14076: मध्ये पदे निवचने च
=========================
**Padacheda:** मध्ये | S | | | 1
पदे | S | | | 1
निवचने | S | | | 1
च | S | 0 | 0 |
Sutrartha
---------
**उपश्लेषभिन्ने अर्थे "मध्ये", "पदे" तथा च "निवचने" एते शब्दाः कृ-धातोः योगे विकल्पेन गतिसंज्ञकाः भवन्ति । यथा - मध्येकृत्य, मध्ये कृत्वा । पदेकृत्य, पदे कृत्वा । निवचनेकृत्य, निवचने कृत्वा ।**
अष्टाध्याय्यां **गतिश्च** (1.4.60) इत्यतः **जीविकोपनिषदावौपम्ये** (1.4.79) इति सूत्रैः **गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं सप्तदशं सूत्रम् । ****मध्ये, पदे, **तथा च **निवचने** इति विभक्ति-प्रतिरूपकाः निपाताः यदा **उपश्लेषः** (= संयोगः / immediate contact) इति अर्थं विहाय अन्येषु अर्थेषु प्रयुज्यन्ते, तदा एतेषाम् **कृ**-धातोः योगे विकल्पेन गतिसंज्ञा भवति** । गतिसंज्ञापक्षे **कुगतिप्रादयः** (2.2.18) इत्यनेन एतयोः शब्दयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - मध्येकृत्य गच्छति (= मध्ये संस्थाप्य गच्छति , keeps something in the middle and goes इत्याशयः) । एवमेव पदेकृत्य गच्छति (= पदस्य समीपे / विशिष्टे स्थाने स्थापयित्वा गच्छति इत्यर्थः) तथा च निवचनेकृत्य गच्छति (वाणीं नियम्य गच्छति, किमपि न उक्त्वा गच्छति इत्यर्थः) । गतिसंज्ञा-अभावपक्षे गतिसमासः ल्यबादेशः च न भवत:, अतः मध्ये कृत्वा / पदे कृत्वा / निवचने कृत्वा गच्छति इति प्रयोगाः सिद्ध्यन्ति । परन्तु **संयोगः** अस्मिन् अर्थे एतेषां प्रयोगः क्रियते चेत् प्रकृतसूत्रस्य प्रयोगः न भवति। यथा शिरः पदे कृत्वा नमति (स्वशिरः अन्यस्य पदे संस्थाप्य प्रणमति इति अर्थः) इत्यत्र शिरसः पदेन सह **उपश्लेषः / संयोगः** अस्ति अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतश्च गतिसंज्ञा अपि नैव विधीयते ।
****अनत्याधानम्** इति शब्दस्य अनुवृत्तिः**
प्रकृतसूत्रे चकारग्रहणसामर्थ्यात् पूर्वसूत्रात् **अनत्याधानम्** इति शब्दः अनुवर्तते । अयं शब्दः "न अत्याधानम् इति अनत्याधानम्" इति नञ्-समासेन सिद्ध्यति । कोशेषु **अत्याधानम्** इत्यस्य अर्थः "उपरि स्थापनम्" इति दीयते । एतं अर्थं विहाय कस्मिंश्चित् अन्यस्मिन् अर्थे यत्र मध्ये, पदे उत निवचने इति शब्दाः प्रयुज्यन्ते, तत्र प्रकृतसूत्रस्य प्रयोगः भवति - इति ज्ञापयितुम् अत्र **अनत्याधाने** इति शब्दः अनुवृत्तिरूपेण स्वीक्रियते ।
****मध्ये**, **पदे** तथा च **निवचने** इति शब्दाः**
**मध्ये**, **पदे** तथा च **निवचने** एते शब्दाः विभक्तिप्रतिरूपकाः निपाताः सन्ति । मध्ये = **मध्यभागे** । पदे = **पदस्य समीपे** । निवचने = **निवचनम्** = **वचनाभावः** - एतेषु अर्थेषु एते निपातसंज्ञकाः शब्दाः अत्र निर्दिष्टाः वर्तन्ते ।
Vasu English Summary
--------------------
And the words मध्ये 'in the middle', पदे 'in the foot' and निवचने 'speechless' are optionally called गति , when कृ follows, the sense not being of placing.
