14089: आङ् मर्यादावचने ====================== **Padacheda:** आङ् | S | 1 | 1 | मर्यादावचने | S | 7 | 1 | Sutrartha --------- **"मर्यादा" तथा "अभिविधिः" एतयोः अर्थयोः प्रयुक्तस्य "आङ्" इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति । यथा, आ पाटलिपुत्राद् वृष्टो देवः। आ कुमारं यशः पाणिनेः।** **कर्मप्रवचनीयाः** (1.4.83) अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं षष्ठं सूत्रम् । ****आङ्** इति शब्दस्य **मर्यादा** उत **अभिविधिः** अस्मिन् अर्थे यदा प्रयोगः भवति तदा तस्य **कर्मप्रवचनीयसंज्ञा** भवति** इति अस्य सूत्रस्य आशयः । एतादृशस्य कर्मप्रवचनीयस्य योगे **सीमावाचकशब्दस्य** **पञ्चम्यपाङ्परिभिः** (2.3.8) इत्यनेन **पञ्चमी विभक्तिः** भवति । क्रमेण विवरणम् एतादृशम् - 1. **मर्यादा** अस्मिन् अर्थे आङ्-शब्दस्य प्रयोगः **मर्यादा** इति शब्दस्य अर्थः - "सा सीमा यस्याः ग्रहणं न भवति" (A boundary that is excluded) इति अस्ति । यथा, यदि पाटलीपुत्रप्रदेशं यावत्, परन्तु पाटलीपुत्रप्रदेशं विना अन्यत्र वर्षा जाता, तर्हि "पाटलीपुत्रम्" इति वर्षायाः **मर्यादा** अस्ति इति वक्तुं शक्यते । अस्याः मर्यादायाः निर्देशार्थम् यदा आङ् इति शब्दः प्रयुज्यते, तदा प्रकृतसूत्रेण तस्य **कर्मप्रवचनीयसंज्ञा** भवति, तथा च अस्य कर्मप्रवचनीयस्य योगे **सीमावाचकशब्दस्य** (इत्युक्ते, "पाटलीपुत्र" इति शब्दस्य) **पञ्चम्यपाङ्परिभिः** (2.3.8) इत्यनेन **पञ्चमीविभक्त्या ** निर्देशः भवति । यथा - आ पाटलीपुत्रात् वृष्टः देवः इति । एवमेव, आ मुक्तेः संसारः इत्यत्रापि आङ् इति मर्यादार्थे प्रयुक्तः अस्ति अतः अस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च "मुक्तेः" इति सीमावाचकशब्दस्य पञ्चमी विधीयते । 2. **अभिविधिः** अस्मिन् अर्थे आङ्-शब्दस्य प्रयोगः **अभिविधिः** इति शब्दस्य अर्थः - "सा सीमा यस्याः ग्रहणं भवति" (A boundary that is included) इति अस्ति । यथा, यदि भोजस्य राज्यं सागरपर्यन्तम् अस्ति, किञ्च सागरः अपि भोजस्य राज्ये एव परिगण्यते, तर्हि तत्र "सागरः" इति भोजराज्यस्य **अभिविधिः** अस्ति इति वक्तुं शक्यते । अस्याः अभिविधेः निर्देशार्थम् यदा आङ् इति शब्दः प्रयुज्यते, तदा प्रकृतसूत्रेण तस्य **कर्मप्रवचनीयसंज्ञा** भवति, तथा च अस्य कर्मप्रवचनीयस्य योगे **सीमावाचकशब्दस्य** (इत्युक्ते, "सागर" इति शब्दस्य) **पञ्चम्यपाङ्परिभिः** (2.3.8) इत्यनेन **पञ्चमीविभक्त्या ** निर्देशः भवति । यथा - आ सागरात् भोजस्य राज्यम् । एवमेव, आ कुमारात् यशः पाणिनेः इत्यत्रापि आङ् इति अभिविधिं दर्शयितुम् प्रयुक्तः अस्ति । पाणिनेः यशः कुमारवयस्काः अपि जानन्ति - इति अत्र आशयः । अत्र अभिविधौ प्रयुक्तस्य आङ् इत्यस्य अस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च तस्य योगे "कुमारात्" इति सीमावाचकशब्दस्य पञ्चमी विधीयते । आ सकलात् ब्रह्म इति तृतीयम् उदाहरणम् अपि एतादृशम् एव अवधेयम् । किञ्च, अष्टाध्याय्यां **आ कडारात् एका संज्ञा** (1.4.1), **आ च त्वात्** (5.1.120) इत्येतयोः सूत्रयोः प्रयुक्तः इति शब्दः अपि **अभिविधिः** अस्मिन् अर्थे एव प्रयुक्तः अस्ति । 