14106: प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च
==============================================
**Padacheda:** प्रहासे | S | 7 | 1 |
च | S | 0 | 0 |
मन्य-उपपदे | S | 7 | 1 |
मन्यतेः | S | 5 | 1 |
उत्तम | S | 1 | 1 |
एकवत् | S | 0 | 0 |
च | S | 0 | 0 |
Sutrartha
---------
**यदि प्रहासे गम्यमाने धातुद्वयात्मके वाक्ये एकं क्रियापदं "मन्" इति धातोः रूपम् अस्ति येन सह युष्मद्-उपपदस्य सामानाधिकरण्यं विद्यते, तर्हि युष्मद्-उपपदस्य उपस्थितौ अनुपस्थितौ च अपि, "मन्" धातोः निर्देशः उत्तमपुरुष-एकवचनस्य तिङ् प्रत्ययेन क्रियते, तथा च वाक्ये विद्यमानायाः अन्यायाः क्रियायाः निर्देशः मध्यमपुरुषस्य तिङ् प्रत्ययेन भवति । यथा - मन्ये ओदनं भोक्ष्यसे, भुक्तः सोऽतिथिभिः !**
कस्याश्चित् क्रियायाः विषये केनचित् कृतस्य चिन्तनस्य उपहासं प्रदर्शयितुम् उक्ते वाक्ये **मन् ज्ञाने** (4.73) इति दिवादिगणस्य धातुः यदा "युष्मद्" इति उपपदस्य सामानाधिकरण्ये विद्यते, तदा "युष्मद्"-उपपदस्य उपस्थितौ, अनुपस्थितौ च अपि, **"मन्"-धातोः उत्तमपुरुष-एकवचनस्य प्रत्ययः** प्रयुज्यते, तथा च वाक्ये विद्यमानात् **अन्यस्मात् धातोः मध्यमपुरुषप्रत्ययः** विधीयते - इति अस्य सूत्रस्य आशयः । यथा - कश्चन जामाता "अहं श्वशुरस्य गृहं गत्वा ओदनं भोक्ष्ये" इति चिन्तयन् , कथञ्चित् श्वशुरस्य गृहं विलम्बेन प्राप्नोति, तदा श्वशुरः स्वस्य जामातुः चिन्तनस्य उपहासं कुर्वन् ब्रूते - एहि मन्ये ओदनं भोक्ष्यसे, भुक्तः सः अतिथिभिः । अत्र श्वशुरस्य आशयः अस्ति - "त्वम् विलम्बेन आगत्य अधुना *अहं ओदनं भोक्ष्ये* इति चिन्तयसि, परन्तु सर्वः ओदनः अतिथिभिः प्राक् एव भुक्तः, तर्हि त्वं किं भोक्ष्यसे?" - इति । एतादृशम् आशयं प्रकटीकर्तुम् श्वशुरेण एहि मन्ये ओदनं भोक्ष्यसे, भुक्तः सः अतिथिभिः इति यद् वाक्यं प्रयुज्यते, तस्मिन् वाक्ये प्रकृतसूत्रम् अनुसृत्य "भोक्ष्यसे" इति क्रिया मध्यमपुरुषप्रत्ययेन निर्दिष्टा अस्ति, तथा च "मन्" धातोः उत्तमपुरुष-एकवचनस्य प्रत्ययः प्रयुक्तः अस्ति ।
**पीठिका**
सामान्यरूपेण **मन् ज्ञाने** (4.73) इति धातुः मनसि कृतस्य चिन्तनस्य निर्देशार्थं प्रयुज्यते । यथा, कश्चन जामाता चिन्तयति - "मन्ये अहम् श्वशुरस्य गृहं गत्वा ओदनं भोक्ष्ये" । अस्मिन् वाक्ये जामाता स्वस्य **भोजनस्य** विषये **चिन्तनं** कुर्वन् अस्ति, अतः अत्र "भोक्ष्ये" तथा "मन्ये" एते द्वे क्रियापदे विद्येते । एतादृशस्य चिन्तनस्य निर्देशः यदा अन्येन मनुष्येण, यथा श्वशुरेण क्रियते, तदा श्वशुरः वदति - "त्वं मन्यसे ओदनं भोक्ष्ये इति" । श्वशुरेण उक्तस्य अस्य वाक्यस्य विशेषः अयम्, यत् अस्मिन् वाक्ये विद्यमानेन "भोक्ष्ये" इति क्रियापदेन वस्तुतः "त्वं भोक्ष्यसे" इति अर्थः प्रकटीभवति, परन्तु वाक्यस्य सन्दर्भवशात् अत्र उत्तमपुरुषस्य प्रत्ययस्य प्रयोगः कृतः अस्ति । "मन्यसे" इति क्रियापदेन अपि "त्वं मन्यसे" इत्येव अर्थः प्रकटीकृतः अस्ति, परन्तु तत्र तु मध्यमपुरुषस्य प्रत्ययस्य एव प्रयोगः भवति । अनेन प्रकारेण अत्र वाक्ये "मन्"-धातुः मध्यमपुरुषस्य प्रत्ययेन, तथा च अपरा क्रिया ("भुज्"-धातुः) उत्तमपुरुषस्य प्रत्ययेन निर्दिष्टा वर्तते - इति अस्याः वाक्यरचनायाः विशेषः । अस्यां स्थितौ, यदि अनेनैव वाक्येन परिहासः द्योतनीयः, तर्हि अस्मिन् वाक्ये विद्यमानयोः मध्यमपुरुष-उत्तमपुरुषप्रत्यययोः व्यत्यासः (reversal) भवति - इति प्रकृतसूत्रस्य आशयः । इत्युक्ते, अत्र वाक्ये "भोक्ष्ये" इति क्रियापदे विद्यमानस्य उत्तमपुरुषप्रत्ययस्य स्थाने मध्यमपुरुषस्य प्रत्ययं संस्थाप्य "**भोक्ष्यसे**" इति प्रयुज्यते, तथा च "मन्यसे" इत्यत्र विद्यमानस्य मध्यमपुरुषप्रत्ययस्य स्थाने उत्तमपुरुषस्य प्रत्ययं संस्थाप्य "**मन्ये**" इति प्रयुज्यते । एतादृशे व्यतिहारे कृते एहि मन्ये ओदनं भोक्ष्यसे, भुक्तः सः अतिथिभिः इति वाक्यं सिद्ध्यति । श्वशुरः जामातुः चिन्तनस्य उपहासं कुर्वन् "त्वम् ओदनं भोक्ष्ये इति मन्यसे, परन्तु सर्वः ओदनः तु समाप्तः, इदानीं कीं भोक्ष्यसे" इति वदति - इति आशयः अनेन वाक्येन प्रकटीभवति । अत्र "एहि" इति "आ + इण्" इत्यस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् **प्रहासं** द्योतयितुम् प्रयुक्तम् अस्ति । अपि च, एतादृशे प्रहासे गम्यमाने अत्र द्वयोः क्रियापदयोः यः व्यत्यासः कृतः अस्ति इति सः एव प्रकृतसूत्रेण उक्तः विधिः ज्ञेयः ।
**अन्यानि उदाहरणानि**
अस्य सूत्रस्य कानिचन अन्यानि उदाहरणानि एतादृशानि -
1. एहि मन्ये शकटेन यास्यसि, नीतं शकटं ते पित्रा । "शकटेन आगमिष्यामि" इति त्वं चिन्तयसि, परन्तु तव पिता पूर्वम् एव शकटं नीतवान्, तर्हि इदानीं कथं शकटेन आगमिष्यसि ? - इति उपहासरूपेण वक्तुम् इदं वाक्यं प्रयुज्यते । अत्र "यास्यसि" इति क्रिया मध्यमपुरुषेण निर्दिष्टा अस्ति, तथा च "मन्ये" इत्यत्र "मन्" इति धातुः उत्तमपुरुषैकवचनेन निर्दिष्टः अस्ति ।
2. एहि मन्ये ओदनं भोक्ष्यसे । "ओदनं खादिष्यामि" इति त्वं चिन्तयसि, परन्तु तुभ्यम् ओदनं कः दास्यति? - इति उपहासरूपेण वक्तुम् इदं वाक्यं प्रयुज्यते । अत्र "एहि" इति शब्देन उपहासः प्रकटीकृतः अस्ति । अत्रापि "भोक्ष्यसे" इति क्रिया मध्यमपुरुषेण निर्दिष्टा अस्ति, तथा च "मन्ये" इत्यत्र "मन्" इति धातुः उत्तमपुरुषैकवचनेन निर्दिष्टः अस्ति ।
3. एहि मन्ये राजपुत्र, जामदग्न्यं विजेष्यसे । भवभूतेः **महावीरचरितम्** अस्मिन् नाटके जामदग्न्येन उक्तम् इदं वाक्यम् । अस्य वाक्यस्य अर्थः- हे राजपुत्र, त्वम् स्वस्य विषये "'युद्धे जामदग्न्यं विजेष्ये" इति चिन्तयसि, परन्तु तव तादृशं सामर्थ्यम् कुत्र? - इति अस्ति । राजपुत्रस्य सामर्थ्यविषयकस्य चिन्तनस्य परिहासं कुर्वन् जामदग्न्यः इदं वचः ब्रूते ते । अतः अत्र प्रकृतसूत्रस्य प्रयोगं कृत्वा "विजेष्यसे" इति क्रिया मध्यमपुरुषेण, तथा च "मन्ये" इति उत्तमपुरुषैकवचननेन निर्दिष्टः अस्ति ।
