14063: आदरानादरयोः सदसती ======================== **Padacheda:** आदर-अनादरयोः | S | 7 | 2 | सत्-असती | S | 1 | 2 | Sutrartha --------- **आदरार्थे प्रयुक्तः "सत्" शब्दः, तथा च अनादरार्थे प्रयुक्तः "असत्" शब्दः क्रियायोगे गतिसंज्ञकौ भवतः । यथा - सत्कृत्य, असत्कृत्य ।** अष्टाध्याय्यां **गतिश्च** (1.4.60) इत्यतः **जीविकोपनिषदावौपम्ये** (1.4.79) इति सूत्रैः **गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं चतुर्थं सूत्रम् । अनेन सूत्रेण **आदरार्थे प्रयुक्तस्य सत्-शब्दस्य, तथा च अनादरार्थे प्रयुक्तस्य असत्-शब्दस्य क्रियायाः योगे गतिसंज्ञा विधीयते ** । गतिसंज्ञायां सत्याम् **कुगतिप्रादयः** (2.2.18) इत्यनेन एतयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - सत्कृत्य (आदरं कृत्वा इत्यर्थः), सत्कृतम्, सत्कारः । एवमेव - असत्कृत्य, असत्कृतम्, असत्कार्यम् 1. काशिकायाम् **आदरः** इति शब्दस्य अर्थः **प्रीतिसम्भ्रमः** इति दत्तः अस्ति । अत्र "सम्भ्रम:" इत्यस्य शब्दस्य अर्थः confusion इति न, अपितु अर्थः **आदर:** इत्येव अस्ति । प्रीतिः / आदरः / respect इत्येतेषां निर्देशार्थम् सत्-शब्दः प्रयुज्यते चेत् क्रियायोगे तस्य गतिसंज्ञा भवति - इति अत्र आशयः वर्तते । एवमेव, परिभवः / तिरस्कारः / अनादरः / disrespect - इत्येतेषु अर्थेषु प्रयुक्तस्य असत्-शब्दस्य क्रियायोगे गतिसंज्ञा भवति । 2. यद्यपि सूत्रे **क्रियायोगे** इति सामान्यनिर्देशः वर्तते, तथापि **लोके प्रकृतसूत्रस्य प्रयोगः केवलं **कृ**/**भू**/**अस्**-धातूनां योगे एव** कृतः दृश्यते । Vasu English Summary -------------------- The words सत् and असत् when in composition with a verb is called गति , when used in the sense of 'respect or love' and 'disrespect or indifference'. Vasu English Translation ------------------------ The words सत् and असत् when in composition with a verb is called गति , when used in the sense of 'respect or love' and 'disrespect or indifference'. As सत्कृत्य having honored (2.2.18) and (7.1.37) असत्कृत्य, सत्कृतम् or असत्कृतम् (6.2.49) यत् सत् करोति or यदसत् करोति (8.2.71). Why do we say when meaning 'respect or disrespect'? Observe सत्कृत्वा काण्डं गतः. Bhashya ------- आदराऽनादरयोः सदसती इदमतिबहु क्रियते-आदरे अनादरे सद् असदिति । आदरे सदित्येव सिद्धम् । कथमसत्कृत्येति ? तदन्तविधिना भविष्यति । केनेदानीमनादरे भविष्यति ? नञाऽऽदरप्रतषेधं विज्ञास्यामः - न आदरेऽनादर इति । नैवं शक्यम् । आदरप्रसङ्गे एव हि स्यादनादरप्रसङ्गे न स्यात् । अनादरग्रहणे पुनः क्रियमाणे बहुव्रीहिरयं विज्ञायते-अवद्यमानादरेऽनादरे इति । तस्मादनादरग्रहणं कर्तव्यम्, असतस्तु तदन्तविधिना सिद्धम् ॥ 63 ॥ Kashika ------- प्रीतिसंभ्रम आदरः। परिभवौदासीन्यमनादरः। आदरानादरयोर्यथाक्रमं सदसच्छब्दौ गतिसंज्ञौ भवतः। सत्कृत्य। सत्कृ॑तम्। यत् स॑त्क॒रोति॑। असत्कृत्य। अस॑त्कृतम्। यद॑सत्क॒रोति॑। आदरानादरयोरिति किम्? सत् कृत्वा काण्डं गतः। असत् कृत्वा काण्डं गतः॥ Siddhanta Kaumudi ----------------- सत्कृत्य । असत्कृत्य ॥ Balamanorama ------------ **आदरानादरयोः सदसती** - आदरानादरयोः । सदिति असदिति च अव्यये आदराऽनादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः । सत्कृत्येति । आदरं कृत्वेत्यर्थः । असत्कृत्येति । अनादरं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप् । Padamanjari ----------- प्रीतिसंभ्रम इति। प्रीतिपूर्विका प्रत्युत्थानादिविषया त्वरेत्यर्थः। परिभवौदासीन्यमिति। अवज्ञया कर्तव्यं प्रत्यत्थानादिक प्रत्युपेक्षेत्यर्थः। असदनादरग्रहणं किमर्थम्? असत्कृत्येत्यत्रापि यथा स्यात्। मा भूदसच्छब्दस्य गतिसंज्ञा, सत्कृत्येत्यनेन नञ्समासो भविष्यति? नैवं शक्यम्; सति शिष्टत्वात् कृदुतरपदप्रकृतिस्वरं बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वं स्याद्। असत्कृतमित्यत्र तु सत्कृतशब्दे'गतिरनन्तरः' इति स्वरे प्रवृते प्रश्चान्नञ्समासेऽपि तस्येव स्वरः। असच्छब्दस्यापि कृतशब्देनापि समासे तस्य निपातत्वादाद्यौदातस्य गतित्वात्प्रकृतिभावेऽपि स एव स्वर इति नास्ति विशेषः। इह च यदासत्करोतीत्यसच्छब्दस्य निघातो न स्याद्, अव्ययसंज्ञापि तस्य न स्यादित्यसच्छब्दस्यैव गतिनिपातसंज्ञे एषितव्ये। न चात्र सच्छब्देन तदन्तविधिर्लभ्यते; विशेष्यस्याभावात्। नन्वत्र सच्छब्दस्यैव संज्ञास्तु, कार्यप्रदेशेषु प्रकृतस्य तेन तदन्तविधिर्भविष्यति, अव्यसंज्ञायां तावदस्त्येव तदन्तविधिः-परमोच्चैरिति, यथा'कुगतिप्रादयः' इत्यत्रापि सुबिति प्रवर्तते, सुपेत्येव निवृतम्, तद्रतिना विशेष्यते'गतिरनन्तरः' इत्यत्र पूर्वपदम्'गतिर्गतौ' इत्यत्रापि पदस्येति प्रकृतम्। भवतु तदन्तविधिना कार्यम्, अनादरावगतिस्तु कुतः? असत्यनादरग्रहणे, न सदसदित्यादरनिषेधान्नैव शक्यम्, आदरप्रसङ्ग एव हि स्यात्, गुरुमसत्कृत्येति चाण्डालमसत्कृत्येत्यत्र न स्यात्। यथाऽब्राह्मण इति क्षत्रियादिरेवोच्यते, न लोष्टादिः, अनादरग्रहणे तु सति बहुव्रीहिर्विज्ञायते - अविद्यामानादरोऽनादर इति। बहुव्रीहिश्चात्यन्ताभावे, प्रसक्ताभावे, अप्रसक्ताभावे च भवतीति सर्वत्र संज्ञा सिध्यति, तस्मादनादरग्रहणं कर्तव्यम्। असद्ग्रहणं तु शक्यमकर्तुम्। आदरानादरयोः सदित्येवास्तु, तत्र यथा गोष्पदं सेवित्यत्रासेविते गोष्पदशब्दो न संभवतीत्यगोष्पदार्थमसेवितग्रहणम्; एवमनादरेऽपि सच्छब्दो न सम्भवतीत्यसच्छब्दार्थमानदरग्रहणं भविष्यति। सत्कृत्वा, असत्कृत्वेति। शोभनवचनो विद्यमानवचनो वा सच्छब्दः तद्विपरीतवचनोऽसच्छब्दः॥ Nyaas ----- `{प्रीत्यतिशयः = आदरः - काशिका}प्रीतिसम्भ्रम आदरः` इति। प्रीत्या सम्भ्रमः प्रीतिसम्भ्रमः, प्रीतिपूर्विका प्रत्युत्थानासनादिदानक्रियेत्यर्थः। `परिभवौदासीन्यम्` इति। परिभवः = अवज्ञा। तिरस्कारः = औदासीन्यम्। कर्तव्यम् = प्रत्युत्थानासनादिदानं प्रत्युपेक्षा। परिभवेणौदासीन्यं परिभवौदासीन्यमिति, `तृतीया` इति योगविभागात् समासः। अथ वा - परिभवश्चौदासीन्यञ्च परिभवौदासीन्यम्। अथ किमर्थमनादरग्रहणमसद्ग्रहणञ्च क्रियते? नादरे सदित्येवोच्यते? अथ कथमिदानीमनादेऽसच्छब्दस्याव्ययसंज्ञा