21024: द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ==================================================== **Padacheda:** द्वितीया | S | 1 | 1 | श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्नैः | S | 3 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- A word ending in a 2nd case-affix is compounded with the words श्रित 'who had recourse to', अतीत 'gone by', पतित 'who has fallen upon', गत 'who has gone to', अत्यस्त 'who has passed', प्राप्त 'who has obtained' and अपान्न 'who has reached' and the resulting compound is called तत्-पुरुष । Vasu English Translation ------------------------ A word ending in a 2nd case-affix is compounded with the words श्रित 'who had recourse to', अतीत 'gone by', पतित 'who has fallen upon', गत 'who has gone to', अत्यस्त 'who has passed', प्राप्त 'who has obtained' and अपान्न 'who has reached' and the resulting compound is called तत्-पुरुष । As कष्टं+ श्रितः = कष्टश्रितः 'who has had recourse to trouble.' , नरकश्रितः, So also :- कान्तारातीतः 'who has passed over the dreary forest.', नरकपतितः, 'fallen into hell.' आमगतः 'gone to village.' तरङ्गात्यस्तः 'passed the waves.' सुखप्राप्तः 'who has reached pleasure.' सुखापन्नः 'who has obtained happiness.' The words गमी, गामी &c., should also be included. As ग्रामगमी, ग्रामगामी; ओदन बुभुक्षुः . Bhashya ------- द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (372) (237 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.2 आ. 16 सू.) (न्यूनतापूर्त्यधिकरणम्) (1246 वार्तिकम् ॥ 1 ॥) ॥ श्रितादिषु गमिगाम्यादीनामुपसंख्यानम् ॥ (व्याख्याभाष्यम्) श्रितादिषु गमिगाम्यादीनामुपसंख्यानं कर्तव्यम्। ग्रामं गमी ग्रामगमी ग्रामं गामी ग्रामग्रामी ॥ (तत्पुरुषविधानानर्थक्यपरिहाराधिकरणम्) (1247 वार्तिकम् ॥ 2 ॥) ॥ श्रितादिभिरहीने द्वितीयासमासवचनानर्थक्यं बहुव्रीहिकृतत्वात् ॥ (व्याख्याभाष्यम्) श्रितादिभिरहीनवाचिन्या द्वीतीयायाः समासवचनमनर्थकम् ॥ किं कारणम्?। बहुव्रीहिकृतत्वात्। इह - यः कष्टं श्रितः, कष्टमनेन श्रितं भवतीति तत्र बहुव्रीहिणा सिद्धम् ॥ (1248 बहुव्रीहिवादिवार्तिकम् ॥ 3 ॥) ॥ अहीने द्वितीयास्वरवचनानर्थक्यं च ॥ (व्याक्याभाष्यम्) अहीने द्वितीयापूर्वपदं प्रकृतिस्वरं भवतीत्येतत् स्वरवचनमनर्थकम् ॥ किं कारणम्? बहुव्रीहिकृतत्वादेव ॥ (1249 तत्पुरुषवादिवार्तिकम् ॥ 