14059: उपसर्गाः क्रियायोगे
==========================
**Padacheda:** उपसर्गाः | S | 1 | 3 |
क्रियायोगे | S | 7 | 1 |
Sutrartha
---------
**प्रादिगणे निर्दिष्टाः शब्दाः क्रियायाः योगे उपसर्गसंज्ञकाः भवन्ति ।**
**प्रादिगणः** इति कश्चन गणः गणपाठे पाठितः अस्ति ।** अस्मिन् गणे विद्यमानाः शब्दाः यदा **क्रियायाः योगे** प्रयुज्यन्ते, तदा तेषाम् **उपसर्गः** इति संज्ञा भवति** । सर्वेऽपि उपसर्गाः **ते प्राग्धातोः** (1.4.80) इति सूत्रेण धातोः **पूर्वम्** एव उपयुज्यन्ते ।
**प्रादिगणस्य आवली**
प्रादिगणे आहत्य द्वाविंशतिः (22) शब्दाः सन्ति -
प्र, परा, अप, सम्, अनु, अव, निस्, निर् दुस्, दुर् वि, आङ्, नि, अधि, अपि अति सु उद् अभि प्रति परि उप
एते सर्वेऽपि शब्दाः **क्रियायाः योगे** (तिङन्तस्य / कृदन्तस्य वा योगे) उपसर्गसंज्ञकाः भवन्ति । यथा, "प्रपतति" इत्यत्र प्र इति उपसर्गः, "पराजितः" इत्यत्र परा इति उपसर्गः - इत्यादिकम् । **उपसर्गार्थचन्द्रिका** इत्याख्ये ग्रन्थे सर्वेषाम् अपि उपसर्गाणां भिन्नाः अर्थाः, तथा च तेषु अर्थेषु विविधानां धातूनां योगे एतेषाम् उपसर्गाणाम् साहित्ये दृश्यमानाः प्रयोगाः सङ्कलिताः सन्ति । जिज्ञासुभिः अयं ग्रन्थः (link) अवश्यं द्रष्टव्यः ।
**उपसर्गसम्बन्धिनः ज्ञातव्याः अंशाः**
उपसर्गाणां सम्बन्धिनः विशिष्टाः अंशाः अधः सङ्कलिताः सन्ति ।
**1. कुत्रचित् द्वौ अथवा त्रयः उपसर्गाः अपि धातुभ्यः प्रयुक्ताः दृश्यन्ते ।**
यथा, वि + आ + करोति → व्याकरोति, सम् + उद् + आ + हरति → समुदाहरति ।
**2. उपसर्गस्य योजनेन धातोः पदे परिवर्तनम् सम्भवति ।**
यथा, "जि (अभिभवे, भ्वादिः, (1.1096))" इति धातुः परस्मैपदस्य प्रत्ययान् स्वीकरोति । परन्तु वि-उपसर्गस्य उपस्थितौ, परा-उपसर्गस्य उपस्थितौ च **विपराभ्यां जेः** (1.3.19) इत्यनेन अस्मात् केवलम् आत्मनेपदस्यैव प्रत्ययाः विधीयन्ते । एवमेव, "रमुँ (क्रीडायाम्, भ्वादिः, (1.989))" अयं धातुः मूलरूपेण आत्मनेपदी स्वीक्रियते, परन्तु **व्याङ्परिभ्यो रमः** (1.3.83) इति सूत्रेण "वि + रम्", "आ + रम्", "परि + रम्", एतेभ्यः केवलम् परस्मैपदस्यैव प्रत्ययाः विधीयन्ते ।
**3. उपसर्गस्य योजनेन अकर्मकः धातुः कुत्रचित् सकर्मकः भवति ।**
यथा, "स्था (गतिनिवृत्तौ, भ्वादिः, (1.1077))" इति धातुः मूलरूपेण अकर्मकः अस्ति । परन्तु उप-उपसर्गस्य उपस्थितौ अयं धातुः सकर्मकत्वं प्राप्नोति, अतएव च "विष्णुः वैकुण्ठम् अधितिष्ठति" इति प्रयोगः सङ्गच्छते ।
**4. उपसर्गस्य योजनेन सकर्मकः धातुः कुत्रचित् अकर्मकः भवति ।**
यथा, "गमॢँ (गतौ, भ्वादिः, (1.1037))" इति धातुः मूलरूपेण सकर्मकः अस्ति, अतएव "रामः वनं गच्छति" इत्यत्र "वन"पदार्थस्य कर्मसंज्ञा भवति । परन्तु सम्-उपसर्गस्य उपस्थितौ अयं धातुः अकर्मकत्वं प्राप्नोति । यथा - "नद्यः सङ्गच्छन्ते (एकत्र मिलन्ति)" ।
