21010: अक्षशलाकासंख्याः परिणा ============================= **Padacheda:** अक्ष-शलाका-संख्याः | S | 1 | 3 | परिणा | S | 3 | 1 | Sutrartha --------- **'अक्ष'शब्दः, 'शलाका'शब्दः तथा च सङ्ख्यावाचकः शब्दः - एते शब्दाः समर्थेन 'परि' इत्यनेन सह समस्यन्ते । अयं समासः अव्ययीभावसंज्ञकः अस्ति ।** Sutrartha (English) ------------------- The word अक्ष (dice), the word शलाका (stick) and the words indicating a number - all undergo a समास with a related 'परि' शब्द, and the समास is called अव्ययीभावसमास. Vasu English Summary -------------------- The words अक्ष 'a die for playing with', शलाका 'an ivory piece used in gambling' and सङ्खया 'numerals' are compounded with the word परि and the compound so formed is called अव्ययीभाव। Vasu English Translation ------------------------ The words अक्ष 'a die for playing with', शलाका 'an ivory piece used in gambling' and सङ्खया 'numerals' are compounded with the word परि and the compound so formed is called अव्ययीभाव। This समास is restricted to terms applicable to gambling. Thus there is a game called *panchiká* which is played with fire dice or five ivory pieces When all these five pieces fall with faces turned upward, or all with faces turned down, then the thrower wins the game. But when the fall is otherwise, he loses. Thus अक्षपरि 'an unlucky throw of dice. शलाकापरि, an unlucky throw of ivory pieces '; so also एकपरि 'an unlucky throw by one over' द्विपरि, त्रिपरि and lastly चतुष्परि.' This is the maximum.' But when Eve are of one form, then of course, he wins. Bhashya ------- अक्षशलाकासंख्याः परिणा (359 ) (229 अव्ययीभावसंज्ञासूत्रम् ॥ 2.1.2 आं 8 सूं) (विभक्तिवचनव्यवहारनियमाधिकरणम्) (1236 विभक्तिनियमवार्तिकम् ॥ 1 ॥) ॥ अक्षादयस्तृतीयान्ताः परिणा पूर्वोक्तस्य यथा न तदयथाद्योतने ॥ (व्याख्याभाष्यम्) अक्षादयस्तृतीयान्ताः परिणा सह समस्यन्त इति वक्तव्यम्। पूर्वोक्तस्य यथा न तत्। अयथाजातीयके द्योत्ये। अक्षेणेदं न तथा वृत्तं यथा पूर्वमिति। अक्षपरि शलाकापरि ॥ (1237 वचननियमवार्तिकम् ॥ 2 ॥) ॥ अक्षशलाकयोश्चैकवचनान्तयोः ॥ ?B(व्याख्याभाष्यम्) अक्षशलाकयोश्चैकवचनान्तयोरिति वक्तव्यम्। इह मा भूत् - अक्षाभ्यां वृत्तम्, अक्षैर्वृत्तम् ॥ (1238 व्यवहारनियमवार्तिकम् ॥ 3 ॥) ॥ कितवव्यवहारे च ॥ (व्याख्याभाष्यम्) कितवव्यवहार इति वक्तव्यम्। इह मा भूत् - अक्षेणेदं न तथा वृत्तं शकटेन यथा पूर्वमिति ॥ अक्षशलाका ॥ 10 ॥ Kashika ------- अक्षशब्दः शलाकाशब्दः संख्याशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति। कितवव्यवहारे समासोऽयमिष्यते। पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति, तत्र यदा सर्व उत्तानाः पतन्त्यवाञ्चो वा तदा पातयिता जयति, तस्यैवैतस्य विपातोऽन्यथापाते सति जायते। अक्षेणेदं न तथा वृत्तं यथा पूर्वं जये, अक्षपरि। शलाकापरि। एकपरि। द्विपरि। त्रिपरि। परमेण चतुष्परि। पञ्चसु त्वेकरूपासु जय एव भविष्यति। अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तत्। कितवव्यवहारे च एकत्वेऽक्षशलाकयोः॥ Siddhanta Kaumudi ----------------- द्यूतव्यवहारे पराजय एवायं समासः । अक्षेण विपरीतं वृत्तमक्षपरि । शलाकापरि । एकपरि ॥ Balamanorama ------------ **अक्षशलाकासंख्याः परिणा** - अक्षशलाका ।समस्यन्ते सोऽव्ययीभाव॑ इति शेषः । द्यूतव्यवहारे इति । वार्तिकमिदम् । [इद] द्यूतं तावत्पञ्चभिरक्षैः शलाकाभिर्वा भवति । यदि अक्षाः शलाका वा कत्स्ना उत्ताना अवाञ्चो वा पतन्ति, तदा पातयिता जयति । अन्यथा पराजयत इति स्थितिः । अक्षेणेति । कर्तरि तृतीया ।विपरीतं वृत्त॑मित्यत्र वृत्तेर्भाव क्तः ।विपरीत॑मिति क्रियाविशेषणम् । जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः । शलाकापरीति । शलाकया विपरीतं वृत्तमिति भावः । एकपरीति । एकेन विपरीतं वृत्तमित्यर्थः । एवं 'द्विपरि'त्रिपरी॑त्यादि । Padamanjari ----------- अक्षशालाकासङ्क्याशब्दा इति। अक्षशलाकाशब्दौ सह्क्यावाचिनश्च शब्दा इत्यर्थः। क्वचितु-अक्षशब्दः शलाकाशब्दः सङ्ख्याशब्दाश्चोति पाठः। कितवव्यवहार इति कितवा उ द्यौउतकाराः, तेषां व्यवहालेऽक्षशलाकानां पाततं तत्रैवायं समास इष्यते, एतच्चाभुधानस्वाभाव्याल्लभ्यते। कर्व उताना इति। शलाकानामपि प्रकृतत्वात्सर्वे च सर्वाश्च सर्वे, उतानाश्च उतानाश्च उतानाः, अवाश्चश्चावाच्यशाचावाञ्चः,'पुमान्स्त्रिया' इति पुंसः शेषः। तस्यैवास्येति। पातयितुरित्यर्थः। विपातः उ पराजयः। अन्यथापाते सति, जये यादृशः पातः सर्वे उतानाः पतन्त्यवाञ्चो वेति ततोऽन्यादृशेषु केषुच्जुतानेषु, केषुचिदवाक्षु पतत्सिवत्यर्थः। अक्षेशेति। वृतापेक्षया कर्तरि तृतीया। परमेणेति। अतिशयेनातः परमित्यर्थः पञ्चपरूति न भवतीति यावत्। अस्योपपदानं स्लोकेन क्रियते। पञ्चसु त्वेकरूपेष्विति। अत्रापि पुंसः शेषः। एकरूपास्विति प्रायेण पाठः। तत्र शलाकानामेव ग्रहणम्। जय एव भविष्यतीति। लृटोऽर्थो मृग्यः, यतः पञ्चस्वेकरूपेषु जय एव भवति, तेन परमेण चतुःपरीत्यन्वयः। अक्षादयस्तृचीयान्ता इति। अन्यथा वृतावयं समास इष्यते, तत्र चाक्षादीनां कर्तृत्वातःतीयैव युक्तेति भावः। पूर्वेक्तस्येति। पूर्ववृतस्येत्यर्थः। अनेकार्थत्वाध्दातूनां वचिरिह वर्तने वर्तते, तदेव यथा न तदिति तच्छब्देन परामृश्यते। पूर्वजये वृतस्याक्षादेर्यथा दत्वृतमभूत्, यदि संप्रति तथा न भवति एवं समासो भवतीत्यर्थः। पूर्वोक्तस्येति सामान्यापेक्षमेकवचनम्। जयकालेऽक्षादीनां यदेकरूपं वर्तनं तध्दिपरीते वर्तने परिणा द्योत्ये समास इति यावत्। एकतेवऽक्षशलाकयोरिति। अक्षशलाकाशब्दयोरेकवचनान्तयोः समास इत्यर्थः। इदमप्यभिधानस्वाभाव्यादेव लभ्यते, अन्था राजपुरुषःऽ इत्यादाविवाभेदैकत्वमवगम्येत, न तु शुध्दमेकत्वम्। प्रायेण तु'कितवव्यवहारे च एकत्वे' क्षशलाकयोःऽ इति श्लोकरूपेम पठ।