21035: भक्ष्येण मिश्रीकरणम् =========================== **Padacheda:** भक्ष्येण | S | 3 | 1 | मिश्रीकरणम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A word ending with the Instrumental -3rd case-affix and denoting a relish giving or refining ingredient, is compounded with a word meaning, victuals and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ A word ending with the Instrumental -3rd case-affix and denoting a relish giving or refining ingredient, is compounded with a word meaning, victuals and the resulting compound is तत्-पुरुष । Anything eatable, whether hard or soft, is called भक्ष्य; its refinement is called मिश्रीकरणं. As गुडधानाः 'barley prepared with jaggery;' गुडपृथकाः 'flattened parched rice prepared with jaggery.' The connection here also between the two words is established by a verb understood. Bhashya ------- भक्ष्येण मिश्रीकरणम् (383) (1259 आक्षेपवार्तिकम् ॥ 1 ॥ अन्नेन व्यञ्ञ्जनं भक्ष्येण मिश्रीकरणमित्यसमर्थसमासः (कारकाणां क्रियासमर्थत्वात्) ॥ (व्याख्याभाष्यम्) अन्नेन व्यञ्ञ्जनम् भक्ष्येण मिश्रीकरणम् इत्यसमर्थसमासोयं द्रष्टव्यः ॥ किं कारणम्?। कारकाणां क्रियासमर्थत्वात्। कारकाणां क्रियया सामर्थ्यमस्ति, न तेषामन्योन्येन। तद्यथा - निश्रयण्या द्वाभ्यां काष्ठाभ्यां सामर्थ्यं न तेषामन्योन्येन ॥ (एकदेशिसमाधानभाष्यम्) एवं तर्ह्याहायम् - अन्नेन व्यञ्ञ्जनम् भक्ष्येण मिश्रीकरणम् इति। न चास्ति सामर्थ्यम्। तत्र वचनात्समासो भविष्यति ॥ (1260 समाधाननिराकरणवार्तिकम् ॥ 2 ॥) ॥ वचनप्रामाण्यादिति चेद् नानाकारकाणां प्रतिषेधः ॥ (व्याक्याभाष्यम्) वचनप्रामाण्यादिति चेन्नानाकारकाणां प्रतिषेधो वक्तव्यः। तिष्ठतु दघ्ना ओदनो देवदत्तेन भुज्यत इति ॥ (1261न्यासान्तरेणसमाधानवार्तिकम् ॥ 3 ॥) ॥ सिद्धं तु समानाधिकरणाधिकारे क्तस्तृतीयापूर्वपद उत्तरपदलोपश्च ॥ (व्याख्याभाष्यम्) सिद्धमेतत् ॥ कथम्?। समानाधिकरणाधिकारे वक्तव्यम् - क्तान्तस्तृतीयापूर्वपदः समस्यते सुपा, उत्तरपदस्य च लोपो भवतीति। दध्ना उपसिक्तः दध्युपसिक्तः। दध्युपसिक्तः ओदनो दध्योदनः। गुडेन संसृष्टाः-गुडसंसृष्टाः। गुडसंसृष्टा धानाः-गुडधानाः ॥ (1262 वार्तिकम् ॥ 4 ॥) ॥ षष्ठीसमासश्च युक्तपूर्णान्तः ॥ (व्याख्याभाष्यम्) षष्ठीसमासश्च युक्तपूर्णान्तः समस्यते, उत्तरपदस्य च लोपो वक्तव्यः। अश्वानां युक्तोऽश्वयुक्तः अश्वयुक्तो रथोऽश्वरथः। दध्नः पूर्णो दधिपूर्णः दधिपूर्णो घटो दधिघटः ॥ (प्रत्याक्षेपभाष्यम्) तत्तर्हीदं बहु वक्तव्यम्? ॥ (1263 समाधानवार्तिकम् ॥ 5 ॥ ॥ नवाऽसमासेऽदर्शनात् ॥ (व्याख्याभाष्यम्) न वा वक्तव्यम्। किं कारणम्? ॥ असमासेऽदर्शनात्। यद्ध्यसमासे दृश्यते समासे च न दृश्यते तद्धि लोपारम्भं प्रयोजयति। न चासमासे उपसिक्तशब्दः संसृष्टशब्दो युक्तशब्दः पूर्णशब्दो वा दृश्यते ॥ (वार्तिकावतरणभाष्यम्) कथं तर्हि सामर्थ्यं गम्यते? ॥ (1264 समाधानसाधकवार्तिकम् ॥ 6 ॥ ॥ युक्तार्थसंप्रत्ययाच्च सामर्थ्यम् ॥ (व्याख्याभाष्यम्) दध्ना युक्तार्थता संप्रतीयते ॥ (वार्तिकावतरणभाष्यम्) कथं पुनर्ज्ञायते - दध्ना युक्तार्थता संप्रतीयत इति? ॥ (1265 समाधानसाधकवार्तिकम् ॥ 7 ॥) ॥ संप्रत्ययाच्च तदर्थाध्यवसानम् (संप्रतीयमानार्थलोपे ह्यनवस्था ॥) (व्याख्याभाष्यम्) संप्रत्ययाच्च तदर्थोध्यवसीयते ॥ अवश्यं चैतदेवं विज्ञेयम्। संप्रतीयमानार्थलोपे ह्यनवस्था ॥ यो हि मन्यते संप्रतीयमानार्थानां शब्दानां लोपो भवतीति। अनवस्था तस्य लोपस्य स्यात्। दधीत्युक्ते बहवोर्था गम्यन्ते मन्दकमुत्तरकं निलीनकमिति। तद्वाचिनां शब्दानां लोपो वक्तव्यः स्यात्। तथा गुड इत्युक्ते मधुरशब्दस्य, शृङ्गवेरमिति च कटुकशब्दस्य। अन्तरेणापि खलु शब्दप्रयोगं बहवोऽर्था गम्यन्तेक्षिनिकोचैः पाणिविहारैश्च। तद्वाचिनां शब्दानां लोपो वक्तव्यः स्यात् ॥ अन्नेन ॥ 33 ॥ भक्ष्येण ॥ 34 ॥ Kashika ------- मिश्रीकरणवाचि तृतीयान्तं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। खरविशदमभ्यवहार्यं भक्ष्यम्, तस्य संस्कारकं मिश्रीकरणम्। गुडेन मिश्रा धानाः, गुडधानाः। गुडपृथुकाः। वृत्तौ क्रियाया अन्तर्भावात् पूर्वोत्तरपदयोः सामर्थ्यम्॥ Siddhanta Kaumudi ----------------- गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ॥ Balamanorama ------------ **भक्ष्येण मिश्रीकरणम्** - भक्ष्येण । मिश्रीक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरणं-गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यत इत्यर्थः । कठिन द्रव्य-खाद्यम् । पृथुकादि भक्ष्यं विवक्षितम् । गुडधाना इति ।धाना भृष्टयवे स्त्रियः॑ इत्यमरः । गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदाऽपेक्षत्वान्न सामर्थ्यमित्यत आह — मिश्रेणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्तेर्नाऽसामर्थ्यमिति भावः ।चतुर्थी । प्रत्ययग्रहणपरिभाषया चतुर्थीत्यनेन चतुथ्र्यन्तं गृह्रते । तदर्थ- अर्थ-बलि-हित-सुख-रक्षित-एषां द्वन्द्वः । चतुथ्र्यन्तम् एतैः षड्भिः समस्यते, स तत्पुरुष इति फलितम् । तदर्थेत्यत्र तच्छब्देन चतुथ्र्यन्तार्थो विवक्षितः । तस्मै चतुथ्र्यन्तार्थाय इदं तदर्थम् । 'अर्थेन नित्यसमासः' इति वक्ष्यमाणः समासः । चतुथ्र्यन्तवाच्यप्रयोजनकं यत्तत्तदर्थमिति पर्यवस्यति । तदाह — चतुथ्र्यन्तार्थायेत्यादिना । तदर्थेनेति । तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृतिभाव एव भवति, न त्वन्यत्रेत्यर्थः । कुत इत्यत आह — बलिरक्षितेति । यदि तादथ्र्यमात्रेऽयं समासः स्यात्प्रकृतिविकृतिभाव एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थं स्यात् । भूतेभ्यो बलिः, गोभ्यो रक्षितं तृममित्यत्रापि बलेर्भूतार्थतया, रक्षिततृणस्य गवार्थतया च तदर्थेत्येव समाससिद्धेरिति भावः । यूपायेति । अत्र चुत्रथ्यन्तवाच्ययूपार्थं दारु, अतो दारुशब्देन यूपायेत्यस्य समासः, यूपस्य दारुविकृतित्वाच्च, तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह — नेहेति । रन्धनायेति । पाकायेत्यर्थः ।रध हिंसायाम् । इह पाको विवक्षितः । भावे ल्युट्, अनादेशः ।रधिभजोरची॑ति नुम् । स्थाल्याश्चतुथ्र्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभावविरहान्न समासः । नन्वओभ्यो घासः अआघासः, धर्माय नियमो धर्मनियम इत्यादौ कथं तदर्थेन समासः, प्रकृतिविकृतिभावविरहादित्यत आह — अआघासादयस्त्विति । न चैवंरन्धनायस्थाली॑त्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभावनियमो व्यर्थ इति वाच्यं, शाब्दबोधे सम्बन्धत्वतादथ्र्यन्तवकृतवैलक्षण्येन उक्तनियमसाफल्यात् । एवञ्चरन्धनस्य स्थाली॑ति सम्बन्धत्वेन भाने षष्ठीसमास इष्ट एव । तादथ्र्यत्वेन भाने चतुर्थीसमासवारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यास्तां तावत् । तदेवं तदर्थेत्यंशः प्रपञ्चितः । अथेदानीमर्थशब्देन चतुथ्र्यन्तस्य समासे विशेषमाह — अर्थेनेति । अर्थशब्देन चतुथ्र्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पः स्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्गं तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुंलिङ्गत्वात्परवल्लिङ्ग॑मिति सर्वत्र पुंलिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । इहोपकारकं वस्तु विवक्षितमित्यभिप्रेत्योदाहरति — द्विजार्थ इति । तत्र द्विजायाऽयमित्यस्वपदविग्रहः । तत्रा.