**5. उपसर्गाः - प्रादिसंज्ञकाः गतिसंज्ञकाः, निपातसंज्ञकाः, अव्ययसंज्ञकाः, प्रातिपदिकसंज्ञकाः च सन्ति ।**
सर्वेऽपि उपसर्गाः प्रादिगणे विद्यन्ते अतः **प्रादयः** (1.4.58) इत्यनेन तेषां प्रादिसंज्ञा अस्ति एव । एवमेव, एते सर्वे **प्राग्रीश्वरान्निपाताः** (1.4.56) अस्मिन् अधिकारे पाठिताः सन्ति अतः एते **निपातसंज्ञकाः**, ततश्च **स्वरादिनिपातमव्ययम्** (1.1.37) इत्यनेन अव्ययसंज्ञकाः अपि सन्ति । **गतिश्च** (1.4.60) इति सूत्रेण सर्वेषाम् उपसर्गाणां **गतिसंज्ञा** अपि भवति । अपि च, उपसर्गाणाम् विशिष्टाः अर्थाः विद्यन्ते, अतः**अर्थवदधातुरप्रत्ययः प्रातिपदिकम्** (1.2.45) इत्यनेन एतेषाम् **प्रातिपदिकसंज्ञा** अपि विधीयते । प्रातिपदिकसंज्ञायाम् सिद्धायाम्, वाक्ये प्रयोगात् पूर्वम् एतेभ्यः स्वादिप्रत्ययाः विधीयन्ते, तेषाम् च **अव्ययादाप्सुपः** (2.4.82) इत्यनेन लोपः अपि भवति । लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन एतेषाम् **पदसंज्ञा** सिद्ध्यति । इत्युक्ते, "प्रणमति", "पराजयते" इत्यादिषु शब्देषु विद्यमानः उपसर्गः भिन्नम् पदम् अस्ति, तत्र विद्यमानः तिङन्तशब्दः च अपरं पदम् अस्ति ।
**6. उपसर्ग-तिङन्तयोमर्ध्ये समासः न विद्यते, परन्तु सन्धिः अवश्यं भवति ।**
"प्रणमति", "पराजयते" इत्यादिषु शब्देषु उपसर्गः इति भिन्नम् पदम् अस्ति, तिङन्तशब्दः च अपरं भिन्नम् पदम् अस्ति । एते द्वे पदे केवलम् युगपत् स्थापिते स्तः । एतयोर्मध्ये कोऽपि समासः न विद्यते । परन्तु उपसर्ग-धात्वोः मध्ये **संहिता अवश्यं विद्यते** अतः एतयोमर्ध्ये **सन्धिः अपि नित्यः एव अस्ति ** । अतएव "परि + ईक्षते" इत्यत्र सवर्णदीर्घं कृत्वा "परीक्षते" इत्येव प्रयोगः करणीयः । एवमेव, द्वयोः उपसर्गयोः मध्ये अपि सन्धिः नित्यं भवति, अतः "प्रति + आ + गच्छति" इत्यत्र यणादेशं कृत्वा "प्रत्यागच्छति" इत्येव प्रयोगः करणीयः ।
**7. उपसर्ग-कृदन्तयोमर्ध्ये उपपदसमासः गतिसमासः वा विद्यते, अतश्च सन्धिः अपि अवश्यं भवति ।**
यदि कृदन्तेन सह उपसर्गस्य प्रयोगः क्रियते, तर्हि उपसर्ग-कृदन्तयोर्मध्ये कश्चन समासः अवश्यं भवति । तत्र, उपसर्गस्य उपस्थितौ एव कृत्प्रत्ययस्य विधानम् कृतं अस्ति चेत् **उपपदसमासः** अस्ति इति उच्यते; अन्यासु अवस्थासु **गतिसमासः** अस्ति इति उच्यते । यथा, **प्रे दाज्ञः** (3.2.6) इति सूत्रेण प्र-उपसर्गस्य उपस्थितौ **दा**-धातोः **क**-प्रत्ययः विधीयते, अतः अनेन सूत्रेण सिद्धे "सर्वप्रदः" इति शब्दे प्र-उपसर्गस्य "दः"-इत्यनेन सह **उपपदसमासः** भवति । परन्तु "आगतः"-इत्यत्र **क्त**-प्रत्ययविधानम् आ-उपसर्गं विना अपि सम्भवति, अतः अत्र आ-उपसर्गेण सह "गत"-इति कृदन्तस्य **गतिसमासः** अस्ति इति उच्यते । एतयोः द्वयोः अपि समासयोः सन्धिः अवश्यं भवति । यथा — उपपदसमासे सन्धिः - "नि + अद् + ण → न्याद" ; गतिसमासे सन्धिः - "प्र + ईक्षणीय → प्रेक्षणीय" ।
