21051: तद्धितार्थोत्तरपदसमाहारे च ================================= **Padacheda:** तद्धितार्थ-उत्तरपद-समाहारे | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In a case where the sense is that of a तद्धित-affix or when an additional member comes after the compound or when an aggregate is to be expressed, then a word signifying a point of the compass or a number, enters into composition with a case-inflected word which is in agreement with it by being in the same case and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ In a case where the sense is that of a तद्धित-affix or when an additional member comes after the compound or when an aggregate is to be expressed, then a word signifying a point of the compass or a number, enters into composition with a case-inflected word which is in agreement with it by being in the same case and the resulting compound is तत्-पुरुष । First let us take the case where the sense is that of a *Taddhita*-affix. Thus when a compound is formed out of the words पूर्वस्यां शालायां भवः 'that which is in the eastern hall' (in which analytical exposition of the compound in question, the word भव (4.2.107) serves to represent the force of a *Taddhita* -affix) the compound having reached the form of पूर्वा+शाला, the feminine termination of the पूर्वा is rejected, because *Patanjali* declares that the masculine state belongs to a pronominal when exercising any of the five functions belonging to a word; we have :-पूर्व + शाला + अ (4.2.107) = पौर्वशालः (VII.2.117 and VI.4.148) 'who is in the eastern hall.' So also when an additional member comes after the compound (*uttarpade*) As, पूर्वशालप्रियः or अपरशालप्रियः 'loving the eastern or western hall.' Those *Uttarpada* Compounds are invariable (*Nitya*) compounds, so that they can not be resolved into their component elements. When a समाहार 'aggregate' is to be expressed, it is of course impossible to use a word expressing points of the compass ( दिक् words ). The following compounds are formed with numbers (सङ्ख्या), when employed with the force of a *Taddhita* affix; as, पाञ्चनापितिः 'relating to five barbers.' पाञ्चकपाल 'relating to an oblation offered in five cups' (कपाल) (4.1.88). So also पञ्चगवधन (5.4.92) 'Whose wealth consists of five cows,' दशगवधनः The following are examples of aggregates:- पञ्चफली 'the collection of five fruits' (4.1.21) दशपूली 'an aggregate of ten bundles,'त्रिलोकी 'the aggregate of the three worlds.' पञ्चकुमारि 'an aggregate of five virgins;' this word is neuter by (II.417.)and the long ई is shortened by (1.2.47) Bhashya ------- तद्धितार्थोत्तरपदसमाहारे च (399) (254 तत्पुरुषसंज्ञासूत्रम् ॥ 2। 1 । 3 आ.1) (समाहारशब्दार्थनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) समाहार इति कोयं शब्दः? ॥ (समाधानभाष्यम्) समाङ्पूर्वाद्धरतेः कर्मसाधनो घञ्ञ् - समाह्रियते समाहार इति ॥ (आक्षेपभाष्यम्) यदि कर्मसाधनः, पञ्च कुमार्यः समाहृताः पञ्चकुमारि दशकुमारि गोस्त्रियोरुपसर्जनस्य इति ह्रस्वत्वं न प्राप्नोति। द्विगुरेकवचनम् इत्येतच्च वक्तव्यम् ॥ (समाधानभाष्यम्) एवं तर्हि भावसाधनो भविष्यति - समाहरणं समाहारः ॥ (आक्षेपभाष्यम्) अथ भावसाधने सति किमभिधीयते? ॥ (समाधानभाष्यम्) यत्तदौत्तराधर्यम्? ॥ (आक्षेपभाष्यम्) कः पुनर्गवां समाहारः ॥ (समाधानभाष्यम्) यत्तदर्जनं क्रयणं भिक्षणमपहरणं वा ॥ (आक्षेपभाष्यम्) यद्येवं विक्षिप्तेपु पूलेषु, गोषु चरन्तीषु न सिद्ध्यति ॥ (समाधानभाष्यम्) एवं तर्हि समभ्याशीकरणं समाहारः ॥ (आक्षेपभाष्यम्) एवमपि पञ्चग्रामी षण्णगरी त्रिपुरीति न सिद्ध्यति ॥ किं कारणम्?। समेकत्ववाची, आङाभिमुख्ये वर्तते, हरतिर्देशान्तरप्रापणे ॥ (समाधानभाष्यम्) नावश्यं हरतिर्देशान्तरप्रापण एव वर्तते ॥ किं तर्हि? ॥ सादृश्येपि वर्तते। तद्यथा - मातुरनुहरति पितुरनुहरतीति ॥ (समाधानान्तरभाष्यम्) अथ वा पञ्चग्रामी षण्णगरी त्रिपुरीति। नैवेदमियत्येवावतिष्ठते। अवश्यमसौ ततः किंचिदाकाङ्क्षति क्रियां गुणं वा। यदाकाङ्क्षति तदेकं, स च समाहारः ॥ (आक्षेपभाष्यम्) अयं तर्हि भावसाधने सति दोषः - पञ्चफली आनीयताम् इति भावानयने चोदिते द्रव्यानयनं न प्राप्नोति ॥ (समाधातुं प्रश्नभाष्यम्) नैष दोषः। इदं तावदयं प्रष्टव्यः अथेह गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति कथमाकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनानि क्रियन्ते इति ॥ (तद्देयप्रश्नोत्तरभाष्यम्) असंभवाद् आकृतौ आरम्भणादीनां संभवो नास्तीति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ॥ (प्रश्नोत्तरस्यैव स्वार्थसाधकताभाष्यम्) इदमप्येवंजातीयकमेव। असंभवाद्भावानयनस्य द्रव्यानयनं भविष्यति ॥ अथ वा - अव्यतिरेकाद् द्रव्याकृत्योः ॥ (सूत्रन्यासविचाराधिकरणम्) (आक्षेपभाष्यम्) किं पुनर्द्विगुसंज्ञा प्रत्ययोत्तरपदयोर्भवति? ॥ (अभ्युपगमभाष्यम्) एवं भवितुमर्हति ॥ (1275 अभ्युपगमे दोषवार्तिकम् ॥ 1 ॥) ॥ द्विगुसंज्ञा प्रत्ययोत्तरपदयोश्चेदितरेतराश्रयत्वादप्रसिद्धिः ॥ (व्याख्याभाष्यम्) द्विगुसंज्ञा प्रत्ययोत्तरपदयोश्चेदितरेतराश्रयत्वादप्रसिद्धिः ॥ का इतरेतराश्रयता?। द्विगुसंज्ञानिमित्ते प्रत्ययोत्तरपदे। प्रत्ययोत्तरपदनिमित्ता च द्विगुसंज्ञा। तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ॥ (समाधानभाष्यम्) एवं तर्हि अर्थे इति वक्ष्यामि ॥ (1276 वार्तिकम् ॥ 2 ॥ ॥ अर्थे चेत्तद्धितानुत्पत्तिर्बहुव्रीहिवत् ॥ (व्याख्याभाष्यम्) अर्थे चेत्तद्धितोत्पत्तिर्न प्राप्नोति। द्वैमातुरः। त्रैमातुरः। पाञ्चनापितिः ॥ किं कारणम्?। द्विगुनोक्तत्वात्। बहुव्रीहिवत्। तद्यथा - चित्रगुः शबलगुः इति बहुव्रीहिणोक्तत्वान्मत्वर्थस्य मत्वर्थीयो न भवति ॥ (न्यासान्तरभाष्यम्) एवं तर्हिसमासतद्धितविधौ इति वक्ष्यामि। (1277 वार्तिकम् ॥ 3 ॥) ॥ समासतद्धितविधाविति चेदन्यत्र समाससंज्ञाभावः ॥ (व्याख्याभाष्यम्) समासतद्धितविधाविति चेदन्यत्र समाससंज्ञा न प्राप्नोति ॥ क्वान्यत्र?। स्वरे। पञ्ञ्चारत्निः दशारत्निः इगन्ते द्विगौ इत्येष स्वरो न प्राप्नोति ॥ (1278 समाधानवार्तिकम् ॥ 4 ॥) ॥ सिद्धं तु प्रत्ययोत्तरपदयोश्चेति वचनात् ॥ (व्याख्याभाष्यम्) सिद्धमेतत् ॥ कथम्?। प्रत्ययोत्तरपदयोश्चेति वचनात्। प्रत्ययोत्तरपदयोर्द्विगुसंज्ञा भवतीति वक्तव्यम् ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - ।द्विगुसंज्ञा प्रत्ययोत्तरपदयोश्चेदितरेतराश्रयत्वादप्रसिद्धि। इति ॥ (समाधानसाधकभाष्यम्) नैष दोषः। इतरेतराश्रयमात्रमेतच्चोदितम्। सर्वाणि चेतरेतराश्रयाण्येकत्वेन परिहृतानि - ।सिद्धं तु नित्यशब्दत्वाद्। इति ॥ (समाधानबाधकभाष्यम्) नेदं तुल्यमन्यैरितरेतराश्रयैः। नहि संज्ञा नित्या ॥ (समाधानसाधकभाष्यम्) एवं तर्हि भाविनी संज्ञा विज्ञास्यते। तद्यथा। कश्चित्कंचित्तन्तुवायमाह - अस्य सूत्रस्य शाटकं वय इति। स पश्यति - यदि शाटकः न वातव्यः। अथ वातव्यो न शाटकः। वातव्यः शाटकश्चेति विप्रतिषिद्धं भवति। भाविनी खल्वस्य संज्ञाभिप्रेता। स मन्ये वातव्यः यस्मिन्नुते शाटक इत्येतद्भवतीति ॥ एवमिहापि तस्मिन् द्विगुर्भवति यस्याभिनिर्वृत्तस्य प्रत्यय उत्तरपदमिति चैते संज्ञेभविष्यतः ॥ (अभ्युपगमभाष्यम्) अथ वा पनरस्तु - अर्थे इति ॥ (आक्षेपस्मारणम्) ननु चोक्तम् - ।अर्थे चेत्तद्धितानुत्पत्तिर्बहुव्रीहिवद्। इति ॥ (समाधानभाष्यम्) नैष दोषः। नावश्यमर्थशब्दोभिधेय एव वर्तते ॥ किं तर्हि? स्यादर्थेपि वर्तते। तद्यथा - दारार्थं घटामहे। धनार्थं भिक्षामहे। दारा नः स्युः। धनानि नः स्युरिति। एवमिहापि तद्धितार्थे द्विगुर्भवतीति तद्धितः स्यादिति ॥ (1279 वार्तिकम् ॥ 5 ॥) ॥ द्विगोर्वा लुग्वचनं ज्ञापकं तद्धितोत्पत्तेः ॥ (व्याख्याभाष्यम्) अथ वा यदयं द्विगोर्लुगनपत्ये इति द्विगोरुत्तरस्य तद्धितस्य लुकं शास्ति तज्ज्ञापयत्याचार्यः - उत्पद्यते द्विगोस्तद्धितः इति ॥ (समाहारग्रहणसार्थक्याधिकरणम्) (1280 वार्तिकम् ॥ 6 ॥) ॥ समाहारसमूहयोरविशेषात्समाहारग्रहणानर्थक्यं तद्धितार्थेन कृतत्वात् ॥ (व्याख्याभाष्यम्) समाहारः समूह इत्यविशिष्टावेतावर्थौ। समाहारसमूहयोरविशेषात्समाहारग्रहणमनर्थकम् ॥ किं कारणम्। तद्धितार्थेन कृतत्वात्। तद्धितार्थे द्विगुः इत्येवमत्र द्विगुर्भविष्यति ॥ (आक्षेपभाष्यम्) यदि तद्धितार्थे द्विगु इत्येवमत्र द्विगुर्भविष्यति, तद्धितोत्पत्तिः प्राप्नोति ॥ (आक्षेपबाधकभाष्यम्) उत्पद्यताम्। लुक् भविष्यति ॥ (आक्षेपसाधकभाष्यम्) लुक्कृतानि प्राप्नुवन्ति ॥ कानि?। पञ्चपूली दशपूली अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि इति प्रतिषेधः प्राप्नोति ॥ पञ्चगवं दशगवम् गोरतद्धितलुकि इति टच् न प्राप्नोति ॥ (समाधानभाष्यम्) नैष दोषः। अविशेषेण द्विगोर्ङीब् भवति इत्युक्त्वा अपरिमाणबिस्ताचितकम्बल्येभ्यः समाहारे इति वक्ष्यामि तन्नियमार्थं भविष्यति समाहार एव नान्यत्र इति ॥ गोरकारो द्विगोः समाहारे ॥ अविशेषेण गोष्ठज् भवति इत्युक्त्वा द्विगोः समाहारे इति वक्ष्यामि तन्नियमार्थं भविष्यति - समाहार एव नान्यत्र इति ॥ (1281 वार्तिकम् ॥ 7 ॥) ॥ अभिधानार्थं तु ॥ (व्याख्याभाष्यम्) अभिधानार्थं तु समाहारग्रहणं कर्तव्यम्। समाहारेणाभिधानं यथा स्यात्, तद्धितार्थेन मा भूदिति ॥ किं च स्यात्? ॥ तद्धितोत्पत्तिः प्रसज्येत ॥ (अतिप्रसङ्गबाधकभाष्यम्) उत्पद्यताम्। लुग् भविष्यति ॥ (लुकिदूषणभाष्यम्) लुक्कृतानि प्राप्नुवन्ति ॥ (लुकिदूषणपरिहारभाष्यम्) सर्वापि परिहृतानि ॥ (दूषणपरिहारबाधकभाष्यम्) सर्वाणि परिहृतानि ॥ (दूषणपरिहारबाधकभाष्यम्) न सर्वाणि परिहृतानि। पञ्चकुमारि दशकुमारि लुक् तद्धितलुकि इति ङीपो लुक् प्रसज्येत ॥ (अवान्तरसमासविधानाधिकरणम्) (1282 विधानान्तरवार्तिकम् ॥ 8 ॥) ॥ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् ॥ (भाष्यम्) द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासो वक्तव्यः। वाग्दृषदप्रियः। छत्रोपानहप्रियः। पञ्चगवप्रियः। दशगवप्रियः ॥ किं प्रयोजनम्?। समुदायवृत्ताववयवानां मा कदाचिदवृत्तिर्भूदिति ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्च। यदा वृत्तिपक्षः तदा सर्वेषामेव वृत्तिः। यदाऽवृत्तिः पक्षः तदा सर्वेषामवृत्तिः ॥ (1283 बहुनांतत्पुरुषविधायकवार्तिकम् ॥ 9 ॥) ॥ उत्तरपदेन परिमाणिना द्विगोः समासवचनम् ॥ (भाष्यम्) उत्तरपदेन परिमाणिना द्विगोः समासो वक्तव्यः। द्वौ मासौ जातस्य यस्य सः द्विमासजातः त्रिमासजातः ॥ किं पुनः कारणं न सिद्ध्यति!। सुप्सुपेति वर्तते ॥ (विग्रहान्तरेण विधानवैर्यथ्यभाष्यम्) एवं तर्हि इदं स्यात् - द्वौ मासौ द्विमासं द्विमासं जातस्येति ॥ (विग्रहान्तरदूषणभाष्यम्) नैवं शक्यम्। स्वरे हि दोषः स्यात्। द्विमासजात इति प्राप्नोति। द्विमासजात इति चेष्यते ॥ (दूषणान्तरभाष्यम्) द्व्यह्नजातश्च न सिद्ध्यति। द्व्यहजात इति प्राप्नोति ॥ (आक्षेपभाष्यम्) न चैवं भवितव्यम्? ॥ (समाधानभाष्यम्) भवितव्यं च यदा समाहारे द्विगुः ॥ द्व्यह्नजातस्तु न सिद्ध्यति ॥ (आक्षेपभाष्यम्) किमुच्यते परिमाणिनेति, नपुनरन्यत्रापि पञ्चगवप्रियः दश गवप्रियः? ॥ (1284 विधानसाधकवार्तिकम् ॥ 10 ॥) ॥ अन्यत्र समुदायबहुव्रीहित्वादुत्तरपदप्रसिद्धिः ॥ (व्याख्याभाष्यम्) अन्यत्र समुदायो बहुव्रीहिसंज्ञः। अन्यत्र समुदायबहुव्रीहित्वादुत्तरपदं प्रसिद्धम्। उत्तरपदप्रसिद्धेः उत्तरपदे इति द्विगुर्भविष्यति ॥ (1285 वार्तिकम् ॥ 11 ॥) ॥ सर्वत्र मत्वर्थे प्रतिषेधः ॥ (भाष्यम्) सर्वेषु पक्षेषु द्विगुसंज्ञायाः मत्वर्थे प्रतिषेधो वक्तव्यः ॥ किं प्रयोजनम्?। पञ्चखट्वा दशखट्वा। द्विगोः इतीकारो मा भूत्। पञ्चगुर्दशगुः गोरतद्धितलुकि इति टज् मा भूदिति ॥ तद्धितार्थोत्तरपद ॥ 