परिहासस्य निर्देशार्थम् "आ + इण्" इत्यस्य लोट्लकारस्य उचितं धातुरूपम् प्रयोक्तव्यम् - इति सामान्यः भाषाव्यवहारः । तदनुसृत्य एव अत्र सर्वेषु उदाहरणेषु "आ + इण्" इत्यस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य "एहि" इति रूपं प्रयुक्तम् अस्ति ।
**सूत्रे विद्यमानानां शब्दानां प्रयोजनम्**
अस्मिन् सूत्रे विद्यमानस्य प्रत्येकं पदस्य अर्थः, प्रयोजनं च एतादृशम् -
** 1. प्रहासे** - **प्रहासः** इत्युक्ते **उपहासः** (mockery) । यत्र प्रहासस्य विषयः वर्तते, तत्रैव प्रकृतसूत्रस्य उपयोगः भवति - इति स्पष्टीकर्तुम् सूत्रे इदं पदं स्थापितम् अस्ति । यत्र प्रहासस्य विषयः नास्ति, तत्र प्रकृतसूत्रस्य प्रयोगः न भवति - इति अस्य आशयः । यथा, स्वागतम्, मन्यसे ओदनं भोक्ष्ये, भुक्तः सोऽतिथिभिः । अस्य वाक्यस्य आशयः - त्वम् "ओदनं खादिष्यामि" इति चिन्तयसि, परन्तु अतिथिभिः सः पूर्वमेव खादितः अस्ति - इति अस्ति । अत्र न कश्चन परिहासः वर्तते अपि तु केवलम् परिस्थितेः कथनं कृतम् अस्ति, अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति ।
** 2. मन्योपपदे** - **मन्योपपदम्** इति बहुव्रीहिसमासः अस्ति । अस्य विग्रहः - **मन्-धातुः उपपदं यस्य** इति दीयते । प्रकृतसूत्रस्य सन्दर्भे अनेन शब्देन "वाक्ये विद्यमानायाः अन्यायाः क्रियायाः" निर्देशः भवति । यथा, एहि मन्ये ओदनं भोक्ष्यसे, भुक्तः सोऽतिथिभिः - अस्मिन् वाक्ये "भोक्ष्यसे" इति क्रिया सूत्रस्य **मन्योपपदे** इति शब्देन निर्दिष्टा अस्ति । एतादृशम्, यत्र वाक्ये द्वे क्रिये विद्येते, तथा च यत्र तयोः एका क्रिया "मन्" इति. अन्या क्रिया च"मन्"-धातोः योगे एव वाक्ये प्रयुक्ता अस्ति, तत्रैव प्रकृतसूत्रस्य प्रयोगः भवति - इति स्पष्टीकर्तुम् अत्र सूत्रे **मन्योपपदे** इति शब्दः स्थापितः अस्ति ।
** 3. मन्यते उत्तमः एकवत्** - ** वाक्ये विद्यमानस्य "मन्"-धातोः प्रयोगः उत्तमपुरुष-एकवचनस्य प्रत्ययेन सह एव करणीयः** - इति स्पष्टीकर्तुम् अयम् अंशः अस्मिन् सूत्रे स्थापितः अस्ति । अतएव एहि मन्ये ओदनं भोक्ष्यसे, भुक्तः सोऽतिथिभिः - अस्मिन् वाक्ये "मन्ये" इति रूपं प्रयुक्तं दृश्यते । अपि च, अत्र "श्यन्"-विकरणेन सह प्रयुक्तेन **मन्यते** इति शब्देन इदम् अपि स्पष्टी भवति, यत् प्रकृतसूत्रस्य प्रयोगः केवलम् **दिवादिगणस्य **मन् ज्ञाने** (4.73)** इति धातोः सन्दर्भेण एव करणीयः - इति । अतएव, तनादिगणस्य **मन् अवबोधने** (8.9) इति धातोः सन्दर्भेण प्रकृतसूत्रं नैव प्रयुज्यते । यथा - एहि मनुषे ओदनं भोक्ष्ये, भुक्तः सोऽतिथिभिः । अत्र वाक्ये "मनुषे" इति **मन् अवबोधने** (8.9) इत्यस्य रूपं प्रयुक्तम् अस्ति । अत्र यदि प्रकृतसूत्रस्य प्रयोगः अभविष्यत्, तर्हि अत्र "मनुषे" इत्यस्य स्थाने "मन्वे" इति रूपम् अभविष्यत् ।
