14083: कर्मप्रवचनीयाः ===================== **Padacheda:** कर्मप्रवचनीयाः | S | 1 | 3 | Sutrartha --------- **अधिकारसूत्रं संज्ञासूत्रं च इदम् । इतः परम् **अधिरीश्वरे** (1.4.97) इति सूत्रपर्यन्तं कर्मप्रवचनीयसंज्ञकाः पाठ्यन्ते ।** इदम् **संज्ञासूत्रम्** अस्ति । अनेन सूत्रेण कर्मप्रवचनीयः इति व्याकरणविशिष्टा संज्ञा दीयते । किञ्च, इदम् **अधिकारसूत्रम्** अपि अस्ति । अस्य सूत्रस्य अधिकारः **अधिरीश्वरे** (1.4.97) इति पर्यन्तं प्रचलति । अस्मिन् अधिकारे विद्यमानैः सर्वैः अपि सूत्रैः आहत्य एकादशानां शब्दानां **कर्मप्रवचनीयसंज्ञा** विधीयते । तदित्थम् - कर्मप्रवचनीयसंज्ञकशब्दाः
  • 1. अनु - **अनुर्लक्षणे** (1.4.84) , **तृतीयार्थे** (1.4.85), **हीने** (1.4.86) तथा च **लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः** (1.4.90)
  • 2. उप - **उपोऽधिके च** (1.4.87)
  • 3. अप - **अपपरि वर्जने** (1.4.88)
  • 4. परि - **अपपरि वर्जने** (1.4.88), **लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः** (1.4.90), **अधिपरी अनर्थकौ** (1.4.93)
  • 5. आङ् - **आङ् मर्यादावचने** (1.4.89)
  • 6. प्रति - **लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः** (1.4.90), **प्रति प्रतिनिधिप्रतिदानयोः** (1.4.92)
  • 7. अभि - **अभिरभागे** (1.4.91)
  • 8. अधि - **अधिपरी अनर्थकौ** (1.4.93)
  • 9. सु - **सुः पूजायाम्** (1.4.94)
  • 10. अति - **अतिरतिक्रमणे च** (1.4.95)
  • 11. अपि - **अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु** (1.4.96) **प्रादयः, उपसर्गाः, गतिसंज्ञकाः, तथा च कर्मप्रवचनीयाः** प्रादिगणे विद्यमानाः एकादश शब्दाः विशिष्टेषु सन्दर्भेषु उपरि निर्दिष्टैः सूत्रैः **कर्मप्रवचनीय**संज्ञकाः भवन्ति । एते कर्मप्रवचनीयसंज्ञकशब्दाः बहुषु स्थलेषु क्रियायोगं विना एव प्रयुक्ताः दृश्यन्ते । परन्तु यत्र ते क्रियया सह प्रयुक्ताः सन्ति तत्रापि तेषाम् **न तु उपसर्गसंज्ञा भवति, न च गतिसंज्ञा विधीयते**, यतः इयं कर्मप्रवचनीयसंज्ञा एकसंज्ञाधिकारात् उपसर्गसंज्ञां गतिसंज्ञां च बाधते । अतश्च कर्मप्रवचनीयसंज्ञकशब्दानां योगे उपसर्गविशिष्टानि, गतिसंज्ञाविशिष्टानि वा कार्याणि अपि न भवन्ति । यद्यपि कर्मप्रवचनीयसंज्ञकाः न हि उपसर्गसंज्ञकाः, न च गतिसंज्ञकाः सन्ति, तथापि ते **निपातसंज्ञकाः** अवश्यमेव सन्ति यतः तेषां विधानम् **प्राग्रीश्वरान्निपाताः** (1.4.56) अस्मिन् अधिकारे एव कृतम् अस्ति । **कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्** अष्टाध्याय्यां कर्मप्रवचनीयसंज्ञायाः द्वे प्रयोजने स्तः -
  • 1. विशिष्टविभक्तेः विधानम् - **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8), **यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी** (2.3.9), **पञ्चम्यपाङ्परिभिः** (2.3.10) तथा च **प्रतिनिधिप्रतिदाने च यस्मात्** (2.3.11) इत्येतैः चतुर्भिः सूत्रैः **कर्मप्रवचनीयसंज्ञकशब्दानां योगे विशिष्टा विभक्तिः** विधीयते । यथा, "अप त्रिगर्तेभ्यो वृष्टो देवः" अस्मिन् वाक्ये अप इति कर्मप्रवचनीयसंज्ञकशब्दस्य उपस्थितौ "त्रिगर्त" इति शब्दात् पञ्चमीविभक्तिः प्रयुक्ता अस्ति ।
