14065: अन्तरपरिग्रहे
====================
**Padacheda:** अन्तः | S | 0 | 0 |
अपरिग्रहे | S | 7 | 1 |
Sutrartha
---------
**स्वीकरणभिन्ने अर्थे "अन्तर्" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति ।**
अष्टाध्याय्यां **गतिश्च** (1.4.60) इत्यतः **जीविकोपनिषदावौपम्ये** (1.4.79) इति सूत्रैः **गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं षष्ठं सूत्रम् । अनेन सूत्रेण **परिग्रह: (= स्वीकारः / acceptance) **इति अर्थं विहाय** अन्यस्मिन् अर्थे (यथा, "मध्ये" अस्मिन् अर्थे) प्रयुक्तस्य अन्तर्-इति शब्दस्य क्रियायाः योगे गतिसंज्ञा विधीयते ** । गतिसंज्ञायां सत्याम् **कुगतिप्रादयः** (2.2.18) इत्यनेन अस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - श्येनः मूषिकां **अन्तर्हत्य** त्यक्त्वा गतः (= श्येनः मूषिकाम् तस्याः शरीरस्य मध्यभागे हननं कृत्वा, तां तथैव तत्र विहाय निर्गतः - इत्याशयः) ।
**अपरिग्रहे इति किमर्थम् ?**
यदा **अन्तर् + हन्** इति धातुः **परिग्रहः** ( स्वीकरणम्) अस्मिन् अर्थे प्रयुज्यते तदा तस्य गतिसंज्ञा मा भूत् इति स्पष्टीकर्तुं प्रकृतसूत्रे **अपरिग्रहे** इति निर्देशः कृतः अस्ति । अतएव मूषिकां अन्तर्हत्वा श्येनः गतः (= मूषिकां हत्त्वा, तां भोजनरूपेण स्वीकृत्य श्येनः गतः - इत्याशयः) अस्मिन् वाक्ये अन्तर्-शब्दस्य गतिसंज्ञा न भवति, अतश्च गतिसमासः न भवति, अतश्च ल्यबादेशः अपि नैव कृतः वर्तते।
**वार्त्तिकम् - **
**अन्तर्-शब्दस्य अङ्-विधौ, कि-विधौ, तथा च णत्वे कर्तव्ये उपसर्गसंज्ञा भवति** । क्रमेण उदाहरणानि एतानि —
i. **अङ्**-प्रत्यये कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः **आतश्चोपसर्गे** (3.3.106) इत्यनेन आकारान्तधातुभ्यः **उपसर्गस्य उपस्थितौ** विधीयमानः **अङ्**-प्रत्ययः **धा**-धातोः अन्तर्-शब्दस्य उपस्थितौ अपि भवति, येन "अन्तर् + धा + अङ् + टाप् → अन्तर्धा" इति शब्दः सिद्ध्यति ।
ii. **कि**-प्रत्यये कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः **उपसर्गे घोः किः** (3.3.92) इत्यनेन घु-संज्ञकात् **उपसर्गस्य उपस्थितौ ** विधीयमानः **कि**-प्रत्ययः **धा**-धातोः अन्तर्-शब्दस्य उपस्थितौ अपि भवति, येन "अन्तर् + धा + कि → अन्तर्धि" इति शब्दः सिद्ध्यति ।
iii. णत्वे कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः **भू**-धातोः अन्तर्-शब्दस्य उपस्थितौ लोट्लकारस्य उत्तमपुरुषैकवचने कर्तव्ये **आनि लोट्** (8.4.16) इत्यनेन णत्वम् कृत्वा "अन्तर्भवाणि" इति णकारघटितम् रूपम् सिद्ध्यति । एवमेव, **नी**-धातोः नकारस्य अन्तर्-शब्दस्य उपस्थितौ **उपसर्गादसमासेऽपि णोपदेशस्य** (8.4.14) इत्यनेन णत्वं विधीयते येन "अन्तर्णयनम्" इति रूपं सिद्ध्यति ।
Vasu English Summary
--------------------
The word अन्तर् is called गति , when used in the sense of 'non-accepting', when in composition with a verb.
Vasu English Translation
------------------------
The word अन्तर् is called गति , when used in the sense of 'non-accepting', when in composition with a verb.
The word परिग्रह means 'taking' or 'accepting,' अपरिग्रह means therefore the opposite of this namely 'rejecting,' abandoning. As अन्तर्हत्य गृहंगतः he went away having abandoned home; अन्तर्हतमनृतम् falsehood being abandoned. यदन्तर्हन्ति.
Why do we say 'when meaning to abandon'? Observe अन्तर्हत्वा मूषिकां श्येनोगतः the hawk went away taking hold of the mouse.
Vart:- The word अन्तर् is treated as an *upasarga* for the purpose of the application of the following rules; (3.3.106) by which अङ् is added; rule (3.3.92) by which कि is added; the rule (8.4.14) by which न is changed in to ण. As अन्तर्द्धा, अन्तर्द्धिः and अन्तर्णयति.