50 ॥ Kashika ------- दिक्संख्ये इत्यनुवर्तते। तद्धितार्थे विषय उत्तरपदे च परतः समाहारे चाभिधेये दिक्संख्ये समानाधिकरणेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। तद्धितार्थे तावत् — पूर्वस्यां शालायां भवः — **दिक्पूर्वपदादसंज्ञायां ञः** (४.२.१०७) — पौर्वशालः। आपरशालः। उत्तरपदे — पूर्वशालाप्रियः। अपरशालाप्रियः। समाहारे दिक्शब्दो न संभवति। संख्या तद्धितार्थे — पाञ्चनापितिः। पञ्चकपालः। उत्तरपदे — पञ्चगवधनः। दशगवधनः। समाहारे — पञ्चपूली। दशपूली। पञ्चकुमारि। दशकुमारि। **स नपुंसकम्** (२.४.१७) इति नपुंसकत्वम्, **ह्रस्वो नपुंसके प्रातिपदिकस्य** (१.२.४७) इति ह्रस्वत्वम्॥ Siddhanta Kaumudi ----------------- तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा । पूर्वस्यां शालायां भवः पौर्वशालः । समासे कृते दिक्पूर्वपदादसंज्ञायां ञः (SK1328) इति ञः ॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ॥ आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शाला शब्दे आकारः उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे । षण्णां मातॄणामपत्यं षाण्मातुरः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते । (वार्तिकम्) ॥ Laghu Siddhanta Kaumudi ----------------------- तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत्। पूर्वस्यां शालायां भवः - पूर्वा शाला इति समासे जाते **सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः** (वार्त्तिकम्)॥ Balamanorama ------------ **तद्धितार्थोत्तरपदसमाहारे च** - तद्धितार्थ । एकापि सप्तमी विषयभेदाद्भिद्यते । तत्र तद्धितार्थेत्यंशे वैषयिकाधारत्वे वर्तते । उत्तरपदेत्यंशे सामीपिकमाधारत्वमादाय परसप्तमी पर्यवस्यति । समाहारांशे तु वाच्यतया आधारत्वे सप्तमी । पूर्वसूत्राद्दिक्संख्ये इत्यनुवर्तते । तदाह — तद्धितार्थे विषये इति । तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः । तद्धिते भविष्यतीति यावत् । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । तद्धितार्थे दिक्समासमुदाहरति — पूर्वस्यामिति । समासे कृते इति । पूर्वस्यां शालायां भव इति विग्रहे 'तद्धितार्थ' इति समासे कृतेदिक्पूर्वपदा॑दिति ञप्रत्यते कृतेयस्येति चे॑त्याकारलोपे आदिवृद्धिरिति भावः । सर्वनाम्न इति । मात्रशब्दः कार्त्स्न्ये । समासतद्धितादिवृत्तिगतसर्वनाम्नां पुंवत्त्वमिति तदर्थः । यदि तुतद्धिते परे दिक्सङ्ख्ये समस्येते॑ इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः, समासे कृते दिक्पूर्वपदत्वात्तद्धित इत्यन्योन्याश्रयप्रसङ्गः ।तद्धितार्थे वाच्ये दिक्संख्ये समस्येते॑ इति तु न व्याख्यातं, तद्धितार्थस्य तद्धितवाच्यतया समासार्थत्वाऽभावात् । अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम् । आपरशाल इति । अपरस्यां शालायां भव इति विग्रहः । समासादि पौर्वशालवत् । उत्तरपदे परतो दिक्समासमुदाहरति-पूर्वा शाला प्रिया यस्येत्यादिना । ननु बहुव्रीहिसमासे कृते सुपां लुप्तत्वादुत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह — तेन शालाशब्दे आकार उदात्त इति । अवान्तरतत्पुरुषे सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः । असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वं स्यादिति भावः । ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासः स्यादित्यत आह — दिक्ष्विति । दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः । समाहारे दिक्पूर्वपदसमासो नास्तीति यावत् । सङ्ख्यायास्तद्धितार्थे इति । समास उदाह्यियत इत्यर्थः । तत्र तद्धितार्थे उदाहरति-षाण्मातुर इति । मातुरुत्सह्ख्यासम्भद्रपूर्वायाः॑ इत्यण्, प्रकृतेरुकारश्चादेशः, आदिवृद्धिश्च । अथ उत्तरपदे परत उदाहरति-पञ्चगाव इति । अवान्तरतत्पुरुषस्येति । उत्तरपदे परतो विहितस्येत्यर्थः । विकल्पे प्राप्ते इति ।