14109: परः सन्निकर्षः संहिता ============================ **Padacheda:** परः | S | 1 | 1 | सन्निकर्षः | S | 1 | 1 | संहिता | S | 1 | 1 | Sutrartha --------- **वर्णानाम् आतिशयसान्निध्यम् संहितासंज्ञकं भवति ।** व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति संहिता इति संज्ञा, या प्रकृतसूत्रेण पाठिता अस्ति । **द्वयोः वर्णयोः उच्चारणम् आतिशयसान्निध्येन (immediately one after another) क्रियते चेत् तयोः वर्णयोः मध्ये विद्यमानस्य सान्निध्यस्य निर्देशः **संहिता** इति संज्ञया क्रियते - इति अस्य सूत्रस्य आशयः । यथा, रामः इति शब्दस्य उच्चारणे आहत्य पञ्च वर्णाः सन्ति - "र्", "आ", म्, अ, तथा च विसर्गः इति । एतेषाम् सर्वेषाम् वर्णानाम् क्रमेण (विना व्यवधानम्) उच्चारणं क्रियते चेदेव रामः इति शब्दस्य सम्यक् श्रवणम् सम्भवति । अतः अत्ररामः अस्मिन् शब्दे विद्यमानानां वर्णानां प्रत्येकस्मिन् युगले (every pair of adjacent letters) **संहिता** अस्ति — इति उच्यते । **नव्यनायभाषायां संहिता** इत्यस्य व्याख्या** नव्यन्यायभाषायां संहिताशब्दस्य व्याख्या दीयते — स्वभावसिद्धार्धमात्राकालिकव्यवायातिरिक्तव्यवायशून्यत्वम् संहितात्वम् । द्वयोः वर्णयोः उच्चारणयोः मध्ये स्वभावतः **अर्धमात्रा** इति कालः अवश्यम् एव विद्यते । तस्मात् अधिकः कालः तयोः उच्चारणयोः मध्ये न विद्यते चेत् तयोः मध्ये संहिता अस्ति इति उच्यते - इति अस्याः व्याख्यायाः अर्थः । **संहिताशब्दस्य प्रयोजनम्** अष्टाध्याय्याम् अनेके विधयः संहितायां सत्याम् एव भवितुम् अर्हन्ति । एते सर्वेऽपि विधयः**संहिताधिकारे** पाठिताः सन्ति । एतादृशाः आहत्य त्रयः संहिताधिकाराः अष्टाध्याय्याम् विद्यते । ते एते -
  • 1) ****संहितायाम्** (6.1.72) इति प्रथमः संहिताधिकारः** । अस्य व्याप्तिः **पारस्करप्रभृतीनि च संज्ञायाम्** (6.1.157) इति यावत् वर्तते । अस्मिन् अधिकारे **स्वरसन्धिविशिष्टानि** सूत्राणि विद्यन्ते। सर्वे स्वरसन्धयः संहितायाः उपस्थितौ एव भवन्ति — इति अत्र आशयः । यथा, "इति" तथा "अपि" एतयोः द्वयोः शब्दयोः मध्ये संहिता विद्यते चेदेव तकारोत्तस्य इकारस्य **इको यणचि** (6.1.77) इत्यनेन यणादेशं कृत्वा "इत्यपि" इति शब्दः सिद्ध्यति । यदि एतयोः शब्दयोः मध्ये संहिता न विद्यते, तर्हि अत्र यणादेशः अपि न सम्भवति ।
  • 2) ****संहितायाम्** (6.3.114) इति द्वितीयः संहिताधिकारः** । अस्य व्याप्तिः **द्व्यचोऽतस्तिङः** (6.3.135) इति यावत् अस्ति । अस्मिन् अधिकारे प्रामुख्येण **पूर्वपद-उत्तरपदयोः मध्ये जायमानानि कार्याणि** सङ्कलितानि सन्ति । यथा, **मित्रे चर्षौ** (6.3.130) इति सूत्रेण "विश्व" इति पूर्वपदस्य "मित्र" इति उत्तरपदे परे संहितायाम् सत्याम् एव दीर्घादेशः विधीयते, येन "विश्वामित्र" इति ऋषेः नाम सिद्ध्यति ।