**8. उपसर्गस्य उपस्थितौ **क्त्वा**-प्रत्ययस्य नित्यम् **ल्यप्**-आदेशः भवति ।**
समस्तपदस्य उत्तरपदरूपेण यत्र **क्त्वा**-प्रत्ययः विधीयते, तत्र **समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37) इत्यनेन तस्य ल्यबादेशः भवति । उपसर्गाणां कृदन्तैः सह नित्यम् उपपदसमासः गतिसमासः वा जायते, अतः तेषाम् उपस्थितौ **क्त्वा**-प्रत्ययस्य अपि **ल्यप्**-आदेशः भवति । यथा - "आ + गम् + क्त्वा → आ + गम् + ल्यप् → आगत्य "।
**9. अडागमः / आडागमः उपसर्ग-धात्वोः मध्ये विधीयते ।**
**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इत्यनेन विहितस्य अडागमस्य, तथा च **आडजादीनाम्** (6.4.72) इत्यनेन विहितस्य आडागमस्य अङ्गम् केवलम् धातुः अस्ति, न हि उपसर्गः । अतः**आद्यन्तौ टकितौ** (1.1.46) इत्यनेन एतौ आगमौ **धातोः प्रारम्भे विधीयेते**, न हि उपसर्गस्य प्रारम्भे । अतएव अडागमः / आडागमः नित्यम् उपसर्ग-धात्वोः मध्ये कृतः दृश्यते । यथा, "अनु + अवदत् → अन्ववदत्", "परि + आट् + ईक्षत् → परि + ऐक्षत् → पर्यैक्षत्" ।
**10. उपसर्गस्थस्य रेफस्य अय्-धातोः योगे लकारादेशः भवति ।**
**अयँ (गतौ)** (1.546) इति धातोः योगे उपसर्गे विद्यमानस्य रेफस्य **उपसर्गस्यायतौ** (8.2.19) इति सूत्रेण लकारादेशः भवति । यथा — "प्र + अयते → प्लायते", "परा + अयते → पलायते", "निर् + अयते → निलयते", "दुर् + अयते → दुलयते" ।
**11. दुस् तथा दुर् - एतयोः उपसर्गयोः मध्ये सूक्ष्मः भेदः विद्यते ।**
दुस् तथा दुर् — एतयोः उपसर्गयोः प्रयोगेण प्रायेण समानानि एव रूपाणि भवन्ति, यतः दुस्-उपसर्गस्य सकारस्य प्रक्रियायाम् नित्यम् **ससजुषो रुः** (8.2.66) इति रुत्वम् एव भवति । परन्तु एकस्मिन् विशिष्टस्थले एतयोः रूपयोः मध्ये भेदः विद्यते । **अयँ (गतौ)** (1.546) धातोः यदा दुर्-उपसर्गः विधीयते, तदा अस्य रेफस्य **उपसर्गस्यायतौ** (8.2.19) इति सूत्रेण लकारादेशः भवति , येन "दुलयते" इति रूपं सिद्ध्यति । परन्तु अस्मात् धातोः यदा दुस्-उपसर्गः विधीयते, तदा **ससजुषो रुः** (8.2.66) इत्यनेन प्राप्तं रुत्वं **उपसर्गस्यायतौ** (8.2.19) इत्यस्य कृते असिद्धम् अस्ति, अतः अस्य रेफस्य लत्वं नैव प्रवर्तते; अतश्च "दुरयते" इत्येव रूपं सम्भवति ।