स्यात्? कथञ्च समासादि कार्यम्? तदन्तविधिनासच्छब्दस्यापि निपातसंज्ञायां गतिसंज्ञायाञ्च सत्यां सच्छब्दस्य निपातस्याव्ययसंज्ञा विधीयमानाऽव्ययसंज्ञायां तदन्तविधेरुपसंख्यानादसच्छब्दस्याप्यव्ययसंज्ञा भविष्यति। **कुगतिप्रादयः** (2.2.18) इत्यत्र च सुबन्तस्य प्रकृतत्वाद्गत्यन्तस्य सुबन्तस्य समासो विधीयमानोऽसच्छब्दस्यापि भविष्यति। `गतिरन्तरः` (6.2.49) इत्यत्रापि पूर्वपदमित्यनुवर्तते। **गतिर्गतौ** (8.1.70) इत्यत्रापि पदस्येति। तेन गत्यन्तस्य पूर्वपदस्य प्रकृतिस्वरो विधीयमानस्तता यथोक्तं कार्यम्, अनादरावगतिस्तु कथं स्यात्? असत्यनादरग्रहणे न सदसदिति नञाऽऽदरप्तिषेधात्। आदरश्चेत् प्रतिषिद्धः किमन्यदनादरात् स्यात्? नैतद्युक्तमुच्यते; नञ्समासो हि तत्पुरुषः सदृशमेव कार्यं प्रतिपादयति, यथा - अब्राआहृणमानयेति। तत्रेह यद्यनादरग्रहणं न क्रियेत तदा सत्सदृशं यत् तदसद् यत्रादरप्रसङ्गस्तत्रैव स्यात् - गुरुमसत्कृत्य गतः। यत्र त्वप्रसक्त एवादरस्तत्र न स्यात् - भृत्यमसत्कृत्य गतः। अनादरग्रहणे तु सति बहुव्रीहिर्विज्ञायते - अविद्यमान आदरो यस्मिन्नित्यनादर इतो। बहुव्रीहिश्चात्यन्ताभावे प्रसक्त्यबावे च भवतीति सर्वत्र संज्ञा सिध्यति। तस्मादनादरग्रहणं कर्तव्यम्। तस्मश्च क्रियमाणे सत्यसदृग्रहणमपि कर्तव्यमेव। अन्यथा हि किमनादरग्रहणेन विशिष्येत - य्सयानादरे वर्तमानस्य गतिसंज्ञा विधीयते ! न हि सच्छब्दस्यानादरे वृत्तिः सम्भवति। यद्यपि तस्य न सम्भवति तदन्तस्यासच्छब्दस्य सम्भवतीति चेत्, सत्यम्; सम्भवति, न तु तस्य गतिसंज्ञा लभ्यते, तदन्तविधेरभावात्। प्रकृते न हि तदन्तविधिर्भवति, न चेह किञ्चित् प्रकृतमस्ति ; तस्मादसच्छब्दार्थमनादरग्रहणम्। यदि तु यथा `गोष्पदं सेवितासेवितप्रमाणेषु` इत्यत्रासेविते गोष्पदशब्दो न सम्भवतीत्यगोष्पदशब्दार्थमसेवितग्रहणं विज्ञायते, तथेहापि सच्छब्दोऽनादरे न सम्भवतीत्यस्छब्दार्थमनादरग्रहणं विज्ञायेत; तदा शक्यमसच्छब्दस्य ग्रहणमकर्त्तुम्। असद्ग्रहणन्तु क्रियते तदा विस्पष्टार्थम्। सत्कृत्वाऽसत्कृत्येति। शोभनाशोभनार्थाविह सदसच्छब्दौ। विद्यमानाविद्यमानार्थौ वा॥बाल-मनोरमाआदराऽनादरयोः सदसती 753, 1.4.63 आदरानादरयोः। सदिति असदिति च अव्यये आदराऽनादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः। सत्कृत्येति। आदरं कृत्वेत्यर्थः। असत्यकृत्येति। अनादरं कृत्वेत्यर्थः। गतिसमासे क्त्वो ल्यप्। खाडिति कृत्वेति। न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाऽभावादेव गतिसंज्ञा न भविष्यति तत्किमनितिपरग्रहणेनेति वाच्यं, यथाकथंचित्क्रियायोगसत्त्वात्। `ते प्राग्धातोः` इति सूत्रं तु `ते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत` इति प्रयोगनिमपरमेवेति भावः। बाल-मनोरमाआदराऽनादरयोः सदसती 754, 1.4.63 आदरानादरयोः। सदिति असदिति च अव्यये आदराऽनादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः। सत्कृत्येति। आदरं कृत्वेत्यर्थः। असत्कृत्येति। अनादरं कृत्वेत्यर्थः। गतिसमासे क्त्वो ल्यप्। Prakriyasarvasvam ----------------- द्विजं सत्कृत्य । रिपुमसत्कृत्य ॥