  • 1. उपसर्गसंज्ञाविशिष्टस्य / गतिसंज्ञाविशिष्टस्य कार्यस्य बाधः - कुत्रचित् कर्मप्रवचनीयसंज्ञा **उपसर्गसंज्ञाविशिष्टस्य अथवा गतिसंज्ञाविशिष्टस्य कार्यस्य बाधः भवेत्** इति हेतुना अपि दत्ता अस्ति । यथा, "देवदत्तेन सु सिक्तम्" इत्यत्र "सु" इत्यस्य **कर्मप्रवचनीयसंज्ञा उपसर्गसंज्ञां बाधते** । यदि अत्र "सु" इत्यस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि **उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्** (8.3.65) इत्यनेन "सिक्त"-शब्दस्य सकारस्य अनिष्टं षत्वम् अभविष्यत् । तत् तथा मा भूत् इति हेतुना अत्र उपसर्गसंज्ञायाः बाधः इष्यते, तदर्थं च अत्र "सु" इत्यस्य कर्मप्रवचनीयसंज्ञा विधीयते । ****कर्मप्रवचनीयः** इति अन्वर्थसंज्ञा** भाष्यकारेण प्रकृतसूत्रस्य भाष्ये **कर्मप्रवचनीयः** इति शब्दस्य व्युत्पत्तेः विषये, तथा च अर्थस्य विषये अपि चर्चां कृत्वा **कर्मप्रवचनीयसंज्ञा अन्वर्थसंज्ञा अस्ति** इति विधानं कृतम् वर्तते । अस्मिन् सन्दर्भे तेन **कर्मप्रवचनीयः** इत्यत्र विद्यमानस्य **कर्म** इति शब्दस्य अर्थः **क्रिया** इति स्वीकृतः अस्ति । एवमेव, **प्रवचनीय** इत्यत्र भूते कर्तरि **अनीयर्**-प्रत्ययं मत्वा अस्य शब्दस्य **उक्तवन्तः** इति अर्थः भाष्ये दत्तः अस्ति । अनेन प्रकारेण **कर्मप्रवचनीयः** इति शब्देन **क्रियां उक्तवन्तः** इति अर्थः सिद्ध्यति । इत्युक्ते, ते शब्दाः ये इदानीं क्रियां न दर्शयन्ति परन्तु क्रियावाचकशब्दस्य स्थाने स्थापिताः वर्तन्ते (स्वस्य पूर्वस्वरूपे क्रियाम् उक्तवन्तः इत्याशयः) ते कर्मप्रवचनीयशब्दाः - इति अर्थः अत्र सिद्ध्यति । यथा, "वृक्षम् प्रति विद्योतते विद्युत्" अस्मिन् वाक्ये प्रति इति कर्मप्रवचनीयसंज्ञकशब्दः "अभिलक्ष्य" इति क्रियायाः स्थाने प्रयुक्तः अस्ति (वृक्षम् अभिलक्ष्य विद्युत् विद्योतते इति अर्थः), अत्र अत्र प्रति इति **आदौ क्रियाम् उक्तवान्** इति मत्वा तस्य कर्मप्रवचनीयसंज्ञा सिद्धा भवति । अनेन प्रकारेण भिन्नाः कर्मप्रवचनीयसंज्ञकशब्दाः एतादृशं क्रियायाः स्थाने प्रयुक्ताः दृश्यन्ते । अस्मिन्नेव विषये वाक्यपदीये द्वितीये काण्डे (वाक्यकाण्डे) 197 तः 204 इत्येतेषु श्लोकेषु भर्तृहरिणा इतोऽपि विस्तरेण विवेचनं कृतम् अस्ति । जिज्ञासवः छात्राः तत् अवश्यं द्रष्टुम् अर्हन्ति । यद्यपि भाष्यकारेण "कर्म प्रोक्तवन्तः ते कर्मप्रवचनीया:" इति अन्वर्थः दत्तः अस्ति, तथापि अयम् अर्थः केवलम् **उपलक्षणस्वरूपेण** (representative / indicatory meaning) एव स्वीकर्तव्यः । न हि सर्वेऽपि एकादश कर्मप्रवचनीयाः सर्वेषु उदाहरणेषु "कर्म प्रोक्तवन्तः" इति स्वरूपेण व्यवह्रियन्ते । यथा, "सु सिक्तं