14058: प्रादयः ============== **Padacheda:** प्र-आदयः | S | 1 | 3 | Sutrartha --------- **प्रादिगणे निर्दिष्टाः शब्दाः अद्रव्यवाचिनि अर्थे निपातसंज्ञकाः भवन्ति ।** **प्रादिगणः** इति कश्चन गणः गणपाठे पाठितः अस्ति । **अस्मिन् गणे विद्यमानाः सर्वे शब्दाः **अद्रव्यवाचिषु अर्थेषु निपातसंज्ञकाः भवन्ति **** —‌ इति अस्य सूत्रस्य आशयः । **द्रव्यम्** इत्यक्ते भौतिकजगतः कश्चन पदार्थः । **लिङ्गसङ्ख्यान्वितम् द्रव्यम्** इति अस्य शब्दस्य व्याख्या दीयते । यस्य वस्तुनः लिङ्गम्, संख्या वा भवितुम् अर्हति, तस्य **द्रव्यम्** इति संज्ञा भवति — इति अस्य आशयः । **एतादृशान् अर्थान् विहाय अन्येषु अर्थेषु प्रयुक्ताः प्रादिगणस्य शब्दाः निपातसंज्ञाः भवन्ति** । यथा, अस्य गणस्य परा इति शब्दः यदा "परा सेना जयति" एतादृशेषु वाक्येषु प्रयुज्यते, तदा लिङ्गसङ्ख्यान्वितत्वात् अस्य प्रकृतसूत्रेण निपातसंज्ञा न भवति । परन्तु "पराजयते" इत्यत्र प्रयुक्तः परा इति शब्दः लिङ्गं संख्यां वा न दर्शयति, अतः अस्य प्रकृतसूत्रेण अवश्यं निपातसंज्ञा भवति । **प्रादिगणस्य आवली** प्रादिगणे आहत्य द्वाविंशतिः (22) शब्दाः सन्ति । एतेषाम् आवली अधः दत्ता अस्ति । प्रत्येकं शब्दस्य संक्षिप्ताः अर्थाः अपि निर्दिष्टाः वर्तन्ते । एतेषाम् अन्ये अर्थाः तु कोशेभ्यः ज्ञातव्याः । एवमेव, एते शब्दाः वाक्येषु कथं प्रयोक्तव्याः इति तु शिष्टैः एव ज्ञेयम् । 1. प्र (forward, in front, before, primary) 2. परा (away, back, inverted, aside) 3. अप (away from, deterioration, opposition, negation) 4. सम् (with, together, quite, greatly, very much) 5. अनु (after, along, following, later) 6. अव (away, down) 7. निस् (out of , away from, without, free from, less) 8. निर् (out of , away from, without, free from, less) 9. दुस् (bad, evil, wicked, inferior, hard, difficult) 10. दुर् (bad, evil, wicked, inferior, hard, difficult) 11. वि (separate, away, opposition, negation, intensity, greatness, difference) 12. आङ् (near, towards, from all sides, all around) 13. नि (downward motion, intensity, skill, inclusion, proximity, insult, doubt) 14. अधि (over and above, to place over, besides, in addition, intensification) 15. अपि (to place near, besides, unite, reaching up) 16. अति (very, too much, exceedingly, excessively, close) 17. सु (excellent, beautiful, well, perfect) 18. उद् (superiority, separation, upwards motion, gain) 19. अभि (from both sides, over and above, across, towards, in the direction of ) 20. प्रति (towards, in the direction