1. तत्त्वबोधिनीकारः तेन विना मर्यादा, तेन सह अभिविधिः इति मर्यादा-अभिविध्योः व्याख्यां ददाति । **तेन विना** इत्युक्ते सीमावाचकपदार्थं विना यत्र अवशिष्टस्य निर्देशः भवति, तत्र **मर्यादा** अस्ति इति स्वीक्रियते । एवमेव **तेन सह** इत्युक्ते सीमावाचकपदार्थेन सह यत्र सर्वस्य निर्देशः भवति, तत्र **अभिविधिः** अस्ति इति स्वीक्रियते । 2. आङ् इत्यत्र विद्यमानः ङकारः इत्संज्ञकः अस्ति । अस्य प्रक्रियासु प्रारम्भे एव लोपः भवति । अतः प्रयोगे केवलम् इत्येव श्रूयते । 3. आ सागरात् भोजस्य राज्यम् इत्यादिकं वाक्यमात्रं दृष्ट्वा - *अत्र आङ् इति मर्यादार्थे अस्ति उत अभिविध्यर्थे* - इति प्रायेण स्पष्टम् नैव भवेत् । अतः सन्दर्भं दृष्ट्वा एव अस्य निर्णयः करणीयः । **प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्** प्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति - ****पञ्चम्यपाङ्परिभिः** (2.3.10) इत्यनेन सीमावाचकपदार्थस्य पञ्चमीविभक्त्या** निर्देशः - इति । अतएव आ पाटलीपुत्राद् वृष्टो देवः इत्यत्र "पाटलीपुत्रात्" इति, तथा च आ कुमारात् यशः पाणिनेः इत्यत्र "कुमारात्" इति पञ्चमीविभक्तिः प्रयुक्ता अस्ति । **वाक्यस्य विकल्पेन अव्ययीभावसमासः** प्रकृतसूत्रेण आङ् इति शब्दस्य कर्मप्रवचनीयसंज्ञायां लब्धायाम्, वाक्ये यदा **पञ्चम्यपाङ्परिभिः** (2.3.8) इत्यनेन अस्य योगे पञ्चम्यन्तशब्दस्य प्रयोगः भवति, तदा अग्रे आङ् इत्यस्य तेन पञ्चम्यन्तेन सह **आङ् मर्यादाभिविध्योः** (2.1.13) इत्यनेन विकल्पेन **अव्ययीभावः समासः** अपि कर्तुं शक्यते । यथा, आ कुमारात् इत्यत्र "आ" तथा "कुमारात्" एतयोः मध्ये समासं कृत्वा "आकुमार" इति अव्ययं सिद्ध्यति । अग्रे **नाव्ययीभावादतोऽम्त्वपञ्चम्याः** (2.4.83) इत्यनेन अस्मात् विहितस्य **सुँ**-प्रत्ययस्य **अम्**-आदेशे कृते **आकुमारम्** इति शब्दः सिद्ध्यति । अतएव प्रकृतसूत्रे काशिकाकारः आकुमारं यशः पाणिनेः इति उदाहरति । एवमेव मर्यादायाः सन्दर्भेण अपि आ पाटलीपुत्रात् = **आपाटलीपुत्रम्** इति प्रयोगः अपि अवश्यम् एव सिद्ध्यति । **मर्यादावचने इति किमर्थम् ?** आङ् इत्येतत् अव्ययं भाषायाम् आहत्य चतुर्षु सन्दर्भेषु प्रयुक्तं दृश्यते -
  • 1. **ईषदर्थे** । यथा - ईषद् उष्णम् (किञ्चित् उष्णम्) = आ + उष्णम् = "ओष्णम्" ।
  • 2. **उपसर्गार्थे** । यथा - "आगच्छति" ।
  • 3. **मर्यादार्थे** । यथा - "आ पाटलीपुत्रात्" ।
