21019: संख्या वंश्येन ===================== **Padacheda:** संख्या | S | 1 | 1 | वंश्येन | S | 3 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A numeral (संख्या) may be compounded with a word denoting 'one belonging to a family' and the resulting compound is अव्ययीभाव । Vasu English Translation ------------------------ A numeral (संख्या) may be compounded with a word denoting 'one belonging to a family' and the resulting compound is अव्ययीभाव । The word वंश means uninterrupted descent of persons from a common source whether through birth or knowledge. A succession of teachers and pupils, of ancestors and descendants, &c., would constitute a वंश 'family.' One born in or belonging to such a वंश is called a वंश्य or descendant. As, दिमुनि व्याकरणस्य 'of the *Vyakarana*,' which has two sages as its principal expounders viz., *Panini* and *Patanjali*. So, त्रिमुनिव्याकरणस्य 'having three representatives viz., *Pånini*, *Patanjali* and *Sakatayana* or *Katyayana*.' When we desire to express their equality as regards knowledge, then both the words are put in the same case: as द्विमुनि or त्रिमुनि व्याकरणम् . So also when the relationship is by birth: as, एकविंशति भारद्वाजम् Twenty-one *Bharadwajas*. These a subsequent compounds are like *Dvigu*. Kashika ------- विद्यया जन्मना वा प्राणिनामेकलक्षणसंतानो वंश इत्यभिधीयते। तत्र भवो वंश्यः तद्वाचिना सुबन्तेन सह संख्या समस्यते, अव्ययीभावश्च समासो भवति। द्वौ मुनी व्याकरणस्य वंश्यौ, द्विमुनि व्याकरणस्य। त्रिमुनि व्याकरणस्य। यदा तु विद्यया तद्वतामभेदविवक्षा तदा सामानाधिकरण्यं भवति। द्विमुनि व्याकरणम्, त्रिमुनि व्याकरणमिति। जन्मना — एकविंशतिभारद्वाजम्॥ Siddhanta Kaumudi ----------------- वंशो द्विधा विद्यया जन्मना च । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशति भारद्वाजम् ॥ Balamanorama ------------ **संख्या वंश्येन** - संख्या वंश्येन । वंशो द्विधेति । वंशः-सन्ततिः ।सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः सन्तानः॑ इत्यमरः । विद्यया जन्मनेति । तत्र जन्मनवांशः पुत्रादिपरम्परेति प्रसिद्धमेव । विद्यया तु वंशो गुरुपरम्परा,यस्माद्धर्मानाचिनोति स आचार्यः । तस्मै न द्रुह्रेत्कदाचन । स हि विद्यातस्तं जयति तच्छ्रेष्ठं जन्म । शरीरमेष मातापितरौ जनयतः॑ इत्याद्यापस्तम्बस्मरणात् । तत्र भवो वंश्य इति । दिगादित्वाद्यत् । वा समस्यते इति । 'सोऽव्ययीभाव' इत्यपि बोध्यम् । द्वौ मुनी वंश्याविति । विग्रहोऽयम् । मुनिशब्दो विद्यावंश्यवाचीति सूचनाय वंश्यावित्युक्तम् । द्विमुनि व्याकरणस्येति । द्वौ च तौ मुनी चेति विग्रहेविशेषणं विशेष्येण बहुल॑मिति कर्मधारयं बाधित्वाऽव्ययीभावः । अव्ययत्वात्सुब्लुक् । व्याकरमविद्यायाः प्रवर्तकौ द्वौ मुनी पाणिनिकात्यायनावित्यर्थः । त्रिमुनीति । त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः । नन्वेवंत्रिमुनि व्याकरण॑मिति सामानाधिकरण्यानुपपत्तिरित्यत आह — विद्यातद्वतामिति । यद्यपि बहुव्रीहिणाप्येतत्सिद्धं तथापि विभक्त्यन्तरेषु रूपभेद इत्याहुः । अथ जन्मना वंश्यमुदाहरति — एकविशतिभ#आरद्वाजमिति एकविंशतिर्भरद्वाजा इति कर्मधारयं बाधित्वाऽव्ययीभावः । तत्र विग्रहवाक्ये भरद्वाजशब्दाद्विदादित्वादञ् ।