4 ॥) ॥ जातिस्वरप्रसङ्गस्तु ॥ (व्याख्याभाष्यम्) जातिस्वरस्तु प्राप्नोति - ग्रामगतः अरण्यगत इति जातिकालसुखादिभ्योनाच्छादनात् क्तोऽकृतमितप्रतिपन्ना इति ॥ (1250 बहुव्रीहिवादिवार्तिकम् ॥ 5 ॥) ॥ तत्र जातादिषु वावचनात्सिद्धम् ॥ (व्याख्याभाष्यम्) यदेतद् वा जाते इति, एतद् वा जातादिषु इति वक्ष्यामि। इमे जातादयो भविष्यन्ति ॥ (आक्षेपभाष्यम्) ननु च भेदो भवति - बहुव्रीहौ सति समासान्तोदात्तत्वेनापि भवितव्यं पूर्वपदप्रकृतिस्वरत्वेनापि। तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेनैव ॥ (आक्षेपबाधकभाष्यम्) नास्ति भेदः। योपि हि तत्पुरुषमारभते न तस्य दण्डवारितो बहुव्रीहिः। तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ, बहुव्रीहौ सति एकः समासो द्विस्वरत्वम् ॥ (तत्पुरुषसाधकज्ञापकवादिभाष्यम्) एवं तर्हि सिद्धे सति यत्तत्पुरुषं शास्ति, तज्ज्ञापयत्याचार्यः समानार्थे केवलं विग्रहभेदाद्यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिश्च, तत्र तत्पुरुष एव भवति किमेतस्य ज्ञापने प्रयोजनम्?। राज्ञः सखा राजसखः, राजा सखा अस्येति बहुव्रीहिर्न भवति ॥ (बहुव्रीहिसाधकापवादवादिभाष्यम्) नैतज्ज्ञापकसाध्यम् ॥ अपवादैरुत्सर्गा बाध्यन्ते, इति बाधकेनानेन भवितव्यं सामान्यविहितस्य विशेषविहितेन ॥ अथ न सामान्यविहितः ॥ (तत्पुरुषसाधकसिद्धान्तिभाष्यम्) यदुच्यते - बहुव्रीहिकृतत्वादिति ॥ एतदयुक्तम्। अस्ति खल्वपि विशेषो बहुव्रीहेस्तत्पुरुषस्य च ॥ (आक्षेपभाष्यम्) किं शब्दकृतः, अथार्थकृतः? ॥ (समाधानभाष्यम्) शब्दकृतश्चार्थकृतश्च। शब्दकृतस्तावद् - बहुव्रीहौ सति कपा भवितव्यम्। तत्पुरुषे सति न भवितव्यम् ॥ अर्थकृतः - तत्पुरुषे सति रुहादीनां क्तः कर्तरि भवति धात्वर्थस्यानपवर्गे - आरूढो वृक्षं देवदत्तः। बहुव्रीहौ व्यपवृक्ते कर्मणि भवति - आरूढो वृक्षो देवदत्तेनेति ॥ अन्यथाजातीयकः खल्वपि प्रत्यक्षेणार्थसंप्रत्ययः अन्यथाजातीयकः संबन्धाद्। राज्ञः सखा राजसखः। संबन्धादेतद्गन्तव्यम् - नूनं राजाप्यस्य सखेति ॥ उभयं खल्वपीष्यते - स्वस्ति सोमसखा, पुनरेहि गवांसख इति ॥ द्वितीया श्रिता ॥ 23 ॥ Kashika ------- सुप् सुपेति वर्तते, तस्य विशेषणमेतद् द्वितीया श्रितादयश्च। द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। कष्टं श्रितः, कष्टश्रितः। नरकश्रितः। अतीत — कान्तारमतीतः, कान्तारातीतः। पतित — नरकं पतितः, नरकपतितः। गत — ग्रामं गतः, ग्रामगतः। अत्यस्त — तरङ्गानत्यस्त, तरङ्गात्यस्तः। तुहिनात्यस्तः। प्राप्त — सुखं प्राप्तः, सुखप्राप्तः। आपन्न — सुखमापन्नः, सुखापन्नः। दुःखापन्नः॥ श्रितादिषु गमिगाम्यादीनामुपसंख्यानम्॥ ग्रामं गमी, ग्रामगमी। ग्रामं गामी, ग्रामगामी। ओदनं बुभुक्षुः, ओदनबुभुक्षुः॥ Siddhanta Kaumudi ----------------- द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीत । (वार्तिकम्) ॥ ग्रामं गमी ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ॥ Laghu Siddhanta Kaumudi ----------------------- द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स च तत्पुरुषः। कृष्णं श्रितः कृष्णश्रित इत्यादि॥ Balamanorama ------------ **द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः** - द्वितीया श्रिता । द्वितीयान्तमिति । प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायग्रहणं लभ्यते । तथा चसुबन्तै॑रित्यस्य सुप्-तत्प्रकृतिसमुदायैरित्यर्थः पर्यवस्यति । श्रितादिशब्दास्तु क्तप्रत्ययान्ता एव न तु सुबन्ताः, तेषां सुब्घटितसमुदायात्मकत्वाऽभावादित्यत आह-श्रितादिप्रकृतिकैः सुबन्तैरिति । श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भावः ।गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्ते॑रित्यस्य तु नायं विषयः, 'कर्तृकरणे कृता'साधनं कृते॑तिवत्कारकविशेषानुपादानादिति प्रौढमनोरमायां स्थितम् । न च श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितान्तादिशब्दप्रकृतिकैरित्यर्थलाभा॒त्कृष्णं परमश्रित॑ इत्यत्रापि समासः स्यादिति वाच्यं, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । कृष्णं श्रित इति । श्रयतेर्गतिविशेषार्थकत्वाद्गत्यर्थाकर्मकेति कर्तरि क्तः ।न लोके॑ति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात्कृष्णशब्दस्य पूर्वनिपातः दुःखातीत इति ।दुःखमतीत इति विग्रहः ।इण् गतौ॑ । अतिपूर्वात् कर्तरि क्तः । इत्यादीति । गर्तं पतितो गर्तपतितः ।पल्लृ गतौ॑ । कर्तरि क्तः । तनिपतिदरिद्रातिभ्यः सनो वेट्कत्वेनयस्य विभाषे॑तीण्निषेधप्राप्तावप्यत एव निपातनादिट् । ग्रामं गतो ग्रामगतः । ग्राममत्यस्तः-अतिक्रान्तो-ग्रामात्यस्तः । ग्रामं प्राप्तः ग्रामप्राप्ताः । संशयमापन्नः संशयापन्नः । गम्यादीनामिति । गम्यादिप्रकृतिकैः सुबन्तैरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत् । ग्रामं गमीति । 'गमेरिनिः' रित्यौणादिक इनिप्रत्ययः, स च 'भविष्यति गम्यादयः' इति वचनाद्भविष्यति काले भवति ।अकेनो॑रिति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । ग्रामं गमिष्यन्नित्यर्थः । अन्नं बुभुक्षुरिति । भुजेः सन् ।सनाशंसभिक्ष उः॑ ।