21040: सप्तमी शौण्डैः ===================== **Padacheda:** सप्तमी | S | 1 | 1 | शौण्डैः | S | 3 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- A word ending in the Locative -7th-case-affix is compounded with the words शौण्ड 'skilled' etc. and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ A word ending in the Locative -7th-case-affix is compounded with the words शौण्ड 'skilled' etc. and the resulting compound is तत्-पुरुष । The word शौण्डैः in the *sútra* being in the plural number indicates a class of words beginning with *šaunda*. As, अक्षेषु शौण्डः = अक्षशौण्डः 'skilled in dice' अक्षधूर्तः 'cunning in dice' अक्षकितवः 'a gamester in dice.' The following is the list of शौण्डादि words:-1 शौण्ड, 2 धूर्त, 3 कितव, 4 व्याड, 5 प्रवीण, 6 संवीत, 7 अन्तर् when meaning place, 8 अधि, 9 पटु, (or अधिपटु), 10 पण्डित, 11 कुशल, 12 चपल, 13 निपुण, 14 संव्याड, 15 मन्य, and 16 समीर. Bhashya ------- सप्तमी शौण्डैः (388) (248 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.27 ॥) (न्यूनताशङ्कापरिहाराधिकरणम्) (1272 वार्तिकम् ॥ 1 ॥) ( ॥ शौण्डादिभिः ॥) (व्याख्याभाष्यम्) शौण्डादिभिरिति वक्तव्यम्। इहापि यथा स्याद् अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितव इति ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। बहुवचननिर्देशाच्छौण्डादिभिरिति विज्ञास्यते ॥ सप्तमी शौण्डैः ॥ 39 ॥ Kashika ------- सप्तम्यन्तं शौण्डादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। अक्षेषु शौण्डः, अक्षशौण्डः। अक्षधूर्तः। अक्षकितवः॥ शौण्ड। धूर्त। कितव। व्याड। प्रवीण। संवीत। अन्तर्। अन्तश्शब्दस्त्वत्राधिकरणप्रधान एव पठ्यते। अधि। पटु। पण्डित। कुशल। चपल। निपुण। वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादक्षादिष्वधिकरणे सप्तमी॥ Siddhanta Kaumudi ----------------- सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । अध्युत्तरपदात् (SK2079) इति खः । ईश्वराधीनः ॥ Laghu Siddhanta Kaumudi ----------------------- सप्तम्यन्तं शौण्डादिभिः प्राग्वत् । अक्षेषु शौण्डः अक्षशौण्ड इत्यादि । द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः ॥ Balamanorama ------------ **सप्तमी शौण्डैः** - सप्तमी शौण्डैः । शौण्डादिभिरिति । बहुवचननिर्देशाद्गणपाठाच्च शौण्डशब्दस्तदादपरः । अक्षेषु शौण्ड इति । शौण्डः=क्रियाकुशलः । वौषयिकाधिकरणत्वे सप्तमी । अक्षविषयकक्रीडाकुशल इत्यर्थः । अत्रेति । शौण्डादावित्यर्थः । ईआराधीन इति । 'प्रपञ्च' इति शेषः । 'ईआरे अधि' इति विग्रहः । 'अधिरीओरे' इत्यधेः कर्मप्रवचनीयत्वम् ।यस्मादधिक॑मिति सप्तमी । तदन्तस्याऽधिना समासः । सुब्लुक् ।अषडक्षे॑त्यद्युत्तरपदत्वात्खः । ईनादेशः । 