** 4. एकवत्** - प्रकृतसूत्रेण "मन्"-धातोः विषये उत्तमपुरुषस्य **एकवचनस्य एव प्रत्ययस्य** विधानं क्रियते । इत्युक्ते, यद्यपि मन्यमानाः बहवः सन्ति, तथापि "मन्"-धातोः तु एकवचनस्य एव प्रत्ययः प्रयुज्यते - इति अत्र नियमः कृतः अस्ति । यथा, बहूनां जनानां परिहासं कर्तुम् - "यूयं चिन्तयथ यत् *वयम् ओदनं भोक्ष्यामहे* , ओदनः तु अतिथिभिः भुक्तः" इति अर्थः वक्तव्यः चेत्, प्रकृतसूत्रस्य प्रयोगेण एत मन्ये ओदनं भोक्ष्यध्वे, सोऽतिथिभिः भुक्तः इति वाक्यं सिद्ध्यति । अत्र यद्यपि बहूनां जनानां युगपत् एव प्रहासः क्रियते, तथा च तदर्थम् "भोक्ष्यध्वे" इत्यत्र बहुवचनम् अपि प्रयुक्तम् अस्ति, तथापि "मन्ये" इत्यत्र तु **एकवचनस्यैव** प्रयोगः कृतः दृश्यते । अपि च, अत्र वाक्ये प्रयुक्तम् "एत" इति क्रियापदम् "आ + इण्" धातोः लोट्लकारस्य मध्यमपुरुषबहुवचनस्य रूपम् अस्ति । अस्य प्रयोगः उपहासं प्रकटयितुम् कृतः अस्ति ।
सिद्धान्तकौमुद्याम् अस्य सूत्रस्य उदाहरणानि, तथा च दलकृत्यम् अपि लट्लकारस्य प्रक्रियायाः अनन्तरम्, **अतो दीर्घो यञि** (7.3.101) इत्यस्मिन् सूत्रे दत्तम् अस्ति ।
****युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः** इति सम्पूर्णसूत्रस्य अनुवृत्तिः**
प्रकृतसूत्रे **युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः** (1.4.105) इति सम्पूर्णम् सूत्रम् अनुवर्तते । अस्य प्रयोजनम् अधः क्रमेण स्पष्टीकृतम् अस्ति -
1. **युष्मद्युपपदे इति किमर्थम् ** ? यत्र "युष्मद्"-उपपदस्य विषयः नास्ति, तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, यदि श्वशुरः स्वस्य जामातुः विषये "एषः मन्यते ओदनं भोक्ष्ये इति, परन्तु ओदनः अतिथिभिः भुक्तः" इति परिहाररूपेण ब्रूते, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न भवति, यतः अत्र "युष्मद्" इति उपपदस्य विषयः नास्ति अपितु "एतद्" इति उपपदस्य विषयः अस्ति । अतः अत्र एतु मन्यते ओदनं भोक्ष्ये, भुक्तः सोऽतिथिभिः इत्येव वाक्यं सिद्ध्यति । अत्र "भोक्ष्ये" इति क्रियापदेन वस्तुतः "सः भोक्ष्यते" इति अर्थः प्रकटीभवति, परन्तु वाक्यस्य सन्दर्भवशात् अत्र उत्तमपुरुषस्य प्रत्ययस्य प्रयोगः कृतः अस्ति । अत्र प्रकृतसूत्रं नैव प्रयुज्यते ।
2. **समानाधिकरणे इति किमर्थम् ** ? यत्र "युष्मद्"-उपपदस्य "मन्"-धातुना सह सामानाधिकरण्यम् नास्ति, तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, यदि श्वशुरः स्वस्य जामातुः विषये "अयं जामाता मन्यते त्वया सह ओदनं भोक्ष्ये इति, परन्तु ओदनः तु अतिथिभिः भुक्तः" इति परिहाररूपेण ब्रूते, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न भवति, यतः अत्र "युष्मद्" इति उपपदेन यस्य निर्देशः भवति तस्मात् भिन्नपदार्थस्य निर्देशः "मन्यते" इत्यनेन कृतः अस्ति । अतः अत्र एतु मन्यते त्वया सह ओदनं भोक्ष्ये, भुक्तः सोऽतिथिभिः इत्येव वाक्यं सिद्ध्यति ।