महाविभाषाधिकारा॑दिति शेषः । ततश्च पञ्चगोशब्दयोस्तत्पुरुषाऽभावपक्षेगोरतद्धितलुकी॑ति तत्पुरुषप्रयुक्तटजभावे 'पञ्चगोधन' इत्यपि स्यादिति भावः । द्वन्द्वतत्पुरुषयोरिति । उत्तरपदे परतो यौ द्वन्द्वतत्पुरुषौ तयोर्नित्यत्वं वक्तव्यमित्यर्थः । समासग्रहणं तु संपातायातम्, अनन्वयात्, उत्तरपदे परतः समाससंज्ञया अव्यभिचाराच्च, उत्तरपदशब्दस्य समासोत्तरखण्डे रूढत्वात् । Tattvabodhini ------------- **तद्धितार्थोत्तरपदसमाहारे च** - तद्धितार्थे विषये इत्यादि । यदि तुतद्धितार्थे वाच्ये॑इति व्याख्यायेत, तर्हिपौर्वशाल॑इत्यादौ तद्धितो न स्यात्, तदर्थस्य समासेनैवलोक्तत्वात् ।द्विगोर्लुगनपत्ये॑इति ज्ञापकादुक्तेऽपि तद्धितार्थे तद्धितो भवतीति कल्पनायां प्रतिपत्तिगौरवमिति भावः ।तद्धिते परे॑इति तु न व्यख्यायमेव, तद्धिते परतः समासः, समासे कृतेदिक्पूर्वपदा॑दित्यादिना तद्धित इत्यन्योन्याश्रयप्रसङ्गात् । समाहारे च वाच्ये इति । तेनपञ्चगव॑मित्यादौ समासेनैव समाहारस्योक्तत्वात्समूहार्थप्रत्ययो नोत्पद्यते । अन्यथा अत्रगोरतद्धितलुकी॑ति टज्न स्यात्, समूहिकप्रत्ययस्यद्विगोर्लुगनपत्ये॑इति लुक्प्रवृत्तेरिति भावः । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावे पुंव्द्भावः । सर्वनाम्ना इति । एतच्च पूर्वापरोदाहरणान्वयि । यद्यपिस्त्रियाः पुंव॑दित्येनेनापि प्रकृतरूपसिद्धिः, तथाप्युत्तर पूर्वेत्याद्यर्थंसर्वनाम्न॑इति वचनमावश्यकं, प्रतिपदोक्तत्वादिहापि तदुपन्यासो न्याय्य इति भावः । वृत्तिमात्रे इति । तद्धितवृत्तौ समासवृत्तौ चेति कैयटः । आकार उदात्त इति । असति त्ववान्तरे तत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्युदात्तत्वमेव स्यादिति भावः । षाण्मातुर इति ।मातुरुत्सङ्ख्यासंभद्रपूर्वायाः॑इत्युदादेशः ।अनपत्ये॑इत्युक्तेःद्विगोर्लु॑गिति लुग् न । विकल्पे प्राप्त इति.॒महाविभाषये॑ति शेषः । ततश्च तत्पुरुषप्रयुक्तटजभावेपञ्चगोधन॑इत्यपि स्यादिति भावः । मनोरमायां तु — विकल्पे प्राप्ते नित्यसमासार्थं द्वन्द्वतत्पुरुषयोरित्येतद्वचन॑मिति प्राचां ग्रन्थमनुसृत्योक्तम् । वस्तुतस्तु त्रयाणां समासे कृतेऽन्यपदार्थोपसङ्क्रमेण परस्पर संबन्धाऽभावाद्द्वन्द्वतत्पुरुषयोरप्राप्तौ सत्यां त्रिपदे बहुव्रीहौकृते पूर्वयोर्नित्यं द्वन्द्वः, तेनद्वन्द्वाच्चुदषहान्ता॑दिति समासान्तष्टजपि नित्य एव । Padamanjari ----------- तध्दितार्थोतरपदसमाहारे च ॥'विशेष्येण' इति सिध्दस्य पूर्वेशानियमादप्राप्तविधिरयम्। अगृह्यमाणविषयत्वाद्वायमपि नियमः शक्यते वक्तुम् - अयं नियमः पूर्वो विधिरिति। एकापि सप्तमी विषयभेदाद्भिद्यत इत्याह - तध्दितीर्थे विषयभूत इत्यादिना। तध्दितार्थेऽभिधेय इत्येवं तु विज्ञायामाने पाञ्चनीपितिरित्यादौ दध्दितो दुर्लभः स्यात्; तदर्थस्य समामेनैवोक्तत्वादिति भावः। अस्मिन् पक्षेऽर्थग्रहणं चिन्त्यप्रयोजनम्। दध्दिते विषय इत्येवास्तु, तध्दिते परत इति तु विज्ञायमाने इतरेतराश्रयं प्राप्नोति - समासातध्दितो विधेयः, तध्दिते च समास इति। किञ्च -'तध्दितार्थे' भिधेयेऽ इत्यास्मन् पक्षे न दोषः,'द्विगोर्लुगलपत्ये' इति लुग्वचनं ज्ञापकमुत्पद्यते - द्विगोस्तध्दित इति सर्वतध्दितसाधारणो द्विगुः, तत्रावश्यं विशेषाभिधाअनाय तध्दित उत्पद्यत इत्यपि श्कयं विज्ञातुम्। अथेवं कस्मान्न वज्ञायते - तध्दितार्थे द्विगुर्भवति, तध्दितो यथा स्यादिति द्विगुर्भवतीति, यथादारार्थं घटामहे, दारा यथा स्युरिति घटामह इति? नेवं शक्यं विज्ञातुम्; एवं हि विज्ञायमाने दध्दितोत्पतये विधीयमाना समाससंज्ञा विषयान्तरे न स्यात्। एवं तस्यैव समासस्य विधीयमाना द्विगुसंज्ञापि, ततश्च पञ्चारत्निरित्यत्र इगन्ते द्विगाविति स्वरो न स्यात्, तस्य तु समाहारद्विगुरवकाशः, यथा - स्वरे विधीयमानः पराङ्गवद्भावः षत्वणत्वयोर्न भवति, तथात्रापि। पौर्वशाल इति। पूर्वस्यां शालायां भव इति तध्दितार्थे विवक्षते समासः, ततस्तध्दितः। पूर्वशालाप्रिय इति। पूर्वा शाला प्रियास्येति त्रिपदे बहुव्रीहौ प्रियशब्दे उतरपदे परतः पूर्वयोस्तत्परुषे सति समासान्तोदातत्वं शालाशब्दस्य भवति, असति