**12. निस् तथा निर् - एतयोः उपसर्गयोः मध्ये सूक्ष्मः भेदः विद्यते ।**
निस् तथा निर् — एतयोः उपसर्गयोः प्रयोगेण प्रायेण समानानि एव रूपाणि भवन्ति, यतः निस्-उपसर्गस्य सकारस्य प्रक्रियायाम् नित्यम् **ससजुषो रुः** (8.2.66) इति रुत्वम् एव भवति । परन्तु एकस्मिन् विशिष्टस्थले एतयोः रूपयोः मध्ये भेदः विद्यते । **अयँ (गतौ)** (1.546) धातोः यदा निर्-उपसर्गः विधीयते, तदा अस्य रेफस्य **उपसर्गस्यायतौ** (8.2.19) इति सूत्रेण लकारादेशः भवति , येन "निलयते" इति रूपं सिद्ध्यति । परन्तु अस्मात् धातोः यदा निस्-उपसर्गः विधीयते, तदा **ससजुषो रुः** (8.2.66) इत्यनेन प्राप्तं रुत्वं **उपसर्गस्यायतौ** (8.2.19) इत्यस्य कृते असिद्धम् अस्ति, अतः अस्य रेफस्य लत्वं नैव प्रवर्तते; अतश्च "निरयते" इत्येव रूपं सम्भवति ।
**13. अव तथा अपि - एतयोः उपसर्गयोः अकारस्य कुत्रचित् लोपः भवति ।**
केषुचन प्रयोगेषु अव-उपसर्गस्य, अपि-उपसर्गस्य अकारस्य लोपः कृतः दृश्यते । तदर्थम् वस्तुतः तु अष्टाध्याय्यां किमपि सूत्रं नैव विद्यते, परन्तु इति वचनम् अनुसृत्य, इत्युक्ते **भागुरिः** इति नाम्नः कस्यचन वैयाकरणस्य मतम् अनुसृत्य अस्य लोपस्य साधुत्वम् विधीयते ।यथा, कुमारसम्भवस्य आदिमे श्लोके — "पूर्वपरौ तोयनिधी **वगाह्य**" — इत्यत्र "वगाह्य" इत्यस्मिन् शब्दे मूलरूपेण अव इति उपसर्गः विद्यते, तस्य अकारस्य लोपं कृत्वा "अवगाह्य" इत्यस्य स्थाने "वगाह्य" इति अकारलोपघटितं रूपं प्रयुक्तम् अस्ति । एवमेव, "द्वारं पिदधाति (closes the door)" इत्यत्र "अपिदधाति" इति मूलः शब्दः, तत्र विद्यमानस्य अकारस्य लोपं कृत्वा "पिदधाति" इति अकारलोपघटितः शब्दः सिद्ध्यति । एतादृशाः प्रयोगाः वैकल्पिकाः एव, अतः "अवगाह्य", "अपिदधाति" एतादृशानाम् शब्दानाम् अपि साधुत्वम् अवश्यं वर्तते ।
**14. 'उद्' इति उपसर्गे मूलरूपेण दकारः विद्यते, न हि तकारः ।**
"उद्" इति उपसर्गः औपदेशिकस्वरूपे दकारघटितः पाठ्यते । अतएव **उदः स्थास्तम्भोः पूर्वस्य** (8.4.61) इत्यत्र उदः इति दकारघटितम् पञ्चम्यन्तरूपम् प्रयुक्तम् अस्ति ।
**15. 'अपि' इति उपसर्गः प्रायेण वेदेषु एव दृश्यते ।**
लौकिकसंस्कृते "अपि" उपसर्गस्य केवलम् द्वित्राणि उदाहरणानि सन्ति । यथा, हितोपदेशे "अप्यूहन्ति मनो धीराः" इति कश्चन प्रयोगः दृश्यते । एवमेव "कवचं पिनह्य" इति (अकारलोपघटितः) कश्चन प्रयोगः भट्टिकाव्ये दृश्यते । अन्ये सर्वेऽपि प्रयोगाः वैदिकाः एव सन्ति ।
**वार्त्तिकानि**
उपसर्गसंज्ञायाः सम्बन्धेन चत्वारि वार्त्तिकानि भाष्ये दीयन्ते -
** **
** मरुत् इति शब्दः यद्यपि प्रादिगणे नास्ति, तथापि अयम् **अच उपसर्गात्तः** (7.4.47) इत्यस्य सन्दर्भेण उपसर्गसंज्ञकः भवति ** । अतएव "मरुद्भिः दत्तः" इत्यत्र "मरुत् + दा + क्त" इति स्थिते, **दा**-धातोः स्थाने **दो दद् घोः** (7.4.46) इत्यनेन प्राप्तम् "दद्" आदेशं बाधित्वा **अच उपसर्गात्तः** (7.4.47) इत्यनेन "त"-आदेशः भवति, येन "मरुत्त" इति शब्दः सिद्ध्यति ।
