14049: कर्तुरीप्सिततमं कर्म
===========================
**Padacheda:** कर्तुः | S | 6 | 1 |
ईप्सिततमम् | S | 1 | 1 |
कर्म | S | 1 | 1 |
Sutrartha
---------
**कर्तुः क्रियया आप्तुम् यत् इष्टतमम्, तत् कारकं कर्मसंज्ञं भवति । यथा - हरिं भजति ।**
**कारके** (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं षष्ठं, तथा च मुख्यतमं सूत्रम् । **क्रियायाः व्यापारेण कर्तुः यत् **इष्टतमम्** , most desired) तस्य **कर्म** इति संज्ञा भवति** । **कर्तुः इष्टतम: पदार्थःब> इत्युक्ते सः पदार्थः यं क्रियायाः कर्ता क्रियया प्रकर्षेण प्राप्तुम् इच्छति ।** किञ्च, अस्मिन्नेव पदार्थे **कर्ता क्रियाफलम् अपि पश्यति** । यथा, देवदत्तः ओदनं पचति इत्यत्र पचनक्रियया (= विक्लित्त्यनुकूलव्यापारेण) देवदत्तः **ओदनस्य विक्लित्तिम्** इच्छति, अतएव क्रियायाः फलम् अपि सः ओदने एव पश्यति, अतश्च **पचनक्रियायाः सन्दर्भेण देवदत्तस्य इष्टतमम् अत्र ओदनपदार्थः** इति स्वीक्रियते, तथा च तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । कर्मसंज्ञायां सत्याम्, **कर्मणि द्वितीया** (2.3.2) इत्यनेन कर्मसंज्ञकपदार्थस्य निर्देशार्थम् द्वितीयाविभक्तिः प्रयुज्यते, येन देवदत्तः ओदनं पचति इति प्रयोगः सिद्ध्यति । अनेनैव प्रकारेण कानिचन अन्यानि उदाहरणानि एतानि -
1. देवदत्तः ग्रामं गच्छति इत्यत्र गमनक्रियायाः (= उत्तरदेशसंयोगानुकूलव्यापारस्य) देवदत्तः फलं ग्रामे पश्यति, अतः गमनक्रियायाः सन्दर्भेण ग्रामपदार्थः देवदत्तस्य इष्टतमरूपेण प्रयुज्यते, तस्य च प्रकृतसूत्रेण कर्मसंज्ञा भवति ।
2. देवदत्तः हरिं भजति इत्यत्र भजनक्रियायाः (= तुष्ट्यनुकूलपरिचरणात्मकव्यापारस्य) फलं देवदत्तः हरौ पश्यति, अतः भजनक्रियायाः सन्दर्भेण हरिपदार्थः देवदत्तस्य इष्टतमरूपेण प्रयुज्यते, तस्य च प्रकृतसूत्रेण कर्मसंज्ञा भवति ।
2. देवदत्तः अपूपान् खादति इत्यत्र खादनक्रियायाः (= गलबिलसंयोगात्मकव्यापारस्य) फलं देवदत्तः अपूपेषु पश्यति, अतः खादनक्रियायाः सन्दर्भेण अपूपपदार्थः देवदत्तस्य इष्टतमरूपेण प्रयुज्यते, तस्य च प्रकृतसूत्रेण कर्मसंज्ञा भवति ।
**ईप्सिततमम् इति शब्दः**
पाणिनिमहर्षिणा प्रकृतसूत्रे **ईप्सिततमम्** इति शब्दः प्रयुक्तः अस्ति । ईप्सिततमम् इत्युक्ते **आप्तुम् इष्टतमम्** । स्वादिगणस्य **आप् (व्याप्तौ)** (5.16) इति धातोः "आप्तुम् इच्छति" अस्मिन् अर्थे **सन्**-प्रत्यये कृते **ईप्स** इति आतिदेशिकधातुः सिद्ध्यति । अस्मात् कर्मणि **क्त**-प्रत्यये कृते **ईप्सित** इति शब्दः सिद्ध्यति । आप्तुम् इष्टम् तत् ईप्सितम् । एतादृशेषु सर्वेषु अपि ईप्सितेषु यत् प्रकर्षेण ईप्सितम्, तस्य निर्देशार्थम् **अतिशायने तमबिष्ठनौ** (5.3.55) इत्यनेन **तमप्**-प्रत्ययं कृत्वा **ईप्सिततम** इति शब्दः सिद्ध्यति । अस्य ईप्सिततमस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति ।
अत्र इदं स्मर्तव्यम्, यत् **ईप्सिततमम्** इत्यनेन "कर्तुः स्वस्य रुचिः कीदृशी वर्तते" इति चिन्तनं न क्रियते । केवलं "क्रियया कर्ता किम् इच्छति" इत्यस्यैव अत्र चिन्तनम् करणीयम् । यथा, कस्यचन देवदत्तस्य यद्यपि अपूपाः द्वेष्या: स्युः (Devadatta dislikes pakoras), तथापि, यदि देवदत्तः अपूपानाम् पचनक्रियां करोति, तर्हि तत्र देवदत्तः अपूपान् पचति इत्यत्र अपूपाः एव पचनक्रियायाः सन्दर्भेण देवदत्तस्य "ईप्सिततमाः" सन्ति, यतोऽहि पचनक्रियायाः फलम् देवदत्तः अपूपेषु एव पश्यति, नान्यत्र । एवमेव, देवदत्तः विषं भुङ्क्ते इत्यत्रापि, स्वेच्छया अनिच्छया वा, परन्तु "इदं विषम् अहं भोक्ष्ये" इति ज्ञात्वा, चिन्तयित्वा च विषं भुञ्जानः देवदत्तः भोजनक्रियायाः गलबिलसंयोगरुपि फलम् विषे एव पश्यति इति कारणात् विषस्यैव ईप्सिततमत्वम् अस्ति ।