न लोके॑ति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । बुभुक्षुशब्दो गम्यादपठित इति भावः । स्वयं क्तेन । क्तप्रत्ययान्तप्रकृतिकसुबन्तेन स्वयमित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः । अयोग्यत्वादिति ।स्वय॑मित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृतीयाया एवोचितत्वादिति भावः ।स्वय॑मित्यव्ययस्य समासेऽसमासेऽपि को भेदः । असमासेऽपि 'अव्ययादाप्सुपः' इति लुकः प्रवृत्तेरित्यत आह — स्वयंकृतस्यापत्यमिति । स्वयंकृतस्यापत्यमित्यर्थे 'अत इ' ञिति स्वयंकृतशब्दात्षष्ठन्तत्वात्तत इञि ऋकारस्यादिवृद्धौ रपरत्वे स्वयंकार्तिरित्येव स्यादिति भावः । वस्तुतस्तु असामर्थ्यादिह न तद्धितः । स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम् । Tattvabodhini ------------- **द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः** - द्वितीया श्रितातीत । श्रितादीनां गतिवशेषवाचित्वात्गत्यर्थकर्मके॑ति कर्तरि क्तः ।प्रत्ययग्रहणे तदन्तग्रहण॑मित्याशयेनाह — द्वितीयान्तमिति । श्रितादिप्रकृतिकैरिति । यद्यपि संबोधने सुबन्तत्वं संभवति तथाप्यन्यत्रापि समासस्येष्टत्वात् श्रितादयस्तद्धटितसमुदाये लाक्षणिक इह गृ-ह्रन्त इति भावः । एवंखट्वा क्षेपे॑गर्गादिभ्योय॑ ञित्यादावप्यूह्रम् । न हि खट्वेत्यस्य द्वितीयान्तत्वं, गर्गादीनां षष्ठन्तत्वं वा संभवति । स्यादेतत् -द्वितीयान्तस्य श्रितप्रकृतिकसुबन्तेन समासे काष्टश्रितेयो न सिध्येत् । श्रितशब्दाट्टपि ततः सुपि कष्टं श्रिता कषष्टश्रितेति समासे श्रिताशब्दस्यैव टाबन्तत्वात्, ततःस्त्रीभ्यो ढ॑गिति ढकि काष्टश्रैतेय इति स्यात् ।गतिकारकोपपदाना॑मिति सुबत्पत्तेः प्राक्कृदन्तेन समासे तु श्रितान्तस्य टाबन्तत्वादिष्टं सिध्यतीति चेत् । मैवम् । प्रधानस्त्रीप्रत्यये तदादिनियमाऽभावेन काष्टश्रितेयस्य निर्बाधत्वात् । न च कदाचित् श्रिताशब्दादपि ढकस्यादिति वाच्यम् । जहत्स्वार्थायां वृत्तौ श्रिताशब्दस्यानर्थकत्वेनाऽपत्ययोगाऽसंभवात् । अजहत्स्वार्थायामपि न दोषः, समुदायावयवसंनिधौ समुदायस्यैव कार्यप्रयोजकत्व#आत् । अन्यथा सुन्दरदुहितुरपत्यं सौन्दरदौहित्र इत्यापत्तेरिति दिक् । कृष्णं श्रित इति ।न लोके॑ति षष्ठीनिषेधः । कृष्णश्रित इति ।प्रथमनिर्दिष्ट॑मिति द्वितीयान्तस् ।