त्ववान्तरतत्परुषे सतदि समासान्तोदातत्वं शालाशब्दस्य भवति, असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्यौदातत्वमवतिष्ठेत। समाहारे दिक्शब्दो न सम्भवतीति। स हि समूहरुपत्वाद्भेदनिबन्धनः, संख्यैव च भेदमाचष्टे, दिक्शब्दस्तु प्रत्यर्थनियतः। विभक्तिरपि समासे निवर्तते। ननु यथा'काकसमूहः' इत्यत्र विभक्त्यभावेऽपि भेदावगतिस्तथात्रापि भविष्यति, तस्मात्प्रयोगाभावादित्येवात्र हेतुर्वक्तव्यः। पाञ्चनापितिरिति। पञ्चानां नीपितानामपत्यमिति समासे, अत इञ्। पञ्चकपाल इति। पञ्चसु कपालेषु संस्कृत इति समासे'संस्कृत भक्षाः' इत्यणः'द्विगोर्लुगलपत्ये' इति लुक्। पञ्चगवधन इति। पञ्च गावो धवमस्येति त्रिपदे बहुव्रीहौ कृते धनशब्द उतरपदे परतः पूर्वयोस्तत्पुरुषे'गोरतध्दितलुकि' इति टचि। अयमुतरपदे तत्पुरुषो महाविभाषाधिकाराद्विकल्पेन प्राप्नोति, नित्यो बक्तव्यः; अन्यथा पञ्चगोधन इत्यपि स्यात्। उक्तं च'द्वन्द्वतत्पुरुषयोरुतरपदे नित्यसमासवचनम्' इति, वाक्च दृषच्च प्रिये अस्य वाग्दृषदप्रिय इति त्रिपदबहुव्रीहौ पूर्वयोर्द्वन्द्वः, स च नित्य इष्यते - नित्यं समासान्तो यथा स्यादिति। पञ्चपूलिति। पञ्चानां पूलानां समाहार इति विग्रहः, न तु पञ्चपूलाः समाहृता इति। भावसाधनो हि समाहारशब्दः - समाहरणं समाहारः उ विप्रकीर्णानामेकत्र राशीकरणम्। पञ्चग्रामः, षण्णगरी, त्रिपुरीत्यत्रैकस्मिन् क्षणे क्रियायां समन्वयाद्भिन्नदेशानामपि बुध्द्या राशोकरणं भवति। अथ कर्मसाधने को दोषः? इह पञ्चकुमारीति, कुमार्यर्थप्रधान्यात्समासशास्त्रे चाप्रधमानिर्द्दिष्टत्वादेकविभक्तित्वाभावाच्चोपसर्जनत्वाभावाद्'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वो न स्यात्, काममत्र नुपंसकह्रस्वत्वं सिध्दम्। इह पञ्च खट्वाः समाहृताः पञ्चखट्वीति वा टाबन्त इति सत्रीलिङ्गपक्षे ह्रस्वाभावाद्'द्विगोः' इति ङीब् न स्यात्। भावसाधने तु समासार्थे समाहारे नानाविभक्तिभिर्युज्यमानेऽपि कुमारीशब्दस्य नित्यं षष्ठ।ल्èव योग इतेयकविभ्क्तिकत्वात्सिध्दमुपसर्जनत्वम्। तस्माद्भावसादनः। द्विगुरेकवचनमित्येततु'स नपुंसकम्' इति वक्ष्यामीत्याहभ्यते, कथं पञ्चपूलामानयोत्युक्ते पूलानामानयनम्, नान्तरेण द्रव्यानयनं भावानयनं सम्भवति, यथा नान्तरेण प्रत्रानय्नमग्नेरानयनं सम्भवति? एवमपि समाहारग्रहणमनर्थकम्, भावसाधनो हि समाहारशब्दः समूहपर्याययः, समूहश्च तध्दितार्थस्तत्र'तध्दितार्थ' इत्येव सिध्दम्। यद्येवम्, दध्दितोत्पतिः प्राप्नोति? उत्पद्यतां दध्दितः,'द्विगोः' इति लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति, पञ्चपूली-ठपरिमाणबिस्ताचितऽ इति ङीप्प्रातिषेधः प्राप्नोति,'पञ्चगवम्,'गोरतद्वितलुकि' इति टच् न प्राप्नोति? नैष दोषः; अपरिमाणेत्यत्र न तध्दितलुकीत्यपास्य'समाहार' इति वक्तव्यम्, तन्नियमार्थम् - अविशेषेण द्विगोङीब्भवति, अपरिमाणान्ताद्विस्ताचितकम्बल्यान्ताच्च समाहार एवेति, पञ्चानामश्वानां समाहारः पञ्चश्वी। क्व मा भूत्? पञ्चभिरश्वैः क्रीता पञ्चाश्वा।'गोरतद्वितलुक्' इत्यत्राप्यतध्दितलुकीत्यपास्य'द्विगोः समाहार' इति वक्तव्यम्, तन्नियमार्थम् - गोशब्दन्तस्य तत्पुरुषस्याविशेषेण टज् भवति, द्विगोस्तु समाहार एवेति, पञ्चानां गवां समाहारः पञ्चगवम्। क्व मा भूत्? पञ्चभिर्गोभिः क्रीतः पञ्चगुः पटः। एवमपि पञ्चकुमारीत्यत्र'लुक् तध्दितलुकि' इति स्त्रीप्रत्ययस्य लुक् प्राप्नोति। तस्मातध्दितनिवृत्यर्थम्। समाहारग्रणातु समासस्यैव समाहारो वाच्यः, न तध्दितस्येति व्याख्यानातध्दितो नोत्पद्यत इति सिध्दमिष्टम्। इह पञ्च गावो' स्य सन्ति पञ्चगुः पुरुष इति मत्वर्थम्य तध्दितार्थत्वादयं समासः प्राप्नोति, न बहुव्रीहिः; अशेषत्वात्, तस्य तु चित्रग्वादिरवकाशः, यत्र दिक्संख्ये न स्तः। सति चास्मिन्समासे मतुपः श्रवण स्यात्। अप्राग्दीव्तीयत्वाद् द्विगोर्लुगापि नास्ति। तस्मान्मत्वर्थे प्रतिषेधो वक्तव्यः॥ Nyaas ----- एकस्या अपि सप्तम्या विषयभेदेन भेदं दर्शयितुमाह - `तद्धितार्थे विषये` इत्यादि। यदि तद्धितार्थेऽभिधेय इत्येवं विज्ञायेत, तदा पाञ्चनापितिरित्यादौ तद्धितो दुर्लभः स्यात्। तदर्थस्य समासेनैवोक्तत्वादित्येतन्मनसि कृत्वा तद्धितार्थापेक्षया विषयसप्तमीयमिति दर्शयितुं `तद्धितार्थे विषये` इत्युक्तम्। तद्धिताः = अणादयः, तेषामर्थोऽपत्यादिः, तस्मिन् विषये। अनन्यत्रभावो विषयशब्दस्यार्थः, यथा - मत्स्यानां जलं विषः इति। `पौर्वशालः` इति। पूर्वस्यां शलायां भव इति तद्धितार्थे विषयभूते?प्राक् समासः। ततः सुब्लुक्। ततस्तद्धितः। `पूर्वशालाप्रियः` इति। पूर्वा शाला प्रियाऽस्येति पूर्वं पदानां त्रयाणां बहुव्रीहिः। पश्चात् प्रियशब्दे उत्तरपदे परतः पर्वयोः पदयोस्तत्पुरुषः। तस्मिन् सति समासान्तोदात्तत्वं भवति शालेत्यत्र। `समाहारे {दिक्शब्दः इति मूलपाठः, पदमञ्जरी च। } दिङ न सम्भवति` इति। समाहारो हि समूहः। स च भिन्नार्थानामेवैककालानां भवति। बुद्ध्या युगपदार्थानां परिग्रहादेककालत्वम्, न त्वभिन्नवस्तुनः। संखायैव च भेदमाचष्टे; तस्या भिन्नार्थाभिधायित्वात्, न तु दिक्शब्दः; तस्य प्रतिनियतविषयत्वात्। तस्मात् समाहारे द#इक्शब्दोन सम्भवतीति स न तत्र समस्यते। `पञ्चानापितिः` इति। पञ्चानां नापितानामपत्यमिति तद्धितार्थे विषयभूते प्राक् समासः। पश्चात् `अत इञ्` (4।1। 95)। `पञ्चकपालः` इति। पञ्चसु कपालेषु संस्कृत इति तद्धितार्थे विषयभूते पूर्वं समासः; पश्चादण्। तस्य **द्विगोर्लुगनपत्ये** (4.1.88) इति लुक्। `{पञ्चगवधनम् इति मुद्रित पाठः}पञ्चगवधनः` इति। पञ्च गावो धनमस्येति प्राक् त्रयाणां पदानां बहुव्रीहिः। उत्तरकालं धनशब्द उत्तरपदे परतः पूर्वयोः पदयोस्तत्पुरुषः। तस्मिन् सति **गोरतद्धितलुकि** (5.4.92) इति टच् समासान्तः। तत्र हि `तत्पुरुषस्याङ्गुलेः` (5.4.86) इत्यतस्तत्पुरुषग्रहणमनुवर्तते। `पञ्चपूली`इति। पञ्चानां पूलानां समहार इति विग्रहः। `द्विगुरेकवचनम्` (2.4.1।) इत्येकवद्भावः। `अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते` (वा।156) इति स्त्रीलिङ्गता; **द्विगोः** (4.1.21) इति ङीप्। ननु समाहारः = समूहः, समूहश्च तद्धितकार्थो भवतीत्यपार्थकं समाहारग्रहणम्; तद्धितार्थ इत्येव सिद्धत्वात्? नैतदस्ति; पञ्चकुमारीत्यत्र हि समूहप्रत्ययस्य **द्विगोर्लुगनपत्ये** (4.1.88) इति लुकि कृते **लुक् तद्धितलुकि** (1.2.49) इति स्त्रीप्रत्ययस्यापि लुक् स्यात्। समाहारे तु पृथग्गृहीते तद्धितानुत्पत्तिरेवात्र विषये समाख्यायते। ततो न भवत्येष दोषः। पञ्चानां कुमारीणां समाहारः पञ्चमकुमारि। `एकविभक्तिचापूर्वनिपाते` (1.2.44) इत्युपसर्जनसंज्ञायाम् **गोस्त्रियोरुपसर्जनस्य** (1.2.48) इति ह्रस्वत्वम्। कथं पुनरत्रैकविभक्तत्वम्? षष्ठऐवैकया योगात्। तथा हि समाहारः समूहः, तेन च तत्सम्बन्धे षष्ठऐव भवितव्यम्। अतः समाहारः कुमा4रीणाम्, समाहारं कुमारीणां पश्य, समाहारेण कुमारीणामित्येवमादिभिरनेकाभिर्विभक्तिभिर्युज्यमानेऽपि समाहारशब्दे कुमारीशब्दः षष्ठऐवैकया युज्यत इत्येकविभक्तिकत्वम्॥व Praudhamanorama --------------- तद्धितार्थो ॥ एकाऽपि सप्तमी विषयभेदाद्भिद्यते इत्याशयेनाऽऽह- **तद्धितार्थे विषये इत्यादि ।** **सर्वनाम्न इति ।** एतच्च पूर्वाऽपरोदाहरणाऽन्वयि । यद्यपि ‘स्त्रियाः पुंवद्’ इत्यनेनाऽपि प्रकृते निर्वाहः सिद्धः, तथाऽपि ‘दक्षिणपूर्वा’ इत्यादिसिद्धयर्थं ‘सर्वनाम्न’ इत्यावश्यकं, प्रतिपदोक्तत्वादिहाऽपि न्याय्यमिति भावः । **षाण्मातुर इति ।** ‘मातुरुत्संख्या’ इत्युत् । ‘अनपत्ये’ इत्युक्तेः ‘द्विगोर्लुग्’ इति न लुक् । विकल्पे प्राप्त इति प्राचां ग्रन्थमनुसृत्योक्तम् । वस्तुतस्तु त्रयाणां समासे कृतेऽन्यपदार्थोपसंक्रमेण परस्परसंबन्धाऽभावाद् द्वन्द्वतत्पुरुषयोरप्राप्तौ सत्यां वचनमिति बोध्यम् । तत्र ‘तद्धितार्थ-’ इतिसूत्रेणोत्तरपदे परे तत्पुरुषो वचनसामर्थ्यात्सिद्धः । एकार्थीभावसत्त्वादेव नित्यताऽपि सिद्धा । न हि महाविभाषाऽपि सत्येकार्थीभावे सञ्ज्ञाया विकल्पिका । ‘न च सञ्ज्ञाया भावाऽभावाविष्येते’ इति भाष्यविरोधात् । किन्तु वैकल्पिकैकार्थीभावविषये नित्यैव तत्सञ्ज्ञा । इह तु