**अकर्मकधातवः**
कासाञ्चन क्रियाणाम् सन्दर्भेण कर्तुः ईप्सितमम् **स्वयम् कर्ता एव अस्ति**, कश्चन अन्यपदार्थः न । यथा, हसन-शयन-वर्धनादिक्रियाणां फलम् कर्ता स्वस्मिन् एव पश्यति, अन्यत्र न । अतः एतासां क्रियाणां विषये **कर्तुः ईप्सिततमम् कर्ता एव भवति** । अस्यां स्थितौ एतेषाम् अर्थानां वाचकाः **हस्**-**शीङ्**-**वृध्**-इत्यादयः ये धातवः, तेषां कर्मपदमेव न सम्भवति । एतादृशाः धातवः धातुपाठे अकर्मकधातवः इति नाम्ना परिगणिताः सन्ति । धातुपाठे आहत्य 650 धातवः अकर्मकाः सन्ति । एतेषाम् आवली अत्र द्रष्टुं शक्यते ।
**ईप्सितत्वस्य आधारेण पदार्थानां विभाजनम्**
क्रियायाः सन्दर्भे कर्तुः दृष्ट्या, ईप्सितत्वस्य आधारेण पदार्थानां **त्रिषु गणेषु** विभाजनं सम्भवति -
1)** ते पदार्थाः ये ईप्सिताः सन्ति **। एतादृशेषु पदार्थेषु यः प्रकर्षेण ईप्सितः, सः ईप्सिततमः नाम्ना निर्दिश्यते, तथा च तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । अन्येषां पदार्थानाम् (इत्युक्ते, ये ईप्सिताः सन्ति परन्तु ईप्सिततमाः न सन्ति) तेषां कर्मसंज्ञा न भवति । एतत् स्पष्टीकर्तुम् एव प्रकृतसूत्रे "ईप्सिततमम्" इति तमप्-प्रत्ययान्तशब्दस्य ग्रहणं कृतं वर्तते ।
2) **ते पदार्थाः ये द्वेष्याः सन्ति ** । एतेषां पदार्थानां **तथायुक्तं चानीप्सितम्** (1.4.50) इति अग्रिमसूत्रेण कर्मसंज्ञा भवति ।
3) **ते पदार्थाः ये उपेक्ष्याः सन्ति (इत्युक्ते, ईप्सिताः अपि न सन्ति, द्वेष्याः अपि न सन्ति । एतेषां विषये कर्तुः मनसि औदासीन्यं वर्तते ।) **। एतेषां पदार्थानाम् अपि **तथायुक्तं चानीप्सितम्** (1.4.50) इति अग्रिमसूत्रेण कर्मसंज्ञा भवति ।
**दलकृत्यम्**
**1. कर्तुः इति किमर्थम् ? ** **अन्यकारकस्य यद् ईप्सिततमम्, तस्य प्रकृतसूत्रेण कर्मसंज्ञा न भवति** । यथा, देवदत्तः माषेषु अश्वान् बन्धाति (Devadatta ties the horse near the grams) इत्यत्र कर्तुः (देवदत्तस्य) बन्धनक्रियायाः सन्दर्भेण ईप्सितपदार्थः "अश्वः" इति अस्ति, अतः तस्य कर्मसंज्ञा अवश्यं भवति । परन्तु अश्वपदार्थस्य ईप्सिताः ये माषाः, तेषाम् कर्मसंज्ञा न भवति ।
**2. ईप्सिततमम् इति किमर्थम् ? ** **ये पदार्थाः ईप्सिताः सन्ति परन्तु ईप्सिततमाः न सन्ति, तेषां विषये प्रकृतसूत्रेण कर्मसंज्ञा न भवति** । यथा, देवदत्तः पयसा ओदनं भुङ्क्ते । अत्र यद्यपि देवदत्तः ओदनम् अपि भुङ्क्ते, पयः अपि भुङ्क्ते, तथापि भोजनक्रियायाः सन्दर्भेण देवदत्तस्य ईप्सिततमपदार्थः "ओदनम्" इत्येव अस्ति । पयः तु ओदनस्य संस्काराय प्रयुज्यते (ओदनः नास्ति चेत् पयस: अपि न उपयोगः इत्याशयः) । अतः पयः यद्यपि ईप्सितं भवितुम् अर्हति, तथापि तत् ओदनसदृशम् ईप्सिततमम् नास्ति । अतः अत्र केवलम् ओदनस्यैव प्रकृतसूत्रेण कर्मसंज्ञा भवति । पयः-पदार्थस्य तु **साधकतमं करणम्** (1.4.42) इत्यनेन करणसंज्ञा एव विधीयते ।