  • 3) ****तयोर्य्वावचि संहितायाम्** (8.2.108) इति तृतीयः संहिताधिकारः** । अस्य व्याप्तिः अष्टाध्याय्याः अन्तिमं सूत्रं यावत् विद्यते । अस्मिन् अधिकारे प्रामुख्येण **हल्सन्धिविशिष्टानि** सूत्राणि उक्तानि सन्ति । सर्वे हल्सन्धयः संहितायाः उपस्थितौ एव भवन्ति इति अत्र आशयः । यथा "तद्" तथा "जलम्" एतयोः द्वयोः शब्दयोः मध्ये संहिता विद्यते चेदेव दकारस्य **स्तोः श्चुना श्चुः** (8.4.40) इत्यनेन श्चुत्वे जकारादेशं कृत्वा "तज्जलम्" इति शब्दः सिद्ध्यति । यदि एतयोः शब्दयोः मध्ये संहिता न विद्यते, तर्हि अत्र श्चुत्वम् अपि न सम्भवति । **संहितायाः नित्यत्वम्, विकल्पः च** **संहिता आहत्य त्रिषु स्थलेषु नित्या अस्ति** । एतेषाम् परिगणनम् एकया कारिकया क्रियते - संहितैकपदे नित्या, नित्या धातूपसर्गयोः । नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते ॥ अस्याः कारिकायाः अर्थः अयम् — 1. **एकस्मिन् पदे विद्यमानेषु वर्णेषु संहिता नित्यं भवति ।** यथा, रामः इत्यत्र रेफ-आकारयोर्मध्ये, आकार-मकारयोर्मध्ये, मकार-अकारयोर्मध्ये, अकार-विसर्गयोर्मध्ये च संहिता नित्या अस्ति, अतः एतेषां वर्णानाम् उच्चारणम् विना-व्यवधानम् एव करणीयम् । 2. **धातुः तथा उपसर्गः एतयोः मध्ये संहिता नित्या अस्ति ।** यथा, आगच्छति इत्यत्र "आ" इति उपसर्गस्य तथा च "गच्छति" इत्यस्य गकारस्य मध्ये संहिता नित्या विद्यते । अतएव आगच्छति इत्यस्य उच्चारणसमये आकारात् अनन्तरम् विना विरामम् एव गकारः उच्चारणीयः । उपसर्गाः स्वयं पदसंज्ञकाः सन्ति । इत्युक्ते, **एकस्मिन् पदे** इति पूर्वनियमेन उपसर्ग-धातु-सम्बन्धस्य ग्रहणं नैव भवति, अतएव तयोः अत्र विशेषः निर्देशः क्रियते । 3. **समस्तपदे विद्यमानयोः पूर्वपद-उत्तरपदयोः मध्ये संहिता नित्यं भवति ।** यथा, सीतापतिः इत्यत्र "सीता" इति पूर्वपदम् तथा च "पतिः" इति उत्तरपदम् - एतयोमर्ध्ये संहिता नित्या अस्ति । 4. **वाक्ये विद्यमानयोः पृथक्-शब्दयोः मध्ये वक्तुः इच्छाम् अनुसृत्य संहिता भवति** । यथा, "फलम् पतति" इत्यस्य वाक्यस्य उच्चारणसमये "फलम्" तथा च "पतति" एतयोर्मध्ये संहिता विवक्षाम् अनुसरति । यदि अत्र संहिता स्वीक्रियते, तर्हि **मोऽनुस्वारः** (8.3.23) इत्यनेन मकारस्य अनुस्वारादेशे कृते "फलं पतति" इति अनुस्वारघटितम् उच्चारणं करणीयम् । परन्तु यदि एतयोर्मध्ये संहिता न स्वीक्रियते, तर्हि "फलम्" शब्दस्य उच्चारणात् अनन्तरम् अर्धमात्रातः अधिकं कालं यावत् विरामं स्वीकृत्य ततः "पतति" अस्य उच्चारणम् करणीयम् । **संहिता तथा सन्धिः** **संहिता** तथा **सन्धिः** एतौ व्याकरणे विद्यमानौ द्वौ पृथक् विषयौ स्तः । **संहिता** इत्युक्ते **वर्णानाम् आतिशयसान्निध्यम्** । **सन्धिः** इत्युक्ते **वर्णविकारः** (वर्णेषु जायमानं परिवर्तनम् इत्याशयः) । **सन्धिप्रकरणस्य सर्वाणि सूत्राणि संहिताधिकारे एव वर्तन्ते, अतः संहितायाम् सत्याम् सन्धिः अपि अवश्यम् एव करणीयः** । **संहिता तथा संयोगः** **संहिता** तथा **संयोगः** एतौ व्याकरणे विद्यमानौ द्वौ पृथक् विषयौ स्तः । **संहिता** इत्युक्ते **वर्णानाम्** आतिशयसान्निध्यम् । **संयोगः** इत्युक्ते **व्यञ्जनानाम् **आतिशयसान्निध्यम् । अतः <ब>संयोगः अस्ति चेत् संहिता अवश्यम् एव विद्यते । परन्तु **संहिता तु स्वर-व्यञ्जनयोर्मध्ये अपि भवितुम् अर्हति**, अतः संहिता अस्ति चेत् संयोगः अपि अस्ति इति न उचितम् । यथा, रामः इति शब्दे रेफ-आकारयोः, आकार-मकारयोः, मकार-अकारयोः मध्ये संहिता विद्यते, परन्तु कुत्रापि संयोगः नास्ति । **संहिता तथा विरामः** **संहिता** तथा **विरामः** एतौ **विरुद्धार्थकशब्दौ** । यत्र द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्रायाः एव व्यवधानम् विद्यते (यतः तस्मात् न्यूनं व्यवधानम् नैव शक्यम्), तत्र **संहिता** अस्ति इति उच्यते । यत्र द्वयोः वर्णयोः मध्ये अर्धमात्रायाः अपेक्षया अधिकं व्यवधानम् अस्ति, उत यत्र द्वितीयः वर्णः एव नास्ति, तत्र **विरामः** अस्ति इति उच्यते । अस्यैव विरामस्य व्याकरणशास्त्रे **विरामोऽवसानम्** (1.4.110) इत्यनेन **अवसानम्** इति अपि संज्ञा दीयते । **अस्य सूत्रस्य प्रत्याख्यानम्** **विरामोऽवसानम्** (1.4.110) इत्यस्मिन् सूत्रे भाष्यकारः इति किञ्चन वार्त्तिकं पाठयति । **संहिता** तथा **अवसानम्** एते द्वे अपि संज्ञे वेदाध्ययनव्यवहारात् लोके प्रचलिते एव स्तः, अतः एतयोः द्वयोः अपि संज्ञयोः कृते विशिष्टसूत्रनिर्माणम् अनावश्यकम् अस्ति — इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् एव विषये कैयटः प्रदीपे — न अर्थः संज्ञाद्वयविधानेन, तेन विना अपि इष्टस्य सिद्धत्वात् — इति उक्त्वा इदं सूत्रद्वयं प्रत्याचष्टे । **त्रयाणाम् संहिताधिकाराणाम् प्रत्याख्यानम्** अष्टाध्याय्यां विद्यमानाः त्रयः अपि संहिताधिकाराः अनावश्यकाः सन्ति इति **संहितायाम्** (6.1.72) इति सूत्रस्य विवरणे भाष्यकारः स्पष्टी करोति । अस्मिन्नेव सन्दर्भे संहिताधिकारे च प्रत्याख्याते संहितासंज्ञा अपि प्रयोजनाभावात् प्रत्याख्याता एव इति उक्त्वा कैयटेन संहितासंज्ञायाः अपि प्रत्याख्यानं कृतम् अस्ति । अस्मिन् विषये **संहितायाम्** (6.1.72) इति सूत्रस्य सूत्रार्थे विस्तरेण विवरणम् कृतम् अस्ति । Sutrartha (English) ------------------- Extreme closeness of letters is called संहिता. Vasu English Summary -------------------- The closest proximity of letters, there being the intervention of half a मात्रा or prosodial length between them, is called contact or संहिता। Vasu English Translation ------------------------ The closest proximity of letters, there being the intervention of half a मात्रा or prosodial length between them, is called contact or संहिता। When words are in *sanhita*, they are glued together by the rules of *sandhi*. As दद्ध्यत्र = दधि + अत्र. Bhashya ------- परः संनिकर्षः संहिता परः संनिकर्षः संहिता चेदद्रुतायामसंहितम् ॥ 1 ॥ परः संनिकर्षः संहिता चेदद्रुतायां वृत्तौ संहितासंज्ञां न प्राप्नोति । द्रुतायामेव हि परः सन्निकर्षो वर्णानां, नाऽद्रुतायाम् । तुल्यः संन्निकर्षः ॥ 2 ॥ तुल्यः संन्निकर्षो वर्णानां द्रुतमध्यमविलम्बितासु वृत्तिषु ॥ किंकृतस्तर्हि विशेषः ? वर्णकालभूयस्त्वं तु ॥ 3 ॥ वर्णानां तु कालभूयस्त्वम् । तद्यथा, - हस्तिमशकयोस्तुल्यः सन्निकर्षः , प्राणिभूयस्त्वं तु ॥ यद्येवम् - द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं काल भेदात् ॥ 4 ॥ द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कर्तव्यम् । किं कारणम् ? कालभेदात् । ये द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायाम्, ये मध्यमायां वृत्तौ वर्णास्त्रिभागाधिकास्ते विलम्बितायाम् । उक्तं वा ॥ 5 ॥ किमुक्तम् ? सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराऽचिरवचनाद् वृत्तयो विशिष्यन्ते इति। । अथवा शब्दाऽविरामः संहितेत्येतल्लक्षणं करिष्यते । शब्दाऽविरामे प्रतिवर्णमवसानम् ॥ 6 ॥ शब्दाऽविरामे प्रतिवर्णमवसानसंज्ञा प्राप्नोति । किमिदं प्रतिवर्णमिति ? वर्णं वर्णं प्रति प्रतिवर्णम् । येनैव यत्नेनैको वर्ण उच्चार्यते विच्छिन्ने वर्ण उपसंहृत्य तमन्यमुपादाय द्वितीयः प्रयुज्यते तथा तृतीयस्तथा चतुर्थः ॥ एवं तर्ह्यनवकाशा संहितासंज्ञाऽवसानसंज्ञां बाधिष्यते ॥ अथवाऽवसानसंज्ञायां प्रकर्षगतिर्विज्ञास्यते - साधीयो यो विराम इति । कश्च साधीयः ? यः शब्दार्थयोर्विरामः । अथवा ह्रादाऽविरामः संहितेत्येतल्लक्षणं करिष्यते । ह्रादाऽविरामे स्पर्शाघोषसंयोगेऽसन्निधानादसंहितम् ॥ ह्रादाऽविरामे स्पर्शानामघोषाणां (च) संयोगेऽसंनिधानात्संहितासंज्ञा न प्राप्नोति - कुक्कुटः पिप्पकः पित्तमिति । किमुच्यते संयोग इति । अथ यत्रैकः पचतीति। एकः पूर्वपरयोर्ह्रादेन प्रच्छाद्यते । तद्यथा, - द्वयो रक्तयोर्वस्त्रयोर्मध्ये शुक्लं वस्त्रं तद्गुणमुपलभ्यते । बदरपिटके रिक्तको लोहकंसस्तद्गुण उपलभ्यते । एकेन तुल्यः सन्निधिः यथैवैको वर्णो ह्रादेन प्रच्छाद्यते, एवमनेकोऽपि । अथवा पौर्वापर्यमकालव्यवेतं संहितेत्येतल्लक्षणं करिष्यते । पौर्वापर्यमकालव्यवेतं संहिता चेत्पूर्वाऽपराऽभावादसंहितम् एकवर्णवर्तित्वाद्वाचः, उच्चरितप्रध्वंसित्वाच्च वर्णानाम् ॥ 