वैकल्पिकत्वांऽशो बाधितः । एवञ्च वार्तिके ‘तत्पुरुष’इत्यंशो ज्ञापकसिद्धार्थाऽनुवादमात्रम् । अत एव ‘खादिरेतरशम्यम्’ इति कर्मधारयोत्तरपदो बहुव्रीहिर्न तु त्रिपद इति समर्थसूत्रशेषे कैयटोक्तं सङ्गच्छते । पुंवद्भावपूर्वनिपातयोः सिद्धये हि तथोक्तम् । अत एव ‘चित्राजरद्गुरि’ति सङ्गच्छते । ‘पूर्वकालैक-’ इत्यादेर्जरद्गवादौ कृतार्थतया भूतपूर्वगत्या प्रवृत्तेरयोगादिति दिक् । द्वन्द्वस्योदाहरणन्तु वाक् च दृषच्च प्रिये अस्य वाग्दृषदप्रियः । छत्रोपानहप्रियः । इह त्रिपदे बहुव्रीहौ कृते पूर्वयोर्नित्यं द्वन्द्वः । तेन समासाऽन्तष्टजपि नित्य एव । यत्तु पूर्वतन्त्रे बाधलक्षणे ‘पृष्ठ्यस्य युगपद्विधेरेकाऽहवद्-द्विसामत्वम्’- इत्यधिकरणे ‘पृष्ठ्यः षडहो बृहद्रथन्तरसामा कार्य’ इत्युदाहृत्य, ‘द्वन्द्वं कृत्वा बहुव्रीहिरि’ति पूर्वपक्षं रचयित्वा, तत्रोपष्टम्भकतया कात्यायनवचनमिदमुपन्यस्तम् । यच्च ‘नेह द्वन्द्व’ इति सिद्धान्तयित्वा ‘कात्यायनवचनन्तु समासाऽन्तकृतविशेषमात्रविषयमित्युक्तम् । तदुभयमपि चिन्त्यम् । ‘उत्तरपदे’ इत्युक्तेर्द्वन्द्वं कृत्वे’त्यस्यासङ्गतेः । स्वरे विशेषस्य स्पष्टतया समासान्तपर्यन्तमाग्रहे बीजाऽभावाच्च । ‘नित्यसमासमि’ति वार्त्तिकस्य सङ्कोचे प्रमाणाऽभावाच्च । Prakriyasarvasvam ----------------- तद्धितार्थे विवक्षिते उत्तरपदे च परे समाहारे चार्थे दिक्‌सङ्ख्याः समानाधिकरणेन समस्यन्ते । तद्धितार्थे—पूर्वस्यां शालायां भव इत्यत्र तद्धिते कार्ये पूर्वशालेति समस्यते । ततो 'दिक्‌पूर्वपदाद्—' (४-२-१०७) इति ञे कृते पौर्वशालः । उत्तरपदे—पूर्वशालाप्रियः । अत्र पूर्वा शाला प्रियास्येति त्रिपदबहुव्रीहौ कृते सुब्लुकः प्राक् क्रियापदे परे पूर्वयोस्तत्पुरुषोऽयं स्वराद्यर्थमुक्तः । दिक्षु समाहारो न । सङ्ख्यायां तु त्रयमस्ति । तत्र तद्धितार्थे—पञ्चसु कपालेषु संस्कृत इत्यत्र पञ्चकपालेति समासः । अण्, Vartika ------- द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् । Sutra Prayogas -------------- * **चतुरर्णवोपमाः** (रघुवंशम्): `तद्धितार्थोत्तरपदसमाहारे च` इत्युत्तरपदसमासः। * **त्रिलोकनाथेन** (रघुवंशम्): `तद्धितार्थोत्तरपदसमाहारे च` इति उत्तरपदसमासः। * **दशाहतः** (रघुवंशम्): `तद्धितार्थोत्तरपदसमाहारे च` इति समासः। * **चतुर्वर्णमयो** (रघुवंशम्): `तद्धितार्थोत्तरपदसमाहारे च` इति तद्धितार्थे विषये तत्पुरुषसमासः। * **सप्तसामोपगीतं** (रघुवंशम्): `तद्धितार्थोत्तरपदसमाहारे च` इत्युत्तरपदसमासः। * **चतुरन्तेशं** (रघुवंशम्): `तद्धितार्थोत्तरपदसमाहारे च` इति उत्तरपदसमासः। * **पञ्चवट्यां** (रघुवंशम्): `तद्धितार्थोत्तरपदसमाहारे च` इति तत्पुरुषः। * **त्रिमार्गगा** (रघुवंशम्): `तद्धितार्थोत्तरपदसमाहारे च` इति उत्तरपदसमासः। * **पञ्चाप्सरोयौवनकूटबन्धम्** (रघुवंशम्): `तद्धितार्थोत्तरपदसमाहारे च` इति उत्तरपदसमासः। * **षड्वर्षदेशीयम्** (रघुवंशम्): `तद्धितार्थोत्तरपदसमाहारे च` इति समासः। * **चतुर्मुखसमीरिता** (कुमारसम्भवम्): `तद्धितार्थोत्तरपदसमाहारे च` इति उत्तरपदसमासः । * **त्रिलोकनाथः** (कुमारसम्भवम्): `तद्धितार्थोत्तरपदसमाहारे च` इति उत्तरपदसमासः। * **त्र्यहात्** (कुमारसम्भवम्): `तद्धितार्थोत्तरपदसमाहारे च` इति समासः। * **संगीयमानत्रिपुरावदानः** (कुमारसम्भवम्): `तद्धितार्थोत्तरपदसमाहारे च` इति समाहारद्विगुसमासः। * **कृतपञ्चाङ्गविनिर्णयो** (किरातार्जुनीयम्): `तद्धितार्थोत्तरपदसमाहारे च` इति उत्तरपदसमासः। * **त्रिपुरदाहम्** (किरातार्जुनीयम्): `तद्धितार्थ-` इत्यादिना समासः। * **त्रिलोकभर्तुः** (किरातार्जुनीयम्): `तद्धितार्थोत्तरपदसमाहारे च` इति उत्तरपदसमासः। * **त्रिभुवनगुप्तिसहां** (किरातार्जुनीयम्): `तद्धितार्थोत्तरपदसमाहारे च` इति समाहारार्थे तत्पुरुषः। * **त्रिसन्ध्यम्** (शिशुपालवधम्): `तद्धितार्थोत्तरपद-` इत्यादिना समाहारे द्विगुः। * **प्रातिभत्रिसरकेण** (शिशुपालवधम्): `तद्धितार्थोत्तरपदसमाहारे च` इति समाहारे द्विगुः।