14099: लः परस्मैपदम्
====================
**Padacheda:** लः | S | 6 | 1 |
परस्मैपदम् | S | 1 | 1 |
Sutrartha
---------
**लकारस्य स्थाने विहितानाम् आदेशानाम् "परस्मैपदम्" इति संज्ञा विधीयते । आवली इयम् - तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, शतृ, क्वसु ।**
लकारप्रत्ययानां स्थाने भिन्नैः सूत्रैः ये आदेशाः विधीयन्ते, तेषाम् सर्वेषाम् परस्मैपदम् इति संज्ञा भवति । एतादृशाः आहत्य द्वाविंशतिः (22) आदेशाः सन्ति । परन्तु एतेभ्यः एकादशानाम् (11) आदेशानाम् **तङानावात्मनेपदम्** (1.4.100) इति अग्रिमसूत्रेण **आत्मनेपदम्** इति संज्ञा विधीयते, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्ताम् परस्मैपदसंज्ञां बाधते । अतः अन्ते केवलम् ** एकादशानां आदेशानाम् एव प्रकृतसूत्रेण **परस्मैपदम्** इति संज्ञा दीयते** । एते एकादश आदेशाः एतादृशाः -
1. **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति सूत्रेण सर्वेषाम् अपि लकाराणां स्थाने विहिताः तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस् - एते नव आदेशाः परस्मैपदसंज्ञकाः भवन्ति । अनेन सूत्रेण अन्येऽपि नव आदेशाः विधीयन्ते; परन्तु तेषाम् प्रकृतसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, अग्रिमसूत्रेण एतेषाम् **आत्मनेपदम्** इति संज्ञा भवति, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां परस्मैपदसंज्ञां बाधते ।
2. लट्-लकारस्य स्थाने **लटः शतृशानचावप्रथमासमानाधिकरणे** (3.2.124) इत्यनेन विहितः शतृ इति आदेशः परस्मैपदसंज्ञकः भवति । अनेन सूत्रेण शानच् इति अन्यः आदेशः अपि विधीयते; परन्तु तस्य प्रकृतसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, अग्रिमसूत्रेण **आत्मनेपदम्** इति संज्ञा भवति, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां परस्मैपदसंज्ञां बाधते ।
3. लिट्-लकारस्य स्थाने **क्वसुश्च** (3.2.107) इत्यनेन विहितः क्वसुँ इति आदेशः अपि परस्मैपदसंज्ञकः भवति । अनेन सूत्रेण कानच् इति अन्यः आदेशः अपि विधीयते; परन्तु तस्य प्रकृतसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, अग्रिमसूत्रेण **आत्मनेपदम्** इति संज्ञा भवति, या एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां परस्मैपदसंज्ञां बाधते ।
परस्मैपदसंज्ञायाः प्रयोगः **सिचि वृद्धिः परस्मैपदेषु** (7.2.1) **शेषात् कर्तरि परस्मैपदम्** (1.3.78), **परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इत्यादिषु सूत्रेषु कृतः अस्ति ।
येभ्यः धातोः केवलम् परस्मैपदस्यैव प्रत्ययाः विधीयन्ते, ते धातवः **परस्मैपदिनः** (प्रातिपदिकम् - परस्मैपदिन्, प्रथमैकवचनम् - परस्मैपदी) इति नाम्ना धातुपाठे परिगणिताः सन्ति । धातुपाठे विद्यमानेभ्यः ~2000 धातुभ्यः प्रायेण 1100 धातवः (इत्युक्ते, 55% धातवः) परस्मैपदिनः सन्ति ।
Sutrartha (English)
-------------------
The आदेशा that occur in place of a लकार are known as परस्मैपद.
Vasu English Summary
--------------------
The substitutes of ल are called परस्मैपद।
Vasu English Translation
------------------------
The substitutes of ल are called परस्मैपद।
The word लः is in the genitive case, and means 'of ल.' The word आदेश 'substitutes' must be supplied to complete the sense. The term ल is a generic word for verb in general, viz., लट्, लिट्, लुट्, लृट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लृङ्. The substitutes of ल are the well known personal terminations by which the verbs are conjugated in those tenses. Namely the following.