of, back, in return, against, down upon, likeness, equality, opposition ) 21. परि (round, round about, in addition to, excessively, against, opposite to) 22. उप (towards, near to, by the side of, with, under, down) **असत्त्वे इति अनुवृत्तिः** **चादयोऽसत्त्वे** (1.4.57) इति पूर्वसूत्रात् "असत्त्वे" इति शब्दः प्रकृतसूत्रे अनुवृत्तिरूपेण स्वीक्रियते । अनेन **प्रादयः असत्त्ववाचिनि अर्थे एव निपातसंज्ञकाः स्युः** इति अर्थः सिद्ध्यति । अस्य एकम् उदाहरणम् अस्ति - परा इति शब्दः । अयं शब्दः यदा "पर"-इति सर्वनामशब्दस्य स्त्रीलिङ्गस्य एकवचनरूपेण (यथा, "परा दिक्"), अथवा **उत्कृष्टः** अस्मिन् अर्थे (यथा - "परा वाणी", "परा सेना" इति) प्रयुक्तः दृश्यते, तदा तस्य प्रकृतसूत्रेण निपातसंज्ञा मा भूत्, इति स्पष्टीकर्तुम् अत्र "असत्त्वे" इति शब्दः अनुवृत्तिरूपेण स्वीकृतः अस्ति । **प्रादयः तथा उपसर्गसंज्ञा** प्रादिगणस्य शब्दाः यदा **क्रियायाः योगे** प्रयुज्यन्ते, तदा तेषाम् **उपसर्गाः क्रियायोगे** (1.4.59) इत्यनेन उपसर्गसंज्ञा अपि भवति । परन्तु **यदा एते शब्दाः क्रियाभिन्ने सन्दर्भे प्रयुज्यन्ते, तदा एतेषाम् उपसर्गसंज्ञा न भवति** । द्वे उदाहरणे एतादृशे -
  • 1. **प्रगतः नायकः यस्मात् देशात् सः प्रनायकः देशः** । अत्र प्रनायक इति शब्दे विद्यमानः प्र इति उपसर्गसंज्ञकः नास्ति अपितु प्रादिसंज्ञकः एव अस्ति । यद्यपि विग्रहवाक्ये "प्रगतः" इत्यत्र विद्यमानस्य प्र इत्यस्य गम्-धातोः योगे उपसर्गसंज्ञा भवति, तथापि **यं प्रति क्रियायुक्ताः प्रादयः, तं प्रति गत्युपसर्गकसंज्ञकाः, नान्यं प्रति** इति न्यायेन, समस्तपदे गम्-धातोः अभावात्, तत्र प्र इत्यस्य उपसर्गसंज्ञा न भवति । यदि एतादृशी उपसर्गसंज्ञा अभविष्यत्, तर्हि **उपसर्गादसमासेऽपि णोपदेशस्य** (8.4.14) इत्यनेन नकारस्य णत्वे कृते, "प्रणायक" इति अशुद्धः शब्दः असेत्स्यत् ।
  • 2. **निर्गताः सेचकाः यस्मात् देशात् सः निःसेचकः देशः ** । अत्र निःसेचक इति शब्दे विद्यमानः निर् इति उपसर्गसंज्ञकः नास्ति अपितु प्रादिसंज्ञकः एव अस्ति । यद्यपि विग्रहवाक्ये "निर्गताः" इत्यत्र विद्यमानस्य निर् इत्यस्य गम्-धातोः योगे उपसर्गसंज्ञा भवति, तथापि **यं प्रति क्रियायुक्ताः प्रादयः, तं प्रति गत्युपसर्गकसंज्ञकाः, नान्यं प्रति** इति न्यायेन, समस्तपदे गम्-धातोः अभावात्, तत्र निर् इत्यस्य उपसर्गसंज्ञा न भवति । यदि एतादृशी उपसर्गसंज्ञा अभविष्यत्, तर्हि **उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्** (8.3.65) इत्यनेन सकारस्य षत्वे कृते, "निःषेचक" इति अशुद्धः शब्दः असेत्स्यत् । यद्यपि **उपसर्गाः** तथा च **प्रादयः** एतयोर्मध्ये भेदः वर्तते, तथापि सूत्रपाठे केषुचित् स्थलेषु प्रादीनां निर्देशार्थम् "उपसर्गः" इत्येव शब्दः प्रयुक्तः दृश्यते । यथा, **द्व्यन्तरुपसर्गेभ्योऽप ईत् ** (6.3.97) इत्यत्र, **उपसर्गादध्वनः** (5.4.85) इत्यत्र, तथा च **उपसर्गाच्च ** (5.4.119) इत्यत्रापि विद्यमानः "उपसर्गः" इति शब्दः वस्तुतः प्रादीनां निर्देशं करोति । **योगविभागः उपसर्गसंज्ञार्थः** **चादयोऽसत्त्वे** (1.4.57) इति पूर्वसूत्रेण **चादिगणस्य** शब्दानां निपातसंज्ञायाम् उक्तायाम्, प्रकृतसूत्रे पुनः **प्रादिगणस्य** शब्दानां निपातसंज्ञा विधीयते । वस्तुतः अत्र एकस्मिन् एव सूत्रे "चादयः प्रादयोऽसत्त्वे" इति वक्तुं शक्यम् आसीत् । परन्तु तथा क्रियते चेत् अग्रिमसूत्रे **उपसर्गाः क्रियायोगे** (1.4.59) इत्यत्र प्रादिभिः सह चादीनाम् अपि उपसर्गसंज्ञा अभविष्यत् । तत् तथा मा भूत् इति हेतुना अत्र द्वे भिन्ने सूत्रे स्थापिते स्तः । **प्रादीनां निपातसंज्ञायाः प्रयोजनम्** यदा प्रादयः उपसर्गरूपेण तिङन्तैः सह प्रयुज्यन्ते, तदा तत्र उपसर्ग-तिङन्तयोर्मध्ये न कोऽपि समासः सम्भवति । किञ्च, तत्र प्रादीनां पृथक् पदत्वम् अपि विद्यते । अस्यां स्थितौ तेषाम् अन्ते विद्यमानस्य सुप्-प्रत्ययस्य लोपः इष्यते, तत्कर्तुम् एव तेषाम् निपातसंज्ञा कृता अस्ति । निपातसंज्ञया **स्वरादिनिपातमव्ययम्** (1.1.37) इत्यनेन प्रादयः अव्ययसंज्ञकाः भवन्ति, तथा च अव्ययसंज्ञकेभ्यः एतेभ्यः विहितस्य सुप्-प्रत्ययस्य **अव्ययादाप्सुपः** (2.4.82) इत्यनेन लोपः भवति । यथा, "प्रपतति" इत्यत्र "प्र" इत्यस्मात् विहितस्य सुप्-प्रत्ययस्य लोपं कर्तुम् निपातसंज्ञा आवश्यकी वर्तते । Sutrartha (English) ------------------- The words included in the प्रादिगण are called निपात when used in a sense that does not denote an object. Vasu English Summary -------------------- The words प्र etc. are called निपात when not signifying substances. Vasu English Translation ------------------------ The words प्र etc. are called निपात when not signifying substances. The following is the list of प्रादयः or 'prepositions:' प्र, परा, अव, सम्, अनु, अव, निस्, दुस्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप ॥ The making of this a distinct aphorism, when it could well have been included in the last, is for the sake of giving the *Pra* &c., words two names, namely, those of *Nipatas*, as well as *upasargas* under certain circumstances, i.e., when they are in composition with verbs. Not so however the *cha* &c., words. They never get the designation of *upasargas*. When these words signifying substances they are not *Nipatas*. As परा जयति सेना the excellent army conquers. Here the word परा is not a *Nipata*. Bhashya ------- प्रादयः प्रादय इति योगविभागः निपातसंज्ञार्थः, एकयोगे हि निपातसंज्ञाभावः ॥ 