भवता" इत्यस्मिन् वाक्ये विद्यमानः "सु" इति कर्मप्रवचनीयसंज्ञकः शब्दः न हि कस्याः अपि क्रियायाः स्थाने प्रयुक्तः अस्ति । Vasu English Summary -------------------- From this point as far as aphorism (1.4.97) treated of, are to be understood as having the name of कर्म-प्रवचनीय। Vasu English Translation ------------------------ From this point as far as aphorism (1.4.97) treated of, are to be understood as having the name of कर्म-प्रवचनीय। These particles govern a substantive and qualify a verb and differ from other particles termed *upasarga* and *gati*. As सुस्तुतं भवता well praised by you. सु सिक्तं भवता you have sprinkled. Here सु is a *karma* *pravachaniya* and qualifies the sense of the verb, i. e. it is an adverb. It is not an *upasarga*, for had it been so, it would have changed the स into ष (8.3.65). The term *karma* *pravachaniya* is a big term compared with other technical terms such as, टि, घि, घु &c., which generally do not exceed more than two syllables. The word *karmapravachaniya* is not however merely a technical term; it contains within itself a definition of itself. It means that which qualities or speaks about (प्रोक्तवन्त) an action (कर्म) is so called. Bhashya ------- कर्मप्रवचनीयाः किमर्थं महती संज्ञा क्रियते ? अन्वर्थसंज्ञा यथा विज्ञायेत-कर्म प्रोक्तवन्तः कर्मप्रवचनीया इति । के पुनः कर्म प्रोक्तवन्तः ? ये संप्रति क्रियां नाहुः । के च संप्रति क्रियां नाहुः ? येऽप्रयुज्यमानस्य क्रियामाहुस्ते कर्मप्रवचनीयाः ॥ 83 ॥ Kashika ------- कर्मप्रवचनीया इत्यधिकारो वेदितव्यः। यानित ऊर्ध्वमनुक्रमिष्यामः कर्मप्रवचनीयसंज्ञास्ते वेदितव्याः। **अधिरीश्वरे** (१.४.९७) इति यावद् वक्ष्यति। कर्मप्रवचनीयप्रदेशाः — **कर्मप्रवचनीययुक्ते द्वितीया** (२.३.८) इत्येवमादयः ॥ Siddhanta Kaumudi ----------------- इत्यधिकृत्य ॥ Balamanorama ------------ **कर्मप्रवचनीयाः** - कर्मप्रवचनीयाः । इत्यधिकृत्येति ।प्राग्रीस्वरान्निपाताः॑ इति पर्यन्तमिति बोध्यम् । Tattvabodhini ------------- **कर्मप्रवचनीयाः** - कर्मप्रवचनीयाः । इत्यधिकृत्येति । रूआरात्प्रागिति बोध्यम् । गुरुसंज्ञाकरणमन्वर्थत्वाय । कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः । बाहुलकाद्भूते कर्तर्यनीयर् । तेन संप्रति क्रियां न द्योतयन्तीति लभ्यते । तथा च हरिः — ॒क्रियाया द्योतको नाऽयं सम्बन्खस्य न वाचकः । नापि क्रियापदाक्षेपी, सम्बन्धस्य तु भेदकः॑इति । तथाहिजपमनु प्रावर्ष॑दित्यत्र अनुना न क्रियाविशेषो द्योत्यते,अनुभूयते सुख॑मित्यदौ यथा । नापि षष्ठएव सम्बन्ध उच्यते, द्वितीययैवो तस्योक्तत्वात् । नापिप्रादेशं विपरिलिखति॑विमाय परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, कारकविभक्तिप्रसङ्गात् । किं तु जपसम्बन्धि वर्षणमिति द्वितीययावगतः सम्बन्धो लक्ष्यलक्षणभाव एवेत्यवगमात्सम्बन्ध एवानुना विशेषेऽवस्थाप्यते । क्विचित्तु क्रियागतविशेषद्योतकेऽपि इयं संज्ञा वचनात्प्रवर्तते ।