21052: संख्यापूर्वो द्विगुः =========================== **Padacheda:** संख्या-पूर्वः | S | 1 | 1 | द्विगुः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In a case where the sense is that of a तद्धित-affix or when an additional member comes after the compound or when an aggregate is to be expressed, the compound, the first member of which is numeral, is called द्विगु (Numeral Determinative Compound). Vasu English Translation ------------------------ In a case where the sense is that of a तद्धित-affix or when an additional member comes after the compound or when an aggregate is to be expressed, the compound, the first member of which is numeral, is called द्विगु (Numeral Determinative Compound). First to take an example of *Taddhitartha*:-as, पञ्चेषु कपालेषु संस्कृतः = पञ्चकपालः 'an offering prepared or offered in five cups.' So also दशकपालः 'prepared in tea cups.' These are names of *Purodása* offerings; and are formed by adding the affix अण् in the sense of 'refining an object of food' by sūtra (4.2.16); then this affix is elided (लुक्) by (4.1.88). To take an example when an additional member comes after the compound. As पञ्चनावप्रियः loving five ships. द्विनावरुप्यम् money which has come by two ships' (द्वि+नौ+टच् (5.4.99) = द्विनाव) Of an aggregate we have पञ्चपूली. The feminine is formed by (4.1.21). Bhashya ------- संख्यापूर्वो द्विगुः (500) (255 तत्पुरुषे द्विगुसंज्ञासूत्रम् ॥ 2.1.3 आ.2 सू) (अनन्तरयोगस्यैव संबन्धाधिकरणम्) (आक्षेपभाष्यम्) किमनन्तरे योगे यः संख्यापूर्वः स द्विगुसंज्ञः, आहोस्वित्पूर्वमात्रे? ॥ (विशेषजिज्ञासाभाष्यम्) किं चातः? ॥ (विशेषप्रदर्शकभाष्यम्) यदानन्तरयोगे। एकशाटीति द्विगोः इतीकारो न प्राप्नोति ॥ (विशेषप्रदर्शकशेषभाष्यम्) अथ पूर्वमात्रे। एकभिक्षा। अत्रापि प्राप्नोति ॥ (प्रथमपक्षाभ्युपगमभाष्यम्) अस्त्वनन्तरे ॥ (आक्षेपभाष्यम्) कथमेकशाटी ? ॥ (समाधानभाष्यम्) ईकारान्तेन समासो भविष्यति - एका शाटी एकशाटी ॥ (समाधानबाधकभाष्यम्) इह तर्ह्येकापूपी द्विगोः इतीकारो न प्राप्नोति ॥ (द्वितीयपक्षाभ्युपगमभाष्यम्) अस्तु तर्हि पूर्वमात्रे ॥ (आक्षेपभाष्यम्) कथमेकभिक्षा? ॥ (समाधानभाष्यम्) टाबन्तेन सह समासो भविष्यति - एका भिक्षा एकभिक्षा। (आक्षेपान्तरभाष्यम्) इदं तर्हि - सप्तर्षयः इगन्ते द्विगौ इत्येष स्वरः प्राप्नोति ॥ (प्रथमपक्षाभ्युपगमभाष्यम्) अस्तु तर्ह्यनन्तरे ॥ (आक्षेपभाष्यम्) कथमेकापूपी ? (समाधानभाष्यम्) समाहार इत्येव सिद्धम् ॥ (आक्षेपभाष्यम्) कः पुनरत्र समाहारः ॥ (समाधानभाष्यम्) यत्तद्दानं संभ्रमो वा ॥ (आक्षेपभाष्यम्) इह तर्हि पञ्चहोतारो दशहोतारः। इगन्ते द्विगौ इत्येष स्वरो न प्राप्नोति ॥ (द्वीतीयपक्षाभ्युपगमभाष्यम्) अस्तु तर्हि - पूर्वमात्रे ॥ (आक्षेपभाष्यम्) कथं सप्तर्षयः? ॥ (समाधानभाष्यम्) अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दसि इत्येवमेतत्सिद्धम् ॥ (प्रथमपक्षाभ्युपगमभाष्यम्) अथ वा पुनरस्तु - अनन्तरे ॥ (आक्षेपभाष्यम्) कथं पञ्चहोतारः दशहोतारः ? (समाधानभाष्यम्) ।आद्युदात्तप्रकरणे दिवोदासादीनां छन्दसि। इत्येव सिद्धम् ॥ संख्यापूर्वो ॥ 51 ॥ Kashika ------- तद्धितार्थोत्तरपदसमाहारे चेत्यत्र यः संख्यापूर्वः समासः स द्विगुसंज्ञो भवति। तद्धितार्थे तावत् — पञ्चसु कपालेषु संस्कृतः, पञ्चकपालः, दशकपालः। **संस्कृतं भक्षाः** (४.२.१६) इतीहाण्, तस्य **द्विगोर्लुगनपत्ये** (४.१.८८) इति लुक्। उत्तरपदे — पञ्चनावप्रियः। **नावो द्विगोः** (५.४.९९) इति समासान्तो भवति। समाहारे — पञ्चपूली। **द्विगोः** (४.१.२१) इति ङीब् भवति। द्विगुप्रदेशाः **द्विगोः** (४.१.२१) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- तद्धितार्थ - (SK728) इत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगोः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात्॥ Balamanorama ------------ **संख्यापूर्वो द्विगुः** - अत्र समासे सति 'गोरतद्धितलुकि' इति टचि अवादेशे पञ्चगवशब्दस्य द्विगुकार्यं विधास्यन् द्विगुसंज्ञामाह — संख्यापूर्वो द्विगुः । सङ्ख्या पूर्वोऽवयवो यस्येति बहुव्रीहिः । 'तद्धितार्थ' इति पूर्वसूत्रविहितसमासोऽन्यपदार्थः, प्रत्यासत्तेः, तदाह — तद्धितार्थेत्यत्रोक्तस्त्रिविध इति । तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः सङ्ख्यापूर्वः समास उक्तः, स द्विगुरिति यावत् । तथाच पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वाद्द्विगुसंज्ञा स्थिता । तद्धितार्थे तु पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । 'संस्कृतं भक्षाः' इत्यण् । 'द्विगोर्लुगनपत्ये' इति लुक् । उत्तरपदे यथा,-पञ्चनावप्रियः ।नावो द्विगो॑रिति समासान्तष्टच् । Tattvabodhini ------------- **संख्यापूर्वो द्विगुः** - सङ्ख्यापूर्वो द्विगुः । अत्रोक्त इति । अयं भावः — पूर्वसूत्रविषय एवेयं संज्ञा,॒अनन्तरस्यैवे॑ति न्यायात् । एतदर्थमेव हि सूत्रद्वयं कृतम्, अन्यथादिक्संख्यं संज्ञायां तद्धितार्थोत्तरपदसमाहारेष्वि॑त्येव ब्राऊयात् । तेनसप्तर्षय॑इत्यत्रइगन्तकालकपाले॑त्यादिना पूर्वपदप्रकृतिस्वरो न भवति, किन्तु समासान्तोदात्त एव । तथा च लक्ष्यं,सप्त ऋषयस्तपसे ये निषेदुः॑ ।