8 ॥ पौर्वापर्यमकालव्यवेतं संहिता चेत्पूर्वाऽपराभावात्संहितासंज्ञा न प्राप्नोति । न हि वर्णानां पौर्वापर्यमस्ति । किं कारणम् ? एकवर्णवर्तित्वाद्वाचः उच्चरितप्रध्वंसित्वाच्च वर्णानाम्। एकैकवर्णवर्तिनी वाक्, न द्वौ युगपदुच्चारयति । गौरिति गकारे यावद्वाग्वर्तते, नौकारे, न विसर्जनीये । यावदौकारे, न गकारे, न विसर्जनीये । यावद्विसर्जनीये, न गकारे, नौकारे । उच्चरितप्रध्वंसित्वात् । उच्चरितप्रध्वंसिनः खल्वपि वर्णाः । उच्चरितः प्रध्वस्तः । अथाऽपरः प्रयुज्यते, न वर्णो वर्णस्य सहायः ॥ एवं तर्हि - बुद्धौ कृत्वा सर्वाश्चेष्टाः कर्ता धीरस्तत्वन्नीतिः । शब्देनाऽर्थान्वाच्यान्दृष्ट्वा बुद्धौ कुर्यात्पौर्वापर्यम् ॥ बुद्धिविषयमेव शब्दानां पौर्वापर्यम् । इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यत्यस्मिन्नर्थेऽयं शब्दः प्रयोक्तव्यः, अस्मिंस्तावच्छब्देऽयं तावद्वर्णः ततोऽयं ततोऽयमिति ॥ 108 ॥ Kashika ------- परशब्दोऽतिशये वर्तते। संनिकर्षः प्रत्यासत्तिः। परो यः संनिकर्षो वर्णनामर्धमात्राकालव्यवधानं स संहितासंज्ञो भवति। दध्यत्र। मध्वत्र। संहिताप्रदेशाः — **संहितायाम्** (६.१.७२) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ॥ Laghu Shabdendushekhar ---------------------- परशब्दो नान्यार्थोऽन्यत्वस्याव्यभिचरितत्वादत आह — **अतिशयित इति** । स्व भावसिद्धार्धमात्रातिरिक्तकालव्यवायेन रहितः । तेन तद्व्यवायेन वाक्योच्चारणे सञ्ज्ञा न । सन्निकर्षश्च प्रायः परेण, क्वचित्पूर्वेणापि । अत एवावसानकार्याणां संहिताधिकारे पाठः । न चावसानसञ्ज्ञया परसत्त्वे सावकाशायाः संहितासञ्ज्ञाया: **सत्यपि सम्भवे बाधनं भवति** इति न्यायेन विषयभेदेऽपि बाध: स्यादिति तद सङ्गतिरेवेति वाच्यम् । तदधिकारे तेषां पाठेनाऽऽकडारसूत्रस्य स्वशास्त्रीयसंज्ञा मात्रविषयत्वकल्पनात् । एते तु न तथा, लोकेऽपि सत्त्वात् । तदुक्तं वार्त्तिककृता इति । न चावसानकार्येषु संहिताधिकारासम्बन्ध एवास्तु, अग्रे च मण्डूकप्लुतिरस्त्विति वाच्यम् । सत्यामुपपत्तौ मण्डूकानुवृत्तेरयुक्तत्वात् । ध्वनितञ्चेदं **विसर्जनीयस्य सः** (8.3.34) इति सूत्रे भाष्ये । सन्निकर्षः सामीप्यम् । Balamanorama ------------ **परः सन्निकर्षः संहिता** - परः संनिकर्षः । परः=अतिशयितः ।दूरानात्मोत्तमाः पराः॑ इत्यमरः । सन्निकर्षः=सामीप्यम् । अर्धमात्राधिककालव्यवधानाऽभावः । अर्धमात्राकालव्यवधानस्याऽवर्जनीयत्वात् । तदेतदभिप्रेत्याह-अतिशयित इत्यादिना । Tattvabodhini ------------- **परः सन्निकर्षः संहिता** - लुक् स्त्रियाम् । विहितस्येति ।