमेव। कथम्?। पूरणं नामार्थः तमाह तीयशब्दः, अतः पूरणम्। योसौ पूरणान्तात्स्वार्थे भागे अन् सोपि पूरणमेव ॥ (समाधानान्तरभाष्यम्) एवं तर्ह्यन्तरस्यांग्रहणसार्मथ्यात्षष्ठीसमासो भविष्यति ॥ द्वितीयतृतीय - ॥ 3 ॥ (इत्येकदेशिसमासप्रकरणम्) Kashika ------- एकदेशिनैकाधिकरण इति वर्तते। षष्ठीसमासापवादोऽयं योगः। अन्यतरस्यांग्रहणात् सोऽपि षष्ठीसमासो भवति। **पूरण०** (२.२.११) इति प्रतिषेधश्चात एवान्यतरस्यांग्रहणसामर्थ्याद् न प्रवर्तते। द्वितीयादीनि शब्दरूपाण्येकदेशिनैकाधिकरणेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। द्वितीयं भिक्षायाः, द्वितीयभिक्षा। षष्ठीसमासपक्षे भिक्षाद्वितीयं वा। तृतीयं भिक्षायाः, तृतीयभिक्षा। भिक्षातृतीयं वा। चतुर्थं भिक्षायाः, चतुर्थभिक्षा। भिक्षाचतुर्थं वा। तुर्यं भिक्षायाः, तुर्यभिक्षा। भिक्षातुर्यं वा। तुरीयशब्दस्यापीष्यते। तुरीयं भिक्षायाः, तुरीयभिक्षा। भिक्षातुरीयं वा। एकदेशिनेत्येवद्वितीयं भिक्षाया भिक्षुकस्य। एकाधिकरण इत्येव — द्वितीयं भिक्षाणाम्॥ Siddhanta Kaumudi ----------------- एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात् पूरणगुण - (SK705) इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥ Balamanorama ------------ **द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्** - द्वितीयतृतीय । द्वितीयं भिक्षाया इति । विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात्पूर्वनिपातः ।परवल्लिङ्ग॑मिति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति । भिक्षाया द्वितीयं भागं भिक्षुकस्येत्यन्वयः । 'भिक्षाया' इत्यवयवषष्ठी 'द्वितीय' मित्यत्रान्वेति ।द्वितीय॑मित्येतत्तुभिक्षुकस्ये॑त्यत्र कर्मत्वेनान्वेति । न लोके॑ति निषेधान्न षष्ठी । अत्रद्वितीय॑मित्यस्यभिक्षुकस्ये॑त्यनेन समासो न भवति, द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाऽभावादित्यर्थः । ननु विभाषाधिकारेण विकल्पे सिद्धेऽन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह — अन्यतरस्यामिति । अन्यतरस्याङ्रग्रहणसामर्थ्यात्पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठपवादभूतेनानेन समासेन मुक्ते उत्सर्गो न प्रवर्तेत । महाविभाषाधिकारेअपवादेन मुक्ते उत्सर्गो न प्रवर्तते, इतिपारेमध्ये षष्ठआ वे॑ति वाग्रहणेन ज्ञापितत्वादिति भावः । ननुपूरणगुणे॑ति निषेधात्कथमिह षष्ठीसमास इत्यत आह — पूरणगुणेति निषेधं बाधित्वेति । अन्यथा अन्यतरस्याङ्ग्रहणवैयथ्र्यादिति भावः । [इत्येकदेशिसमासनिरूपणम्] । Tattvabodhini ------------- **द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्** - द्वितीयतृतीया । षष्ठीसमासा पवादोऽयं योग इति वृत्तिकृतोक्तमयुक्तमति ध्वनयन्नाह — निषेधं बाधित्वेति । Padamanjari ----------- द्विदीयतृतीयचतुर्थतुर्याण्यन्यतरस्यात्॥ अन्यतरस्यांग्रहणात्सोऽपि भवतीति ननु च पूरणप्रत्ययान्ता एवैते द्वितीयादयः, तत्र पूरणगुणसुहितेत्यादिना प्रतिषेधेन भवितव्यम्, यदापि'पूरणाद्भगे तीयादन्' इति स्वार्थिकोऽन्प्रत्ययः क्रियते, तदापि'पूरणगुणसुहितार्थ' इत्यर्थशब्दस्य प्रत्येकमभिसम्बन्धात्पूरणार्थग्रहणम्, न तु तदधिकारविहितप्रत्ययग्रहणमिति भवितव्यमेव प्रतिषेधेन, तत्कथं सोऽपि भवतीत्याह - पूरणगुणेत्यादि। वाक्यस्य महाविभाषयैव सिद्धत्वात्षष्ठीसमासप्राप्त्यर्थमेवान्यतरस्यांग्रहणमिति भावः। पूर्वं तु षष्ठीसमासापवादो योग इत्याद्यप्राप्त्यभिप्रायेणोक्तम्। यद्वा - सत्यस्मिन्योगे षष्ठीसमासप्रतिषेधस्यास्य च षष्ठीसमासबोधकत्वमविशिष्टमिति मत्वा तथोक्तम्। अयमपि योगः शक्योऽवक्तुम्, कथम्? समुदायावयवयोरौपचारिके सामानाधिकरण्ये सति द्वितीयभिक्षादि सिद्धम्, मुख्यार्थवृतौ षष्ठीसमासे तु भिक्षाद्वितीयमित्यादि भविष्यतीति। नैतत्सुष्ठूअच्यते, अनेनैव खल्वन्यतरस्यांग्रहणेन षष्ठीसमासः प्राप्यते, कथमस्मिन्योगेऽसति भविष्यति॥ Nyaas ----- `अन्यतरस्यां ग्रहणात् सोऽपि षष्ठीसमासो भवति` इति। ननु च पूरणप्रत्ययान्ता एते द्वितीयादयः शब्दाः। तत्र पूरणेत्यादिना समासनिषेधेन भवितव्यम्, तत्कथं सोऽपि भवतीत्याह - `पूरण` इत्यादि। यद्यत्र षष्ठीसमास्य प्रतिषेधः स्यात् तदाऽन्यतरस्यां ग्रहणमनर्थकं स्यात्। वाक्यस्य तु महाविभाषयैव सिद्धत्वादिति भावः। `द्वितीयं भिक्षायाः` इति। भिक्षाया द्वितीयो भाग इत्यर्थः। `द्वितीयं भिक्षाया भिक्षकस्य` इति। भिक्षुकेण सहात्र समासो न भवति। न ह्रसावेकदेशी, किं तर्हि? स्वामी। तुर्यशब्दः `चतुरश्छयतावाद्यक्षरलोपश्च` (वा।571) इति यत्प्रत्ययान्तः पूरणार्थस्य प्रतिपादकः॥ Praudhamanorama --------------- द्वितीयतृतीय ॥ **निषेधं बाधित्वेति ।** भाष्यकारास्तु - ‘परवल्लिङ्गमि’ति सूत्रे तत्पुरुषग्रहणं, ‘द्विगुप्राप्ते’ त्यादिवार्तिकं, पूर्वापरेत्यादि- त्रिसूत्रीञ्च प्रत्याचख्युः । तन्मते भिक्षाद्वितीयादिसिद्धये ‘पूरणे’ त्यादिनिषेधस्याऽनित्यत्वमाश्रयणीयं, ‘सञ्ज्ञाप्रमाणत्वादि’ त्यादिनिर्देशानां ‘सामान्याऽपेक्षया ज्ञापकता च, एवं सति ‘तान्युञ्छषष्ठ’ इत्यपि सिद्धम् । Prakriyasarvasvam ----------------- एते प्राग्वत् भागिना वा समस्यन्ते । भिक्षाया द्वितीयो भागः द्वितीयभिक्षा, भिक्षाद्वितीयम् । एवं तृतीयभिक्षेत्यादि । तुर्यस्यापीष्टम् । तुर्यभिक्षा, भिक्षातुर्यम् । तलाग्रादयश्चेति भोजः । तलपादः, पादतलम् । अग्रहस्तः, हस्ताग्रम् । ऊर्ध्वकायः, कायोर्ध्वमित्यादि ॥