14062: अनुकरणं चानितिपरम् ========================= **Padacheda:** अनुकरणम् | S | 1 | 1 | च | S | 0 | 0 | अनितिपरम् | S | 1 | 1 | Sutrartha --------- **यस्मात् परः "इति" शब्दः नास्ति तादृशस्य अनुकरणवाचिशब्दस्य क्रियायोगे गतिसंज्ञा भवति । यथा - खाट्कृत्य ।** अष्टाध्याय्यां **गतिश्च** (1.4.60) इत्यतः **जीविकोपनिषदावौपम्ये** (1.4.79) इति सूत्रैः **गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं तृतीयं सूत्रम् । अनेन सूत्रेण **अनुकरणवाचिशब्दस्य **विषये क्रियायोगे गतिसंज्ञा विधीयते । **यस्मात् अनुकरणवाचिनः शब्दात् अव्यवहितपरः "**इति**" अयं शब्दः नास्ति, सः क्रियायाः योगे गतिसंज्ञकः भवति** इति अस्य सूत्रस्य आशयः । अनुकरणवाची शब्दः इत्युक्ते सः शब्दः यः कस्यचित् ध्वनेः अनुकरणार्थं प्रयुज्यते (A word used to copy a sound). । खाट्, श्रत् इत्यादयः शब्दाः भाषायाम् **अनुकरणवाचिशब्दाः** नाम्ना ज्ञायन्ते । एते यदा क्रियायाः योगे प्रयुज्यन्ते, तदा एतेषां **गतिसंज्ञा** भवति ।गतिसंज्ञायां सत्याम् **कुगतिप्रादयः** (2.2.18) इत्यनेन एतेषाम् कृदन्तैः सह उपपदसमासः सम्भवति । यथा - खाट्कृतम्, खाट्कृत्य । परन्तु अस्मात् अनुकरणवाचिशब्दात् अव्यवहितः परः "**इति**" अयं शब्दः अस्ति चेत् एतेषां गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् उपपदसमासः अपि न सम्भवति । यथा - खाट् इति कृत्वा । अत्र समासस्य अभावात् **क्त्वा**-प्रत्ययस्य **ल्यप्**-आदेशः अपि नैव कृतः वर्तते । **इति-शब्दपरकत्वात् क्रियायोगः कथम् ?** प्रकृतसूत्रेण **गतिसंज्ञा** तदा एव भवति यदा अनुकरणवाचिनः शब्दस्य **क्रियया सह** योगः विद्यते । "अयं क्रियायोगः कथं भवेत्" इति प्रश्ने पृष्टे, अग्रे वक्ष्यमाणेन **ते प्राग्धातोः** (1.4.80) इत्यनेन अस्य उत्तरं लभ्यते - "धातोः अव्यवहितपूर्वे एव अनुकरणवाची शब्दः भवेत्" इति । इत्युक्ते, क्रियायोगे सिद्धे, अनुकरणवाचिनः शब्दात् अनन्तरम् धातुः एव भवति, अतश्च तत्र **"इति"** इदं पदं नैव सम्भवति । किञ्च, अनुकरणवाचिनः शब्दात् अनन्तरम् **"इति"** इदं पदं विद्यते चेत् तत्र क्रियायोगः एव न भवति, येन गतिसंज्ञा अपि नैव शक्या । अस्यां स्थितौ प्रकृतसूत्रे प्रयुक्तस्य **अनितिपरम्** इति शब्दस्य किं प्रयोजनम् - इति प्रश्नः उदेति । अस्य उत्तरार्थम् तत्त्वबोधिनीकारः ब्रूते - इतिकृत्वा इति समुपदाये एवंकृत्वा इत्यर्थे वर्तते । तथा च इतिशब्दः क्रियाविशेषकः, इति तद्घटितसमुदायस्य क्रियावाचकत्वात् अस्ति एव क्रियायोगः । "**इतिकृत्वा**" इत्यस्य शब्दसमुदायस्य अर्थः "एवंकृत्वा" इति वर्तते, अतः अत्र **इति** शब्द: अपि क्रियार्थम् अवश्यमेव बोधयति - इति अत्र तत्त्वबोधिनीकारस्य आशयः वर्तते । अस्यां स्थितौ खाट् इतिकृत्वा इत्यत्र क्रियायोगे सिद्धे अनिष्टा गतिसंज्ञा अपि प्राप्नोति । अस्याः बाधनार्थम् **अनितिपरम्** इति निषेधः प्रकृतसूत्रे दत्तः वर्तते । यद्यपि सूत्रे **क्रियायोगे** इति सामान्यनिर्देशः वर्तते, तथापि **लोके प्रकृतसूत्रस्य प्रयोगः केवलं **कृ**/**भू**/**अस्**-धातूनां योगे एव** कृतः दृश्यते । Vasu English Summary -------------------- A word imitative of sounds is also called गति when it is not followed by the word इति। Vasu English Translation ------------------------ A word imitative of sounds is also called गति when it is not followed by the word इति। The phrase अनितिपरम् is a *Bahuvrihi* compound; अन्-इति-परम् = 'that which has not the word इति after it.' As खाट्कृत्य having made the sound *khat*. खाट्कृतम् (6.2.49), यत्खाट्-करोति (8.2.71). Why do we say 'when it has not the word इति after it?' Observe खाडितिकृत्वा निरष्ठीवत्. Bhashya ------- अनुकरणं चाऽनितिपरम् कथमिदं विज्ञायते - इतेः परमितिपरं न इतिपरमनितिपरमिति, आहोस्विदितिः परो यस्मात्तदिदमितिपरं न इतिपरमनितिपरमिति ॥ किं चातः ? यदि विज्ञायते - इतेः परमितिपरं न इतिपरमनितिपरमिति, खाडिति कृत्वा निरष्ठीवदित्यत्र प्राप्नोति । अथ विज्ञायते - इतिः परो यस्मात्तदितिपरं न इतिपरमनितिपरमिति, श्रौषड्वौषडिति कृत्वा निरष्ठीवदित्यत्र प्राप्नोति । अस्तु तावदितिः परो यस्मात्तदिदमितिपरम्, न इति परमनितिपरमिति । ननु चोक्तम् - श्रौषड्वौषडिति कृत्वा निरष्ठीवदित्यत्र प्राप्नोतीति । नैष दोषः । इदं तावदयं प्रष्टव्यः - अथेह ते प्राग्धातोः (1.4.80) इति कथं गतिमात्रस्य पूर्वप्रयोगो भवति - उपोद्धरतीति ? गत्याकृतिः प्रतिनिर्दिश्यते । इहापि तर्ह्यनुकरणाऽऽकृतिः प्रतिनिर्दिश्यते । किमर्थमिदमुच्यते ? अनुकरणस्येतिकरणपरत्वप्रतिषेधोऽनिष्टशब्दनिवृत्त्यर्थः ॥ 1 ॥ अनुकरणस्येतिकरणपरत्वप्रतिषेध उच्यते । किं प्रयोजनम् ? अनिष्टशब्दनिवृत्त्यर्थः । अनिष्टशब्दता मा भूदिति । इदं विचारयिष्यते- प्राग्धातुवचनं प्रयोगनियमार्थं वा स्यात्संज्ञानियमार्थं वेति। । तद्यदा प्रयोगनियमार्थं तदाऽनिष्टशब्दनिवृत्त्यर्थमिदं वक्तव्यम् । यदा हि संज्ञानियमार्थं तदा न दोषो भवति ॥ 61 ॥ Kashika ------- इतिः परो यस्मादिति बहुव्रीहिः। अनुकरणमनितिपरं क्रियायोगे गतिसंज्ञं भवति। खाट्कृत्य। खाट्कृ॑तम्। यत् खा॑ट्क॒रोति॑। अनितिपरमिति किम्? खाडिति कृत्वा निरष्ठीवत्॥ Siddhanta Kaumudi ----------------- खाट्कृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् ॥ Balamanorama ------------ **अनुकरणं चानितिपरम्** - अनुकरणं चा । अनुकरणं गतिसंज्ञं स्यादितिपरं वर्जयित्वेत्यर्थः । खाट्कृत्येति । खाडिति शब्दं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप् । खाडिति कृत्वेति । न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाऽभावादेव गतिसंज्ञा न भविष्यति तत्किमनितिपरग्रहणेनेति वाच्यं, यथाकथंचित्क्रियायोगसत्त्वात् । 'ते प्राग्धातोः' इति सूत्रं तुते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत॑ इति प्रयोगनियमपरमेवेति भावः । Tattvabodhini ------------- **अनुकरणं चानितिपरम्** - अनुकरणं चा ।ते प्राग्धातोः॑इत्यस्य संज्ञानियमपक्षेऽनितीति व्यर्थमिति मत्वा पृतच्छति अनितिपरं किमिति । इतरस्तु प्रयोगनियमपक्षे खाडित्यनुकरणस्येतिशब्दे परे गतिसंज्ञानिवारणायाऽनितिपरमित्यावश्यकमिति प्रत्युदाहरति खाडिति कृत्वेति । सत्यां संज्ञायामेष प्रयोगो नैव स्यात्कतुइति खाटकृत्ये॑त्येव स्यादिति भावः । न चइति खाटकृत्ये॑ति न भवति, इतेः परस्यानुकरणस्य गतिसंज्ञानिषेधादिति वाच्यम्,अनितिपर॑मित्यत्र इतिः परोयस्मात्तदितिपरं, न इतिपरमनितिपरमिति बहुव्रीहिघटितनञ्तत्परुषाश्रयणात् । स्यादेतत् — अनुकरणस्येतिशब्दपरत्वे क्रियायोगाऽभावाद्गतिसंज्ञा नास्तचीति खाडिति कृत्वेति रूपं निर्बाधं, किमनेनाऽनिकिपरग्रहणेनेति चेत्, अत्राहुः — इतिकृत्वेति समुपदाये एवंकृत्वेत्यर्थे वर्तते । तथा चेतिशब्दः क्रियाविशेषक इति तद्धटितसमुदायस्य क्रियावाच कत्वादस्त्येव क्रियायोग इति । Padamanjari ----------- इतिः परो यस्मादिति। पञ्चमीसमासस्तु लक्षणाभावान्नाश्रितः। तेनेति खाट्कृत्येत्यत्र इतेः परत्वेऽपि भवति। खाडिति कृत्वा निरष्ठीवदिति। अत्रासति प्रतिषेधे गतिसंज्ञायां समासः स्यात्, धातोश्चानन्तरः प्रयोग इति रूपमेवैतन्न सिध्येत्।'ष्ठिवु निरसने' ,'ष्ठिवुक्लमुचमां शिति' इति दीर्घः। भूतकालोपन्यासः किमर्थः? कस्यचित्कवेरयं प्रयोग उदाहृतः-'चुम्बनसक्तः सो' स्याः च्युतमूलं दशनमात्मनो वदने। जिह्वामूलस्पृष्ट्ंअ खाडिति कृत्वा निरष्ठीवत्॥ Nyaas ----- `अनितिपरम्` इति। अत्रेतिपरशब्द इते पर इति पञ्चमीति योगविभागात् तत्पुरुषो वा स्यात्? इतिः परो यस्मादिति बहुव्रीहिर्वा? तत्र यद्याद्यः पक्ष आश्रीयेत, तदेतिखाट्कृत्येत्यत्र प्रतिषेधः स्यात्; इह तु न स्यात् - खडिति कृत्वा आगत इत, अनिष्टञ्चैतत्; द्वितीये तु पक्ष एष दोषो न भवति, अतस्तमेवाश्रित्याह - `इतिः परो यस्मात्` इति। `निरष्ठीवत्` इति। `ष्ठिवु निरसने` (धातुपाठः-560) `सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः` (वा।671) इति प्रतिषेधात् **धात्वादेः षः सः** (6.1.64) इति सत्वं न भवति। `ष्ठिवुक्लमुचमां शिति` (7.3.75) इति दीर्घत्वम्॥ Prakriyasarvasvam ----------------- अनितिपरमनुकरणं गतिसंज्ञम् । खाट्कृत्य ष्ठीवति । धिक्कृत्य याति । इतौ तु खाडिति कृत्वा ॥