21068: कृत्यतुल्याख्या अजात्या ============================== **Padacheda:** कृत्य-तुल्य-आख्याः | S | 1 | 3 | अजात्या | S | 3 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Words ending with कृत् -affix and the word तुल्य 'equal' and its synonyms are compounded with words which do not denote genus (जाति) being in the same case with them and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ Words ending with कृत् -affix and the word तुल्य 'equal' and its synonyms are compounded with words which do not denote genus (जाति) being in the same case with them and the resulting compound is तत्-पुरुष । As, भोज्योष्णम् 'hot food,' भोज्यलवणं 'salt food' पानीयशीतलं 'cool drink,' तुल्यश्वेतः 'equally white,' सदृशश्वेतः 'equally white.' सदृशमहान् 'equally great.' Why do we say 'when not denoting a genus'? Observe भोज्य ओदनः 'eatable rice.' Here the word भोज्य is used as an Adjective and not as a common noun. Hence there is no compounding even under (Il. I.57). Kashika ------- कृत्यप्रत्ययान्तास्तुल्यपर्यायाश्च सुबन्ता अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। भोज्योष्णम्। भोज्यलवणम्। पानीयशीतम्। तुल्याख्याः — तुल्यश्वेतः। तुल्यमहान्। सदृशश्वेतः। सदृशमहान्। अजात्येति किम्? भोज्य ओदनः॥ Siddhanta Kaumudi ----------------- भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः । अजात्या किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न ॥ Balamanorama ------------ **कृत्यतुल्याख्या अजात्या** - कृत्यतुल्याख्या । कृत्यप्रत्ययान्ताः , तुल्यवाचकाश्च जातिभिन्नवाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः । भोज्योष्णमिति । भोज्यं च तदुष्णं चेति विग्रहः ।ऋहलोण्र्य॑दिति ण्यत् । अर्हे । कृत्यप्रत्ययः । भोज्योष्णशब्दयोः क्रियागुणशब्दत्वाद्विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते नियमार्थमिदम् । तुल्यश्वेत इति । तुल्यश्चासौ श्वेतश्चेति विग्रहः । उभयोर्गुणवचनतया विशेषणत्वाऽनियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः । आख्याग्रहणस्य प्रयोजनमाह — सदृशओत इति । सदृशशब्दस्य तुल्यपर्यायत्वादिति भावः । भोज्य ओदन इति । अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः । नन्वेतत्समासाऽभावेऽपि विशेषणसमासो दुर्वार इत्यत आह-प्रतिषेधेति । भोज्यशब्दपूर्वनिपातस्योभयत्राप्यविशिष्टतयाअजात्ये॑ति पर्युदासवैयथ्र्यादिति भावः । Tattvabodhini ------------- **कृत्यतुल्याख्या अजात्या** - कृत्यतुल्याख्या ।तुल्यमहान्॒सदृशमहा॑नित्यादौ तु परत्वादनेनसन्मह॑दिति बाध्यते ।तस्य सत्कृत्यशालिनः॑इति भट्टिप्रयोगे तुसतां कृत्यं सत्कृत्य॑मिति षष्ठीसमासो बोध्यः । एवंपरमपूज्यः॑इत्यादिष्वपि । Padamanjari ----------- तुल्यापर्यायाश्चेति। आख्याग्रहणं स्वरूपनिराकरणार्थमिति भावः। भोज्योष्णादावनियमे प्राप्ते पूर्वनिपातनियमार्थं वचनम्। तुल्यमहानिति।'सन्महत्' इत्यस्याकृत्यतुल्याख्येषु सावकाशत्वात्कृत्यतुल्याख्येषु परत्वादयमेव समासो यक्त इति भावः। भोज्य ओदन इति। प्रतिषेधसामर्थ्याद् विशेषणमित्यपि न भवति॥ Nyaas ----- `तुल्यपर्यायाश्च` इति। अथ स्वरूपग्रहणं कस्मान्न विज्ञायते? एवं मन्यते - कृत्य इत्यर्थग्रहणम्। अतस्तत्साहचर्यात् तुल्य इत्यर्थस्यैव ग्रहणं युक्तम्, तत्रार्थे कार्यासम्भवात् तद्वाचिनां समासो विज्ञायत इत्याख्याग्रहणं तुल्यनामधेयपरिग्रहार्थम्। अन्यथा गौर्वाहीक इत्यत्रापि स्यात् ; गोशब्दस्येह सादृश्यार्थत्वात्। सर्व एव हि शब्दाः परपदार्थे प्रयुज्यमानाः सादृश्यं गमयन्ति। आख्याग्रहणे तु क्रियमाणे गोशब्दोऽत्र तुल्यनामधेयं न भवतीति समासाभावः। भोज्योष्णमित्यादावुष्णादयः शब्दा गुणवचनाः। तत्रासत्यस्मिन् योगे विशेषणसमासे सति तेषां पूर्वनिपातः स्यात्। अतः परनिपातार्थ आरम्भः। `तुल्यमहान्` इति। यद्यप्यत्र `सन्महत्` इत्यादिना समासः प्राप्नोति, तथापि परत्वादनेनैव भवति। तुल्याख्यायामस्यावकाशः - तुल्यओत इति। तस्य चातुल्याख्यायामवकाशः - महापुरुष इति। `भोज्य ओदनः` इति। ओदन शब्दोऽत्र जातिवचनः॥ Prakriyasarvasvam ----------------- कृत्यास्तुल्यपर्यायाश्चाजात्या समस्यन्ते । भोज्योष्णम् । पानीयशीतलस् । तुल्यश्वेतः । सदृशमहान् । जात्या तु न भोज्यमोदनम् ॥