  • 4. **अभिविध्यर्थे** । यथा - "आ कुमारात्" । एतेभ्यः **केवलम् **मर्यादा** तथा च **अभिविधिः** - एतयोः अर्थयोः प्रयुक्तस्य आङ् इत्यस्यैव कर्मप्रवचनीयसंज्ञा भवति ** - इति स्पष्टीकर्तुम् एव प्रकृतसूत्रे **मर्यादावचने** इति शब्दः प्रयुक्तः अस्ति । अत्र **मर्यादावचनम्** इत्यनेन **मर्यादा इति शब्दः यत्र विद्यते तस्य सूत्रस्य, इत्युक्ते **आङ् मर्यादाभिविध्योः** (2.1.13) इति सूत्रस्य निर्देशः भवति** । अस्मिन् सूत्रे निर्दिष्टौ **मर्यादा** तथा च **अभिविधिः** इति यौ द्वौ अर्थौ, तयोः सन्दर्भः एव प्रकृतसूत्रे अपि स्वीकर्तव्यः - इति ज्ञापयितुम् एव प्रकृतसूत्रे **मर्यादावचने** इति शब्दः स्थापितः अस्ति । **आङ् इति अव्ययं यदामर्यादायाः अभिविधेः वा निर्देशार्थं प्रयुज्यते, तदा प्रकृतसूत्रेण तस्य कर्मप्रवचनीयसंज्ञा भवति ** - इति एव अस्य आशयः । Vasu English Summary -------------------- The word आङ् 'as far as', is कर्म-प्रवचनीय when it expresses limit (e.g. when it means 'as far as inclusive of' or 'as far as exclusive of'). Vasu English Translation ------------------------ The word आङ् 'as far as', is कर्म-प्रवचनीय when it expresses limit (e.g. when it means 'as far as inclusive of' or 'as far as exclusive of'). The word वचन in the text shows that both sorts of limits are here meant. As आपाटलिपुत्राद् वृष्टो देवः it rained as far as (but excluding) *Pataliputra* आपाटलिपुत्रं वृष्टो देवः it rained as far as (including) *Pataliputra* आकुमारं यशः पाणिनेः आसांकाश्यात्, आमथुरायाः when it means 'little' or is a verbal prefix it does not get this name. Bhashya ------- आङ् मर्यादावचने आङ्मर्यादाऽभिव्रिध्योः ॥ 1 ॥ आङ्मर्यादाऽभिविध्योरिति वक्तव्यम् । इहापि यथा स्यात् - आकुमारं यशः पाणिनेरिति ॥ तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । मर्यादावचने इत्येव सिद्धम् । एषाऽस्य यशसो मर्यादा ॥ 89 ॥ Kashika ------- आङित्येष शब्दो मर्यादावचने कर्मप्रवचनीयसंज्ञो भवति। अवधिर्मर्यादा। वचनग्रहणादभिविधिरपि गृह्यते। आ पाटलिपुत्राद् वृष्टो देवः। आ कुमारं यशः पाणिनेः। आ सांकाश्यात्। आ मथुरायाः। मर्यादावचन इति किम्? ईषदर्थ क्रियायोगे च मा भूत्॥ Siddhanta Kaumudi ----------------- आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ॥ Balamanorama ------------ **आङ् मर्यादावचने** - आङ्मर्यादावचने । उक्तसंज्ञ इति । कर्मप्रवचनीयसंज्ञक इत्यर्थः । ननुआङ्मर्यादायामि॑त्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह — वचनग्रहणादिति । तेन विनेति मर्यादा । तेन सहेत्यभिविधिः । मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम्=आङ्मर्यादाभिविध्योः॑ इति सूत्रम् । तत्र य आङ् दृष्टः स कर्मप्रवचनीयसंज्ञकः स्यादित्यर्थः । तथाच मर्यादिभिविध्योराङ् कर्मप्रवचनीय इति फलतीति भावः । Padamanjari ----------- मर्या मरणधर्माणो मनुष्याः, औणदिको यप्रत्ययः, तैरादीयते मर्यादा, ठातश्चोपसर्गेऽ इत्यङ्प्रत्ययः। अवधिर्मर्यादेति। ननु यत्रावधिः कार्येण युज्यते सोऽभिविधिः, यत्र न सा मर्यादा; अवधिस्तु साधारणं तत्काथमवधिर्मर्यादा? नायमत्रार्थो