*PARASMAIPADA*.
- 3rd person - तिप्, तस्, झि
- 2nd person - सिप्, थस्, थ
- 1st person - मिप्, वस्, मस्
And the affixes शतृ and क्वसु (3.2.107), and (3.2.124), and (3.4.78).
Bhashya
-------
लः परस्मैपदम् लादेशे परस्मैपदग्रहणं पुरुषबाधितत्वात् दिह वचने हि संज्ञाबाधनम् ॥ 1 ॥ लादेशे परस्मैपदग्रहणं कर्तव्यम् । किं कारणम् ? पुरुषबाधितत्वात् । इह वचने हि संज्ञाबाधनम् । इह हि क्रियमाणेऽनवकाशा पुरुषसंज्ञा परस्मैपदसंज्ञां बाधेत । परस्मैपदसंज्ञाऽप्यनवकाशा, सा वचनाद्भविष्यति । सावकाशा परस्मैपदसंज्ञा । कोऽवकाशः ? शतृक्वसू। अवकाशः । सिचि वृद्धौ तु परस्मैपदग्रहणं ज्ञापकं पुरुषाऽबाधकत्वस्य ॥ 3 ॥ यदयं सिचिवृद्धिः परस्मैपदेषु (7.2.1) इति परस्मैपदग्रहणं करोति तज्ज्ञापयत्याचार्यः न पुरुषसंज्ञा परस्मैपदसंज्ञां बाधते इति ॥ 99 ॥
Kashika
-------
ल इति षष्ठ्यादेशापेक्षा। लादेशाः परस्मैपदसंज्ञा भवन्ति। तिप्, तस्, झि। सिप्, थस्, थ। मिप्, वस्, मस्। शतृक्वसू च। परस्मैपदप्रदेशाः — **सिचि वृद्धिः परस्मैपदेषु** (७.२.१) इत्येवमादयः॥
Siddhanta Kaumudi
-----------------
लादेशाः परस्मैपदसंज्ञाः स्युः ॥
Laghu Siddhanta Kaumudi
-----------------------
लादेशाः परस्मैपदसंज्ञाः स्युः॥
Balamanorama
------------
**लः परस्मैपदम्** - लः पर । 'ल' इति स्थानषष्ठी । 'आदेश' इत्यध्याहार्यम् । तदाह — लादेशा इति ।
Padamanjari
-----------
ल इति षष्ठीति। अथ प्रथमाबहुवचने को दोषः, ठामःऽ इति लावस्थायामेव लुप्यमानस्य लिटः संज्ञा स्यात्। ततश्चेक्षामित्यत्राम्न स्याद्, न ह्यतो लिट्परः सम्भवति, शेषादेव, शेषादेव परस्मैपदमिति नियमात्? ज्ञापकात् सिद्धम्, यदयमाम्प्रत्ययवदित्याह, तज् ज्ञापयति - भवत्यात्मनेपदिभ्योऽप्यामिति। अयं तर्हि दोषो लकारस्यैव संज्ञा स्यान्न तदादेशानां तिबादीनामिति? स्थानिवद्भावातेषामपि भविष्यति।'तङनावात्मनेपदम्' इत्यत्र तर्हि'ल' इति प्रथमान्तस्य तङनाभ्यां सम्बन्धो न स्यात्, न हि तङनौ लौ भवतः। ननु चैवं विज्ञास्यतेतङनभावी लकार एव, तङनावित्यक्त इति। एवमपि गत्यन्तरे सति न क्लिष्टकल्पना युक्ता, तस्मात्'लः' इति षष्ठी। आदेशापेक्षेति। न च संज्ञापेक्षा, लकारस्य परस्मैपदमिति संज्ञा भवतीति, कुतः? सामानाधिकरण्येन प्रायेण संज्ञाविधानात्। किञ्च - जसि यो दोषः, सोऽस्मिन्नपि स्यात्; उभयत्र लकारस्य संज्ञित्वात्। तस्मादादेशापेक्षा