21039: स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ========================================= **Padacheda:** स्तोक-अन्तिक-दूरार्थ-कृच्छ्राणि | S | 1 | 3 | क्तेन | S | 3 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Words with a sense of स्तोक 'a little', अन्तिक 'near', दूर 'far' and कृच्छ्र 'penance', ending in the Ablative -5th case are compounded with what ends in क्त and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ Words with a sense of स्तोक 'a little', अन्तिक 'near', दूर 'far' and कृच्छ्र 'penance', ending in the Ablative -5th case are compounded with what ends in क्त and the resulting compound is तत्-पुरुष । As स्तोकान्मुक्तः 'loosed from a little distance.' So also अन्तिकादागतः 'come from near' अभ्याशादागतः 'come from near' दूरादागतः 'come from far, विप्रकृष्टादागतः 'come from a distance.' कृच्छ्रान्मुक्तः 'saved with difficulty.' कृच्छ्रन् लब्धः 'obtained with difficulty.' By rule (6.3.2) the case-affix is not elided in compounds of this kind. Vart:- The words शत 'a hundred' and सहस्र 'a thousand' are similarly compounded with the word पर. As, शतात्परे = परश्शताः 'beyond a hundred:' So also परसहस्राः 'beyond a thousand.' In these examples the word शत and सहस्र being exhibited in the 1st case and thus being *upasarjana* ought to have stood as the first member of the compound (2.2.30); But these compounds are supposed to fall under the class of राजदन्त &c, (2.2.31) and hence the *upasarjana* stands as the second member of the compound. Irregularly is also the augment स (सुद्) interposed between these two words. Kashika ------- स्तोक अन्तिक दूर इत्येवमर्थाः शब्दाः कृच्छ्रशब्दश्च पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। स्तोक — स्तोकान्मुक्तः। अन्तिक — अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान्मुक्तः। कृच्छ्राल्लब्धः। **पञ्चम्याः स्तोकादिभ्यः** (६.३.२) इत्यलुक्॥ शतसहस्रौ परेणेति वक्तव्यम्॥ शतात् परे, परश्शताः। सहस्रात् परे परस्सहस्राः। राजदन्तादित्वात् परनिपातः। निपातनात्। सुडागमः॥ Siddhanta Kaumudi ----------------- स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । पञ्चम्याः स्तोकादिभ्यः (SK159) इत्यलुक् ॥ Balamanorama ------------ **स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन** - स्तोकान्तिक । स्तोक-अन्तिक-दूर-एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्तानि क्तप्रत्ययान्तेन समस्यन्त इत्यर्थः । अर्थग्रहणं स्तोकान्तिकदूरेषु संबध्यते । अल्पान्मुक्त इति । स्तोकपर्यायस्योदाहरणम् । अभ्याशादागत इति । अन्तिकपर्यायस्योदाहरणम् । विप्रकृष्टादागत इति । दूरशब्दपर्याय उदाहार्यः ।करणे च स्तोके॑ति पञ्चमी । 'दूरादागत' इत्यत्र तुदूरान्तिकार्थेभ्यः॑ इति पञ्चमी । अत्रसुपो धात्वि॑ति लुकमाशङ्क्याह — पञ्चम्याः स्तोकादिभ्य इत्यलुगिति । Tattvabodhini ------------- **स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन** - स्तोकान्मुक्त इत्यादि ।करणे च स्तोकाल्पे॑ति पञ्चमी ।दूरादागत॑ इत्यादौ तुदूरान्तिकार्थेभ्यः॑इत्यनेन । Nyaas ----- `स्तोकान्मुक्तः; कृच्छ्रान्मुक्तः` इति। `करणे स्तोकाल्पकृच्छ्र` (2.3.33) इत्यादिना पञ्चमी। `अन्तिकादागतः, दूरादागतः` इति। दूरान्तिकार्थेभ्यो द्वितीया च` (2.3.35) इत्यनेन॥ Prakriyasarvasvam ----------------- पञ्चम्यन्तानि स्तोकाद्यर्थानि कृच्छ्रपदं च क्तेन समस्यन्ते ॥ Sutra Prayogas -------------- * **दूरान्मुक्तम्** (रघुवंशम्): `स्तोकान्तिकदूरार्थिकृच्छ्राणि क्तेन` इति समासः।