21064: किं क्षेपे ================= **Padacheda:** किम् | S | 1 | 1 | क्षेपे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word किम् 'what', when implying 'contempt' is compounded with a word ending in case-affix and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ The word किम् 'what', when implying 'contempt' is compounded with a word ending in case-affix and the resulting compound is तत्-पुरुष । As किं राजा यो न रक्षति 'he is a bad king who does not protect his subjects.' किं सखा योऽभिद्रुह्यति 'he is a bad friend who hates.' किं गौः यो न वहति 'it is a bad ox that does not carry.' The affix टच् (5.4.91) does not come after this compound as in महाराजः मद्रराजः &c., by force of Rule (5.4.70). Otherwise the form would have been किंराज and not किंराजा. Why do we say 'when censure is implied?' Observe कस्य राजा = किंराजः 'whose king;' किंसखः Kashika ------- किमित्येतत् क्षेपे गम्यमाने सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। किंराजा, यो न रक्षति। किंसखा, योऽभिद्रुह्यति। किंगौः, यो न वहति। **किमः क्षेपे** (५.४.७०) इति समासान्तो न भवति। क्षेप इति किम्? को राजा पाटलिपुत्रे॥ Siddhanta Kaumudi ----------------- कुत्सितो राजा किंराजा । यो न रक्षति ॥ Balamanorama ------------ **किं क्षेपे** - किं क्षेपे । क्षेपो निन्दा । तत्रगम्ये किमित्यव्ययं समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । कुत्सितो राजेति । अस्वपदविग्रहोऽयम् । किम्पदस्थाने कुत्सिदपदमिति ज्ञेयम्, वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहाऽसम्भवात् । किंराजेति । 'राजाहःसखिभ्यः' इति टच् तु न, 'किमः क्षेपे' इति निषेधात् । ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह — यो न रक्षतीति । स किराजेत्यन्वयः । Tattvabodhini ------------- **किं क्षेपे** - किं क्षेपे । किंराजेति ।किमः क्षेपे॑इति समासान्तनिषेधः । क्षेपे किम् । को राजा पाटलिपुत्रे । एवंकिंसखा यो दहति॑किंगौर्यो न वहति॑ इत्यप्युदाहरणं बोध्यम् । Nyaas ----- `किंसखा` इति। `अनङ सौ` (7.1.93) इत्यनङादेशः। अथ किंराजेत्यादौ `राजाहः सखिभ्यष्टच्` (5.4.91) **गोरतद्धितलुकि** (5.4.92) इति टच् समासान्तः कस्मान्न भवतीत्याह - `किमः क्षेपे` इत्यादि। अत्र `न पूजनात्` (5.4.69) इत्यतः `न` इत्यनुवर्तते॥ Prakriyasarvasvam ----------------- कुत्सितो गौः किगौः ॥