यञञोश्चे॑ति लुक् । समासे तुउपकादिभ्योऽन्यतरस्यामद्वन्द्वे॑ इति लुगभावः ।तृतीयासप्तम्योर्बहुल॑मिति सूत्रेएकविंशतिभारद्वाज॑मिति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात् । Tattvabodhini ------------- **संख्या वंश्येन** - संख्या वंश्येन । वंशः संताननस्तत्र भवो वंश्यः । दिगादित्वाद्यत् । द्विमुनीति । पाणिनिकात्यायनौ । त्रिमुनीति । तौ द्वौ, पातञ्जलिश्चेति त्रयो वंश्याः । व्याकरणस्येति संबन्धे षष्ठी । स्वपदार्थप्राधान्य एवायं समासः । यदा त्वन्यपदार्थप्राधान्यविवक्षा-त्रयो मुनयो वंश्या यस्येति, तदा बहुव्रीहिरेवेत्याहुः । त्रिमुनि व्याकरणमिति । यद्यप्येतद्बहुव्रीहिणाऽप्युपपन्नं, तथापि विभक्त्यन्तरेषु रुपेऽपि विशेषोऽस्त्येवेति भावः । वस्तुतस्तुलक्षणेनाभिप्रती — ॑इति सूत्रे आभिमुख्यग्रहणाद्बहुव्रीहिविषयेऽप्यठयीभावो भवतीतिद्विमुनि व्याकरणमित्यादि सिद्धमित्यवोचाम । जन्मनोदाहरति -एकविंशति भारद्वाजमिति । एकविंशतिर्भरद्वाजा वंश्या इति विग्रहः । ननु भरद्वाजाद्विदाद्यञोयञञोश्चे॑ति लुक् प्राप्नोति । न च वर्तिपदानां स्वार्थेपसर्जनैकत्वविशिष्टार्थान्तरोपसङ्कमाल्लुगभाव इति कैयटोक्तमादर्तव्यम् । वृत्तिप्रवेशात्प्रागेव प्राप्नुवतोऽन्तरङ्गस्य लुको दुर्वारत्वात् । अन्यथा गर्गाणां कुलं गर्गकुलमित्यपि न स्यात् । अत्राहुः — भाष्यकारप्रयोगादेव लुगभावोऽत्र बोध्य इति । एतच्चतृतीयासप्तम्यो॑रिति सूत्रे शब्दकौस्तुभे स्पष्टम् । Padamanjari ----------- एकलक्षण इति। एकस्वभावः सन्तानः उ सम्बन्धः, सन्तानिनामेकलक्षणत्वात्सन्तानस्यैकलक्षणत्वम्। द्वौ मुनी इति। पाणिनिकात्यायनौ। त्रिमुनीति। तौ च भाष्यकारश्च। जन्मना त्वेकलक्षणस्योदाहरणम्-एकविंसति भारद्वाजमिति। यदा तु विद्यया सहेति'लक्षणेनाभिप्रती' इत्यत्र प्रकारान्तरेणाप्ययमर्थः साधितः ॥ Nyaas ----- `एकलक्षण` इति। एकस्वभावः। सन्तानः = प्रबन्धः। सन्तानिनामेकलक्षणत्वात्, सन्तानोऽप्येकलक्षमो भवति। ततर्विद्ययैकलक्षणः - वैयाकरणवंशः, उपाध्यायवंश इति। जन्मना - ब्राआहृणवंशः, क्षत्रियवंश इति। `तत्र भवो वंश्यः` इति। दिगादित्वाद्यत्। `द्वौ मुनी` इति। पाणिनिकात्यायनौ। `व्याकरणस्य` इति। सम्बन्धलक्षमा षष्ठी। `त्रिमुनिव्याकरणस्य` इति। पूर्वौ द्वौ, भाष्यकारस्तृतीयः। `विद्यया` इति। व्याकरणाख्यया। `तद्वताम्` इति। पाणिनिप्रभृतनीनाम्। `अभेदविवक्षा` इति। यौ तौ द्वौ मुनी तावेव व्याकरणमित्यतिशयेन विद्यया योगं तयोराख्यातुमभेदविवक्षा यदा क्रियते तदा सामानाधिकरण्यं भवति - द्विमुनि व्याकरणमिति॥ Prakriyasarvasvam ----------------- विद्यया जन्मना वा कृते वंशे भवो वंश्यः । तद्वाचिना संख्या वा समस्यते । त्रिमुनि व्याकरणस्य । विद्ययैकवंश्यास्त्रयो मुनयस्सन्तीत्यर्थः । एवं द्विशाब्दिकं, बह्वृवि । जन्मना शतधार्तराष्ट्रम् ॥ संख्या वंश्येनेत्येतत् बहुव्रीहिविषयेऽपि स्यादिति हरः । त्रिमुनि व्याकरणम् । बह्वृवि ग्रामः ॥