14091: अभिरभागे =============== **Padacheda:** अभिः | S | 1 | 1 | अभागे | S | 7 | 1 | Sutrartha --------- **लक्षणम्, इत्थम्भूताख्यानम्, तथा च वीप्सा - एतेषु सन्दर्भेषु प्रयुक्तः "अभिः" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - वृक्षम् अभि विद्योतते विद्युत् । देवदत्तः मातरम् अभि साधु । लक्ष्मीः हरिम् अभि । वृक्षं वृक्षम् अभि सिञ्चति ।** **कर्मप्रवचनीयाः** (1.4.83) अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं सप्तमं सूत्रम् । ****अभि** इति शब्दस्य यदा **लक्षणम्** , **इत्थम्भूताख्यानम्**, तथा च **वीप्सा** - एतेषु सन्दर्भेषु प्रयोगः भवति तदा तस्य **कर्मप्रवचनीयसंज्ञा** भवति** इति अस्य सूत्रस्य आशयः । क्रमेण विवरणम् एतादृशम् -
1. **लक्षणम्** अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा व्याख्यानेषु **लक्षणम्** इति शब्दस्य अर्थः लक्ष्यते चिह्न्यते येन तत् लक्षणम् इति दीयते । सरलभाषायाम्, **लक्षणम्** इति शब्देन अत्र - **कस्यचित् पदार्थस्य आधारेण दिशायाः सङ्केतः** - इति स्वीकृतः अस्ति । एतादृशस्य सङ्केतस्य सन्दर्भे **अभि** इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । यस्य पदार्थस्य आधारेण दिशायाः सङ्केतः दीयते, तस्य निर्देशः **लक्षणम्** इति शब्देन भवति, तथा च एतादृशस्य लक्षणस्य निर्देशार्थम् **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन द्वितीयाविभक्तिः प्रयुज्यते । कानिचन उदाहरणानि एतानि -
  • 1. देवदत्तः ग्रामम् **अभि** गच्छति । देवदत्तः "ग्रामस्य दिशि गच्छति" इति आशयः । अत्र दिशायाः सन्दर्भेण प्रयुक्तः **अभि** इति शब्दः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञकः भवति, तथा च तस्य योगे विद्यमानस्य ग्रामपदार्थस्य निर्देशार्थम् **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन द्वितीया विभक्तिः उपयुज्यते ।
  • 2. रामः रावणम् **अभि** शरान् क्षिपति । रामः रावणस्य दिशि (रावणं लक्ष्यीकृत्य) शरान् क्षिपति - इत्यर्थः ।
  • 3. शलभाः अग्निम् **अभि** पतन्ति । शलभाः अग्निं चिह्नीकृत्य तस्य दिशि एव डयन्ते - इति आशयः ।
  • 4. वृक्षम् **अभि** विद्योतते विद्युत् । विद्युत् वृक्षस्य दिशि विद्योतते - इत्यर्थः ।
    2. **इत्थम्भूताख्यानम्** अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा **इत्थम्भूताख्यानम्** इति शब्दस्य अर्थः व्याख्यानेषु कञ्चित् प्रकारम् आपन्नम् इत्थम्भूतम्, तस्य आख्यानम् इत्थम्भूताख्यानम् - इति दीयते । सरलभाषायाम्, कस्यचित् विषयस्य सन्दर्भेण प्राप्ता स्थितिः **इत्थम्भूतम्** नाम्ना ज्ञायते, तथा च अस्याः स्थितेः ज्ञापनम् **इत्थम्भूताख्यानम्** इत्यनेन निर्दिश्यते । एतादृशस्य इत्थम्भूताख्यानस्य निर्देशार्थम् प्रयुक्तस्य **अभि** इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति, तथा यस्य विषयस्य सन्दर्भेण इयं स्थितिः भवति तस्य निर्देशार्थम् ****कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन द्वितीयाविभक्तिः प्रयुज्यते** । कानिचन उदाहरणानि एतानि -
  • 1. मातरम् **अभि** साधु । कस्यचन देवदत्तस्य मनसि मातुः विषये साधुभावः विद्यते चेत्, अत्र - (1) **विषयः** = मातृपदार्थः, (2) **स्थितिः** = साधुत्वम्, (3) **इत्थम्भूतम्** = मातुः विषये साधुभावः, तथा च (4) **इत्थम्भूताख्यानम्** = मातुः विषये साधुभावस्य निर्देशः । अस्यैव इत्थम्भूताख्यानस्य निर्देशार्थम् अत्र प्रयुक्तः **अभि** इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । अपि च, विषयस्य (इत्युक्ते "मातृ"पदार्थस्य) निर्देशार्थम् **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन द्वितीयाविभक्तिः उपयुज्यते, अतश्च अत्र वाक्ये "मातरम्" इति प्रयोगः कृतः अस्ति ।
  • 2. हरिम् **अभि** भक्तः । हरेः विषये कस्यचन देवदत्तस्य मनसि विद्यमानायाः भक्तेः आख्यानम् अत्र कर्मप्रवचनीयशब्देन कृतम् अस्ति ।
  • 3. दुर्योधनम् **अभि** क्रुद्धः । दुर्योधनस्य विषये भीमस्य मनसि विद्यमानस्य क्रोधस्य आख्यानम् अत्र कर्मप्रवचनीयशब्देन क्रियते ।
    3. **वीप्सा** अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा **वीप्सा** इति शब्दस्य अर्थः व्याख्यानेषु पदार्थान् व्याप्तुम् इच्छा वीप्सा - इति दीयते । सरलभाषायाम्, यदा **एका एव क्रिया एकप्रकारस्य सर्वेषाम् अपि वस्तूनां कृते भवति**, तदा तस्याः निर्देशः **वीप्सा** इत्यनेन क्रियते । अस्याः वीप्सायाः सन्दर्भेण **अभि** इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति, तथा च **येषाम् पदार्थानां विषये वीप्सा उच्यते**, तेषां निर्देशः **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन द्वितीयाविभक्त्या क्रियते । किञ्च, **नित्यवीप्सयोः** (8.1.4) इत्यनेन **एतेषां शब्दानां द्वित्वम् अपि विधीयते** । द्वे उदाहरणे एते -
  • 1. वृक्षं वृक्षम् **अभि** सिञ्चति । अत्र प्रत्येकं वृक्षस्य सन्दर्भेण सिञ्चनक्रिया कृता अस्ति, अतः वृक्षपदार्थस्य निर्देशः **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन द्वितीयाविभक्त्या भवति । किञ्च, **नित्यवीप्सयोः** (8.1.4) इत्यनेन वृक्षपदार्थस्य द्वित्वम् अपि कृतम् अस्ति । कर्मप्रवचनीयसंज्ञकः अभिशब्दः अत्र अस्याः वीप्सायाः क्रियया सह सम्बन्धं प्रदर्शयितुम् प्रयुज्यते ।
  • 2.गृहं गृहम् **अभि** पश्यति । अत्र प्रत्येकं गृहस्य विषये दर्शनक्रिया कृता अस्ति इति आशयः वर्तते । **सूत्रे प्रयुक्तस्य **अभागे ** इति शब्दस्य अर्थः** प्रकृतसूत्रे विद्यमानस्य **अभागे** इति पदस्य अन्वयः पूर्वसूत्रे विद्यमानेन **लक्षणेत्थम्भूताख्यानभागवीप्सासु ** इति शब्देन सह भवति । पूर्वसूत्रे **लक्षणेत्थम्भूताख्यानभागवीप्सासु ** इति शब्देन **लक्षणम्**, **इत्थम्भूताख्यानम्**, **भागः** तथा च **वीप्सा** - एते ये चत्वारः विषयाः उक्ताः सन्ति, तेभ्यः **भागः इति विषयं वर्जयित्वा अन्येषाम् विषयाणाम् सन्दर्भेण अभि-शब्दस्य कर्मप्रवचनीयसंज्ञा भवति**, इति स्पष्टीकर्तुम् प्रकृतसूत्रे **अभागे** इति पदं स्थापितम् वर्तते । भागस्य सन्दर्भेण प्रयुक्तस्य "अभि"-शब्दस्य कर्मप्रवचनीयसंज्ञा न भवति - इति