य पूर्वनिपातः । यद्यपीह श्रितशब्दोऽपि प्रथमानिर्दिष्टस्तथापिसमासविधायके प्रथमानिर्दिष्टमुपसर्जन॑मित्युक्तमिति नास्त्यतिप्रसङ्गः । नन्वेवमव्ययादीनामुपसर्जनसंज्ञार्थमव्ययं विभक्तीत्यादिना समासविधानस्यावश्यकत्वात्सुप्सुपे॑ति समास्याऽनित्यत्वे प्रागुक्ज्ञापकं न संभवत्येव, तथा चाऽव्ययीभावतत्पुरुषादिसमासाऽभावपक्षेसुप्सुपे॑ति समासप्रवृत्त्याअप विष्णोः॒॑परि विष्णोः॑कृष्णं श्रितः॑राज्ञः पुरुष॑इत्यादिविग्रहवाक्यानि न सिध्द्येरन्निचि चेत् । अत्राहुः — पुनः समासविधानं न केवलमुपसर्जनसंज्ञार्थं, तस्याः प्रकारान्तरेणापि सिद्धेः । तथा हि — ॒प्राक्कडारात्समासः॑इत्यनन्तरंप्रथमानिर्दिष्टमुपसर्जनम्,एकविभक्ति चापूर्वनिपाते॑इति पठित्वा समासाधिकारे प्रथमानिर्दिष्टमिति व्याख्यायामुपसर्जनसंज्ञा सिध्द्यत्येव,विभक्त्यर्थादिषुत] विद्यमानमव्ययं सुबन्तेन चेत्समस्यते स समासोऽव्ययीभावः स्यात्, द्वितीयान्तं चेत्स समासस्तत्पुरुष॑इत्येवं व्याख्यानादव्ययीभावतत्पुरुषादिसंज्ञापि सिध्यतीति पुनः समासविधानं व्यर्थं सज्ज्ञापयतीति । ननुअव्ययं विभक्ति — ॑ इत्यादीनां समासविधयकत्वे सिद्धे भवदुक्तमेतत्स्यात्, तत्रैव मानं न पश्याम इति चेत्-अत्र केचित्-उक्तरीत्यैवोपसर्जनसंज्ञायां सिद्धायांप्रथमानिर्दिष्ट॑मिति सूत्रे समासग्रहणं व्यर्थं सत्समासविधायके प्रथमानिर्दिष्टमित्यर्थलाभार्थं । तेनामीषां समासविधायकत्वं सिध्यतीति । अथवासुप्सुपे॑ति समासस्याऽनित्यत्वे आकरग्रन्थ एव प्रमाणम्, अन्यथासिन्नित्यसमासयोः॑इति वार्तिकेनित्यग्रहणेम नार्थः, इदमपि सिद्धं भवति वाप्यमआओ वाप्यआ॑ इत्यादिप्रागुक्तभाष्यकैयटग्रन्थस्याऽसामञ्जस्यापत्तेरिति दिक् । ननु कृष्णश्रित इत्यस्य कृष्णकर्मकश्रयणकर्तेति ह्रर्थः, स च कृष्णः श्रितो येनेति कर्मणि क्तान्तेन बहुव्रीहिणापि सुलभ इति किमनेन समासारम्भेण । मैवम् । बहुव्रीहौ श्रितकृष्म इति निष्ठान्तस्यपूर्वनिपातप्रसङ्गात् ।शेषाद्विभाषे॑ति समासान्तः कप्प्रसज्येतेति दिक् । दुःखातीतीति । अतिपूर्वकादिणः कर्तरि क्तः । अवशिष्टान्यप्युदाहरणान्यूह्रानि । कूपपतितः । यद्यपितनिपतिदरिद्रतिभ्यः॑इति विकल्पितेट्कत्वात्यस्य विभाषे॑तीण्निषेधेन भाव्यं, तथाप्यतएव निपातनादिडित्याहुः । वस्तुतस्तु चुरादावदन्तेषु पठितस्यपत गतौ वा॑ इत्यस्याश्रयणेन पतितः सिध्यति,यस्य विभाषे॑त्यत्रैकाच इत्यनुवृत्तेः सर्वसंमतत्वात् । ग्रामगतः । तुहिनात्यस्तः ।अत्यसो — व्यतिक्रमः । सोऽपि गतिविशेष एवेति कर्तरि क्तः । आदिकर्मणि क्तो वाऽत्राभ्युपेयः । सुखप्राप्तः । दुःखापन्नः ।गम्यादीनामुपसङ्ख्यानम् । गम्यादीनामिति । गम्यादयश्च प्रयोगतो ज्ञेयाः । ग्रामगमीति ।गमेरिनिः॑इत्यौणादिक इनिः । स चभविष्यति गम्यादयः॑इति भविष्यत्काले ।अकेनो॑रिति षष्ठीनिषेधात्कर्मणि द्वितीया । अयोग्यत्वादिति ।