परिशेषितस्य वे॑ति बोध्यम् । एतच्चआङ्गिरसे॑इत्यनुवृत्त्या लभ्यते । यद्यपिवतण्डाल्लुक् स्त्रिया॑मित्येकसूत्रकरणेऽपिआङ्गिरसे॑इत्यनिवृत्त्या अनाङ्गिरसे यञणोर्लुगभावात् स्त्रियामिष्टं सिद्द्यति, तथापि पुंस्याङ्गिरसे यञणोरुभयोः प्राप्तिरनिष्टेति तद्वारणाय पृथक् सूत्रं कृतम् । ऋषित्वादिति । न चैवंऋष्यन्धके॑त्यणि सिद्धे शिवादिगणे वतण्डपाठो व्यर्थं इति शङ्क्यम् । गर्गादिपाठेन यञा बाधात्तन्निवृत्तये तत्पाठस्यावश्यरकत्वात । ष्यङ्नेति ।अणिञोरनार्षयो॑रिति सूत्रेणेति भावः । Padamanjari ----------- परशब्दोऽतिशये वर्तत इति। यथा परं सुखं परं दुःखमिति, दिगादिषु वर्तमानस्य ग्रहणं न भवति सन्निकर्षस्य दिग्देशकालायोगात्। अर्थान्तरापेक्षमन्यत्वम्, अव्यभिचारिसन्निकर्षः प्रत्यासतिरिति, न तु संश्लेषः, तस्य वर्णेष्वसंभवात्। स हि संयोगश्चेद् द्रव्यधर्मत्वान्न शब्दस्य गुणस्य संभवति। समवायश्चेन्न वर्णे वर्णः समवैति; शब्दस्याकाशसमवायित्वात्। येषां तु शब्दो द्रव्यं तेषां न क्वापि शब्दः समवैति। अतिशयोऽपि संयोगसमवाययोः कीद्दश इति न विद्मः। प्रत्यासतेस्त्वपेक्षाभेदात् सम्भवति प्रकर्षाप्रकर्षयोगः, तस्मात्प्रत्यासतिरेव सन्निकर्षः। ननु च क्रमेणोच्चार्यमाणेषु वर्णेषु पूर्वस्य वर्णस्य ये निष्पादकाः स्थानादयस्तेषां व्यापरोपरतौ वर्णान्तरस्य ये निष्पादकास्तेषां व्यापारारम्भः। तत्रावश्यंमध्ये कियत्यपि कालकला भवति, सूक्ष्मत्वातु नोपलभ्यते; पद्मपत्रशतव्यक्तिभेदवत्, तत्कथं परः सन्निकर्ष इत्यत्राह - अर्धमात्राकालव्यवधान इति। सत्यम्, एतावद्व्यवधानमवर्जनीयत्वात्सह्यते, अधिकेन तु कालेन व्यवधानं परग्रहणेन व्यावर्त्यत इत्यर्थः। यद्येवम्, द्रुतायामेव वृतौ स्यान्न मध्यमायां विलम्बितायां वा, न हि तथा तयोः सन्निकर्षो यथा द्रुतायां तुल्यः सन्निकर्षः। सर्वासु वृत्तिषु नैरन्तर्येणोच्चारणाद्यवर्णोपलम्भकभेदातु वृत्तिविशेषः। द्रुतायां स्वल्प उपलब्धिकालः, मध्यमायामधिकः, विलम्बितायामधिकतरः। द्विविधा हि ध्वनयः- प्राकृताः, वैकृताश्च। प्राकृता वर्णानामुत्पादकाः, वैकृते तु पुनः पुनरुपलम्भः, मध्यवर्ती तु कालः सर्वासु वृत्तिषु तावानेव। यद्वा - यस्यां वृतौ यावता कालेन व्यवायोऽवश्यम्भावी, ततोधिकेन व्यवायः परग्रहणेन व्यावर्त्यते। पदस्य पदान्तरेण यदानन्तर्थं तत्रैव लोके संहिताशब्दः प्रसिद्धः। तथा च - संहितामधीते न पदानि, ततश्च कुमार्यावित्यादौ पदावयवे संहिताकार्यं न स्यादितिसूत्रारम्भः॥ Nyaas ----- `परशब्दोऽतिशये वर्तते` इति। यथा परं दुःखमिति। एतन परशब्दोल दिगादिष्वप्यर्थेषु वर्तते, तथापीहातिशये वर्तमानस्य तस्य ग्रहणमित दर्शयति। सन्निकर्षः = प्रत्यासत्तिः, संश्लेषश्च। तत्रेह प्रत्यासत्तिर्गृह्रत इति दर्शयन्नाह - `सन्निकर्षः प्रत्यासत्तिः` इति। संश्लेषस्तु न गृह्रते, तस्य वर्णेष्वसम्भवात्। संश्लेषो ह्रेककालानां भवति, न च वर्णामामेककालतापत्तिः; क्रमेणोच्चारित्वादुच्चरितप्रध्वंसितत्वात्। संश्लेषो ह्रेककालानां भवति, न च वर्णानामेककालतापत्तिः; क्रमेणोच्चारित्वादुच्चरितप्रध्वंसतत्वात्। सत्यामपि चैककालतायां न सम्भवत्येव वर्णानां सश्लेषः। तथा हि - संश्लेषः संयोगतो वा स्यात्, समवायतो वा; तत्र पूर्वको द्रव्यस्यैव स्यात्, न तु शब्दस्य - निर्गुणा गुणा इति कृत्वा। इतरोऽपि नैव शब्दस्य सम्भवति, न हि वर्णो वर्णे समवैति; शब्दस्याकाशसमवायित्वात्। न च संयोगसमवाययोरतिशयः सम्भवति; सर्वत्रैकरुपकत्वात्। तथा च `परः` इति विशेषणं नोपपद्यते। प्रत्यासत्तिस्त्वपेक्षाकृतभेदात् प्रकर्षाप्रकर्षाभ्यां प्रयुज्यमानापरग्रहणेन विशिष्यत इति युक्तं तस्य विशेषणत्वम्। कः पुनरसौ परः सन्निकृष्टान् वर्णानुच्चारयति वक्तरि पूर्वस्य वर्णस्य ये निष्पादकास्ताल्वादयस्तेषां व्यापारोपरतौ वर्णान्तरस्य च ये निष्पादकास्ताल्वादयस्तेषां व्यापारोपदेशनमद्र्धमात्राकालमाहुः। स वर्णानां व्यवधानः = व्यवधायको यस्मिन् सोऽद्र्धमात्राकालव्यवधानः सन्निकर्षः। यदि वर्णानामद्र्धमात्राकालव्यवधानः सन्निकर्षः,कथं तर्हि दध्यत्रेत्यादौ वयवधायककालो नोपलक्ष्यते,वर्णाः संश्लिष्टा एवोपलभ्यन्ते? नैतत्; किमर्थं पुनरेतदारभ्यते, यावता परमेव सन्निकर्षं संहितेति वदन्त्याचार्याः, तथा हि संहितामधीष्वेत्युक्ते परं सन्निकर्षमेवाधीते शिष्यः? नैतदेवम्; पदस्य पदान्तरेण यदानन्तर्यं सा संहितेति लोकेऽभिधीयते। तथा च वक्तारो वदन्ति - संहितामधीते न पदानि, पदान्यधीते न संहितामिति। तथा चैकपदे हि संहिताकार्यं न स्यात्, **इको यणचि** (6.1.77) इति - कुमार्यौ, कुर्मार्य इति। सति ह्रस्मिन् वर्णानां सन्निकर्षविशेषस्यानेन संहितासंज्ञा विधीयत इत सर्वत्रैव भवति॥। Prakriyasarvasvam ----------------- वर्णानामत्यन्तसन्निधिः संहिता नाम ।* Sarala ------ **परः** - प्रथमान्तं, **सन्निकर्षः** - प्रथमान्तं, **संहिता** - प्रथमान्तम् । परशब्दो नाऽन्यार्थोऽन्यत्वस्याऽव्यभिचरितत्वात्, किन्तूत्कृष्टार्थ इत्याह - **अतिशयत इति** । स्वभावसिद्धाऽर्द्धमात्राऽधिककालव्यवायरहित इत्यर्थः । सन्निकर्षः = सामीप्यम् । शब्दानुशासनप्रस्तावादाह - **वर्णानामिति** ॥ Sudha ----- ** परः सन्निकर्ष इति ।** परः अतिशयितः, सन्निकर्षः सामीप्यम्, अर्धमात्राधिककालव्यवधानाभावः । अर्धमात्राकालव्यवधानस्य अवर्जनीयत्वात् । तदेतदभिप्रत्याह — **अतिशयित इत्यादिना ।** **संहितेति ।** स्वभावसिद्धार्धमात्रातिरिक्तकालव्यवायशून्यः संहिता इति भावः ।