अत्र आशयः । यथा, यद् अत्र मम अभिष्यात् तद् दीयताम् अस्मिन् वाक्ये भागस्य सन्दर्भे प्रयुक्तस्य "अभि"-शब्दस्य कर्मप्रवचनीयसंज्ञा न भवति, अतश्च तस्य उपसर्गसंज्ञां कृत्वा **उपसर्गप्रादुर्भ्यामस्तिर्यच्परः** (8.3.87) इत्यनेन सकारस्य षत्वम् अपि कृतं दृश्यते । **कर्मप्रवचनीयसंज्ञकः अभि-शब्दः अत्र **सम्बन्धस्य** द्योतकः** प्रकृतसूत्रेण उक्तः अभि इति कर्मप्रवचनीयसंज्ञकः **लक्षणादीन् अर्थान् नैव निर्दिशति**, अपितु **सम्बन्धमात्रस्य निर्देशं करोति**। यथा - 1. लक्षणम् - वृक्षम् अभि विद्योतते विद्यत् इत्यत्र **लक्षणम्** "वृक्ष"पदार्थः अस्ति । अभि इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र ** वृक्षस्य विद्युता सह विद्यमानः लक्ष्यलक्षणसम्बन्धः** ज्ञाप्यते । 2. इत्थंभूताख्यानम् - मातरम् अभि साधु इत्यत्र **इत्थम्भूताख्यानम्** "मातृसम्बन्धी साधुत्वनिर्देशः" इति अस्ति । अभि इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र ** माता तथा साधुत्वभावः एतयोर्मध्ये विद्यमानः विषयविषयिभावसम्बन्धः ** ज्ञाप्यते । 3. वीप्सा - वृक्षं वृक्षम् अभि सिञ्चति इत्यत्र **वीप्सायाः निर्देशः** "द्वित्वेन" कृतः अस्ति । अभि इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र **वृक्षः तथा च सेचनक्रिया इत्येतयोर्मध्ये विद्यमानः साध्यसाधनभावसंबंधः ** ज्ञाप्यते । **प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्** प्रकृतसूत्रेण पाठिता कर्मप्रवचनीयसंज्ञा **द्वितीयाविभक्तिविधानार्थम्** तथा च **उपसर्गसंज्ञाप्रतिषेधार्थम्** प्रयुज्यते । तदित्थम् - वृक्षं वृक्षम् **अभि** सिञ्चति इत्यस्मिन् वाक्ये प्रति इत्यस्य कर्मप्रवचनीयत्वात् तस्य योगे विद्यमानस्य "वृक्ष"शब्दस्य **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन द्वितीया विभक्तिः भवति । किञ्च, अस्यैव अभि इत्यस्य कर्मप्रवचनीयत्वात् एकसंज्ञाधिकारेण तस्य उपसर्गत्वं प्रतिषिध्यते, येन **उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ** (8.3.65) इत्यनेन "सिञ्चति" इत्यस्य सकारस्य अनिष्टं षत्वम् अपि न भवति । **लक्षणस्य सन्दर्भेण अभि इत्यनेन सह अव्ययीभावसमासः** लक्षणस्य सन्दर्भेण अभि इति कर्मप्रवचनीयस्य **लक्षणेनाभिप्रती आभिमुख्ये** (2.1.14) इत्यनेन विकल्पेन अव्ययीभावसमासः अपि सम्भवति । यथा - "अग्निम् अभि शलभाः पतन्ति" इत्यत्र "अग्निः" इत्यस्य "अभि" इत्यनेन सह अव्ययीभावसमासं कृत्वा अभ्यग्निं शलभाः पतन्ति इति प्रयोगः अपि सम्भवति । एवमेव "ग्रामम् अभि गच्छति" इत्यत्र विकल्पेन अव्ययीभावसमासं कृत्वा अभिग्रामं गच्छति इति प्रयोगः सिद्ध्यति । **लक्षणादिषु एव किमर्थम्?** यत्र अभि इति शब्दः लक्षणादीन् त्रीन् अर्थान् विहाय अन्येषु अर्थेषु प्रयुज्यन्ते, तत्र प्रकृतसूत्रेण तस्य कर्मप्रवचनीयसंज्ञा न भवति । यथा -
