14104: विभक्तिश्च ================= **Padacheda:** विभक्तिः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **सुप्-प्रत्यया: तिङ्-प्रत्यया: च विभक्तिसंज्ञकाः भवन्ति ।** **सुप्** - सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् । **तिङ्**-तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ् । **स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् ** (4.1.2) इति सूत्रेण पाठितानाम् एकविंशतेः सुप्-प्रत्ययानाम्, तथा च **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति सूत्रेण विहितानाम् अष्टादशानां तिङ-प्रत्ययानाम् त्रिकं (त्रयाणां सङ्घं) कृत्वा प्रत्येकं समूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा दीयते - इति अस्य सूत्रस्य आशयः । तद्यथा - सुप्-प्रत्ययानां विभक्तिसंज्ञा - 1. सुँ-औ-जस् इति प्रथमसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **प्रथमा** इति संज्ञया अपि क्रियते । 2. अम्-औ-जस् इति द्वितीयसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **द्वितीया** इति संज्ञया अपि क्रियते । 3. टा-भ्याम्-भिस् इति तृतीयसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **तृतीया** इति संज्ञया अपि क्रियते । 4. ङे-भ्याम्-भ्यस् इति चतुर्थसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **चतुर्थी** इति संज्ञया अपि क्रियते । 5. ङसिँ-भ्याम्-भ्यस् इति पञ्चमसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **पञ्चमी** इति संज्ञया अपि क्रियते । 6. ङस्-ओस्-आम् इति षष्ठसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **षष्ठी** इति संज्ञया अपि क्रियते । 7. ङि-ओस्-सुप् इति सप्तमसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **सप्तमी** इति संज्ञया अपि क्रियते । अत्र निर्दिष्टाः **प्रथमा** इत्यतः **सप्तमी** इति संज्ञाः केन अपि विशिष्टेन सूत्रेण न विधीयन्ते, परन्तु पाणिनिना स्वयमेव **प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा** (2.3.46), **कर्मणि द्वितीया** (2.3.2) इत्यादिषु सूत्रेषु कृतः अस्ति; अतः एतानि नामानि व्याकरणशास्त्रे संज्ञारूपेण एव स्वीकृताः सन्ति । एताः संज्ञाः पाणिनेः प्राक् विद्यमानाः आचार्याः अपि प्रयुञ्जते स्म, तेभ्यः एव पाणिनिना एताः स्वीकृताः सन्ति - इति सिद्धान्तकौमुदीकारः अस्मिन् सन्दर्भे स्पष्टी करोति । तिङ्-प्रत्ययानां विभक्तिसंज्ञा - 1. तिप्-तस्-झि इति प्रथमसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **तिङस्त्रीणि ...** (1.4.101) इति सूत्रेण **प्रथमः** इति संज्ञया अपि कृता अस्ति । 2. सिप्-थस्-थ इति द्वितीयसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **तिङस्त्रीणि ...** (1.4.101) इति सूत्रेण **मध्यमः** इति संज्ञया अपि कृता अस्ति । 3. मिप्-वस्-मस् इति तृतीयसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **तिङस्त्रीणि ...** (1.4.101) इति सूत्रेण **उत्तमः** इति संज्ञया अपि कृता अस्ति । 4. त-आताम्-झ इति चतुर्थसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **तिङस्त्रीणि ...** (1.4.101) इति सूत्रेण **प्रथमः** इति संज्ञया अपि कृता अस्ति । 5. थास्-आथाम्-ध्वम् इति पञ्चमसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **तिङस्त्रीणि ...** (1.4.101) इति सूत्रेण **मध्यमः** इति संज्ञया अपि कृता अस्ति । 