ञर्थशब्दस्थानेऽयमिति शब्दः, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । द्विजायेति तादथ्र्यचतुर्थी । तदन्तस्याऽर्थशब्देन समासो विशेष्यसूपशब्दस्य पुंलिङ्गत्वात्समासस्य पुंलिङ्गता च । द्विजस्यो कारकः सूप इत्यर्थः । द्विजार्थेति । द्विजायेयमिति विग्रहः । अर्थशब्दस्य नित्यपुंलिङ्गत्वेऽपिपरवल्लिङ्ग॑मिति पुंलिङ्गं बाधित्वाऽनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थं पय इति । द्विजायेदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुर्थ्यैव तादथ्र्यस्योक्तत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेनाऽर्थशब्देन विग्रहाऽप्रसक्तेर्नित्यसमासत्वं न्यायसिद्धमेव ।गुरोरिदं गुर्वर्थ॑मित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रहः । तादथ्र्यचतुथ्र्यन्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति । विग्रहः । गवामनुकूलमित्यर्थः ।हितयोगे चे॑ति शेषषष्ठपवादश्चतुर्थी॑ । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति ।तृणादिक॑मिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादथ्र्यचतुथ्र्यन्तस्य रक्षितशब्देन समासः । Tattvabodhini ------------- **भक्ष्येण मिश्रीकरणम्** - भक्ष्येण । खरं विशदमभ्यवहार्यं भक्ष्यम् । खरं =कठिनं विशदं=विविक्तावयवं खाद्यं भक्ष्यमित्यर्थः । यत्प्रत्ययान्तस्य एरन्तस्य च भक्षयतेस्तत्रैव प्रयोगात् ।अब्भक्ष॑ इत्यादिप्रयोगस्तु भक्ताः । गुडधाना इति । ननु धानानां प्रत्येकं विविभक्तावयवत्वाऽभावात्कथमेतदुदाहरणं सङ्गच्छत इति चेत् । मैवम् । भृष्टयवसमुदायस्य धानात्वात्समुदायं प्रति समुदायिनामवयवत्वाच्च तदुपपत्तेः । Padamanjari ----------- खरविशदमिति। खरमु कठिनम्, विभक्तावयवम्; खरं च तद्विशदं च खरविशदम्, हनुचलनेनादनीयमित्यर्थः। यदभ्यवहार्यं तद्भक्ष्यमित्युच्यते; तत्रैव यदन्तस्य एरजन्तस्य च भक्षयते रूढत्वात्। भक्षयतिस्त्वन्यत्रापि भवति-अब्भक्षः, वायुभक्ष इति। गौणोऽत्र भक्षयतिरित्यन्ये ॥ Praudhamanorama --------------- भक्ष्येण मिश्रीकरणम् ॥ खरं विशदमभ्यवहारार्थं भक्ष्यम् । खरं = कठिनम् । विशदं = विविक्ताऽवयवम् । यत्प्रत्ययान्तस्य, एरजन्तस्य च भक्षयतेस्तत्रैव प्रयोगात् । गुणात्तरेणेत’। एतच्च वार्तिकं ‘सर्वं गुणकार्त्स्न्ये’ इति सूत्रे पठितम् । **नृणामिति ।** अत्र द्विजशब्देन समासप्रसङ्गः । तदपेक्षया हि षष्ठी । श्रेष्ठत्वञ्च द्विजेतरमनुष्येभ्यः । तेषां सामान्यशब्देनोपस्थिततया तान्विहाय अनुपस्थितकल्पनाया अन्याय्यत्वात् । अथ कथं ‘पुरुषोत्तम’ इति ? यस्मान्निर्धार्यते, यश्चैकदेशो निर्द्धायते, यश्च निर्धारणे हेतुः एतत्त्रितयसन्निधौ सत्येवाऽयं निषेध इति ‘द्विवचनविभज्ये’ति सूत्रे कैयटः । यद्वा ‘पुरुषेषूत्तम’ इति निर्धारणसप्तम्याः ‘सञ्ज्ञायामि’ति समासः । न चैवं ‘न निर्धारणे’ इति व्यर्थम् । स्वरे भेदात् । सप्तमीसमासे हि पूर्वपदप्रकृतिस्वरः । षष्ठीसमासे तु अन्तोदात्तत्वं स्यात् । Prakriyasarvasvam ----------------- मिश्रीकार्यं वस्तु भक्ष्येण समस्यते । गुडेन मिश्रः पृथुको गुडपृथुकः । यानेन युग्यं पात्रेण पूरणं चेति भोजराट् । अश्वैरूढो ह्यश्व रथः पयःपूर्णः पयोघटः ॥ ३७६ ॥