Bhashya
-------
अन्तरपरिग्रहे अन्तःशब्दस्याऽङि्कविधिसमासणत्वेषूपसंख्यानम् ॥ 1 ॥ अन्तःशब्दस्याङ्किविधिसमासणत्वेषूपसंख्यानं कर्तव्यम् । अङ्-अन्तर्द्धा ॥ किविधिः-अन्तर्द्धिः ॥ समासः - अन्तर्हत्य ॥ णत्वम् - अन्तर्हण्याद्गोभ्यो गाः ॥ 65 ॥
Kashika
-------
अन्तःशब्दोऽपरिग्रहेऽर्थे गतिसंज्ञो भवति। परिग्रहः स्वीकरणं तदभावे गतिसंज्ञा विधीयते। अन्तर्हत्य। अ॒र्न्तह॑तम्। यद॑न्त॒र्हन्ति॑। अपरिग्रह इति किम्? अन्तर्हत्वा मूषिकां श्येनो गतः। परिगृह्य गत इत्यर्थः॥ अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गसंज्ञा वक्तव्या॥ अन्तर्धा। अन्तर्धिः। अन्तर्णयति॥
Siddhanta Kaumudi
-----------------
अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ॥
Balamanorama
------------
**अन्तरपरिग्रहे** - अन्तरपरि । अपरिग्रहे वर्तमानमन्तरित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । हतं परिगृह्रेति । हत्वा गमनं हतमपरिगृह्र परिगृह्र वा भवति । तत्र आद्यमुदाहरणं, द्वितीयं प्रत्युदाहरणमित्यर्थः । अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम् ।
Tattvabodhini
-------------
**अन्तरपरिग्रहे** - हतं परिगृह्रति । हत्वा गमनं द्विधा, हतं त्यच्त्वा परिगृह्र चेति । आद्यमुदाहरणं, द्वितीयं तु प्रत्युदाहरणम् ।॒अपरिग्रहे॑इति च प्रयोगोपाधिः, नतु वाच्यकोटिनिविष्टमिति भावः ।
Padamanjari
-----------
अन्तर्हत्वा, मध्ये हत्वेत्यर्थः। अन्तः शब्दस्येत्यादि। उपसर्गसंज्ञायामेवैतन्नोक्तम् - अन्तः शब्दप्रसङ्गेन वक्ष्यामीति। यदा चोपसर्गसंज्ञोच्यते; तदान्तर्णयतीत्यादिवदन्तर्हण्यात्, अन्तर्हणनमित्यादावपि'हन्तेरत्पूर्वस्य' इति णत्वं सिद्धम्। अन्तरयणमित्यत्रापि'कृत्यचः' इत्येव सिद्धमिति ठन्तरदेशेऽठयनं चऽ इति सूत्रद्वयमपि देशप्रतिषेधार्थं द्रष्टव्यम्॥
Nyaas
-----
अन्तःशब्दोऽयं मध्येऽधिकरणभूते वर्तते; परिग्रहे च। तत्र परिग्रहप्रतिषेधादिरत्र संज्ञा विधीयते।यस्त्वस्य स्वरादिषु पाठः, स परिग्रहेऽप्यव्ययसंज्ञार्थः। `अन्तर्हस्य` इति। मध्ये हत्वेत्यर्थः। **वा ल्यपि** (6.4.38) , इत्यनुनासिकलोपः। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्। `अन्तर्धा` इति। आतश्चोपसर्ग` (3.3.106) इत्यङ। `अन्तर्द्धिः` इति। **उपसर्गे घोः किः** (3.3.92) इति किप्रत्ययः। `अन्तर्णयति` इति। `उपसर्गादसमासेऽपि` (8.4.14) इति णत्वम्॥
Praudhamanorama
---------------
(अन्तरपरिग्रहे) ॥ **हतं परिगृह्येति ।** हत्वा गमनं द्विधा, हतं त्यक्त्वा, परिगृह्य चेति । आद्यमुदाहरणं, द्वितीयं प्रत्युदाहरणम् । ‘अपरिग्रहे’ इति च प्रयोगोपाधिर्न तु वाच्यकोटिनिविष्टमिति भावः । **कणेहत्येति ।** अतिशयेनाऽभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः । ततश्च श्रद्धाया अवगमात् तत्प्रतिघातो गम्यते । प्रत्युदाहरणं तु ‘कणे हत्वा गतः’ । सूक्ष्मस्तण्डुलाऽवयवः कणः, तस्मिन् हत्वेत्यर्थः ।
Prakriyasarvasvam
-----------------
अन्तःशब्दो गतिः स्यात् । परिग्रहे तु न । अन्तर्हत्य रिपुं याति मध्ये हत्वेति कथ्यते । अन्तर्हत्वा धनं याति परिगृह्येति नो गतिः ॥ ३८७ ॥
Vartika
-------
अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गत्वं वाच्यम् ।