21044: संज्ञायाम् ================= **Padacheda:** संज्ञायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A word ending with the Locative -7th-case-affix is invariably compounded with a word ending in a case-affix, when the compound thus formed is used as an appellative and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ A word ending with the Locative -7th-case-affix is invariably compounded with a word ending in a case-affix, when the compound thus formed is used as an appellative and the resulting compound is तत्-पुरुष । A *sanjña* is expressed by the complete word, hence it is an invariable (*nitya*) compound; for we cannot express an appellative by a sentence. As, अरण्ये तिलकाः 'wild sesamum' yielding no oil; anything which does not answer to one's expectation. So also अरण्ये माषाः, वने किंशुकाः' anything found unexpectedly.' So also वने बिल्वकाः, कूपे पिशाचकाः. The case-affix is not elided, in this case, in accordance to *sútra* (6.3.9) (The 7th case-affix is not elided after words ending in consonants or in short अ when the compound denotes appellative.) Kashika ------- संज्ञायां विषये सप्तम्यन्तं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। संज्ञा समुदायोपाधिः। तेन नित्यसमास एवायम्, नहि वाक्येन संज्ञा गम्यते। अरण्येतिलकाः। अरण्येमाषाः। वनेकिंशुकाः। वनेबिल्वकाः। कूपेपिशाचकाः। **हलदन्तात् सप्तम्याः संज्ञायाम्** (६.३.९) इत्यलुक्॥ Siddhanta Kaumudi ----------------- सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकसेरुकाः । हलदन्तात्सप्तम्या (SK966) इत्यलुक् ॥ Balamanorama ------------ **संज्ञायाम्** - संज्ञायाम् ।सप्तमी॑त्यनुवर्तते । तदाह — सप्तम्यन्तमित्यादि । 'अरण्येतिलका' इति 'वनेकशेरुका' इति च संज्ञाशब्दौ ।हलदन्तात्सप्तम्याः॑ इत्यलुक् ।क्तेनाहो । अहोरात्रयोरवयवा इति विग्रहः । सप्तमीत्यनुवर्तते । क्तेनेति तदन्तग्रहणं । तदाह — अह्नो रात्रेश्चेति । अहरवयवस्योदाहरति — पूर्वाह्णकृतमिति । रात्र्यवयवस्योदाहरति — अपररात्रकृतमिति । Nyaas ----- `समुदायोपाधिः` इति। `संज्ञायाम्` इति नेदं पूर्वपदस्योत्तरपदस्य वा विशेषणम्, किं तर्हि? समुदायस्य - समुदायेन चेत्संज्ञा गम्यत इति। किमेवं सति सिध्यतीत्यत आह - `तेन` इत्यादि। अत्रैवोपपत्तिमाह - `न हि` इत्यादि॥ Prakriyasarvasvam ----------------- त्वचिसारो वेणुः । अरण्येतिलकः वनेकिंशुकश्च तरुभेदः । 'हलदन्तात्—' (६–३–९) इत्यलुक् ॥