1 ॥ प्रादय इति योगविभागः कर्तव्यः । प्रादयोऽसत्त्ववचना निपातसंज्ञा भवन्ति । तत उपसर्गाः क्रियायोगे इति ॥ किमर्थो योगविभागः ? निपातसंज्ञाऽर्थः ॥ 2 ॥ निपातसंज्ञा यथा स्यात् । एकयोगे हि निपातसंज्ञाऽभावः ॥ 3 ॥ एकयोगे हि सति निपातसंज्ञाया अभावः स्यात् । यस्मिन्नेव विशेषे, गत्युपसर्गकर्मप्रवचनीयसंज्ञास्तस्मिन्नेव विशेषे निपातसंज्ञा स्यात् । मरुच्छब्दस्योपसंख्यानम् ॥ 4 ॥ मरुच्छशब्दस्योपसंख्यानं कर्तव्यम् । मरुद्दत्तो मरुतः । अच उपसर्गाद् (7.4.47) इति तत्वं यथा स्यात् । श्रच्छब्दस्योपसंख्यानम् ॥ 5 ॥ श्रच्छब्दस्योपसंख्यानं कर्तव्यम् । श्रद्धा । ॥ 58 ॥ Kashika ------- प्रादयोऽसत्त्वे निपातसंज्ञा भवन्ति। प्र। परा। अप। सम्। अनु। अव। निस्। निर्। दुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उत्। अभि। प्रति। परि। उप। पृथग्योगकरणमुत्तरसंज्ञाविशेषणार्थम्। **उपसर्गाः क्रियायोगे** (१.४.५९) इति चादीनामुपसर्गसंज्ञा मा भूत्। असत्त्व इत्येव — परा जयन्ति सेनाः॥ Siddhanta Kaumudi ----------------- अद्रव्यार्थाः प्रादयस्तथा ॥ Laghu Siddhanta Kaumudi ----------------------- एतेऽपि तथा॥ Balamanorama ------------ **प्रादय उपसर्गाः क्रियायोगे** - Padamanjari ----------- अयं योग उतरस्माद्विभज्यते, पूर्वस्माच्च; यदि पुनःठ्प्रादय उपसर्गाः क्रियायोगेऽ इत्युच्यते, नैवं शक्यमित्याह-पृथग्योगकरणमिति। उतरस्या उपसर्गसंज्ञाया एव'क्रियायोगे' इति विशेषणं यथा स्यात्, निपातसंज्ञायां मा भूदित्येवमर्थमुतरस्माद् योगादस्य विभाग इत्यर्थः। अथ वा - चादिष्वेव प्रादीनपि पठित्वा पूर्वस्माद्योगात् किमर्थ विभज्यते, तत्राप्याह - उपसर्गाः क्रियायोग इति। वादीनामिति। चलोपोऽत्र द्रष्टव्य इति च - वदीनामिति। परा जयन्ति सेना इति। परा उत्कुष्टाः। परदेशस्थिता वा द्रव्यत्वातत्र वर्तमानस्य पराशब्दस्य न भवति, यत्र त्वेकवचनं पठ।ल्ते - परा जयति सेनेति, तत्र रूपोदाहरणं द्रष्टव्यम्; हल्ङ्याबिति सुलोपात्, पराशब्दस्याद्यौदातत्वाच्च॥ Prakriyasarvasvam ----------------- एतेऽप्यद्रव्या1र्था निपाताख्याः। प्रपरापसमन्ववनिनिर्दुर्व्याङन्यधिप्रतिपर्यपुपात्य- पिसूद्भवः । Sarala ------ **चादयोऽसत्त्वे** (१.४.५७) इत्यतो "असत्त्वे", **प्राग्रीश्वरान्निपाताः** (१.४.५६) इति "निपाताः" इति चानुवर्त्त्याह - **एतेऽपीति** ॥ Vartika ------- मरुच्छब्दस्योपसंख्यानम् । Sutra Prayogas -------------- * **पारश्वधिक** (भट्टिकाव्यम्): `परश्वधात् ठन्` इति तथा धनुः प्रहरणमेपां ।