6. इट्-वहि-महिङ् इति षष्ठसमूहे विद्यमानानां प्रत्ययानां **विभक्तिः** इति संज्ञा भवति । एतेषाम् एव निर्देशः **तिङस्त्रीणि ...** (1.4.101) इति सूत्रेण **उत्तमः** इति संज्ञया अपि कृता अस्ति । यद्यपि भाषायाम् व्याकरणस्य सन्दर्भेण **विभक्तिः** इति संज्ञा केवलं सुप्-प्रत्ययानां कृते एव प्रयुज्यते, तथापि व्याकरणशास्त्रे तिङ्-प्रत्ययानाम् अपि **विभक्तिः** इत्येव संज्ञा भवति । **केषाञ्चन तद्धितप्रत्यानाम् अपि विभक्तिसंज्ञा** अष्टाध्याय्याम् तद्धितप्रकरणे विद्यमानाः **प्रायेण 20 तद्धितप्रत्ययाः** **प्राग्दिशो विभक्तिः** (5.3.1) इत्यनेन **विभक्तिसंज्ञकाः** भवन्ति । एते प्रत्ययाः तिङ्-संज्ञकाः उत सुप्-संज्ञकाः न सन्ति, अतः तेषां प्रकृतसूत्रेण विभक्तिसंज्ञा नैव सम्भवति; अतश्च तेषां विभक्तिसंज्ञाविधानार्थं **प्राग्दिशो विभक्तिः** (5.3.1) इति सूत्रं निर्मितम् अस्ति । Sutrartha (English) ------------------- The सुप्-प्रत्ययाः and the तिङ्-प्रत्ययाः are called विभक्ति. Vasu English Summary -------------------- The triads of conjugational affixes and case affixes are also called विभक्ति or Inflective affixes. Vasu English Translation ------------------------ The triads of conjugational affixes and case affixes are also called विभक्ति or Inflective affixes. The word विभक्ति means a complete triad. Thus सप्तमी विभक्ति means the three affixes of the seventh case, i.e., the locative singular, dual, and plural. So प्रथमा विभक्ति means the third person, singular, dual, and plural. Bhashya ------- विभक्तिश्च त्रीणि त्रीणीत्यनुवर्तते।, उताहो न ? किं चातः ? यद्यनुवर्त्तते, - - अष्टन आ विभक्तौ (7.2.84) इत्यात्वं न प्राप्नोति । अथ निवृत्तं, प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यत्र प्रत्यययोरेव ग्रहणं प्राप्नोति । यथेच्छसि तथास्तु ॥ अस्तु तावदनुवर्तत इति । ननु चोक्तमष्टन आ विभक्तावित्यात्वं न प्राप्नोतीति । वचनाद्भविष्यति । अथवा पुनरस्तु - निवृत्तम् । ननु चोक्तं प्रथमयोः पूर्वसवर्णः इत्यत्र प्रत्ययोरेव ग्रहणं प्राप्नोतीति । नैष दोषः । अचीत्यनुवर्तते न चाऽजादी प्रथमौ प्रत्ययौ स्तः । ननु चैवं विज्ञायते - अजादी यौ प्रथमौ, अजादीनां वा यौ प्रथमाविति । यत्तर्हि तस्माच्छसो नः पुंसि (6.1.103) इत्यनुक्रान्तं पूर्वसवर्णं प्रतिनिर्दिशति तज्ज्ञापयत्याचार्यः विभक्त्योर्ग्रहणमिति । अथवा वचनग्रहणमेव कुर्याद् - औजसोः पूर्वसवर्णः इति ॥ 104 ॥ Kashika ------- त्रीणित्रीणीत्यनुवर्तते। त्रीणित्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्तिङश्च। विभक्तिप्रदेशाः — **अष्टन आ विभक्तौ** (७.२.८४) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- सुप्तिङौ विभक्तिसंज्ञौ स्तः । तत्र सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः ॥ Laghu Siddhanta Kaumudi ----------------------- सुप्तिङौ विभक्तिसंज्ञौ स्तः॥ Balamanorama ------------ **विभक्तिश्च** - अथ 'न विभक्तो तुस्माः' इत्याद्युपयोगिनी विभक्तिसंज्ञामाह — विभक्तिश्च । 