14088: अपपरी वर्जने
===================
**Padacheda:** अपपरी | S | 1 | 2 |
वर्जने | S | 7 | 1 |
Sutrartha
---------
**"वर्जनम्" इति अर्थं द्योतयितुम् प्रयुक्तौ "अप" तथा "परि" इति शब्दौ कर्मप्रवचनीयसंज्ञकौ भवतः । यथा - अप त्रिगर्तेभ्यः वृष्टः देवः । परि त्रिगर्तेभ्यः वृष्टः देवः ।**
**कर्मप्रवचनीयाः** (1.4.83) अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं पञ्चमं सूत्रम् । ****अप** तथा **परि** इत्येतौ शब्दौ यदा **वर्जनम्** (Exclusion) दर्शयतः, तदा तयोः **कर्मप्रवचनीयसंज्ञा** भवति** इति अस्य सूत्रस्य आशयः । एतादृशस्य कर्मप्रवचनीयस्य योगे **यस्य वर्जनं कृतम्** तस्य **पञ्चम्यपाङ्परिभिः** (2.3.10) इत्यनेन **पञ्चमी विभक्तिः** भवति । उदाहरणानि एतानि -
1. अप ओदनात् भुक्तम् / परि ओदनात् भुक्तम् । ओदनं वर्जयित्वा सर्वम् भुक्तम् - इत्यर्थः । अत्र अप तथा परि इति शब्दाभ्यां ओदनस्य वर्जनम् निर्दिश्यते । एतयोः योगे "ओदन"शब्दस्य **पञ्चम्यपाङ्परिभिः** (2.3.8) इत्यनेन पञ्चमी भवति ।
2. अप त्रिगर्तेभ्यः वृष्टः देवः / परि त्रिगर्तेभ्यः वृष्टः देवः । "त्रिगर्ताः" इति जनपदं विहाय अन्येषु स्थलेषु वर्षा अभवत् - इत्यर्थः ।
3. अप दुर्योधनात् कौरवाः हताः / परि दुर्योधनात् कौरवाः हताः । दुर्योधनं विहाय अन्ये सर्वेऽपि कौरवाः हताः - इत्यर्थः ।
4. अप भानुवासरात् मिलामः / परि भानुवासरात् मिलामः । भानुवासरं विहाय अन्येषु दिनेषु मिलामः - इत्यर्थः ।
5. अप विष्णोः संसारः / परि विष्णोः संसारः । संसारे विष्णुः नास्ति - इत्यर्थः ।
**परिशब्दस्य वैकल्पिकं द्वित्वम्**
परि इति शब्दः यदा **वर्जनम् ** अस्मिन् अर्थे प्रयुज्यते, तदा **परेर्वर्जने** (8.1.5) इत्यनेन **परि-शब्दस्य द्वित्वं भवति ** । यद्यपि सूत्रम् अनुसृत्य इदं द्वित्वं नित्यमेव भवति, तथापि तस्मिन्नेव सूत्रे इति एकं वार्त्तिकं पाठ्यते, येन "इदं द्वित्वं वैकल्पिकम् अस्ति" - इति निर्दिश्यते । **यथोत्तरं मुनीनां प्रामाण्यम्** इति न्यायेन अयं विकल्पः सूत्रकृता उक्तं नित्यत्वं बाधते; अतश्च **वर्जनार्थकस्य परि-शब्दस्य विकल्पेन द्वित्वं भवति** इत्येव सिद्धान्तरूपेण स्वीकृतम् अस्ति । अतएव प्रकृतसूत्रस्य उदाहरणेषु द्वित्वविकल्पः अपि सम्भवति - परि परि ओदनात् भुक्तम्, परि परि त्रिगर्तेभ्यः वृष्टः देवः - इत्यादिकम् ।
एतादृशं द्वित्वम् केवलम् परि इत्यस्य विषये एव अस्ति, अप इत्यस्य विषये न ।
**वाक्यस्य विकल्पेन अव्ययीभावसमासः**
प्रकृतसूत्रेण अप तथा परि इति शब्दयोः कर्मप्रवचनीयसंज्ञायां लब्धायाम्, वाक्ये यदा **पञ्चम्यपाङ्परिभिः** (2.3.10) इत्यनेन एतयोः योगे पञ्चम्यन्तशब्दस्य प्रयोगः भवति, तदा अग्रे एतयोः अव्यययोः तेन पञ्चम्यन्तेन सह **अपपरिबहिरञ्चवः पञ्चम्या** (2.1.12) इत्यनेन **अव्ययीभावः समासः** अपि कर्तुं शक्यते । यथा, अप त्रिगर्तेभ्यः इत्यत्र "अप" तथा "त्रिगर्तेभ्यः" एतयोः मध्ये समासं कृत्वा " अपत्रिगर्त" इति अव्ययं सिद्ध्यति । अग्रे **नाव्ययीभावादतोऽम्त्वपञ्चम्याः** (2.4.83) इत्यनेन अस्मात् विहितस्य **सुँ**-प्रत्ययस्य **अम्**-आदेशे कृते **अपत्रिगर्तम्** इति शब्दः सिद्ध्यति । एवमेव परि त्रिगर्तेभ्यः= **परित्रिगर्तम्** इत्यपि प्रयोगः अवश्यं सिद्ध्यति ।
**प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्**
प्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति - ****पञ्चम्यपाङ्परिभिः** (2.3.10) इत्यनेन वर्जितपदार्थस्य पञ्चमीविभक्त्या** निर्देशः - इति । अतएव अप ओदनात् भुक्तम् / परि ओदनात् भुक्तम् इत्यत्र "ओदनात्" इति पञ्चमीविभक्तिः प्रयुक्ता अस्ति ।
**वर्जनम् इति किमर्थम्?**
यत्र परि उत अप एतौ शब्दौ वर्जनार्थे न प्रयुज्येते, तत्र प्रकृतसूत्रेण तयोः कर्मप्रवचनीयसंज्ञा अपि न भवति । यथा, "ओदनं परिषिञ्चति" इत्यत्र "परि" इति शब्दः **सर्वतः** इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अत्र अस्य शब्दस्य कर्मप्रवचनीयसंज्ञा न, अपि तु उपसर्गसंज्ञा भवति, येन **उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ** (8.3.65) इत्यनेन षत्वम् अपि कृतं दृश्यते । यदि अत्र "परि" इत्यस्य कर्मप्रवचनीयसंज्ञा अभविष्यत्, तर्हि तया उपसर्गसंज्ञायाः बाधः अभविष्यत्, येन षत्वम् अपि नैव समभविष्यत् । परन्तु अत्र वर्जनार्थस्य अभावात् "परि"-शब्दस्य कर्मप्रवचनीयसंज्ञा नैव भवति, येन उपसर्गसंज्ञायां प्राप्तायाम् उचितं षत्वम् अपि विधीयते ।
Vasu English Summary
--------------------
The words अप and परि are कर्म-प्रवचनीय when meaning 'exclusion'.