**कर्म इति अनुवृत्तौ पुनः कर्मग्रहणम् आधारनिवृत्यर्थम्**
वस्तुतः प्रकृतसूत्रे **अधिशीङ्स्थासां कर्म** (1.4.46) इत्यस्मात् सूत्रात् "कर्म" इति पदस्य अनुवृत्तिः अवश्यं सम्भवति । तथापि **एतादृशीम् अनुवृत्तिं त्यक्त्वा पाणिनिमहर्षिणा प्रकृतसूत्रे पुनः "कर्म" इति पदस्य निर्देशः कृतः अस्ति **। अयं निर्देशः **आधारः इति पदस्य निवारणार्थम्** अस्ति । इत्युक्ते, पूर्वेषु सूत्रेषु यत्र यत्र "कर्म" इति पदम् अनुवर्तते, तत्र तत्र "आधार"-शब्दस्य अपि अनुवृत्तिः अस्ति एव; अतः अत्रापि "कर्म" इत्यस्य अनुवृत्त्या ग्रहणं क्रियते चेत् "आधार"-शब्दस्य अनुवृत्तिः अपि अवश्यम् भवितुम् अर्हति । परन्तु एतादृशीं अनुवृत्तिं स्वीकुर्मः चेत् केवलं ग्रामं गच्छति, गेहं प्रविशति इत्यादिषु उदाहरणेषु एव कर्मसंज्ञा भवेत्, यतोहि एतादृशेषु उदाहरणेषु एव ग्रामपदार्थस्य गेहपदार्थस्य वा आधारत्वम् अपि वर्तते । परन्तु ओदनं पचति, सक्तून् पिबति इत्यादिषु उदाहरणेषु ओदन-सक्तु-आदीनाम् आधारत्व-अभावात् कर्मसंज्ञा एव न स्यात् । तत् तथा मा भूत्; इत्युक्ते, कर्तुः ईप्सिततमः नित्यमेव (आधारत्वे, तदभावे अपि च) कर्मसंज्ञकः अवश्यमेव स्यात्, इति स्पष्टीकर्तुम् (इत्युक्ते आधारभिन्न स्थले अपि कर्मसंज्ञाविधानार्थम्) पाणिनिमहर्षिणा प्रकृतसूत्रे कर्मपदस्य पृथक् ग्रहणं कृतम् अस्ति ।
** कर्मकारकस्य त्रयः भेदाः**
**कर्तुरीप्सिततमं कर्म** (1.4.49) इति सूत्रेण विहितायाः कर्मसंज्ञायाः अग्रे **त्रयः भेदाः** भर्तृहरिणा वाक्यपदीये निर्दिष्टाः सन्ति । तत्र विद्यमाना कारिका इयम् -
निर्वर्त्यं च विकार्यं च प्राप्य चेति त्रिधा मतम् ।
तत्रेप्सिततमं कर्म, चतुर्धान्यत्तु कल्पितम् ॥ (- वाक्यपदीये 3.4.75)
अस्याः कारिकायाः प्रथमायां पङ्क्तौ भर्तृहरिः ईप्सिततम-कर्मणः **निर्वत्यम्**, **विकार्यम्** तथा च **प्राप्यम्** इत्येतान् त्रीन् भेदान् विवृणोति । एतेषाम् अर्थाः एतादृशाः -
1. निर्वर्त्यं कर्म इत्युक्ते तत् कर्म यत् क्रियायाः व्यापारात् पूर्वं नैव आसीत्, अपितु क्रियाया व्यापारेण एव अस्य निर्माणम् भवति। यथा - देवदत्तः कुम्भं करोति । अत्र कुम्भपदार्थस्य निर्माणं अस्याः क्रियायाः व्यापारेण एव अभवत्, अतः अत्र "कुम्भ"पदार्थः **निर्वत्यं कर्म** अस्ति । एवमेव, वाक्यं वदति, कथां लिखति, चित्रं चित्रयति इत्यादिषु उदाहरणेषु विद्यमानं कर्म अपि निर्वत्यं कर्म एव स्वीक्रियते।
2. विकार्यं कर्म इत्युक्ते तत् कर्म यत् क्रियायाः व्यापारात् अवश्यम् आसीत्, परन्तु यस्य स्वरूपे क्रियया किञ्चित् परिवर्तनं भवति । क्रियायाः प्रारम्भात् पूर्वं इदं कर्म भिन्ने स्वरूपे आसीत्, परन्तु क्रियया अस्मिन् कर्मणि परिवर्तनं जातम् - इति अत्र आशयः वर्तते । यथा - देवदत्तः ओदनं पचति । अत्र पचनक्रियायाः पूर्वम् ओदनस्य स्वरूपम् तण्डुलात्मकं (कठिनम्, शुष्कं च) आसीत् । परन्तु पचनक्रियया तस्मिन् रूपे परिवर्तनं भवति, तथा च पचनक्रियायाः अन्ते ओदनाः विक्लिन्नाः / आर्दाः भवन्ति । अनेन प्रकारेण अत्र कर्मसंज्ञकपदार्थस्य स्वरूपे क्रियया परिवर्तनं भवति, अतः इदम् **विकार्यकर्मणः** उदाहरणम् । एवमेव, शत्रून् हन्ति, वृक्षं छिनत्ति, अपूपान् खादति इत्यादिषु उदाहरणेषु विद्यमानं कर्म अपि विकार्यं कर्म एव स्वीक्रियते। प्रकृति-विकृतिभावस्य उदाहरणानि अपि अस्यैव कर्मपदस्य विषये भवन्ति । यथा - सुवर्णं कुण्डलं करोति, मूकं वाचालं करोति इत्यादिषु विद्यमानं कर्म अपि विकार्यं कर्म एव ।
3. प्राप्यं कर्म इत्युक्ते तत् कर्म यस्य स्वरूपे क्रियया किञ्चित् परिवर्तनं जातं नैव दृश्यते । क्रियायाः पूर्वं इदं कर्म यस्मिन् स्वरूपे आसीत्, तस्मिन्नेव स्वरूपे तत् क्रियायाः अन्ते अपि भवति - इति अत्र आशयः वर्तते । यथा - देवदत्तः चित्रं पश्यति । अत्र दर्शनक्रियया चित्रस्य स्वरूपे किमपि परिवर्तनं न भवति, अतः इदं **प्राप्यं कर्म** । एवमेव, ग्रन्थं पठति, ग्रामं गच्छति, धनं ददाति, शिवं वन्दते इत्यादिषु उदाहरणेषु विद्यमानं कर्म अपि प्राप्य कर्म एव गृह्यते।