सप्तऋषीणां सुकृतां यत्र लोकः॑इत्यादि । त्रिविधः संख्यापूर्व इति । तद्धितार्थे विषये, उत्तरपदे चपरतः, समाहारे च वाचच्ये संख्यापूर्वो यः समासः स इत्यर्थः । तद्धितार्थे यथा — पञ्चकपालः ।संस्कृतं भक्षाः॑ इत्यणोद्विगोर्लुगनपत्ये॑इति लुक् । उत्तरपदे यथा — पञ्चनावप्रियः ।नावो द्विगोः॑इति समासान्तष्टच् । समाहारे — पञ्चपूली ।द्विगोः॑इति ङीप् । Padamanjari ----------- क्वचिदनन्तरोऽपोक्ष्यते, यत्रैतदुच्यते - ऽअनन्तस्य विधिर्वा भवति प्रतिषेधो वाऽ इति; क्वचित्समुदायः, यथा -'न षट्स्वस्रादिभ्यः' इत्यत्र वक्ष्यते - तस्मान्नोभाविति, तदिह समुदायोऽपेक्ष्टे? अनन्तरो वा? इति संशयेऽनन्तर इत्याह - तध्दितार्थ इत्यादि। अयं भावः - समुदायापेक्षायां संख्यापूर्वपदसमानाधिकरमसमासमात्रपरिग्रहे द्विमुनि व्याकरणस्येत्यव्ययीभावस्यापि स्यादितीगन्ते द्विगाविति स्वरप्रसङ्गः। समानाधिकरणतत्पुरुषापेक्षायामपि एकशाटीत्यत्रापि स्यात्। संख्याशब्दोपादनविहितत्पुरुषपरिग्रहेऽपि'दिक्सख्ये संज्ञायाम्' इत्यस्यापि ग्रहणात्सप्तरषय इत्यत्र द्विगुस्वरप्रसङ्गः। योगविभागश्चानर्थकः,'दिक्सख्ये संज्ञायां तध्दितार्थोतरपदसमाहारे' इत्येकयोगः कर्तव्यः स्यादिति। कथमेकापूपीति? अत्र ह्यएकश्चासावपूपश्चेति पूर्वकालेति समासे कृते द्विगत्वे सति ठकारान्तोतरपदो द्विगुः स्त्रियां भाष्यतेऽ इति'द्विगोः' इतैइकारः सिध्द्यति, नान्यथा। न चैकशाटीतिवज्जातिङीष्नेन समासः सक्यतेकर्तुम्, केवलस्यापूपशब्दस्य पूंल्लिङ्गत्वात्? उच्यते - अत्रानन्तरसूत्रेण समाहार एव समासः। नन्वनेकविषयः समाहारो नेकस्य सम्भवति, कथम्? एहैसमप्यपूपं कश्चित्कृपणो दददनेकं मन्यते, तथा दानश्रध्दातिशयादपूपमहतवाद्वाऽनेकस्मिन्यः संगमस्तमेकस्मिन्नपि करोति। अनेन प्रतिग्रहीता कृपणो व्याख्यातः, तत्ररोपितबहुत्वाश्रयः समाहार इति सध्दम्॥ Nyaas ----- `समासान्तो भवति` इति। टच्। `राजाहःसखिभ्यष्टच्` (5.4.91) इत्युवृत्तेः॥ Praudhamanorama --------------- संख्यापूर्वो द्विगुः ॥ **अत्रोक्त इति ।** अयं भावः - पूर्वसूत्रविषय एवेयं सञ्ज्ञा, अनन्तरस्येति न्यायात् । एतदर्थमेव हि तत्र योगविभागः कृतः । अन्यथा ‘दिक्संख्ये’ सञ्ज्ञायां तद्धिताऽर्थोत्तरपदसमाहारे’ इत्येव ब्रूयात् । तेन ‘सप्तऋषय’ इत्यत्र ‘इगन्तकाले ‘ति - पूर्वपदप्रकृतिस्वरो न भवति, किन्तु समासाऽन्तोदात्त एव । तथा च लक्ष्यं ‘सप्तऋषयस्तपसे ये निषेदुः’ ‘सप्तऋषीणां सुकृतां यत्र लोके’ इत्यादि । **स नपुंसकमिति ।** एतच्च मूले एव व्याख्यास्यते । Prakriyasarvasvam ----------------- इहोक्तः सङ्ख्यापूर्वः समासो द्विगुसंज्ञः । तेन 'द्विगोलुग्—' (४-१-८८) इत्यणो लुकि पञ्चकपालः पुरोडाशः । उत्तरपदे प्राग्वत पञ्चपणधनः । समाहारे तु, Sutra Prayogas -------------- * **पञ्चवट्यां** (रघुवंशम्): `संख्यापूर्वो द्विगुः` इति द्विगुसंज्ञायाम्।