'सुप' इति पूर्वसूत्रात्सुब्ग्रहणम्,तिङस्त्रीणी॑त्यतस्तिङ्ग्रहणं चानुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तदाह — सुप्तिङाविति । चकारः पुरुषवचनसंज्ञाभिः समावेशार्थः । तेन एकसंज्ञाधिकारस्थत्वेऽपि न पर्यायत्वम् । अन्यथा 'रामेभ्यः' 'भवाम' इत्यादौ विभक्तिसंज्ञाविरहेणन विभक्ता॑विति निषेधो न स्यात् । ननु प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया, चतुर्थी सम्प्रदाने, अपादाने पञ्चमी, षष्ठी शेषे, सम्पतम्यधिकरणे चेत्यादौ कथं प्रथमादिव्यवहारः , सूत्रकृता पाणिनिना प्रथमादिसंज्ञानामनुक्तत्वादित्यत आह — तत्रेति । तेषु स्वादिप्रत्ययेषु मध्य इत्यर्थः । इत्यादीनामिति । आदिना — अम् — औट् — शस् — इत्यादीनां ग्रहणम् । प्राचामिति । पाणिनेः पूर्वेषां स्फोटायनाद्याचार्याणां शास्त्रे प्रथमाद्याः सप्तम्यन्ताः संज्ञाः स्थिता इत्यन्वयः । किं तत् इत्यत आह — ताभिरिति । ताभिः=प्रथमादिसंज्ञाभिरिहापि=पाणिनीयशास्त्रेऽपि व्यवहारः — सम्भवतीत्यर्थः । Tattvabodhini ------------- **विभक्तिश्च** - विभक्तिश्च ।तिङ्स्त्रीणि त्रीणि — ॑ इत्यतस्तिङ्ग्रहणं व्यवहितमपि स्वरितत्वबलादनुवर्तते ।सुपः॑ इति च संनिहितमित्यभिप्रेत्याहु — सुप्तिङाविति । तिङां विभक्तिसंज्ञायाः प्रयोजनंन विभक्तौ तुस्माः॑ इति । सुपां तु त्यदाद्यत्वादिकमपि । चकारः पुरुषवचनसंज्ञाभ्यां संमावेशार्थः । अन्यथा एकसंज्ञाधिकारादेकवचनादिसंज्ञाभिः सह वचनद्वयप्रामाण्यात्पर्यायः स्यात् । ततश्चरामेभ्यो॑नमाम॑ इत्यादौ बहुवचनसंज्ञापक्षे विभक्तित्वाऽभावात्सस्येत्संज्ञा स्यात् । इहापीति । अस्मिन्नपि तन्त्रेप्रातिपदिकार्थलिङ्गपरिमाणे॑त्यादावित्यर्थः । Padamanjari ----------- चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः। तिङं व्यवहितानामपि स्वरितत्वादनुवृत्तिः। तिङं विभक्तित्वे प्रयोजनम् - आतामादौ'न विभक्तौ तुस्माः' इति निषेधः, सुपां तु त्यदाद्यत्वादिकमपि॥ Nyaas ----- चकारः पुरुषादिसंज्ञासमावेशार्थः। विना तेनैकसंज्ञाधिकारे वचनप्रामाण्यात् पर्यायः स्यात्। तिङो विभक्तत्वे प्रयोजनम् `न विभक्तौ तुस्माः` (र1.3.4) इतीत्संज्ञाप्रतिषेधः। सुपस्त्वेच्च, अन्यच्च त्यदाद्यत्वादि॥ Prakriyasarvasvam ----------------- सुपस्ति⁴ङश्च विभक्तिसंज्ञाः । Sarala ------ **तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः** (१.४.१०१) इत्यतः "तिङः" इति **सुपः** (१.४.१०३) इति सूत्रं चानुवर्त्ततेऽत आह - **सुप्तिङाविति** ॥ Sudha ----- **विभक्तिश्चेति ।** **सुपः**(1.4.103) इति पूर्वसूत्रात् सुप, **तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः**(1.4.101) इति सूत्रात् तिङ् इति चानुवर्तते; एकदेशे स्वरितत्वप्रतिज्ञानबलात् । तदाह - **सुपतिङाविति । रामा इति ।** रामशब्दात् बहुवचनविवक्षायां प्रथमावहुवचने जसि कृते 'राम राम राम जस्' इति जाते तत्र **सरूपाणामेकशेष एकविभक्तौ**(1.2.64) इति एकरामशब्देऽवशिष्टे "राम जस्" अत्र **चुटू**(1.3.7) इत्यनेन प्रत्ययस्यादिभूतस्य चवर्गान्तःपातिनो जकारस्येत्संज्ञायाम् **तस्य लोपः**(1.3.9) इत्यनेन लोपे "राम अस्" इति दशायाम् अकारोत्तरवर्तिसकारस्य **हलन्त्यम्**(1.3.3) इत्यनेनेत्संज्ञा प्राप्ता, सा **विभक्तिश्च**(1.4.104) इति विभक्तिसंज्ञायां **न विभक्तौ तुस्माः**(1.3.4) इत्यनेन निषिद्धा । अथ च **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वपरयोः पूर्वसवर्णदीर्घादेशे कृते "रामास्" इति भूते **ससजुषो रुः**(8.2.66) इति सस्य रुत्वे अनुबन्धलोपे **खरवसानयोर्विसर्जनीयः**(8.3.15) इति रेफस्य विसर्गे "रामाः" इति रूपम् ।