षष्ठी। यद्येवम्, अनवकाशा पुरुषसंज्ञा परस्मैपदसंज्ञां शतृक्वसोः सावकाशां बाधेत। जसि तु लकारस्य परस्मैपदसंज्ञा तिङं तु पुरुषसंज्ञेति भिन्नविषयत्वान्नास्ति बाधप्रसङ्गः। यद्यपि जस्पक्षेऽपि तिबादीनामादेशानामपि'स्थानिवदादेशः' इत्यनेन परस्मैपदसंज्ञा भविष्यति; तथापि तस्या अनाकडारीयत्वात्समावेशसिद्धिः। षष्ठीपक्षेऽपि ज्ञापकात्सिद्धम्, यदयम्'सिचि वृद्धिः परस्मैपदेषु' इत्याह, तज् ज्ञापयति - भवति तिङमप्येषा संज्ञेति। न हि सिज्विषये शतृक्वसू सम्भवतः, सामान्यापेक्षं च ज्ञापकमिति आत्मनेपदसंज्ञया पुरुषसंज्ञानां समावेशसिद्धिः, अन्यथा परस्मेपदेषु सावकाशाः पुरुषसंज्ञाः तङ्क्ष्वनवकाशयात्मनेपदसंज्ञया बाध्येरन्। अथ वा - पुरुषसंज्ञायां परस्मैपदात्मनेपदग्रहणानुवृतेरयमर्थो भवति, लटः परस्मैपदात्मनेपदसंज्ञकाः सतस्त्रीणि त्रीणि पदानि भूत्वा प्रथमादिसंज्ञा भवन्तीति तेन समावेशसिद्धिः॥
Nyaas
-----
ल इति प्रथमा वा स्यात्? षष्ठी वा? तत्र यदि प्रथमा स्याल्लकारस्यैव परस्मैपदसंज्ञा स्यात्, न तदादेशानां तिबादीनाम्। कामम्, तेषममपि स्थानिवद्भावेन स्यात्। **तङानावात्मनेपदम्** (1.4.100) इत्यत्र तु `लः` इत्यनेन तङानयोः सम्बन्धो नोपपद्येत, न हि तङानौ लौ भवतः। अत्र तङानभावो लकार एव तङानावित्येवमभिहितः। साहचर्याद्वा लादेशौ तङानावव `ल` इत्युक्ताविति व्याख्येयम्। तथा च व्याख्यानद्वारेणेष्टार्थप्रतिप्त्तौ साध्यायां प्रतिपत्तिगौरवं स्यात्। षष्ठीपक्षे त्वेष दोषो नास्ति, अतस्तमाश्रित्याह - `लः` इति षष्ठी` इत्यादि। नन्वयमपि पक्षो दोषवानेव, लादेशस्य हि परस्मैपदसंज्ञा विधीयमाना तिङां न स्यात्, तेषां परत्वात् **तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः** (1.4.101) इत्यादिना प्रथमपुरुषादिसंज्ञया भवितव्यम्। परस्मैपदसंज्ञायास्तु शतृक्वस्वोश्चावकासः? नैष दोषः; यदयं `सिचि वृद्धिः परस्मैपदेषु` (7.2.1।) इत्याह तज्ज्ञापयति - भवति च तिङां परस्मेपदसंज्ञेति। स हि परस्मैपदे परे सिचि विधीयते, न हि सिज्विषये शतृक्वसू सम्भवतः। `तिप्तस्झि` इत्यादि रूपोदाहरणमात्रम्॥`कतीह निघ्नानाः` इति। निपूर्वोद्धन्तेः **ताच्छील्यवयोवचनशक्तिषु चानश्** (3.2.129) इति चानश्प्रत्ययः। `गमहन` (6.4.98) इत्यादिनोपधालोपः। `होहन्तेर्ञ्णिन्नेषु` (7.3.54) इति कुत्वम्। यद्यनादेशोऽपि चानशात्मनपदसंज्ञकः स्यात् परस्मैपदिनो हन्तर्न स्यात्॥