** **
** श्रत् (promise, assurance इत्यर्थः) इति शब्दः यद्यपि प्रादिगणे नास्ति, तथापि अयम् तथापि अयम् **आतश्चोपसर्गे** (3.3.106) इत्यस्य सन्दर्भेण उपसर्गसंज्ञकः भवति ** । एतादृश्याम् उपसर्गसंज्ञायां प्राप्तायाम्, " श्रत् + धा" इत्यत्र **आतश्चोपसर्गे** (3.3.106) इति सूत्रेण **धा**-धातोः **अङ्**-प्रत्ययः विधीयते, येन "श्रद्धा" इति शब्दः सिद्ध्यति ।
** **
**षत्वे णत्वे च कर्तव्ये "दुस्"-इत्यस्य, "दुर्"-इत्यस्य च उपसर्गसंज्ञायाः प्रतिषेधः भवति ** । उदाहरणे एतादृशे —
i. "दुस् / दुर् + भू" इत्यस्य लोट्लकारस्य उत्तमपुरुषैकवचनम् "दुर्भवानि" इति भवति । अत्र यदि "दुस् / दुर्" इत्येतयोः उपसर्गसंज्ञा अभविष्यत्, तर्हि **आनि लोट्** (8.4.16) इत्यनेन प्रत्ययनकारस्य णत्वम् अभविष्यत् । परन्तु णत्वे कर्तव्ये प्रकृतवार्त्तिकेन दुस्/ दुर् इत्येतयोः उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र अनिष्टं णत्वं निवार्यते ।
ii) "दुस् / दुर् + स्था" इत्यस्य लृट्लकारस्य प्रथमपुरुषैकवचनम् "दुःस्थास्यति" इति भवति । अत्र यदि दुस् / दुर् इत्येतयोः उपसर्गसंज्ञा अभविष्यत्, तर्हि **उपसर्गात् सुनोतिसुवति...** (8.3.65) इत्यनेन **स्था**-धातोः सकारस्य षत्वम् अभविष्यत् । परन्तु प्रकृतवार्त्तिकेन षत्वे कर्तव्ये दुस् / दुर् इत्येतयोः उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र षत्वं न भवति ।
** **
**अन्तर्-शब्दस्य अङ्-विधौ, कि-विधौ, तथा च णत्वे कर्तव्ये उपसर्गसंज्ञा भवति** । क्रमेण उदाहरणानि एतानि —
i. **अङ्**-प्रत्यये कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः **धा**-धातोः अन्तर्-शब्दस्य उपस्थितौ **आतश्चोपसर्गे** (3.3.106) इत्यनेन **अङ्**-प्रत्ययः विधीयते, येन "अन्तर् + धा + अङ् + टाप् → अन्तर्धा" इति शब्दः सिद्ध्यति ।
ii. **कि**-प्रत्यये कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः**धा**-धातोः अन्तर्-शब्दस्य उपस्थितौ **उपसर्गे घोः किः** (3.3.92) इत्यनेन **कि**-प्रत्ययः विधीयते, येन "अन्तर् + धा + कि → अन्तर्धि" इति शब्दः सिद्ध्यति ।
iii. णत्वे कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतः **भू**-धातोः अन्तर्-शब्दस्य उपस्थितौ लोट्लकारस्य उत्तरमपुरुषस्यैकवचने कर्तव्ये **आनि लोट्** (8.4.16) इत्यनेन णत्वम् कृत्वा "अन्तर्भवाणि" इति णकारघटितम् रूपम् सिद्ध्यति । एवमेव, **नी**-धातोः नकारस्य अन्तर्-शब्दस्य उपस्थितौ **उपसर्गादसमासेऽपि णोपदेशस्य** (8.4.14) इत्यनेन णत्वं विधीयते येन "अन्तर्णयनम्" इति रूपं सिद्ध्यति ।
Sutrartha (English)
-------------------
The words belonging to the प्रादिगण are called उपसर्ग when used along with a verb.