Vasu English Translation
------------------------
And the words मध्ये 'in the middle', पदे 'in the foot' and निवचने 'speechless' are optionally called गति , when कृ follows, the sense not being of placing.
As मध्ये कृत्य or कृत्वा. पदे कृत्य or कृत्वा; निवचने कृत्य or कृत्वा.
But when it has the meaning of placing we have हस्तिनः पदे कृत्वा शिरः शेते he lies down having put his head under the foot of the elephant.
Kashika
-------
विभाषा कृञीति वर्तते चकारादनत्याधान इति च। मध्ये पदे निवचने इत्येते शब्दा अनत्याधाने विभाषा कृञि गतिसंज्ञा भवन्ति। मध्येकृत्य, मध्ये कृत्वा। पदेकृत्य, पदे कृत्वा। निवचनं वचनाभावः। निवचनेकृत्य, निवचने कृत्वा। वाचं नियम्येत्यर्थः। अनत्याधान इत्येव — हस्तिनः पदे कृत्वा शिरः शेते॥
Siddhanta Kaumudi
-----------------
एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येत्यर्थः ॥
Balamanorama
------------
**मध्येपदेनिवचने च** - मध्येकृत्येति । गतिसमासे क्त्वो ल्यप् । मद्यं कृत्वेत्यर्थः । पदेकृत्येति । गतिसमासे क्त्वो ल्यप् । पदं कृत्वेत्यर्थः । निवचनेकृत्येति । वचनाऽभावं कृत्वेत्यर्थः । तदाह — वाचं नियम्येत्यर्थ इति । वचनस्याभावो निवचनम् । अर्थाभावेऽव्ययीभाव इति भावः ।
Tattvabodhini
-------------
**मध्येपदेनिवचने च** - मध्ये पदे ।विभाषाकृञी॑ति वर्तते, चकारादनत्याधाने॑इति च । एषामनत्याधानरूपार्थविशेषे एदन्तत्वमविशेषएण निपात्यते, न तु गतिसंज्ञासंनियोगेन । अनत्याधाने किम् । पदे कृत्वा शिरो नमति । वाचं नियम्येति । निवचनं हि वचनाऽभावः । अर्थाऽभावेऽव्ययीभावः ।
Padamanjari
-----------
मघ्ये पदे निवचने च ॥ अविभक्तिको निर्देशः, मध्येपदेशब्दौ निपातौ। निवचनं वचनाभाव इति। तत्र निपातनादेकारान्तत्वं न पुनरेषा सप्तमी। वाचं नियम्येति। व्याख्यानान्निपातनं चाविशेषेण, न तु संज्ञासन्नियुक्तं निवचने कृत्वेति उदाहृतत्वादित्याहुः॥
Nyaas
-----
`मध्ये पदे` इति। सप्तम्यन्तप्रतिरूपकौ। `निवचने` इति। अर्थाभावेऽव्ययीभावः; नितृणं निवुसमिति यथा। `निवचनेकृत्य` इति। उच्चारणसामर्थ्यात् सप्तम्याः समासेऽप्यलुग् भवति। एवमुत्तरत्र॥
Praudhamanorama
---------------
(मध्ये पदे निवचने च) ॥ **वाचं नियम्येति ।** निवचनं हि वचनाऽभावः । अर्थाभावेऽव्ययीभावः । इहाऽविशेषेण एदन्तता निपात्यते, न तु सञ्ज्ञासंयोगेन ।
Prakriyasarvasvam
-----------------
एतेऽप्यनिधाने कृञि वा गतयः । सचिवं मध्येकृत्याह नृपः । भृत्यं पदेकृत्य सचिवो गतः । निवचनेकृत्यास्ते मुनिः । मौनं कृत्वेत्यर्थः । निधाने तु नूपुरं पदे कृत्वा गता ॥