सुःपूजायाम्॒अतिरतिक्रमणे च ॑इति यथा । उक्तसंज्ञ इति । कर्मप्रवचनीयसंज्ञ इत्यर्थः । Padamanjari ----------- वक्ष्यामाणानां संज्ञिनां बहुत्वाद्वहुवचनम्, यथा - निपाताः, कृत्या इति। क्वचितु सामान्यविवक्षयैकवचनम्,'गतिश्च' 'प्रत्ययः' ठ्कृत्ऽ इति। महासंज्ञाकरणमन्वर्थसंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् - कर्मौक्रियां प्रोक्तवन्तः कर्मप्रवचनीया इति। भूते'कृत्यल्युटो बहुलम्' इति कर्तरि कृत्यः। के च कर्म प्रोक्तवन्तः? ये प्रयुज्यमाने क्रियापदे - ठनुभूयते कम्बलःऽ इत्यादौ क्रियाविशेषं द्योतितवन्तः, न संप्रति क्रियाविशेषं द्योतयन्ति, किं तर्हि? सम्बन्धविशेषम्, तद्यथा - शाकल्यस्य संहितामनुप्रावर्षदिति। न ह्यत्रानुरनुभूयते इत्यादाविव क्रियाविशेषं द्योतयति, क्रियापदाभावात्; नापि षष्ठीवत्सम्बन्धमाचष्टे - संहितामिति; द्वितीयायास्तदर्थत्वात्। नापि क्रियापदमाक्षिपति, यथा - प्रादेशं विपरिलिखतीति, विशब्दो विमानक्रियां प्रादेशं विमाय परिलिखतीति । तथा हि - सति प्रादेशमितिवत् कारकविभक्तिप्रसङ्गः, शेषसम्बन्धस्य वा प्रतीतिप्रसङ्गः। तदेवमनुः संहिताप्रवर्षणयोर्यः शेषसम्बन्धो द्वितीयाभिहितस्तं विशेषेऽवस्थापयति। हेतुहेतुमद्भावेन रूपेण विशिष्टक्रियाजनितत्वेन वा सम्बन्धस्य तत्संनिधौ सम्प्रत्ययात् संहितामनुनिशम्य प्रावर्षदिति। उक्तं च - क्रियाया द्योतको नायं न सम्बन्धस्य वाचकः। नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः॥ इति। क्वचितु प्रवृत्तिनिमिताभावेऽपि वचनसामर्थ्यादियं संज्ञा प्रवर्तते, यथा -'सुः पूजायाम्' ठतिरतिक्रमणे चेति॥ Nyaas ----- `कर्मप्रवचीयाः` इति वक्ष्यमाणानां संज्ञिनां बहुत्वाद्बहुवचनेन निर्देशः। महत्याः संज्ञायाः करणस्यैतत्प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत - कर्म प्रोक्तवन्तः कर्मप्रवचीया इति। भूते **कृत्यल्युटो बहुलम्** (3.3.113) इति कर्तर्यनीयर्। कर्मशब्दः क्रियावचनः। के च कर्म प्रोक्तवन्तः? ये सम्प्रति क्रियां न त्वाहुः। तदेवमन्वर्थसंज्ञाकरणद्वारेण ये क्रियां द्योतितवन्तः, न तु प्रोक्तवन्तः? येत सम्प्रति क्रियां न त्वाहुः। तदेवमन्वर्थसंज्ञाकरणद्वारेण ये क्रियां द्योतितवन्तः, न तु सम्प्रति द्योतयन्ति, ते कर्मप्रवचनीयसंज्ञा भवन्तीत्युक्तं भवति। यदि सम्प्रतति न क्रियां द्योतयन्ति, किन्तर्हि? सम्बन्धविशेषम्। यथा शाकल्यस्य संहितामनुप्रावर्षखदित्यत्र हि निशमनक्रियया संहिताप्रवर्षणयोर्यः सम्बन्ध उपजनितो हेतुहेतुमद्भावलक्षणः, तमनुशब्दो द्योतयति। कर्मप्रवचनीयसंज्ञायां सत्याम् **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इति द्वितीया भवति॥ Prakriyasarvasvam ----------------- इतः परमुच्यमाना एतदाख्याः ॥