Vasu English Summary
--------------------
The words प्र etc. get the designation of उपसर्ग or prepositions, when in composition with a verb.
Vasu English Translation
------------------------
The words प्र etc. get the designation of उपसर्ग or prepositions, when in composition with a verb.
As प्र + नयति = प्रणयति. Here the dental न is changed into cerebral ण, because of the प्र getting the designation of *upasarga* (See *sutra* (8.4.14)). Similarly परिणयति, प्रणायकः, परिणायकः.
Why do we say when in composition with a verb? When in composition with a noun they are not called *upasargas*. As प्रगतो नायकोऽस्माद् देशात् = प्रनायकोदेशः a country destitute of a leader. Here न is not changed into ण. Thus while प्रणायकः means 'a leader' the term प्रनायकः means destitute of a leader; though both have the same radical elements :-- *pra* in one is an *upasarga*, in the other a *Nipata* pure and simple.
Vart:- The word मरुत् should be included in the list of *upasargas*. As मरुद्भिर्दत्तः = मरुत्तः given by *Marut*. मरुत् + दा + क्त = मरुत् + त् + त (7.4.47). Here *Marut* being treated as an *upasarga*, though it does not end with a vowel, the दा is replaced by त by rule (7.4.47) which declares 'त the substitute of दा which is called *ghu* when it is preceded by an *upasarga* that ends in a vowel, and is followed by an affix beginning with त which has an indicatory *k*.'
It might be objected, that as मरुत् does not end with a vowel, *sutra* (7.4.47) does not apply. To this we say that otherwise the giving the designation of *upasarga* to मरुत् is superfluous; and in order that this should not be so, the fact of its not ending with a vowel is overlooked.
Vart:- The particle श्रत् should be included in the list of *upasargas*. Thus श्रत् + धा + अङ् = श्रद्धा (3.3.106). Here because श्रत् is treated as an *upasarga*, that *sutra* (3.3.106) is made applicable.
Bhashya
-------
उपसर्गाः क्रियायोगे प्रादय इति योगविभागः निपातसंज्ञार्थः, एकयोगे हि निपातसंज्ञाभावः ॥ 1 ॥ प्रादय इति योगविभागः कर्तव्यः । प्रादयोऽसत्त्ववचना निपातसंज्ञा भवन्ति । तत उपसर्गाः क्रियायोगे इति ॥ किमर्थो योगविभागः ? निपातसंज्ञाऽर्थः ॥ 2 ॥ निपातसंज्ञा यथा स्यात् । एकयोगे हि निपातसंज्ञाऽभावः ॥ 3 ॥ एकयोगे हि सति निपातसंज्ञाया अभावः स्यात् । यस्मिन्नेव विशेषे, गत्युपसर्गकर्मप्रवचनीयसंज्ञास्तस्मिन्नेव विशेषे निपातसंज्ञा स्यात् । मरुच्छब्दस्योपसंख्यानम् ॥ 4 ॥ मरुच्छशब्दस्योपसंख्यानं कर्तव्यम् । मरुद्दत्तो मरुतः । अच उपसर्गाद् (7.4.47) इति तत्वं यथा स्यात् । श्रच्छब्दस्योपसंख्यानम् ॥ 5 ॥ श्रच्छब्दस्योपसंख्यानं कर्तव्यम् । श्रद्धा । ॥ 58 ॥