ल्ते, तत्रार्थान्तरं मृग्यं संहिताकार्यप्रसङ्गश्च। कितवव्यवहार इति किम्? अक्षेणेदं न तथा वतं यथा पूर्वशकटे। एकत्व इति किम्? अक्षाभ्यामक्षैर्वा इदं न तथा वृतम्। अक्षादय इति किम्? प्रसङ्गेनेदं न तथा पूर्वजये, परिणेति वचनात्सुबन्तमात्रेण न भवति॥ Nyaas ----- `कितव्यवहारे` इत्यादि। कथं पुनः कितवव्यवहार इष्यमाणेऽपि तत्र लभ्यते? स्वभावत एव; समासस्य तत्र वृत्तेः।न ह्रर्था अतिदिश्यन्ते, लौकिकत्वात् तेषाम्। `तस्य` इत्यादि। तस्य पातयितुस्तस्य च विपात इत्यनेन सम्बन्धः। विपातः = पराजयः। `एतस्य` इति। अक्षादेरेव प्रत्यवमर्शः। अभेदविवक्षायामेकवचनम्। एतस्यानयथा पात इत्यनेन सम्बन्धः। `अन्यथा` इति। जये य उक्तः पातप्रकारस्तदपेक्षयाऽन्यथात्वं विवक्षितम्। `पञ्चसु त्वेकरूपासु जय एव भवति` इति। पञ्चपरीति समसो न भवतीति भावः। जये हि यदक्षादीनां वृत्तं तदपेक्षयान्यपातत्वे सति समासेन भवितव्यम्। न च पञ्चस्वेकरूपास्वन्यथात्वं सम्भवति। अत एव जयस्तदा भवति यदा पञ्चाप्येकरूपा भवन्ति - उत्ताना अवाञ्चो वा। एतेन प्रकारेण `परेण चतुष्परि` इत्यत्रोपपत्तिर्दर्शिता। `परेण` इति। अतिशयेनेत्यर्थः।`अक्षादयस्तृतीयान्ताः` इत्यादि। अन्यथा वृत्तावयं समास इष्यते। तत्र चाक्षादिनामन्यथावृत्तौ कर्त्तृत्वं करणत्वं वा भवति, अतस्तृतीयया भवितव्यमिति तदन्ता एव समस्यन्ते। `पूर्वोक्तस्य` इति। अक्षादेरित्यर्थः। कुत एतत्? अक्षादयस्तृतीयान्ता इति पूर्वमक्षादेरेवोक्तत्वात्। अभेदविवक्षायामेकवचनम्। षष्ठी चेयं शेषविवक्षायां वृत्तशब्दापेक्षया सम्बन्धलक्षणा, वृत्तशब्दस्त्वध्याहर्तव्यः। `यथा न तत्` इति। अक्षादेः पूर्वोक्तस्य यथा वृत्तमभूत् पूर्वं जये तथा वृत्तं यदि सम्प्रति न भवत्येवं समासो भवति , नान्यथा। पूर्ववृत्तस्यान्यथात्वद्योतने समासोऽयम्, तच्चैकेनापि क्रियते, ततो द्विवचनाद्यपेक्षया निष्प्रयोजनमित्याह - `एकत्वेऽक्षशलाकयोः` इति। अक्षशलाकयोरेकवचनान्तयोरित्यर्थः। ततोऽयं न्यायसिद्ध एवार्थः श्लोकेन संगृहीतः।अथ वा - उत्तरं विभाषाग्रहणमिहापि सिंहावलोकितन्यायेन सम्बध्यते। सा च व्यवस्थिविभाषा। तेन वचनसिद्ध एवायमर्थो वेदितव्यः। अक्षादय इति किम्? पाशकेनेदं न तथावृत्तं यथा पूर्वं जये। परिणेति किम्?? सुबन्तमात्रेण सह समासो मा भूत्। कितवव्यवहार इति किम्? अक्षाभ्यामक्षैर्वा न तथा वृत्तं यता पूर्वं जये॥ Prakriyasarvasvam ----------------- एते द्यूतविशेषे जयपरिवृत्तावर्थे परिणा समस्यन्ते । एकेनाक्षेण जयविपर्ययोऽ- क्षपरि । एवमेव शलाकापरि । एकपरि द्विपरि । त्रिपरि चतुष्परि । पञ्चाक्षद्यूतके सर्वस्यैकरूप्ये जयो भवेत् । एकद्व्याद्यन्यथात्वे तु समासोऽयं विधीयते ॥ ३७४ ॥