स्वय॑ मित्यस्यात्मनेत्यर्थकस्य कत्र्रर्थतया द्वितीयान्तत्वानुपपत्तिरिति भावः । Padamanjari ----------- श्रितादिषु गत्यर्थत्वात्कर्तरि क्तः। पतिरपि सकर्मकः, नेज्जिह्मायन्तो नरकं पतामेति यथा। अत्यासः उ व्यतिक्रमः, गतिविशेष एव। प्राप्तिरप्यत्र गतिरेव, न फलम्। एवमापतिरपि। इह श्रितपतितगतैरयं सासो न विधेयः, कथम्? यः कष्ट्ंअ श्रितः कष्ट्ंअ तेन श्रितं भवति तत्र बहुव्रीहिणा सिध्दम्; नार्थभेदः, न रूपभेदः, न स्वरभेदः। तत्पुरुषेऽपि ठहीनेद्वितीयाऽ इति श्रितपतितागेभ्यः पुर्वपदप्रकृतिस्वर एव भवति। अतीतादिभिस्तु स्वरसिध्दये विधेयः, तथा हि- तैस्तत्पुरुषे थाथादिस्वरेण भाव्यम्, नाहीनस्वरेण; ठतीतात्यस्तयोरहीनेऽ इति निषेधात्, प्राप्तापन्नयोस्त्वहीने द्वितीयानुपसर्ग इति वचनात्। बहुव्रीहौ तु पूर्वपदप्रकृतितस्वरेण भाव्यम्, तस्माच्छ्रितादिभिरयं समासो न विधेयः। तत्रायमब्यर्थः, ठहीने द्वितीयाऽ इत्येतदपि न वक्तव्यं भवति। जातिस्वरप्रसङ्गस्तु, यदा जातिकालसुखादिभ्यः परे श्रितादयो भवन्ति तदा पूर्वपदप्रकृतिस्वरं बाधित्वा'जातिकालसुखादिभ्यो' नाच्छादनात्ऽ इत्यन्तोदातत्वप्रसङ्गः। ननु च तत्पुरुषारम्भोऽपि बहुव्रीह्यर्थविवक्षायां न दण्डवारितो बहुव्रीहिरिति जातिस्वरः स्यादेव? एवमप्यस्ति भेदः, तत्पुरुषे ठहीने द्वितीयअऽ इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहो'जातिकाल' इत्यन्तोदातत्वमिति द्वौस्वरौ भवतः; अनारम्भे तु जातिस्वर एव स्यादिति। एवं तर्हि यदेतद्वा जात इति तद्वा जातश्रितपतितगतेष्विति वक्तव्यम्? एवमपि ठहीने द्वितीयाऽ इत्येतदपि न वक्तव्यमित्यस्त्येव लाघवम्। एतावाÄस्तु विशेषः - तत्पुरुषारम्भे तत्र पूर्वपदप्रकृतिस्वरत्वम्, बहुव्रीहौ तु जातिस्वर इति द्वयोः समासयोद्व्êअस्वर्यम्; अनारम्भे तु बहुव्रीहावेव द्वैस्वर्यमिति? अत्रोच्यते - जातिकालसुखादिव्यतिरिक्तैः सह बहुव्रीहौ श्रितादीनां निष्ठेति पूर्वनिपादप्रसङ्गाद्रूपभेतः, तथा सर्वत्र कबपि प्राप्नोति। नन्वसौ'शेषाद्विभाषा' इति विकल्पितः, स च तत्पुरुषारम्भेऽपि भवत्येव, बहुव्रीहेरप्यभ्युपगमात्? एवमपि बहुव्रीहावपि द्वैस्वर्याभ्युपगमात्पुर्वपदप्रकृतिस्वरपक्षेऽपि बहुव्रीहित्वानपायात्पक्षे कपः प्रसङ्गः; तत्पुरुषारम्भे तु तत्रैव ठहीने द्वनितायाऽ इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहौ तु जातिस्वर एव नित्यमित्यन्तोदातादेव कब्न पूर्वपदप्रकृतिस्वरादित्यस्त्येव विशेषः। तथाऽर्थभेजोऽपि'गत्यर्थाकर्मक' इति कर्तरि क्तो धात्वर्थस्य सर्वात्मनाऽनिष्ठितत्वेऽपि भवति - आरुढो वृक्षं देवदत इति वृक्षस्य एवोच्यते। कर्मणि तु भवन्सर्वात्मना निष्ठतत्वे भवति - आरूढो वृक्षो देवदतेनेति, तथेहापि कष्ट्ंअ श्रित इति कष्टमनुभवन्नेवमुच्यते, कष्ट्ंअ श्रितमनेनेत्यनुभूतकष्टः श्रितशबदविवक्षितस्यार्थस्य साक्षादवगतिर्भवति तत्पुरुषे। बहुव्रीहौ त्वर्थात्, तद्यथा - राज्ञः सखेत्युक्ते नूनं हाजाप्यस्य सखेति स एष सूक्ष्मदृशामेव विषयः। गमिगाम्यादीनामिति। उणादीनामन्येषां च संग्रहार्थमुभयोरुपादानम्। ग्रामं गमीति।'