  • 1. जलेन अभिषिञ्चति इत्यत्र अभि इत्यस्य **सर्वतः** इत्यस्मिन् अर्थे प्रयोगः कृतः अस्ति । अयम् अर्थः लक्षणादिभ्यः भिन्नः, अतः अस्मिन् अर्थे "अभि" इत्यस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा न भवति । अपितु, अत्र "अभि" इत्यस्य उपसर्गसंज्ञा भवति, यस्य सामर्थ्यात् **उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ** (8.3.65) इत्यनेन "सिञ्चति" इत्यस्य सकारस्य षत्वम् अपि कृतं दृश्यते ।
  • 2. यद् अत्र मम अभिष्यात् तद् दीयताम् अस्मिन् वाक्ये अभि इत्यस्य **भागः** अस्मिन् सन्दर्भे प्रयोगः कृतः अस्ति । अस्मिन् सन्दर्भे अस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा न भवति; अतश्च तस्य उपसर्गसंज्ञां कृत्वा **उपसर्गप्रादुर्भ्यामस्तिर्यच्परः** (8.3.87) इत्यनेन सकारस्य षत्वम् अपि कृतं दृश्यते । Vasu English Summary -------------------- The word अभि is कर्म-प्रवचनीय when used in the above senses of 'in the direction of', 'as regards', and 'each severally', but not when it means 'division', 'share of'. Vasu English Translation ------------------------ The word अभि is कर्म-प्रवचनीय when used in the above senses of 'in the direction of', 'as regards', and 'each severally', but not when it means 'division', 'share of'. The illustrations given under the last *sutra* *mutus* *mutandi* apply here also, with the exception of those given under head (4). As वृक्षमभि विद्योतते; मातरमभि &c. But it is not *karma*-*pravachaniya* when भाग is meant. भाग means the share which is allotted to one as his own. As यदत्रममाभिष्यात् तद् दीयताम् give that which falls here to my share. Here *abhi* is an *upasarga*, and therefore स of स्य is changed into ष. Kashika ------- लक्षणादिष्वेव भागवर्जितेष्वभिः कर्मप्रवचनीयसंज्ञो भवति। वृक्षमभि विद्योतते। साधुर्देवदत्तो मातरमभि। वृक्षंवृक्षमभि सिञ्चति । अभाग इति किम्? भागः स्वीक्रियमाणोऽशः। यदत्र ममाभिष्यात् तद् दीयताम्। यदत्र मम भवति तद् दीयतामित्यर्थः॥ Siddhanta Kaumudi ----------------- भागवर्जे लक्षणादावभिरुक्तसञ्ज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिमभि । देवं देवमभि सिञ्चति । अभागे किम् ? यदत्र ममाभिष्यात्तद्दीयताम् ॥ Balamanorama ------------ **अभिरभागे** - अभिरभागे । लक्षणादाविति । आदिना इत्थम्भूताख्यानवीप्सयोः सङ्ग्रहः । लक्षणे उदाहरति — हरिमभि वर्तत इति । जयः क्वेति प्रश्ने इदमुत्तरम् । लक्ष्यभावोऽभिद्योत्यो द्वितीयार्थः । हरिलक्ष्यो जय इत्यर्थः । भक्तो हरिमभीति । इत्थम्भूताख्याने उदाहरणमिदम् । विषयतासंबन्धोऽभिद्योत्यो द्वितीयार्थः । हरिविषयकभक्तिमानित्यर्थः । वीप्सायामुदाहरति-देवं देवमभि सिञ्चतीति । कार्त्स्न्यसंबन्धात्मिका व्याप्तिर्द्वितीयार्थः, अभिद्योत्यश्च । कृत्स्नं देवमभि सिञ्चतीत्यर्थः । षत्वाऽभावादिपूर्ववत् । यदत्रेति । बहूनां द्रव्यं तण्डुलादि यत्र संसृष्टं तत्रेदं वाक्यम् । स्वस्वाभिभावः षष्ठर्थः । अभिस्तद्द्योतकः । अत्र संसृष्टद्रव्ये यद्वस्तु मम स्वभूतं स्यात्तन्मह्रं दीयतामित्यर्थः । स्यादित्यस्तेर्लिङि रूपम् । अत्र मम भाग इत्यर्थतः पर्यवसानादभाग