3. **स्थानिन्यपि इति किमर्थम् ** ? यत्र "युष्मद्" शब्दः "मन्"-धातुना सह सामानाधिकरण्ये विद्यते, तत्र "युष्मद्" शब्दस्य वाक्ये उपस्थितिः स्यात् उत न स्यात्, प्रकृतसूत्रस्य प्रयोगः अवश्यं सम्भवति - इति स्पष्टीकर्तुम् अत्र **स्थानिनि अपि** इत्यस्य अनुवृत्तिः स्वीक्रियते । अतएव, एहि **त्वं** मन्ये ओदनं भोक्ष्यसे भुक्तः सोऽतिथिभिः तथा च एहि मन्ये ओदनं भोक्ष्यसे भुक्तः सोऽतिथिभिः - इति उभयथा वाक्यं सिद्ध्यति ।
4. **मध्यमः इति किमर्थम् ** ? सूत्रे विद्यमानेन **मन्योपपदे** इति शब्देन या क्रिया निर्दिश्यते, तस्याः कृते प्रत्ययं विधातुम् अत्र **मध्यमः** इत्यस्य अनुवृत्तिः आवश्यकी अस्ति । प्रकृतसूत्रे विद्यमानः **मन्योपपदम्** इति शब्दः बहुव्रीहिसमासेन निर्मितः अस्ति, यस्य विग्रहः **मन्-धातुः उपपदं यस्य** इति दीयते । इत्युक्ते, अत्र **मन्योपपद** इति शब्देन **वाक्ये विद्यमाना अन्या क्रिया** दर्श्यते । अस्याः क्रियायाः प्रयोगः **मध्यमपुरुषप्रत्ययेन सह करणीयः** - इति स्पष्टीकर्तुम् अत्र **मध्यमः** इत्यस्य अनुवृत्तिः स्वीकृता अस्ति । अतएव, एहि मन्ये ओदनं भोक्ष्यसे भुक्तः सोऽतिथिभिः अस्मिन् वाक्ये "भोक्ष्यसे" इति मध्यमपुरुषस्य रूपं प्रयुक्तम् अस्ति ।
एतादृशम्, **युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः** (1.4.105) इति सम्पूर्णं सूत्रं प्रकृतसूत्रे अनुवृत्तिरूपेण स्वीकृतम् अस्ति ।
Sutrartha (English)
-------------------
When one person wants to make fun of what other person thinks, and he uses the verb 'मन्' to indicate the thinking process, the verb मन् is used in उत्तमपुरुष-एकवचन and the other verb is used in मध्यमपुरुष. For example, consider this statement - 'Do you think you can eat the rice' (एहि मन्ये ओदनम् भोक्ष्यसे)? Here the speaker is making fun of the thinking process of other person, saying that the other person is thinking he could eat the rice, but he would not be able to. In such a case, the verb मन् would get उत्तमपुरुष (instead of ideally getting मध्यमपुरुष), and the other word (भुज् in this case) would get मध्यमपुरुष instead of ideally getting उत्तमपुरुष). So, instead of saying रे बुभुक्षित, किम् त्वं एतत् मन्यसे यत् अहम् ओदनम् भोक्ष्ये, we would say - एहि मन्ये ओदनम् भोक्ष्यसे?
Vasu English Summary
--------------------
When joke is implied with reference to an action, the verb denoting it is used in the 2nd person; provided that the word मन्य 'to think' is the attendant word (उपपद) of such verb and of the verb मन्य itself, the affix must be of the 1st person and singular number.