Kashika
-------
प्रादयः क्रियायोग उपसर्गसंज्ञा भवन्ति। प्रणयति। परिणयति। प्रणायकः। परिणायकः। क्रियायोग इति किम्? प्रगतो नायकोऽस्माद् देशात् प्रनायको देशः॥ मरुच्छब्दस्य चोपसंख्यानं कर्तव्यम्॥ मरुद्भिर्दत्तो मरुत्तः। संज्ञाविधानसामर्थ्यादनजन्तत्वेऽपि **अच उपसर्गात् तः** (७.४.४७) इति तत्वं भवति ॥ श्रच्छब्दस्योपसंख्यानम्॥ **आतश्चोपसर्गे** (३.३.१०६) इत्यङ् भवति। श्रद्धा। उपसर्गप्रदेशाः — **उपसर्गे घोः किः** (३.३.९२) इत्येवमादयः॥
Laghu Siddhanta Kaumudi
-----------------------
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप - एते प्रादयः॥
Laghu Shabdendushekhar
----------------------
**उपसर्गाः क्रियायोगे** । योगग्रहणं- **यदर्थे प्रादीनामन्वयस्तं प्रत्येवोपसर्गत्वादि** इत्यर्थबोधनाय । तेन 'विगता: सेचका अस्माद्विसेचको ग्रामः' इत्यादी षत्वं न ।
Padamanjari
-----------
क्रियायोगे इति तृतीया, निपातनात् समासः,'कर्तृ करणे कृता' इति बहुलवचनाद्वा। यद्वा - क्रियया करणभूतया प्रादीनां धातुभिर्योगात् करणे तृतीयया एव समासः। प्रणयतीति। ठुपसर्गादसमासेऽपि इति णत्वम्। प्रनायक इति। नन्वत्रापि गमिक्रियायोगोऽस्त्येव, सत्यम्; प्रादयः पुनरेवमात्मकाः, यदुत श्रुतायां क्रियायां तामेव विशिंषन्ति, अश्रुतायां तु ससाधनां क्रियामाक्षिपन्ति। तत्र क्रियायोगग्रहणसामर्थ्याद् यत्क्रियायुक्ताः प्रादयस्तं प्रत्युपसर्गसंज्ञा भवतीत्ययमर्थो भवति। अत्र च यत्क्रियायुक्तः प्रादिः स गमिर्न प्रयुज्यते, यश्च प्रयुज्यते न तत्क्रियायुक्त इति नास्ति णत्वप्रसङ्गः। मरुच्छब्दस्येति। उपसर्गसंज्ञैवेष्यते, न निपातसंज्ञा। तस्यां हि सत्यां निपाताद्यौदातत्वम्ठ्तृतीया कर्मणिऽ इति पूर्वपदप्रकृतिस्वरेण स्यात्, अन्तोदातश्च मरुतशब्द इष्यते। ननूपसर्गसंज्ञायामपि ठुपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातत्वं स्यादेव, न; नानेनापूर्वमाद्यौदातत्वं विधीयते, किं तर्हि?'निपाताः' इत्येव सिद्धेऽथेः प्रतिषेधार्थमेतत्। किं च निपातसंज्ञायामव्ययसंज्ञा स्यात्। अथ ठुपसर्गे धोः किःऽठातश्चोपसर्गेऽ इत्येतौ विधी कस्मान्न भवतः? अनभिधानात्। मरुत इति। मरुच्छब्दतकारस्य ठनचि चऽ इति द्विर्वचने'झरो झरि' इति मध्यमस्य मध्यमयोर्मध्यमानां वा लोपे त्रैरूप्यं भवति, कथं पुनरत्र तत्वम्, यावतायमनजन्त इत्यत आह - संज्ञाविधानसामर्थ्यादिति। उक्तः प्रयोजनान्तराभावः। एवं तु मरुन्नयतीति तकारव्यवायेऽपि णत्वं प्राप्रोति तस्मातत्वविधावेवेष्यते। श्रच्छब्दस्येति। अङ्विधावेवेष्यते, किप्रत्ययो हि न भवति, तदाह - आतश्चोपसर्गे इति। भिदादिपाठात्'प्रज्ञाश्रद्धार्चा' इति निपातनाद्वा सिद्धम्॥
Nyaas
-----