योऽवधिः सा सर्यादेति, किं तर्हि? या मर्यादा सोऽवधिरित्यर्थः। वचनग्राणदिति। इह मर्यादायामिति वाच्ये वचनग्रहणं क्रियते, तस्यैतत्प्रयोजनमेवं यथा विज्ञायेत - उच्यतेऽस्मिन्निति वचनम्, मर्यादाया वचनमिति कर्मणि षष्ठयाः समासः। मर्यादाशब्दो यत्रोच्यते ठाङ्मर्यादाभिविध्योःऽ इति तस्याङे ग्रहणम्, स चाभिविधिवृत्तिरपीत्यत्राप्यभिविधेर्ग्रंहणं भवति। यद्वा - वचनग्रहणसामर्थ्यादवान्तरभेदो न विवक्ष्यते, अवधिमात्रं गृह्यते। आ मथुराया इति। वृष्टो देव इत्यपेक्ष्यते,'मन्थ विलोडने' औणादिकः कुरच् प्रत्ययः। ईषदर्थे क्रियायोगे च मा भूदिति। वाक्यस्मरणयोस्त्वङित्वादेवाप्रिसङ्गः, तत्रेषदर्थे आ कडारः पञ्चमी न भवति, क्रियायोगे समाहार इति'गतिर्गतौ' इति निघातो भवति॥ Nyaas ----- यत्राङो मर्यादायामभिविधौ च कार्यमिच्छति तत्रोभयोरपि ग्रहणं करोति, यथा - **आङ् मर्यादाभिविध्योः** (2.1.13) इत्यादि। इह तु मर्यादाग्रहमेव कृतम्, नाभिविधिग्रहणम्, अतोऽभिविधावनया संज्ञया न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - `वचनग्रहणात्` इत्यादि। वचनग्रहणे हि सति बहुव्रीहिर्लभ्यते। `मर्यादा` इत्येतद्वचनं यत्र सूत्रे तन्मर्यादावचनम्। तत्रायमर्थो भवति - यत्र मर्यादाग्रहणमस्त सूत्रे, तत्र य आङ स कर्मप्रवचनीयसंज्ञो भवति। तत्पुनः सूत्रम् - **आङ् मर्यादाभिविध्योः** (2.1.13) इत्येतत् - तत्र चाङ मर्यादाभिविध्योर्वर्तमान उपात्त इत्युभयत्रापि भवति।कः पुनर्वर्जनस्य मर्यादाश्च विशेषः, येन पूर्वसूत्रे वर्जनमभिधायेह मर्यादाग्रहणं करोति? अयमस्ति विशेषः - वर्जने हि तत्परित्यागेनान्यत्र सामान्येन वर्षणादिना सम्बन्धो गम्यते, यथा - आ त्रिगर्तेभ्यो वृष्टो देव इति, अत्र हि यस्यां दिशि व्यवस्थितो वक्तेदं वाक्यं प्रयुङ्क्ते तस्यां दिशि यो देशो यस्तथान्यासु दिक्षु तत्र सर्वत्रैव त्रिगर्तान्? वर्जयित्वा वृष्ट इति गम्यते। मर्यादायां त्विदं वाक्यं प्रयुङक्ते - आ पाटलिपुत्राद्वृष्टो देव इति, तत्सम्बन्धिन्यामेव दिशि यो व्यवस्थितो देशस्तस्य देशस्य वर्षणेन सम्बन्धरः प्रतीयत इत्येष विशेषः।`ईषदर्थे क्रियायोगे मा भूत्` इति। ईषदर्थ आकडार इति। क्रियायोगे समाहरतीति। पूर्वत्र संज्ञाया अभावात्पञ्चमी न भवति। इतरत्र **गतिर्गतौ** (8.1.70) इति निघातो भवति। यस्तु वाक्यस्मरणयोराकारो वर्तते, तस्याङित्त्वादिह ङकारोच्चारणादेव संज्ञाया अप्रसक्तिः॥ Praudhamanorama --------------- **वचनग्रहणादिति।** सामर्थ्यादवधिमात्रं विवक्ष्यते। तेन विनेति विशेषणांशस्तु नेति भावः। यद्वा— मर्यादेति शब्द उच्यतेऽस्मिंस्तन्मर्यादावचनम्— 'आङ्मर्यादाभिविध्योः' इति सूत्रम्, तत्र य आङ् दृष्टः स उक्तसंज्ञ इत्यर्थः। Prakriyasarvasvam ----------------- मर्यादायामाङ्क्तसंज्ञः । 'अभिविधौ चेष्टम्' ॥ Vartika ------- आङ्मर्यादाभिविध्योरिति वक्तव्यम् । Sutra Prayogas -------------- * **आ** (भट्टिकाव्यम्): `आङ् मर्यादावचने` इति पञ्चमी।