Vasu English Translation
------------------------
The words अप and परि are कर्म-प्रवचनीय when meaning 'exclusion'.
The force of अप and परि is in this case that of 'with the exception of.' As अपत्रिगर्त्तेभ्यो वृष्टो देवः it rained outside of or with the exception of *Trigarta*. So also परि त्रिगर्तेभ्यो वृष्टोदेवः. In this sense they govern the noun excluded in the ablative case (2.3.10). When not having these senses, they are not *karma*-*pravachaniya*. As ओदनं परिषिञ्चति. He waters the rice. Here it is an *upasarga*, and hence changes the स into ष.
Kashika
-------
अपपरी शब्दौ वर्जने द्योत्ये कर्मप्रवचनीयसंज्ञौ भवतः। प्रकृतेन संबन्धिना कस्यचिदनभिसंबन्धो वर्जनम्। अप त्रिगर्तेभ्यो वृष्टो देवः। परिपरि त्रिगर्तेभ्यो वृष्टो देवः। वर्जन इति किम्? ओदनं परिषिञ्चति॥
Siddhanta Kaumudi
-----------------
एतौ वर्जने कर्मप्रवचनीयौ स्तः ॥
Balamanorama
------------
**अपपरी वर्जने** - अपपरी वर्जने । कर्मप्रवचनीयौ स्त इति । 'कर्मप्रवचनीयाः' इत्यधिकृतस्य द्विवचनेन विपरिणाम इति भावः । वर्जने किम् । परिषिञ्चति । सर्वतः सिञ्चतीत्यर्थः । अत्रोपसर्गत्वात्उपसर्गात्सुनोती॑ति षत्वम् ।
Tattvabodhini
-------------
**अपपरी वर्जने** - अपपरी । वर्जने किम् । परिषिञ्चति । सर्वत इत्यर्थः । अत्रोपसर्गत्वात्षत्वम् । वचनग्रहणादिति । विना तेनेति मर्याद, सह तेनेत्यभिविधिरित्यत्र य उपात्तो विशेषो विशेषणांशरूपः सोऽत्र न गृह्रते, वचनग्रहणसामर्थ्यात्, किंत अवधिमात्रं विवक्ष्यते इत्यर्थद्वयसङ्ग्रहः । यद्वा मर्यादाशब्दो यस्मिन्नुच्यते तन्मर्यादा वचनं, तद्धिआङ्भार्यादाभिविध्योः॑ इति सूत्रं, तत्र य आङ् दृष्टः स उक्तसंज्ञ इत्यर्थः ।
Nyaas
-----
`प्रकृतेन सम्बन्धिना` इति। वर्षादिना। `कस्यचित्` इति। त्रिगर्तादेः। `अप त्रिगर्तेभ्यः` इति। `पञ्चम्यपाङपरिभिः` (2.3.10) इति पञ्चमी। `परि परि त्रिगर्तेभ्यः` इति। **परेर्वर्जने** (8.1.5) इति द्विर्वचनम्।`ओदनं परिषिञ्चिति` इति। सर्वतः सिञ्चतीत्यर्थः। **शे मुचादीनाम्** (7.1.59) इति नुम्। कर्मप्रवचनीयसंज्ञाया अभावादुपसर्गसंज्ञैव भवति। तेन `उपसर्गात्सुनोति` (8.3.65) इत्यादिना षत्वं भवति॥
Prakriyasarvasvam
-----------------
एते वर्जनेऽर्थे कर्मप्रवचनीयौ ।
Sutra Prayogas
--------------
* **परि-पर्युदधे** (भट्टिकाव्यम्): `अपपरी वर्जने` इति कर्मप्रवचनीयसंज्ञा।
* **अपलोकेभ्यो** (भट्टिकाव्यम्): `अप-परी वर्जने` इति कर्मप्रवचनीयसंज्ञा।