तिङ इति प्रथमाबहुवचनम्। तिङः संज्ञिनः किंभुताः? त्रीणि त्रीणित्येवम्भूता इत्यर्थः। वचनापेक्षया नपुंसकलिङ्गेन निर्देशः। वीप्सायाञ्चैतद्द्विर्जनम्। यदि तिङस्त्रीणि त्रीणि वचनानि प्रथममध्यमोत्तमपुरुषसंज्ञकानि भवन्ति, एवं सति षट्त्रिकाः संज्ञिनः संज्ञास्तित्र इति यथासंख्यं न प्राप्नोति; वैषम्यात्। तत्र यद्येकस्यानेकसंज्ञाविधानवैयथ्र्यादेका संज्ञा भवेत्, न त्वेकैकस्य तिरुआः, तथापि सैवैकैका भवन्तीत्यव्यवस्था वा स्यात्; नैष दोषः;इह हि परस्मैपदग्रहणमात्मनेपदगर्हणञ्चानुवर्तते। तदनुवृत्तौ च द्वौ राशी भवतः- नवानां तिङां परस्मैपदसंज्ञकानामेको राशिः, तथा नावानामात्मनेपदसंज्ञकानां द्वितीयः। तत्र प्रथमे राशौ ये त्रयस्त्रिकाः, ये च द्वितीये राशौ त्रयस्त्रिकास्तैरिदं सूत्रं प्रत्येकमभिसम्बध्यते - परस्मैपदेषु तिङस्त्रीणि त्रीणि प्थममध्यमोत्तमाः, तथात्मनेपदेषु तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमा इति। एवं हि सति न भवति संख्यातानुदेशाभावप्रसङ्गः। तमेवार्थं दर्शयितुमाह - `तिङोऽष्टादश प्रत्ययाः` इति। `नव` इत्यादिना राशिद्वयं दर्शयति। `तत्र` इत्यादिना प्रथमे राशौ ये त्रयस्त्रिकास्तैरस्य सूत्रस्य सम्बन्ध#ं करोति। `आत्मनेपदेषु` इत्यादिनापि द्वितीये राशौ ये त्रयस्त्रिकास्तैश्च॥`तानि` इति बहुवचनं संज्ञासमावेशार्थम्; अन्यथा ह्रेकसंज्ञाधिकारे सति वचन्परामाण्यात् पुरुषवचनसंज्ञाः पर्यायेण प्रवर्तेरन्। एवञ्च तत्र **आडुत्तमस्य पिच्च** (3.4.92) इत्यादिना विधीयमानमाडादिकार्यं पाक्षिकं स्यात्। अस्मस्तु सति भवति संज्ञासमावेशः। तच्छब्देन हि त्रीणि त्रीणि लब्धपुरुषसंज्ञकानि तान्येकवचनादिसंज्ञकानि भवन्तीति प्रत्यवमृश्यन्ते, तेन यानि लब्धप्रथमपुरुषादिसंज्ञकानि तान्येवैकवचनादिसंज्ञकानि भवन्ति। ननु च त्रिकाणां प्रथमादिसंज्ञैकैकस्य चैकवचनादिसंज्ञा, तत्र विषयबेदादेकसंज्ञाधिकारेऽपि विरोधो नास्त्येवेति; नैष दोषः; तदस्ति पुरुषादिसंज्ञापि हि प्रत्येकमेव, न हि समुदायो नामान्यस्त्रिकेभ्योऽस्ति; तस्मात् तिबादयस्त्रका एव संज्ञिनः। त्रिग्रहणन्तु मर्यादार्थम्। त्रत्वसंख्यापरिच्छिन्नास्तिङः प्रत्येकं पुरुषसंज्ञाः प्रतिपाद्यन्ते। तस्मात् प्रथमादिसंज्ञानामेकवचनादिसंज्ञानाञ्चैकविषयतैवेति संज्ञासमावेशार्थं तानीत्युक्तम्॥
Prakriyasarvasvam
-----------------
लकारस्यादेशाः शतृतिबादयः परस्मैपदसंज्ञाः ।