Vasu English Summary
--------------------
That which is intended should be most effected by the act of the agent is called the object or कर्म।
Vasu English Translation
------------------------
That which is intended should be most effected by the act of the agent is called the object or कर्म।
That which is especially desired by the agent to be accomplished by the action is called *karma*. As कटं करोति He makes the mat. ग्रामं गच्छति he goes to the village. Why do we say "desired by the agent"? Observe माषेष्व श्वं बध्नाति he ties the horse in the gram field. Here gram is no doubt most desired by the horse, but as the horse is not the agent of the verb, the word माष takes the locative case. Why do we use the word "most"? Observe पयसौदनं भुङ्क्ते he eats the food along with the milk. Here milk is no doubt desired by the agent, but not being the principal object desired, takes the Instrumental case.
Though the word कर्म was understood in this *sutra* by *anuvritti* from the last *sutra*, the repetition of this word here is to indicate that the *anuvritti* of the word *adhara* does not extend to this *sutra*, because as we do not take the *anuvritti* of the word *karma* into this *sutra*, we do not take the *anuvritti* of any word of the previous *sutra* into this. Had we taken the *anuvritti* of the word *karma* from the last *sutra*, then we could use the accusative case in those limited instances, where the word is capable of taking the Locative case also, but not in other cases. Thus while we could very well say गेहं प्रविशति he enters the house, we could not say ओदनं पचति he cooks the food, सक्तुं पिबति he drinks *saktu*. By repeating the word *karma* in this *sutra*, such examples become valid everywhere. The *karma*-*karaka*, takes the second case-affix.
Bhashya
-------
कर्तुरीप्सिततमं कर्म तमग्रहणं किमर्थम् ? कर्तुरीप्सितं कर्मेतीयत्युच्यमाने इहाऽग्नेर्माणवकं वारयतीति माणवकेऽपादानसंज्ञा प्रसज्येत। नैष दोषः । कर्मसंज्ञाऽत्र बाधिका भविष्यति । अग्रावपि तहि बाधिका स्यात् । इह पुनस्तमग्रहणे क्रियमाणे तदुपपन्नं भवति यदुक्तं वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरीप्सिततमं कर्मेति वचनादिति । इहोच्यते - ओदनं पचतीति, यद्योदनः पच्येत द्रव्यान्तरमभिनिर्वर्तेत । नैष दोषः । तार्दथ्यात्ताच्छब्द्यं भविष्यति - ओदनार्थास्तण्डुला ओदन इति । अथेह कथं भवितव्यम् - तण्डुलानोदनं पचतीति, आहोस्वित् - तण्डुलानामोदनं पचतीति ? उभयथाऽपि भवितव्यम् । कथम् ? इह हि तण्डुलानोदनं पचतीति द्व्यर्थः पचिः, तण्डुलान्पचन्नोदनं निर्वर्तयतीति । इहेदानीं तण्डुलानामोदनं पचतीति द्व्यर्थश्चैव पचिर्विकारयोगे च षष्ठी,तण्डुलविकारमोदनं निर्वर्तयतीति । इह कश्चित्कंचिदामन्त्रयते - सिद्धं भुज्यतामिति । स आमन्त्र्यमाण आह - प्रभूतं भुक्तमस्माभिरिति । आमन्त्रयमाण आह - दधि खलु भविष्यति, पयः खलु भविष्यति । आमन्त्र्यमाण आह - दध्ना खलु भुञ्ञ्जीय, पयसा खलु भुञ्ञ्जीयेति । अत्र कर्मसंज्ञा प्राप्नोति । तद्धि तस्येप्सिततमं भवति । तस्याप्योदन एवेप्सिततमः। न तु गुणेष्वस्याऽनुरोधः । तद्यथा, - भुञ्ञ्जीयाहमोदनं यदि मृदुविशदः स्यादिति । एवमिहापि दधिगुणमोदनं भुञ्ञ्जीय, पयोगुणमोदनं भुञ्ञ्जीयेति । इर्प्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञाप्रसङ्गः क्रियेप्सितत्वात् ॥ 