14070: अदोऽनुपदेशे ================== **Padacheda:** अदः | S | 1 | 1 | अनुपदेशे | S | 7 | 1 | Sutrartha --------- **"अदस्" इति सर्वनामसंज्ञकशब्द: क्रियायोगे उपदेशभिन्नस्थलेषु गतिसंज्ञकः भवति । यथा - "अदःकृत्य अदःकृतम्" ।** अष्टाध्याय्यां **गतिश्च** (1.4.60) इत्यतः **जीविकोपनिषदावौपम्ये** (1.4.79) इति सूत्रैः **गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं एकादशं सूत्रम् । अनेन सूत्रेण ****सर्वनामसंज्ञकस्य अदस्** (= अभिमुखम् इत्यर्थः) **इति शब्दस्य उपदेशभिन्नस्थलेषु गतिसंज्ञा भवति** ** । **उपदेशभिन्नस्थलम्** इत्युक्ते तद् वाक्यम् यत्र अदस्-सर्वनामशब्दस्य प्रयोगः उपदेशं कर्तुम् / आज्ञां कर्तुं कृतः नास्ति । एतादृशेषु स्थलेषु गतिसंज्ञायां सत्याम् **कुगतिप्रादयः** (2.2.18) इत्यनेन अदस्-शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - अदःकृत्य अदःकृतं तेन (= तेन इदं कृत्वा ततः इदं कृतम् - इति । He did this and then he did that इत्यर्थः) । यत्र उपदेशः विद्यते, तत्र तु प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - अदः कृत्वा अदः कुरु त्वम् (त्वं इदं कृत्वा ततः इदं कुरु इत्यर्थः) । अत्र "अदस्"-शब्दः उपदेशस्य सन्दर्भेण (आज्ञायाः सन्दर्भेण ) प्रयुक्तः अस्ति, अतः अत्र अस्य शब्दस्य गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् गतिसमासः ल्यबादेशः च अपि न भवतः । ****उपदेश** शब्दस्य व्याख्या** काशिकाकारः उपदेशशब्दस्य व्याख्यां कुर्वन् ब्रूते - उपदेशः परार्थः प्रयोगः । स्वयमेव तु यदा बुद्ध्या परामृशति तदा नास्त्युपदेश इति सोऽस्य विषयः । **परार्थः** इत्युक्ते **अन्यम् उद्दिश्य** इति । यत्र अन्यम् उद्दिश्य "इदं कुरु / इदं करणीयम्" इत्यादिकं किञ्चित् उच्यते, तत्र **उपदेशः** अस्ति इति स्वीक्रियते, तथा च एतादृशेषु स्थलेषु प्रकृतसूत्रस्य प्रयोगः न भवति । परन्तु यत्र कश्चन स्वयं स्वस्य बुद्ध्या निर्णयं कृत्वा कार्यं करोति, तत्र उपदेशः नास्ति, अतः तत्र प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति - इति काशिकाकारस्य अत्र आशयः वर्तते । Vasu English Summary -------------------- The word अदस् 'that' is called गति when in composition with a verb and not implying a direction to another. Vasu English Translation ------------------------ The word अदस् 'that' is called गति when in composition with a verb and not implying a direction to another. The word *upadesa* means a direction to another. When a person cogitates within himself and does not address another, that is *anupadesa*. That is when it is not a demonstrative pronoun. As अदः कृत्य, अदः कृतम् and यददः करोति when used as a demonstrative pronoun we have अदः कृत्वा काण्डं गतः. Kashika ------- अदः शब्दस्त्यदादिषु पठ्यते, सोऽनुपदेशे गतिसंज्ञो भवति। उपदेशः परार्थः प्रयोगः। स्वयमेव तु यदा बुद्ध्या परामृशति तदा नास्त्युपदेश इति सोऽस्य विषयः। अदःकृत्य। अ॒दःकृ॑तम्। यद॑दःक॒रोति॑। अनुपदेश इति किम्? अदः कृत्वा काण्डं गत इति परस्य कथयति॥ Siddhanta Kaumudi ----------------- अदःकृत्य अदःकृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा ॥ Balamanorama ------------ **अदोऽनुपदेशे** - अदोऽनुपदेशे । अदश्शब्दोऽनुपदेशे गतिसंज्ञः स्यात् । अदः कृतमिति । गतिसमासे क्त्वो ल्यप् । अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक् च । अदः कृतमिति । 'गतिरनन्तरः' इति स्वरः फलम् । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् । परं प्रतीति । अदऋ कृत्वा अदः कुर्वित्यादावित्यर्थः । Tattvabodhini ------------- **अदोऽनुपदेशे** - अदःकृतमिति ।गतिरनन्तरः॑इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वम् । प्रत्युदाहरणमिति । अदः कृत्वा अदः कुर्वित्यादीत्यर्थः । Padamanjari ----------- उपदेशः परार्थः इति। वाक्यप्रयोग इत्यर्थाद् गम्यते। अदः- कृत्येति। एतत्कर्तव्यमिति स्वयमालोच्येत्यर्थः॥ Nyaas ----- उपदेशः = परस्यार्थकथनम्। तच्च परस्य प्रत्यायनार्थ भवतीत्याह - `उपदेशः परार्थः` इति। `अदः कृत्वा` इति। एतत्कृत्वेत्यर्थः॥ Praudhamanorama --------------- (अदोऽनुपदेशे )॥ **अदः कृत्येति ।** यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् । Prakriyasarvasvam ----------------- अदःकृत्य कार्यं करोति । एतदिति निश्चित्येत्यर्थः । उपदेशे तु अदःकृत्वा- पदिशति ॥