इति कर्मप्रवचनीयत्वपर्युदासादुपसर्गत्वस्य निर्बाधत्वात्उपसर्गप्रादुभ्र्यामस्तिर्यच्परः॑ इति षत्वम् । Tattvabodhini ------------- **अभिरभागे** - ममाऽभिष्यादिति । मम भागः स्यादित्यर्थः । प्राञ्चस्तु -मामभिष्यादिति प्रत्युदाहरन्ति, तत्र प्राप्नुयादित्यर्थः । उपसर्गवशेनाऽस्तेः सकर्मकत्वान्मामिति द्वितीया । अत्र च मम भाग इत्यर्थतः पर्यवसानात्अभागे॑इति कर्मप्रवचनीयत्वे निषिद्धेउपसर्ग प्रादुभ्र्या॑मिति षत्वम् । Padamanjari ----------- अभागैति किमिति। अभिधेयं प्रयोजनं च परिज्ञातुं प्रश्नः। अत एवोभयं दर्शयति । भागः स्वीक्रियमाणाआऽशः। यदत्र ममाभिष्यादिति। ननु अन्वर्थसंज्ञाविज्ञानादेवात्र न भविष्यति, संप्रत्येव ह्यसौ विभजनक्रियां द्योतयति? प्रत्यादीनामपि तर्हि न स्याद्? वचनाद्भविष्यति। अभेरपि तर्हि प्राप्नोति, तस्माद् ठभागेऽ इति वक्तव्यम्, तत्रोपसर्गत्वात् ठुपसर्गप्रादुर्भ्यामस्तिर्यच्परःऽ इति षत्वम्। अथैवं कस्मान्न कृतम् -'लक्षणेत्थंभूताख्यानवीप्सास्वभिः, प्रतिपरी भागे च, चकाराल्लक्षणादिषु च, अनुर्लक्षणतृतीयार्थयोश्च, चकाराद्भागे लक्षणादिषु च, ततो हीने, उपो' धिके चऽ; इत्येवं हि द्विरनोर्ग्रहणम्, अभाग इति च न वक्तव्यं भवति। एवं हि द्विश्चग्रहणं क्रियते इति पदयोः साम्यम्, अक्षरलाघवं तु नाद्दतम्॥ Nyaas ----- `यदत्र मामाभिष्यात्` इति। **श्नसोरल्लोपः** (6.4.111) इत्यकारलोपः। कर्मप्रवचनीयसंज्ञाया अभावदुपसर्गत्वमस्त्येव। तेन `उपसर्गप्रादुभ्र्यामस्तिर्यच्परः` (8.3.87) इति षत्वम्। `माम्` इति। यद्यप्यस्तिरकर्मकस्तथाप्यकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति कर्मणि द्वितीया (2.3.2) ननु चाभिशब्दो भागसम्बन्धस्य द्योतक इति तेनास्तेः सम्बन्धो नास्ति; तत्कथं सकर्मकता? नैतदस्ति; अस्ति सम्बन्धद्वारेण ह्रभिशब्दो भागसम्बन्धं द्योतयति, अन्यथा हि यदि तस्यास्तिना योगो न स्यात् तदोपसर्गसंज्ञापि न स्यात्। ततश्चोपसर्गसंज्ञानिबन्धनमभिष्यादिति षत्वमपि न स्यात्॥ Praudhamanorama --------------- **ममाभिष्यादिति।** मम भागः स्यादित्यर्थः। मामभिष्यादित्यपि प्राञ्चः प्रत्युदाहरन्ति। तत्र मां प्राप्नुयादित्यर्थः। उपसर्गवशेन अस्तेः सकर्मकत्वान्मामिति द्वितीया, अत्र च मम भाग इत्यर्थतः पर्यवसानात्। अभागे इति कर्मप्रवचनीयत्वे निषिद्धे 'उपसर्गप्रादुर्भ्याम्' इति षत्वम्। Prakriyasarvasvam ----------------- भागवर्जितेषु लक्षणाद्यर्थेष्वभिरुक्ताख्यः । व्रजमभि गतः । हरमभि भक्तिमान् । गोपं गोपमभि ब्रूते ।। Sutra Prayogas -------------- * **अभिचैद्यम्** (शिशुपालवधम्): `अभिरभागे` इति कर्मप्रवचनीयत्वे । * **प्रियमभि** (शिशुपालवधम्): `अभिरभागे` इत्यभेर्लक्षणार्थे कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । * **वल्लभानभि** (शिशुपालवधम्): `अभिरभागे` इति लक्षणार्थकर्मप्रवचनीयत्वाद्द्वितीया। * **हरिबोधिसत्वमभि** (शिशुपालवधम्): `अभिरभागे` इत्यभेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया। * **अभि** (भट्टिकाव्यम्): `अभिरभागे` इति कर्मप्रवचनीयत्वम्।