1 ॥ इर्प्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञा न प्राप्नोति । गुडं भक्षयतीति । किं कारणम् ? क्रियेप्सितत्वात् । क्रिया तस्येप्सिता । न वोभयेप्सितत्वात् ॥ 2 ॥ न वैष दोषः । किं कारणम् ? उभयेप्सितत्वात् । उभयं हि तस्येप्सितम् । आतश्चोभयं यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति नासौ लोष्टं भक्षयित्वा कृती भवति ॥ यद्यपि तावदत्रैतच्छक्यते वक्तुम्, ये त्वेते राजकर्मिणो मनुष्यास्तेषां कश्चित्कंचिदाह - कटं कुर्विति । स आह - नाहं कटं करिष्यामि, घटो मयाऽऽहृतइति । तस्य क्रियामात्रभीप्सितम् ॥ यद्यपि तस्य क्रियामात्रमीप्सितं, यस्त्वसौ प्रेषयति तस्योभयमीप्सितमिति ॥ 49 ॥
Kashika
-------
कर्तुः क्रियया यदाप्तुमिष्टतमम्, तत् कारकं कर्मसंज्ञं भवति। कटं करोति। ग्रामं गच्छति। कर्तुरिति किम्? माषेष्वश्वं बध्नाति। कर्मण ईप्सिता माषा न कर्तुः। तमब्ग्रहणं किम्? पयसौदनं भुङ्क्ते। कर्मेत्यनुवर्तमाने पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम्। इतरथाधारस्यैव हि स्यात्। गेहं प्रविशतीति। ओदनं पचति सक्तून् पिबतीत्यादिषु न स्यात्। पुनः कर्मग्रहणात् सर्वत्र सिद्धं भवति। कर्मप्रेदशाः — **कर्मणि द्वितीया** (२.३.२) इत्येवमादयः॥
Siddhanta Kaumudi
-----------------
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । कर्तुः किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः न तु कर्तुः । तमब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्मेत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ॥
Laghu Siddhanta Kaumudi
-----------------------
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात्॥
Balamanorama
------------
**कर्तुरीप्सिततमं कर्म** - कारके इत्यधिकृत्येति । 'संज्ञा वक्ष्यन्ते' इति शेषः ।क्रियाजनकं कारकं, करोति क्रियां निर्वर्तयती॑ति भाष्ये व्युत्पत्तिदर्शनात् ।ब्राआहृणस्य पुत्रं पश्यती॑त्यत्र ब्राआहृणस्याऽन्यथासिद्धत्वान्न कारकत्वम् । कर्तुरीप्सित । 'कारके' इत्यनुवृत्तं प्रथमया विपरिणम्यते । आप्तुमिष्यमाणम्-ईप्सितम् ।आप्लृ व्याप्तौ॑, अस्मात्सन्नन्ता॒न्मतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तः । मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । 'क्तस्य च वर्तमाने' इति कर्तरि षष्ठी । अतिशयेनेप्सितमीप्सिततमम् । धातूपात्तव्याव्यापाराश्रयः कर्ता । केनाऽऽप्तुमित्याकाङ्क्षायां कर्तृविशेषणीभूतव्यापारेणेत्यर्थाल्लभ्यते । तत्फलितमाह — कर्तुः क्रिययेत्यादिना । क्तप्रत्ययोपात्तं वर्तमानत्वं तु न विवक्षितम् । तेन कटं करोति कृतवान् इत्यादौ नाव्याप्तिः । आप्तिः=संबन्धः । एवं च कत्र्रा स्वनिष्ठव्यापारप्योज्यफलेन संबन्द्धुमिष्यमाणमित्यर्थः । यतातण्डुलान्पचती॑त्यत्र विक्लित्त्यनुकूलव्यापारः पचेरर्थः । तप्तोदकप्रस्वेदनकृतप्रशिथिलावयवकत्वात्मकं मृदुविशदत्वं विक्लित्तिः, तदनुकूलव्यापारोऽधिश्रयणोदकासेचनैधोऽपकर्षणप्रज्वलनादिरूप इति 'कारके' इत्यादिसूत्रभाष्ये स्पष्टम् । अत एवफलव्यापारयोर्धातु॑रिति सिद्धान्तः । तथाच तण्डुलानधिश्रयणादिव्यापारेण विक्लेदयतीत्यर्थः । अधिश्रयणादिरूपकर्तृव्यापारप्रयोज्य विक्लित्तिरूपफलाश्रयत्वात्तण्डुलानां कर्मत्वम् । ननु कर्तृग्रहणं