`प्रणयति` इति। प्रशब्दस्योपसर्गत्वात् **उपसर्गादसमासेऽपि णोपदेशस्य** (8.4.14) इति णत्वम्। `प्रनायको देशः` इति। अत्रनयनक्रियया प्रशब्दस्य योगो नास्तीत्युपसर्गसंज्ञा न भवति। ननु चात्रापि गमिक्रियया योगोऽस्त्येवेति स्यादेव तस्योपसर्गसंज्ञा, नेतदस्ति; क्रियायोगग्रहणं ह्रेवमनर्थकं स्यात्। कथम्? प्रादीनां क्रियायोगाव्यभिचारात्; तस्मात् क्रियायोगग्रहणसामर्थ्याद्यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्ुयपसर्गसंज्ञका भवन्ति, नान्यं प्रति। न चेह नयनक्रियया युक्तः प्रशब्दः, किं तर्हि? गमिक्रिययेति नयतिं प्रत्युपसर्गसंज्ञको न भवति।`मरुच्छब्दस्योपसंख्यानम्` इति। तत्वविधाविति। शेषः; अन्यथा हि `निपाता आद्युदात्ताः` (फि।सू।4।80) `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्याद्युदात्तत्वमपि स्यात्। अन्तोदात्तश्चेष्यते मरुच्छब्दः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः; मरुच्छब्दस्योपसर्गसंज्ञायाः प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - `उपसर्गाः` इति योगविभागः क्रियते। अत्र च `प्रादयः` इति नाभिसम्बध्यते। तेन मरुच्छब्दस्य तत्वविधावुपसर्गसंज्ञा भवतीति। अत एव योगविभागात् श्रच्छब्दस्याङविधावन्तः शब्दस्याङ्गिविधिणत्वेषूपसर्गसंज्ञा भवतीति वेदितव्यम्। योगविभागस्येदं लिङ्गम् **प्रज्ञाश्रद्धार्चाभ्यो णः** (5.2.101) , **तिरोऽन्तर्द्धौ** (1.4.71) इति च निर्देशः। ततः `क्रियायोगे` इति द्वितीयो योगः। अत्र च `प्रादयः` इति सम्बध्यते। किमर्थमिदम्? पूर्वेणैव सिद्धमिति पूर्वयोगस्यासर्वविषयत्वाज्ञापनार्थम्, तेन नातिप्रसङगः। प्रादीनामक्रियायोग उपसर्गसंज्ञा मा भूदित्येवमर्थञ्च। `मरुत्तः` इति। **अच उपसर्गात्तः** (7.4.47) इति क्तप्रत्यये कृते द्वितकारनिर्देशाद्दवातेः सर्वादेशः। ननु चसत्यामुपसर्गसंज्ञयां करुच्छब्दस्यानजन्तत्वात् तत्वेन न भवितव्यमित्यत आह - `संज्ञाविधान सामर्थ्यात्` इत्यादि। यथा ह्रुपसरज इत्यत्र डित्करणसामर्थ्यादभस्यापि टिलोपो भवति, तथेहाप्यनजन्तादपि तत्वं भविष्यति; अन्यथा हीदं वचनमपार्थकं स्यात्। मरुच्छब्दस्योपसर्गसंज्ञाया अन्यकार्याभावादिति भावः।`श्रच्छब्दस्योपसंख्यानम्` इति। अत्राप्युपसंख्यानशब्दस्य स एवार्थः। प्रतिपादनमपि तदेव। ननु च भिदादिपाठादेव हि श्रद्धेति सिद्धम्;तत्कथं तत्सिद्धये श्रच्छब्दस्योपसर्गसंज्ञा क्रियते? एवं मन्यते- अनार्षस्तत्र पाठ इति॥बाल-मनोरमाप्रादयः 23, 1.4.59 प्रादयः। असत्त्व इत्यनुवर्तते, निपाता इति च। तदाह - अद्रव्येति। तथेति। निपातसंज्ञका इत्यर्थः।बाल-मनोरमाउपसर्गाः क्रियायोगे 24, 1.4.59
Praudhamanorama
---------------
निस् दुर् इति सान्तौ, **निसस्तपतौ** (8.3.102) इति निर्देशात् 'अयोगवाहानामविशेषेण' इति प्रकरणे निष्कृतं दुष्कृतमित्युदाहृत्य 'इदुदुपधस्य सकारस्य यो विसर्जनीयः' इति भाष्यकारोक्तेश्च। **उपसर्गस्यायतौ** (8.2.19) इति सूत्रे वामनोऽप्येवम्। **निरः कुषः** (7.2.46) 'सुदुरोरधिकरणे' इति निर्देशाद्रेफान्तावपीति तत्रैव सूत्रे हरदत्तः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां संज्ञाप्रकरणम्॥
Prakriyasarvasvam
-----------------
क्रियापदयोगे तु प्रादय उपसर्गारव्याः ।
Sarala
------
**प्रादयः** (१.४.५८) इत्यनुवर्त्तते, तदाह - **प्रादय इति** ॥