21037: पञ्चमी भयेन ================== **Padacheda:** पञ्चमी | S | 1 | 1 | भयेन | S | 3 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A word ending with the Ablative -5th case-affix is optionally compounded with the word भय 'fear' and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ A word ending with the Ablative -5th case-affix is optionally compounded with the word भय 'fear' and the resulting compound is तत्-पुरुष । The phrase सुप् सुपा is understood here, and the *sutra* qualifies it. As वृकेभ्यो भयं=वृकभयं 'fear from wolves,' चौरभयं 'fear from thieves,' दस्युभयं 'fear from robbers.' Vart:- So also with the words भीत, भीति, and भीः as वृकभीतः, वृकभीतिः, वृकभीः. This *sutra* is an expansion of *sûtra* 32 and an exposition of the word बहुल there. So that we may have the following compounds also: ग्रामनिर्गतः 'gone out of the village.' अधर्म जुगुप्सुः . Bhashya ------- पञ्चमी भयेन (385) (247 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.2। आ.26) (न्यूनतापरिहाराधिकरणम्) (वार्तिकावतरणभाष्यम्) अत्यल्पमिदमुच्यते - भयेन इति ॥ (1271 वार्तिकम् ॥ 1 ॥) ( ॥ भयभीतभीतिभीभिः ॥) (भाष्यम्) भयभीतभीतिभीभिरिति वक्तव्यम् ॥ वृकाद्भयं वृकभयम् ॥ वृकाद्भीतः वृकभीतः। वृकाद्भीतिः वृकभीतिः। वृकाद्भीः वृकभीरिति ॥ (भाष्यम्) अपर आह - (1272 वार्तिकन्यासान्तरम् ॥ 2 ॥) ( ॥ भयनिर्गतजुगुप्सुभिः ॥) (भाष्यम्) भयनिर्गतजुगुप्सुभिरिति वक्तव्यम्। वृकभयं ग्रामनिर्गतः अधर्मजुगुप्सुः ॥ पञ्चमी भयेन ॥ 36 ॥ Kashika ------- सुप् सुपेति वर्तते, तस्य विशेषणमेतत्। पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति। वृकेभ्यो भयम्, वृकभयम्। चौरभयम्। दस्युभयम्॥ भयभीतभीतिभीभिरिति वक्तव्यम्॥ वृकेभ्यो भीतः, वृकभीतः। वृकभीतिः। वृकभीः। पूर्वस्यैवायं बहुलग्रहणस्य प्रपञ्चः। तथा च ग्रामनिर्गतः अधर्मजुगुप्सुरित्येवमादि सिद्धं भवति॥ Siddhanta Kaumudi ----------------- चोराद्भयं चोरभयम् । (वार्तिकम्) ॥ वृकभीतः । वृकभीतिः । वृकभीः ॥ Laghu Siddhanta Kaumudi ----------------------- चोराद्भयं चोरभयम्॥ Balamanorama ------------ **पञ्चमी भयेन** - पञ्चमी भयेन । पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः । चोरभयमिति ।भीत्रार्थानां भयहेतुः॑ इत्यपादानत्वात्पञ्चमी । भयभीतभिति । सूत्रे भयशब्दस्यैव ग्रहणाद्भूतादेरप्राप्ते समासे वचनम् । वृकभीत इति । वृकभीतिः वृकभीरित्यप्युदाहार्यम् । अत्र भाष्येअपर आहे॑त्युक्त्वा भयनिर्गतजुगुप्सुभिरिति वक्तव्यमित्युक्त्वा वृकभयं ग्रामनिर्गतः, अधर्मजुगुप्सु॑रित्युदाहृतम् । चोरत्रस्तः, भोगोपरत इत्यादौसुप्सुपे॑ति वा, मयूरव्यंसकादित्वाद्वा समासः । Tattvabodhini ------------- **पञ्चमी भयेन** - पञ्चमी भयेन । भयेनेति स्वरूपग्रहणं, नार्थस्य, प्रमाणाऽभावात्,भयभीते॑ति वार्तिकारम्भच्च । तेनवृकात्त्रास॑इत्यादौ समासो न । कथं तर्हिभोगोपरतो॑ग्रामनिर्गतः॑, इत्यादिप्रयोगः । अत्राहुः — बहुलग्रहणात्क्वचिद्विभक्त्यन्तरमपि कृता समस्यतैति प्रागेवोक्तत्वात्,सुप्सुपे॑त्यनेन वा तदुपपत्तिरिति । Padamanjari ----------- भेयेनेति स्वरूपग्रहणादव्याप्तिरिति मत्वाऽऽह - भयभीभीतिभीभिरिति वक्तव्यमिति। एवं सूत्रन्यासः कर्तव्य इत्यर्थः। व्याख्यानात्वर्थग्रणे'वृकेभ्यस्त्रासः' इत्यादावपि प्रसङ्गः इति भावः। स तर्हि तथा न्यासः कर्तव्य? नेत्याह - पूर्वस्यैव बहुलग्रहणस्येति। यथा हि'पादहारकः' इत्यादै बहुलग्रहणात्सर्वेपाधिव्यभिचारार्थाद्भवति, एवमत्रापि भविष्यतीत्यर्थः। अधमजुगुप्सुरिति'जुगुप्साविराम' इत्यधर्मस्यापादानसंज्ञा॥ Nyaas ----- `भयभीतभीतिभीभिरिति वक्तव्यम्` इति। एवं हि त्रिभिरपि भीतादिभिः समासो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। स्वयमेव व्याख्यातुमाह - `पूर्वस्य` इत्यादि। यथैव हि **कर्तृकरणे कृता बहुलम्** (2.1.32) इति तृतीयान्तस्य समासो विधीयमानो बहुलग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वादन्यविभक्त्यन्तस्यापि समासो भवति - पादहारकः, गलेचोपक इति, तथा वृकभीत इत्यादावपि समासो भविष्यति। तस्मात् पूर्वकस्य बहुलग्रहणस्सयैवोदाहरणप्रदर्शनार्थोऽयं योगः प्रपञ्चार्थो वेदितव्यः। `तथा च` इत्यादि। यस्मात् पूर्वकेणैव बहुलग्रहणेन सिद्धं तस्यैवायम्प्रपञ्चः; तस्मात्तत एव बहुलग्रहणात् `ग्रामनिर्गतः` इत्याद्यपि सिद्धं भवति। आदिशब्देन वृकभीतादेग्र्रहणम्॥ Prakriyasarvasvam ----------------- वा समस्यते । चोराद्भयं चोरभयम् । 'कृता बहुलमि'त्यधिकाराद् रिपुभीतः, रिपुभीरुः । ग्रामनिर्गतः, अधर्मजुगुप्सुरित्यादि ॥ Vartika ------- भयभीतभीतिभीभिरिति वक्तव्यम् । Sutra Prayogas -------------- * **परःशताः** (शिशुपालवधम्): `पञ्चमी` इति योगविभागात्समासः।