व्यर्थम् । नच व्यापारलाभाय तदिति वाच्यं, केना प्तुमित्याकाङ्क्षायां कारकाधिकारादेव तल्लाभादिति पृच्छति — कर्त्तुः किमिति । माषेष्वआं वध्नातीति । माषेषु भक्षणाय प्रवृत्त्युन्मुखमुदरव्यथाभयात्तद्भक्षणान्निवर्तयितुमन्यत्र बध्नातीत्यर्थः । अत्र माषाणां कर्मत्वनिवृत्त्यर्थं कर्तृग्रहणमिति भावः । कर्तृ ग्रहणे कृते तुनोक्तदोष इत्याह — कर्मण #इति । बन्धनकर्मीभूतस्याआस्यैवात्र माषा ईप्सिता नतु बन्धनकर्तुः, अआरक्षणस्यैव तदपेक्षि तत्वादित्यर्थः । तमब्ग्रहणं किमिति । तमबन्धमीप्सिततममित्येतत्किमर्थं कर्तृरिद्देश्यं कर्मे॑त्येवास्त्विति प्रश्नः । पयसा ओदनं भुङ्क्ते इति । पयसा मिश्रमित्यर्थः । यद्यप्यत्र भोक्तुरोदन एव पयसा मिश्र उद्देश्यो, नतु केवलं पयो, नापि केवल ओदनः, नह्रसौ केवलपयःपानेन तुष्यति, नापि केवलौदनेन । तथापि यदा भुक्तवानेन पयोलिप्सया पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणम् । तत्र यद्यपि पय एव उद्देश्यं भुजिक्रियां प्रति, तथापि भुजिक्रियाकर्मीभूतमोदनं प्रति मिश्रमसाधनतया गुमत्वेनैव तदुद्देश्यं, नतु भोज्यत्वेन । अतस्तत्र पयसो गुणत्वेन ओदनस्य तत्संस्कार्यतया उद्देश्यत्वादोदनस्यैव ईप्सिततमत्वम्, नतु पयसोऽपि । तस्याप्योदन एव ईप्सिततमः, गुणेष्वस्य नानुरोध इति भावः । नच तमब्ग्रहणं किमर्थम्,कर्तुरीप्सितं कर्म॑ इत्येबास्त्विति वाच्यम्,अग्नेर्माणवकं वारयती॑त्यत्र मामवकस्यवारणार्थानामीप्सितः॑ इत्यपादानत्वनिवृत्त्यर्थत्वादिति प्रकृतसूत्रभाष्ये स्थितम् । तदेतद्वारणार्थानामिति सूत्रव्याख्यावसरे स्फुटीभविष्यति । प्रचीनैस्तु कैश्चित्, — ॒तमब्ग्रहणं किम्, पयसा ओदनं भुङ्क्ते॑ इति ग्रन्थः केवलतमब्ग्रहणप्रयोजनपरतया व्याख्यातः । ते भाष्यविरुद्धत्वादुपेक्ष्याः । ननुअधिशीङ्स्थासां कर्मे॑त्यतोऽनुवृत्तेरिह कर्मग्रहणं व्यर्थमित्यत आह — कर्मग्रहणमाधारेति । अधिशीङित्यत्र हि आधार इत्यनुवर्तते । इहापि तदनुवृत्तिर्माभूदिति कर्मग्रहणमित्यर्थः । ननुहरिं भजती॑त्यादावसंभवादेव तदनुवृत्तिर्न भविष्यतीत्यत आह — अन्यथेत्यादि । हरिं भजतीत्यादौ न स्यादित्येवकारार्थः ।
Tattvabodhini
-------------
**कर्तुरीप्सिततमं कर्म** - कर्तुरीप्सिततं कर्म । कर्तुरितिक्तस्य च वर्तमाने॑इति कर्तरि षष्ठी । आप्नोतेः सन् । द्वित्वम् । आप्ज्ञप्यृधामीत्,अत्र लोपोऽभ्यासस्ये॑त्यभ्यासलोपः ।मतिबुद्धिपूजार्थेभ्यश्च॑इति वर्तमाने क्तः । मतिरिहेच्छा, नतु बुद्धिः, पुनर्बुद्धिग्रहणात् । ततःअतिशायने॒॑तमबिष्ठनौ॑इत्यतिशये तमप् । एवं च कत्र्रा आप्तुमिष्यमाणतमं कर्मेत्यर्थः । कर्ता च धातीपात्तव्यापाराश्रयः । स च केनाऽऽप्तुमिच्छतीति विशेषणीभूतेन व्यापारेणेत्येर्थाल्लभ्यते, तदाह -क्रिययेति । क्तप्रत्ययेनोपस्थितं वर्तमानत्वं चेह न विवक्षितम् । तेन कटं कृतवान्करिष्यतीत्यादि सिद्धम् । कारकमिति । एतच्चकारके॑ इत्यधिकारल्लभ्यते । तत्र हि व्यत्ययेन प्रथमार्थे सप्तमी । प्रतिसूत्रं वाक्यं भित्त्वा कारकसञ्ज्ञाऽनेन विधीयते । तद्यथा अपाये ध्रुवं कारकसञ्ज्ञं स्यात् । ततोऽपादानम् । उक्तं कारकमपादानं स्यात् । पुनः कारकशब्दानुवृत्तिसामर्थ्याद्विशेषसञ्ज्ञाभिः सह समावेशसिद्धिः । तेनस्तम्बेरम॑इत्यत्राधिकरणत्वात्सप्तमी । कारकक्वाद्गतिकोपपदात्कृदिति कृदुत्तरपदप्रकृतिस्वरश्च सिध्यति । अन्यथातत्पुरुषे तुल्यार्थे॑त्यादिना पूर्वपदप्रकृतिस्वरः स्यात् । नचाऽत्रोपपदस्वरेणान्यथासिद्धिः शङ्क्या,स्तम्बकर्णयोः॑इति निर्देशात् प्रातिपदिकस्योपपदत्वेऽपि सप्तम्यन्तस्याऽतथात्वात् । यद्यपीह