Vasu English Translation
------------------------
When joke is implied with reference to an action, the verb denoting it is used in the 2nd person; provided that the word मन्य 'to think' is the attendant word (उपपद) of such verb and of the verb मन्य itself, the affix must be of the 1st person and singular number.
The word प्रहास means joke, sport. As एवं मन्ये ओदनं भोक्ष्यसे इति; नहि भोक्ष्यसे, भुक्तः सोऽतिथिमिः. Thus thou thinkest 'I shall eat rice,' thou shalt not eat, that has been eaten by a guest. एहि मन्ये रथेन यास्यसि नहि यास्यसि, यातस्तेन ते पिता. I think thou wilt go by the chariot, no, thou wilt not, thy father has gone before thee on it. When joke is not intended, the proper persons should be used: as, एहि मन्यसे ओदनं भोक्ष्ये. Thus thou thinkest 'I shall eat rice.'
Kashika
-------
प्रहासः परिहासः क्रीडा। प्रहासे गम्यमाने मन्योपपदे धातोर्मध्यमपुरुषो भवति, मन्यतेश्चोत्तमः, स चैकवद् भवति। एहि मन्य ओदनं भोक्ष्यस इति, नहि भोक्ष्यसे, भुक्तः, सोऽतिथिभिः। एहि मन्ये रथेन यास्यसि, नहि यास्यसि, यातस्तेन ते पिता। मध्यमोत्तमयोः प्राप्तयोरुत्तममध्यमौ विधीयेते। प्रहास इति किम्? एहि मन्यस ओदनं भोक्ष्य इति। सुष्ठु मन्यसे, साधु मन्यसे॥
Siddhanta Kaumudi
-----------------
मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ॥
Balamanorama
------------
**प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च** - प्रहासे च । वाक्यद्वयमिदं सूत्रम् ।प्रहासे च मन्योपपदे इति प्रथमं वाक्यम् । मध्यम इत्यनुवर्तते । मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलाद्धाताविति विशेष्यं लभ्यते । तदाह — मन्यधातुरित्यादिना । तस्मिन्प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थाने इत्यर्थः । मध्यमः स्यादिति । 'अस्मद्युपपदे' इति शेषः । अस्मद्युत्तमं इत्युत्तरसूत्रात्तदनुवृत्तेः । एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः ।मन्यतेरुत्तम एकवच्चे॑ति द्वितीयं वाक्यम् । तद्व्याचष्टे — मन्यतेस्तूत्तमः स्यादिति । 'युष्मद्युपपदे' इति शेषः । पूर्वसूत्रात्तदनुवृत्तेः । स चेति । सः = मन्येतरुत्तमपुरुषः,द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः । मध्यमोत्तमयोव्र्यत्यासार्थमिदम् । एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति ।
Tattvabodhini
-------------
**प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च** - वाक्यद्वयमिदं सूत्रम् ।प्रहासे च मन्योपपदे॑ इति प्रथमं वाक्यम् । मध्यम इत्यनुवर्तते । मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलाद्धाताविति विशेष्यं लभ्यते । तदाह — मन्यधातुरित्यादिना । तस्मिन्प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थाने इत्यर्थः । मध्यमः स्यादिति ।अस्मद्युपपदे॑ इति शेषः । अस्मद्युत्तमं इत्युत्तरसूत्रात्तदनुवृत्तेः । एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः ।मन्यतेरुत्तम एकवच्चे॑ति द्वितीयं वाक्यम् । तद्व्याचष्टे - मन्यतेस्तूत्तमः स्यादिति ।युष्मद्युपपदे॑ इति शेषः । पूर्वसूत्रात्तदनुवृत्तेः । स चेति । सः = मन्यतेरुत्तमपुरुषः, द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः । मद्यमोत्तमयोव्र्यत्यासार्थमिदम् । एतत्सर्वमनुवपदमेवोदाहरणे स्पष्टीभविष्यति ।
Padamanjari
