21058: पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ================================================ **Padacheda:** पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीराः | S | 1 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- A case-inflected words पूर्व 'prior', अपर 'other', प्रथम 'first', चरम 'last', जघन्य 'hindmost', समान 'equal', मध्य 'middle', मध्यम 'middle', and वीर 'hero' are compounded with words ending with a case-affix and which are in agreement (same case) with them and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ A case-inflected words पूर्व 'prior', अपर 'other', प्रथम 'first', चरम 'last', जघन्य 'hindmost', समान 'equal', मध्य 'middle', मध्यम 'middle', and वीर 'hero' are compounded with words ending with a case-affix and which are in agreement (same case) with them and the resulting compound is तत्-पुरुष । As पूर्व पुरुषः 'ancestor,' (any one of the three, father, grandfather and great-grandfather), अपरपुरुषः 'successor,' चरमपुरुषः 'last person,' जघन्यपुरुषः 'hinder most person,' समानपुरुषः.' equal person,'मध्य or मध्यमपुरुषः 'middle person,'वीरपुरुषः 'heroic person.' Bhashya ------- पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (406) (260 तत्पुरुषसमाससंज्ञासूत्रम् ॥ 2 । 1 । 3 आ.7 सू.) (एतदादिसूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थमुत्तरत्रैवमाद्यनुक्रमणं क्रियते, न विशेषणं विशेष्येण बहुलम् इत्येव सिद्धम् ॥ (1324 समाधानवार्तिकम् ॥ 1 ॥) ॥ बहुलवचनस्याकृत्स्नत्वादुत्तरत्रानुक्रमणसामर्थ्यम् ॥ (व्याख्याभाष्यम्) अकृत्स्नं बहुलवचनमित्युत्तरत्रानुक्रमणं क्रियते ॥ (आक्षेपभाष्यम्) यद्यकृत्स्नं यदनेन कृतमकृतं तत् ॥ (समाधानभाष्यम्) एवं तर्हि न ब्रूमोऽकृत्स्नमिति, कृत्स्नं च कारकं च साधकं च निर्वर्तकं च यच्चानेन कृतं सुकृतं तत् ॥ (आक्षेपभाष्यम्) किमर्थं तर्ह्येवमाद्यनुक्रमणं क्रियते? ॥ (समाधानभाष्यम्) उदाहरणभूयस्त्वात्। एते खल्वपि विधयः सुपरिगृहीता भवन्ति येषु लक्षणं प्रपञ्चश्च। केवलं लक्षणं केवलः प्रपञ्ञ्चो वा, न तथा कारकं भवति ॥ अवश्यं खल्वप्यस्माभिरिदं वक्तव्यम् - बहुलम्, अन्यतरस्याम्, उभयथा, वा, एकेषामिति। सर्ववेदपारिषदं हीदं शास्त्रम्। तत्र नैकः पन्थाः शक्य आस्थातुम् ॥ पूर्वापर ॥ 57 ॥ Kashika ------- पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूर्वपुरुषः। अपरपुरुषः। प्रथमपुरुषः। चरमपुरुषः। जघन्यपुरुषः। समानपुरुषः। मध्यपुरुषः। मध्यमपुरुषः। वीरपुरुषः। पूर्वस्यैवायं प्रपञ्चः॥ Siddhanta Kaumudi ----------------- पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः । (वार्तिकम्) ॥ अपरश्चासावर्धश्च पश्चार्धः । कथमेकवीर इति । पूर्वकालैक - (SK726) इति बाधित्वा परत्वादनेन समासे वीरैक इति हि स्यात् । बहुलग्रहणाद्भविष्यति ॥ Balamanorama ------------ **पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च** - पूर्वापर । पूर्वादय समानाधिकरणेन समस्यन्ते इत्यर्थः । विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह-पूर्वनिपातेति । अपराध्यापक इति । बहुलग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषां न समास इति समर्थसूत्रे भाष्ये स्थितम् । ततश्च 'अपराध्यापकः' इत्युदाहरणमुपेक्ष्यम् । 'अपरमीमांसक' इत्युदाहरणमुचितम् । अपरस्यार्धे इति ।पश्चा॑दिति सूत्रभाष्ये इदं वार्तिकं स्थितम् । प्रथमवैयकरणः । चरमवैयाकरणः ।मच्यान्मः॑ । मध्यमवैयाकरणः । वीरवैयाकरणः । आक्षिपति-कथमेकवीर इति । हि=यतः, अनेन=प्रकृतसूत्रेण, वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैक इति स्यात्, अतः 'एकवीरः' इति कथमित्यन्वयः । ननुपूर्वकालैके॑ति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति 'एकवीरः' इति निर्बाधमित्यत आह — पूर्वकालैकेति बाधित्वा परत्वादिति । परिहरति — बाहुलतादिति । बहुलग्रहणानुवृत्तेरस्य सूत्रस्याऽप्रवृत्तौपूर्वकाले॑त्येव समासो भवतीत्यर्थः । Padamanjari ----------- पूर्वस्यैवायं प्रपञ्चेति। गुणक्रियाशब्देन सह समासे पूर्वादीनां पूर्वनिपातनियमार्थं तु न भवति, बहुंड्लग्रहणेनैव सिध्दत्वादिति मन्यते॥ Nyaas ----- `पूर्वस्यैवायं प्रपञ्चः` इति। तेनैव सिद्धत्वात्। अस्ति ह्यत्रापि प्रत्येकं पूर्वोत्तरपदयर्विशेषणं विशेष्यभावः॥ Praudhamanorama --------------- पूर्वापर ॥ **अपरस्येति ।** एतच्च ‘पश्चादिति सूत्रे भाष्ये स्थितम् । **बाहुलकादिति ।** एकेषु = मुख्येषु वीरयते = पराक्रमते इति वा बोद्ध्यम् । **श्रेणिकृता इति ।** एकेन शिल्पेन, पण्येन वा ये जीवन्ति, तेषां समूहः श्रेणिः । **कृताकृतमिति ।** एकदेशकरणात् कृतम्, एकदेशाऽन्तरस्याऽ- करणात्तदेवाऽकृतम् । Prakriyasarvasvam ----------------- एते समानाधिकरणेन समस्यन्ते। पूर्वगिरिः। अपरजलधिरित्यादि॥ Sutra Prayogas -------------- * **पश्चिमरात्रिगोचरात्** (किरातार्जुनीयम्): `पूर्वापरप्रथमचरम...` (पूर्वापरादि) सूत्रे पश्चिमशब्दस्य ग्रहणाभावात् अत्र एकदेशिसमासो न भवति।