थाथादिस्वरेणैवाऽन्तोदात्तत्वं सिध्यति, तथापियप्प्रत्ययसाहचर्येण एरच एव तत्रोपादानान्नास्ति थाथादिस्वरेण तत्सिद्धिरित्याहुः । अन्वर्था चेयं सञ्ज्ञा — करोतीति कारकमिति । तेनब्राआहृणस्य पुत्रं पन्थानं पृच्छती॑त्यत्र क्रियाऽनन्वयिनो न भवति । ब्राआहृणो ह्यत्र पुत्रविशेषणं, न तु क्रियान्वयीति । पयसेति । भुजिक्रियां प्रति पयसः प्रकृष्टोपकारकत्वेऽपि ओदन एवाऽत्रैइप्सिततमः, पयस्तु संस्कारत्वात्करणम् । नह्रसौ केवलपयसः पानेन सन्तुष्यति , किं तु तत्संस्कृतेनौदनेन । यदा तु पय एव ईप्सिततममस्य भवति, तदा कर्मत्वं भवत्येव — पयः पिबतीति । कर्मेत्यनुवृत्ताविति ।अधिशीङ्स्थासां कर्मे॑ति सूत्रात् ।
Padamanjari
-----------
कर्तुः क्रिययेत्यादि। कर्तुर्यदाप्तुमिष्टतममित्यन्वयः, कर्तुरिति चेप्सितापेक्षाया'क्तस्य च वर्तमाने' इति कर्तरि षष्ठी। ईप्सित इति'मतिबुद्धि' इत्यादिना वर्तमाने क्तः। क्रिययेति करणे तृतीया, कर्ता हि नाम यः क्रियामनुतिष्ठति तेन कर्तुर्यदिष्टतममित्युक्ते तत्क्रियावेशादसौ कर्ता भवति तया करणभूतयेति गम्यते, कर्त्रा यदाप्तुमिष्यते आत्मीयया क्रिययेत्यर्थः। ईप्सितशब्दोऽयमस्त्यभिप्रेते रूढः-ईप्सितोऽभिप्रेत इति; अस्ति क्रियाशब्दः- ठाप्लृव्याप्तौऽ सन्, ठाप्ज्ञपृधामीत्ऽ, आप्तुमिष्टमीप्सितमिति; तत्र क्रियाशब्दस्येह ग्रहणमिति दर्शितम् - आप्तुमिष्टतममिति। कर्मण इति। अश्वस्य। स हि भक्षणक्रियया माषानाप्तुमिच्छति। यद्येवम्, यथाश्वस्य वस्तुतो भक्षणे कर्तृत्वे सत्यपि सम्प्रति बन्धनं प्रति कर्मत्वेन विवक्षितत्वादकर्तृत्वाद् माषाणां कर्मसंज्ञया न भवति, तथा सार्थाद्धीयत इत्यत्रापि हीयमानं सार्थो जहातीति वस्तुवृतेन त्यागेन कर्तुरपि सार्थस्य संप्रत्यपादानरूपेण विवक्षितत्वाद् अकर्तृत्वात्कर्मणि यगात्मनेपदे न स्याताम्। अत्राहुः- कर्मकर्तर्यत्र यगात्मनेपदे, कथम्? जहातिरयं गमनायां वर्ततेदेवदतं सार्थो जहाति, अपगमयतीत्यर्थः, एषैव च सार्थस्यापगमना यदुत क्षुदुपघातादिना देवदतस्यापगमे तत्समर्थाचरणम्। यदा तु क्षुधादिना स्वयमेवापगच्छति, तदा कर्मकर्तृ त्वम्, तदायं प्रयोगः। ततश्च हीयत इति सार्थः स्वयमेवापगच्छतीति, पुनः कुतो हीयते? इत्यपेक्षायां सारर्थेन सम्बन्ध इति। तमब्ग्रहणं किमिति। ईप्सिततमस्यापीप्सितत्वसम्भवाद् उदाहणसिद्धिं मन्यते। पयसौदनं भुङ्क्त इति। करणसंज्ञा तु दात्रेण लुनातीत्यादौ सावकाशा, न हि दात्रं लवनेप्सितम्।'तथा युक्तम्' इत्यनेनापि न भवति, द्वेष्योदासीनप्राप्ययोस्तत्र गहणात्। सत्यप्यत्र पयसो भुजिक्रियायां प्रकृष्टोपकारकत्वे ईप्सायाः प्रकर्षाभावः। यत्र तर्हि पय एवेप्सिततमम्, तत्र प्राप्नोति, तद्यथा कश्चित् कञ्चिदाह-सिद्धं भुज्यतामिति, स आह-प्रभूतं भुक्तमस्माभिरिति, इतर आह-पयो भविष्यतीति, अपरस्त्वरमाण आह-पयसा खलु भुञ्जीयेति, अत्र प्राप्ताप्राप्तविवेकेन पयस एवेप्सिततमत्वं न त्वोदनस्य, अत्राप्योदनमेवेप्सिततमम्; पयसस्तु संस्कारकत्वात्करणत्वम्। न त्वस्य केवले गुणे आदरः, किं तर्हि? तत्संस्कृते ओदने, न ह्यसौ केवलस्य पयसः पानेन संतुष्यतीति। यदि तमब्ग्रहणं क्रियते, पयसौदनं भुङ्क्त इत्यत्रैव स्यात्, पचत्योदनमित्यादौ न स्यात्, न हीप्सिततमं युक्तम्, असति प्रतियोगिनि वस्तु यतुल्यजातीयं तदेव प्रतियोगितां भजते। कारकं चात्र न किञ्चिदिष्टमीप्सितं पयसस्त्वीप्स्यमानात्वाद् युज्यते प्रतियोगिता,नैष दोषः; अत्रापि क्रियापेक्षः प्रकर्षः, आदौ हि कर्ता फलार्थ क्रियामभीप्सति, अतः फलार्थमिष्यमाणत्वादीप्सिता क्रिया। फलं तु स्वरूपेणेष्यमाणमीप्सिततमं क्रियाया अपि कर्मत्वं संदर्शनादिविशेषान्तरस्पर्धया। यत्र तर्हि फलाभावस्तत्र न स्यात्, क्व च फलाभावः ? विकार्ये-काष्ठनि भस्मीकरोतीति, न हि काष्ठानि फलरूपाणि। मा भूवन् तानि स्वरूपेण फलानि, भस्मात्मना तु फलानि? प्राप्ये तर्हि न स्यात् - आदित्यं पश्यति, हिमवन्तं शृणोतीति, न ह्यत्र क्रियया कश्चिदतिशयो जन्यते। अत्राप्यतिशयो जन्यते - प्राकट।