गमेरिनिः' इत्यौणादिक इनिप्रत्ययः'भविष्यति गम्यादयः' इति भविष्यति काले। ग्रामं गामीति। आवश्यके णिनि।'गत्यार्थकर्मणि' इत्यत्र द्वितीयाग्रहणमपवादविषयेऽपि विधानार्थमिति कृत्प्रयोगे द्वितीयैव भवति। ओगनं बुभुक्षुरिति। भुजेः सन्,'सनाशंसभिक्ष उः' ।'न लोकाव्यय' इति षष्ठीनिषेधः॥ Nyaas ----- `श्रितादिषु` इत्यादि। श्रितादिषु समासकारणत्वेनोपात्तेषु सत्सु गमिगाम्यादीनां समासस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। एतैरपि समासः प्रतिपादयितव्यः। तत्रेदं प्रतिपादनम्-`द्वितीया` इति योगविभागः क्रियते, तेन गमिगामिप्रभृतिभिरपि समासो भवति। न चैवं श्रितादिग्रहणनर्थकम्; पूर्वविषयस्यासर्वविषयत्वज्ञापनार्थत्वात्। आदिशब्दः प्रकारवाची। गमिगामिशब्दयोरेकतरोपादानेनैव सिद्धे द्वयोरुपादानमुणादीनामन्येषाञ्च यथा स्यात्; अन्यथा यदि गमिग्रहणमेव क्रियेत तदाऽऽदिशब्दस्य प्रकारवाचित्वात् गमिप्रकाराणामुणादीनामेव ग्रहणं स्यात्। अथ गामिग्रहणमेव क्रियेत, तदा गामिप्रकाराणामुणादीनां स्यात्। तस्माद्द्वयोरपि ग्रहणं कर्तव्यम्। `ग्रामं गमी`इति। `गमेरिनि` (द।उ।6।57) इतीनिप्रत्ययः। स च भविष्यत्काले; **भविष्यति गम्यादयः** (3.3.3) इति वचनात्। `ग्रामं गमी` इति। `आवश्यकाधमण्र्ययोः` (3.3.170) इत्यावश्यमे णिनिः। `अकेनोर्भविषायदाधर्मण्र्ययोः` (2.3.70) इति षष्ठीप्रतिषेधः। `ओदनं बुभुक्षुः` इति। भुजेः सन्नन्तात् **सनाशंसभिक्ष उः** (3.2.168) इत्युप्रत्ययः। क`न लोक` (2.3.69) इत्यादिना षष्ठीप्रतिषेधः। कष्टं श्रित इत्यादावप्यनेनैव षष्ठीप्रतिषेधः। Prakriyasarvasvam ----------------- द्वितीयान्तं समर्थं सुबन्तं श्रितादिभिर्वा समस्यते, स च समासस्तत्पुरुषाख्यः । कृष्णं श्रितः कृष्णश्रितः । दुःखातीतः । यमुनापतितः । मधुरागतः । दिनात्यस्तः । गृहप्राप्तः । सुखापन्नः ॥ Vartika ------- गम्यादीनामुपसंख्यानम् । Sutra Prayogas -------------- * **वयोतीतः** (किरातार्जुनीयम्): `द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः` इति द्वितीयासमासः। * **द्युवियद्गामिनी** (किरातार्जुनीयम्): `द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः` (वार्त्तिकम्- गम्यादीनामुपसंख्यानम्) इति समासः। * **कष्ट-श्रितं** (भट्टिकाव्यम्): `द्वितीया श्रित` इत्यादिना सः।