'ईआराधीन' इति रूपम् । Tattvabodhini ------------- **सप्तमी शौण्डैः** - सप्तमी शौण्डैः । बहुवचननिर्देशाद्गणपाठसामर्थ्याच्च आद्यर्थावगतिरित्यभिप्रेत्याह — शौण्डादिभिरिति । अक्षशौण्ड इति । शौण्डः=प्रवीणः । इह आसक्ति रूपा क्रिया वृत्तावन्तर्भवतीति, तद्द्वारकं च सामर्थ्यम् । यथा दध्योदनगुडधानादौ उपसेचनमिश्रीकरणादिद्वारा सामर्थ्यम् । तेनकारकाणां क्रिययैव संबन्ध॑ इति नियमस्य न व्यभिचारः । आधिशब्द इति ।आधेयप्रधान॑इति शेषः । अधिकरणप्रधानस्य त्वव्ययीभाव एव । अधिहरीति यथा । ख इति ।नित्य॑मिति शेषः ।विभाषाञ्चेः॑ इति विभाषाग्रहणसामर्थ्यादिति वक्ष्यमाणत्वात् । अन्तः शब्दोऽत्र पठते, स चाधिकरणप्रधानः । मध्ये इत्यर्थात् । तद्योगेऽवयविन आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखे॑ति । वने अन्तर्वनान्तर्वसति । यस्त्वधिकरणकत्वमात्रवृत्तिरन्तः शब्दस्तस्य तुविभक्त्यर्थे॑इति नित्यमव्ययीभावः ।प्रनिरन्तः शरे॑ इथि णत्वम् । वने इति अन्तर्वणम् । यत्तु तत्पुरुषस्य वैकल्पिकत्वात्पक्षे अवययीभाव इति हरदत्तेनोक्तम् । तच्चिन्त्यम् । तत्पुरुषस्य वैकल्पिकत्वेऽप्यव्ययीभावस्य नित्यत्वाद्वने अन्तरिति तदुक्तस्वपदविग्रहस्याऽयोगात् । किं च विभक्त्यर्थमात्रवृत्तेरव्ययीभावः, वचनग्रहणसामर्थ्यात् । अन्यथा वृक्षस्योपरीत्यादावतिप्रसङ्गः स्यात् । ततश्च मध्यवाचिनः प्रसङ्गः एव नास्तीति दिक् । शौण्ड । धूर्त । कितव । व्याड । प्रवीण । संवीत । अन्तर् । अधि । पटु । पण्डित । कुशल । चपल । निपुण । वृत् । Padamanjari ----------- अत्र साहचर्याद् धूर्तादिष्वजहत्स्वार्थ एव शौणडशब्दः प्रयुज्यते, यथा - च्छत्रिणो गच्छन्तीति। अत्र च प्रमाणं बहुवचननिर्द्देशः, अतेऽन्तरेणाप्यादिशब्दं तदर्थो गम्यते इत्याह - शौण्हादिभिरिति। गणपाठसामर्थ्यातु बहुवचननिर्देशोऽर्थनिर्देशार्यः, बहुवचनान्तस्य वा समासार्थ इति न चान्यत्सप्तम्या निम्तमस्ति। न चैतदेव ज्ञापकं शक्यमाश्रयितुम्; शौण्डो देवदत इत्यादावपि प्रसङ्गाद्, अत आह - वृताविति। अन्तःशब्दोऽत्र पठ।ल्ते, तद्योगेऽवयविन आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति, वनेऽन्तर्वनान्तः। अस्य विकल्पितत्वादव्ययीभावोऽपि भवति, अन्तर्वणम्,'प्रनिरन्तः' इति णत्वम्। अधिशब्दः पठ।ल्ते, तस्याविकरणप्राधान्येऽव्ययीभावः - अधिसत्रीति। आधेयप्राधान्ये ह्ययं तत्पुरुषः - ब्राह्मणाधैइनमिति। ठद्यौतरपदात्खःऽ इति खः। ब्राह्मणेष्वधीति वाक्यम्॥ Nyaas ----- शौण्डैरिति बहुवचननिर्देशादाद्यर्थो गम्यत इत्याह - `शौण्डादिभिः` इत। केन पुनर्विहितायां सप्तम्यां तदन्तस्य शौण्डादिभिः समासो विधीयते? **सप्तम्यधिकरणे च** (2.3.36) इत्यनेनेति चेत्, वार्तमेतत्। तथा ह्रधिकरणं कारकम्, तच्च क्रियापेक्षम्। न चाक्षशौण्ड इत्यादौ वृत्तौ काचन क्रिया श्रूयते। तत्कुतोऽधिकरणस्येह सम्भवः? न च शक्यते वक्तुम् - अस्मादेव वचनाच्छौण्डादिभिर्योगे सप्तमी भविष्यतीति, देवदत्तः शौण्ड इत्यत्रापि प्रसङ्घः स्यादित्यत आह - `वृत्तौ` इत्यादि। अस्त्येवात्र प्रसक्तिक्रिया। सा तु समासार्थ एवान्तर्भूतेतिगम्यमानत्वाद्द्वृतौ क्रियापदं न प्रयुज्यते। तस्या यत्साधनमधिकरणं तत्र सप्तमीत्यदोषः। अन्तः शब्दस्त्वत्राधिकरणप्रधान एव पठते। तस्य प्रयोगे तत्सामानाधिकरण्यमेव सप्तम्याः कारणम्। वनेऽन्तर्वनान्तर्वसतीति पूर्वपदार्थप्रधान्ये तु `विभक्त्यर्थे यदव्ययम्` (2.1.6) इत्यव्ययीभाव एव भवतिः- अन्तर्वणमिति। अधिशब्दोऽत्र पठते - तस्याधिकरणप्राधान्ये सत्यव्ययीभावः- अधिस्त्रि। आधेयप्राधान्ये तु तत्पुरुषः - ब्राआहृणेष्वपि ब्राआहृणाधीन इति। ब्राआहृणाधिशब्दः केवलो न प्रयुज्यते। `अषडक्षाशित` (5.4.7) इत्यादिनाऽध्युत्तरपदात् स्वार्थिकस्य नित्यस्य खस्य विधानात्॥ Praudhamanorama --------------- सप्तमी शौण्डैः ॥ बहुवचननिर्देशाद्गणपाठसामर्थ्याच्चाऽऽद्यर्थावगतिरित्यभिप्रेत्याऽऽह - **शौण्डादिभिरिति ।** शौण्डः = प्रवीणः । इह आसक्तिरूपा क्रिया वृत्तावन्तर्भवति, तद्वारकञ्च सामर्थ्यम् । यथा दध्योदनगुडधानादौ । तेन ‘कारकाणां क्रिययैव सम्बन्ध’ इति नियमस्य भङ्गो नेति बोद्ध्यम् । **अधिशब्द इति ।** ‘आधेयप्रधान’ इति शेषः । अधिकरणप्रधानस्य तु अव्ययीभाव एव - ‘अधिहरी’ति यथा । अन्तः शब्दोऽप्यत्र पठ्यते, स चाऽधिकरणप्रधानः । ‘मध्ये’ इत्यर्थात् तद्योगेऽवयविन आधारत्वविवक्षायां सप्तमी । यथा- ‘वृक्षे शाखे’ति । वनेऽन्तः वनान्तर्वसति । यस्तु अधिकरणत्वमात्रवृत्तिरन्तःशब्दस्तस्य ‘विभक्त्यर्थ’ इत्यव्ययीभावो नित्यसमासः । ‘प्रनिरन्तरि’ति णत्वम्, अन्तर्वणम् । यत्तु हरदत्तेनोक्तं - ‘तत्पुरुषस्य वैकल्पिकत्वात्पक्षेऽव्ययीभाव’ इति । तच्चिन्त्यम् । तत्पुरुषस्य वैकल्पिकत्वेऽपि अव्ययीभावस्य नित्यत्वाद्वने अन्तरिति त्वदुक्तविग्रहस्यैवाऽसङ्गतेः । किञ्च विभक्त्यर्थमात्रवृत्तेरव्ययीभावः, वचनग्रहणसामर्थ्यात् । अन्यथा ‘वृक्षस्योपरि’ इत्यादावतिप्रसङ्गाच्च । तत्कथं मद्ध्यवाचिनः प्रसङ्गः । किञ्च प्रक्रियावाक्याऽन्तर्गतविभक्त्यर्थवृत्तेरेवाऽव्ययस्य समासः, सन्निधानात् । तत्सामर्थ्यादेव निपातेनाऽभिहितेऽपि सप्तमीति स्थितम् । न चैतदिहाऽस्ति । ‘अवयविन आधारत्वविवक्षायां सप्तमी’ति त्वयैवोक्तत्वादिति दिक् । यदप्याहुः- अन्तःशब्दोऽधिकरणप्रधानः । तत्सामानाधिकरण्याद्वनात्सप्तमी, ‘वनरूपे मध्ये’ इत्यर्थात् । वनेऽन्तर्वनाऽन्तर्वसति । पूर्वपदार्थप्राधान्ये तु अव्ययीभावः, ‘वनस्याऽन्तरन्तर्वणमि’ति । अत्रेदं वक्तव्यं - ‘सामानाधिकरण्ये सप्तमी’त्यसङ्गतं, व्यधिकरणसमासप्रकरणात् ‘विशेषणं विशेष्येणे’त्यनेनैव गताऽर्थत्वात् । किञ्च मद्ध्यवाचिनाऽव्ययीभावो दुर्लभः । लक्षणाऽभावात् । अथाऽव्ययमिति योगविभागेन कथंचिदुपपत्तिं ब्रूषे, - ‘अपदिशमि’ति यथा, तर्हि तथैवेहाऽपि नित्यसमासत्वादविग्रहत्वं स्यात् । तथा च ‘वनस्याऽन्तरिति त्वदुक्तिर्विरुद्ध्येत । Prakriyasarvasvam ----------------- सप्तम्यन्तं शौण्डादिभिर्वा समस्यते । शौण्डधूर्तकितवव्याडसंवीतपटुपण्डित- कुशलनिपुणचपलान्तरधिभिः । शास्त्रे शौण्ड शास्त्रशौण्डः । स्त्रीधूर्तः । अक्षकितवः । व्याडो दुश्शीलः । गृहव्याडः । गुहासंवीतः, तत्र तिरोहितः । वेदपटुः । शास्त्र- पण्डितः । तर्ककुशलः । काव्यनिपुणः । वाक्चपलः । गृहेऽन्तर्गृहान्तः । अध्युत्तर- पदान्नित्यं ख उक्तः । राजाधीनः ॥ Sutra Prayogas -------------- * **त्वदधीनं** (कुमारसम्भवम्): `सप्तमी शौण्डैः` इति समासः। * **सर्वर्तु-सुखामयोध्या-** (भट्टिकाव्यम्): `सप्तमी` इति योगविभागात्समासः । * **पान-शौण्डः** (भट्टिकाव्यम्): `सप्तमी शौण्डैः` इति सः ।