21054: पापाणके कुत्सितैः ======================== **Padacheda:** पापाणके | S | 1 | 2 | कुत्सितैः | S | 3 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The case-inflected words पाप 'sin' and अणक 'insignificant' are compounded with words expressive of vileness and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ The case-inflected words पाप 'sin' and अणक 'insignificant' are compounded with words expressive of vileness and the resulting compound is तत्-पुरुष । Both the words पाप and अणक are words of contempt (कुत्सन) ; by the last *sútra*, they would have stood as second members in the compound; the present *sútra*, however, is so framed with regard to *sútra* (1.2.43) and (2.2.30), that they will stand as first. As पापनापितः or अणकनापितःः 'a contemptible barber' पाप or अणक-कुलालः 'a contemptible potter.' Kashika ------- पापाणकशब्दौ कुत्सनाभिधायिनौ, तयोः पूर्वेण समासे परनिपातः प्राप्तः, पूर्वनिपातार्थमिदमारभ्यते। पाप अणक एते सुबन्ते कुत्सितवचनैस्सह समस्येते, तत्पुरुषश्च समासो भवति। पापनापितः। पापकुलालः। अणकनापितः। अणककुलालः॥ Siddhanta Kaumudi ----------------- पूर्वसूत्रापवादः । पापनापितः । आणककुलालः ॥ Balamanorama ------------ **पापाणके कुत्सितैः** - पापाणके । पापशब्दोऽणकशब्दश्च कुत्सितवाचकैः समस्यते स तत्पुरुष इत्यर्थः । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह — पूर्वसूत्रेति । पापमस्यास्तीति मत्वर्थीयोऽर्शाअद्यच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते ।कुरूपकुत्सिताऽवद्यखेटगह्र्राऽणकाःसमाः॑ इत्यमरः । ततश्च पापाऽणकशब्दौ निन्दाहेतुभूतपापकुरूपात्मकप्रवृत्तिनिमित्तौ कुत्सनाभिधायिनौ । ततश्चानयोः पूर्वसूत्रेम समासे परनिपातः स्यादतः पूर्वनिपातनियमार्थमिदं सूत्रमित्यर्थः । पापनापित इति । पापश्चासौ नापितश्चेति विग्रहः । अणककुलाल इति । अणकश्चासौ कुलालश्चेति विग्रहः । Tattvabodhini ------------- **पापाणके कुत्सितैः** - पापाणके । एतौ कुत्सनाभिधिनौ ।कुपूयकुत्सितावद्यखेटगह्र्राऽणकाः समाः॑इत्यमरः । ततश्चानयोः पूर्वसूत्रेण समासे परनिपातः स्यात्, तस्मात्पूर्वनिपातनियमार्थमिदं सूत्रमित्याशयेनाह — पूर्वसूत्रापवाद इति । Prakriyasarvasvam ----------------- पापद्विजः। अणकद्विजः। 'पापाणकहतदग्धादीनि कुत्सितैः' इति भोजः। हतविधिः। दग्धदैवम्। क्षुद्रतापसः॥ Sutra Prayogas -------------- * **अणकभार्यया** (भट्टिकाव्यम्): `पापाणके` इति सः।