-----------
प्रहासे गम्यमान इति। यत्र भूतार्थाभावाद्वञ्चनैव केवलं तत्र वक्तुरभिप्रायाविष्करणे प्रहासो गम्यते। मन्यति शब्दस्येकदेशानुकरणं मन्येति, मन्य उपपदं यस्य स तथोक्तः। लस्य धातोर्विधानातदादेशत्वाच्च मध्यमस्य धातुरन्यपदार्थ इत्याह। मन्योपपदे धाताविति। प्रकृतिभूते सतीत्यर्थः। स चैकवदिति। अर्थद्वारकश्चोतमस्यैकवद्भावः, एकस्य वाचको भवतीत्यर्थः, द्वयोर्बहुषु मन्तृषु एकवचनमेव भवतीति यावत्। यत्र हि द्वौ मन्तारौ बहवो वा, तत्रैकवद्भावो विधेयः; अन्यत्र तु मन्तुरेकत्वादेव सिद्धम्। एकवच्चेति। च शब्देन्वाचये, तेनैकवद्भावावेऽपि एकस्मिन्नपि मन्तरि प्रधानशिष्टौ मध्यमोतमौ भवतः। अन्वाचयमेव दर्शयितुमयत्नसाध्यमेकं मन्तारमुदाहरति - एहि मन्ये ओदनं भोक्ष्यस इति। सत्यप्योदने भोक्तुमागतं श्यालादिकं प्रति एतत्प्रयुज्यत इति परिहासावगतिः। द्विबह्वोस्तूदाहरणे - एहि मन्ये ओदनं भोक्षघ्येथे नहि भोक्ष्येथे भुक्तः सोऽतिथिभिः; एहि मन्ये रथेन यास्यथ यातस्तेन पिता इति। मध्यमोतमयोः प्राप्तयोरिति। युष्मदस्मदर्थस्य गम्यमानत्वात् प्रत्युदाहरणवत् प्रकृतमुपपदग्रहणं युष्मदा सम्बद्धम्। तच्च तथैवैहाप्यनुवर्त्यमिह मा भूत् - एतु भवान्मन्यते ओदनं भोक्ष्ये भुक्तः सोऽतिथिभिरिति। तदशक्यं मन्यतिना सम्बन्धुमिति पुनरिहोपपदग्रहणम्, अनयथा मन्यतौ परत एव स्यात्। श्यनानिर्देशान्मन ज्ञानैत्यस्य ग्रहणम्, न तु'मनु अवबोधने' इत्यस्य, एहि मनुषे रथेन यास्यामीति एवं तस्य भवति। प्रत्युदाहरणे अतिथिं प्रति तथाभूतार्थवाचनम्॥
Nyaas
-----
`प्रहासे गम्यमाने` इति। यत्र भूतार्थाभावाद्वञ्चनैव केवलं तत्र वक्तुरभिप्रयाविष्करणेन प्रहासो गम्यते। `मन्योपपदे` इति।मन्यतिरुपपदमुपोच्चारितं पदं यस्य स तथोक्तः। मध्यमस्य धातोर्विधानात् धातुरन्यपाद्रथो विज्ञायत इत्याह - `धातोःट इति। `स चैकवत्` इति। यत्र द्वौ मन्तारौ बहवो वा तत्रायमेकवद्भावो विधीयते। अन्यत्र तु मन्तुरेकत्वादेवैकवचनं सिद्धम्। `मध्यमोत्तमयोः` इति। यथाक्रमं युष्मदस्मदोरुपपदयोः समानाधिकरणयोरप्रयुज्यमानयोरप्यर्थस्य विद्यमानत्वात्। यथा प्रत्युदाहरणे पूर्वकमुपपदग्रहणं युष्मच्छब्देनाभिसम्बद्धमिहानुवर्तेतेति तन्मन्यतिनाऽशक्यमभिसम्बन्धृमिति पुनरुपपदग्रहणं क्रियते। मन्यतेरिति श्यना निर्देशः, इत्यस्य तानादिकस्य ग्रहणं मा भूदत्येवमर्थः। तेनेनह न भवति - एहि मनुषे रथेन यास्यामि न हि यास्यसि यातस्तेन ते पितेति। एवं हि मनोतेर्भवति॥
Prakriyasarvasvam
-----------------
मन्यत्युपपदे धातौ परिहासे द्योत्ये उत्तमपुरुषविषये मध्यमः स्यात्, तस्य मन्यतेस्तु मध्यमविषये उत्तमः, स चैकवत् स्यात् । किं जेता भवसीति त्वं मन्ये कंस जळाशय । अत्र जेता भवामीति मन्यसे त्वमितीर्यते ॥ ६७५ ॥ जेतारो भवथेत्येवं मन्ये किं दानवाधमाः । इत्यादि द्विबहुत्वेऽपि मन्यतेरेकतैव हि ॥ ६७६ ॥