ल्ं नाम? यो हि यं पश्यति शृणोति वा तस्यासौ प्रकटो भवति, प्रतिपत्राद्यतिरिक्तपुरुषापेक्षया तु विशेषोनास्तीत्युच्यते। यद्वा - तमब्ग्रहणेन यत्रापकृष्टेच्छा तदेव व्यावर्त्यते, तेन पश्यतीत्यादावादित्यादीनामपि प्रतियोगिनोऽसत्वेनापकर्षाभावाद् भविष्यति, अत्र च लिङ्गम्'ललाटकुक्कुट्यौ पश्यति' इति। कर्मेत्यनुवर्तमान इति। अधिशीङ्स्थासामित्यतः। आधारनिवृत्यर्थमिति। प्राच्यं कर्मग्रहणामाधारेण संबद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति भावः। आधारानुवृतौ को दोषस्तत्राह - आधारस्यैव हि स्यादिति। क्वेत्याह - गेहमित्यादि। यत्र तु न स्यातदाह - ओदनं पचतीत्यादि। एतच्चेप्सिततमं कर्म त्रिविधम् - निर्वर्त्यम्, विकार्यम्, प्राप्यमिति। तथायुक्तमपि द्विविधम् - द्वेष्यम्, इतरच्च। ठकथितं चऽ इत्यपरम्। संज्ञान्तरप्रसङ्गे चान्यत् -'दिवः कर्म च' इत्यादि। तदेवं सप्तविधं कर्म। उक्तं च - निर्वर्त्य च विकार्यं च प्राप्यं चेति त्रिधा मतम्। तच्चेप्सिततमं कर्म चतुर्धाऽन्यतु कल्पितम्॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम्। संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्॥ इति। तथा - यदसत्, जायते सद्वा जन्मना यत् प्रकाश्यते। तन्निर्वर्त्यं विकार्यं तु कर्म द्वेधा व्यवस्थितम्॥ प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादि भस्मवत्। किञ्चिद् गुणान्तरोत्पत्या सुवर्णादिविकारवत्॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ इति। तत्र निर्वर्त्यम् - घट्ंअ करोतीति, व्यक्त्यभिप्रायोण जन्मसामान्याभिप्रायेण प्रकाशनम्। ननु च यदि घटः? न कर्तव्यः; अथ कर्तव्यः? न घटः ; इत्यनुपपन्न घट करोतीति? नैष दोषः; तथाविधं वस्तु करोति यस्य निष्पन्नस्य घट इति संज्ञेति - अयमत्रार्थः। एवमोदनं पयतीत्यादावपि। विकार्यम् - काष्ठानि भस्म करोति, सुवर्णं कुण्डलं करोतीति। प्राप्यम् - आदित्यं पश्यतीति। न ह्यत्र प्रत्यक्षेण अनुमानेन वा क्रियाजन्यः कश्चिदतिशयो गम्यते, यथा - निर्वर्त्यविकार्ययोः रज्जुं सृजति, काष्ठ्ंअ दहति, देवदतं रोषयतीति। कारकत्वं तु प्राप्यस्याभासोपगमादिभिः, आदित्यो ह्यभासमुपगच्छति, यतो द्दश्यते अभिव्यक्तिमुपयाति, यतो व्यक्तमुपलभ्यते सहते च दर्शनम्, यतः शक्यते द्रष्टुंअ तदेवाभासोपगम; व्यक्तिः, सोढत्वमिति कर्मणो विशेषाः प्राप्यमाणस्य क्रियासिद्धौ विवक्षिताः॥
Nyaas
-----
`कर्त्तुः क्रियया` इति। एतेन कर्त्तुरिति नेप्सिततमापेक्षया **क्तस्य च वर्तमाने** (2.3.67) इत्यनेनेयं षष्ठी, अपि तु क्रियापेक्षया शेषलक्षणैवेति दर्शयति। ननु च नेह क्रियोपात्ता, तत्कथं तदपेक्षया षष्ठी प्रयुज्यते? यद्यपि नोपात्ता, तथापि कर्त्तुः क्रियापेक्षत्वात् कर्त्तृशब्दोऽयं सम्बन्धिशब्द इति कर्त्तृसम्बन्धिनीं क्रियामुपस्थापयतीत्यदोषः। ईप्सितशब्दो ह्रस्ति रूढिशब्दः - ईप्सितोऽभिप्रेत इति, अस्ति च क्रियाशब्दः-आप्तमिष्ट ईप्सित इति ; तत्रह क्रियाशब्दो गृह्रते, नेतरः; न हि रूढिशब्दस्य क्रियया कर्त्तृसाध्यया सम्बन्ध उपपद्यते। `ईप्सित` इति। `आप्लृ व्याप्तौ` (धातुपाठः-1260) सन्, द्विर्वचनम्, `आप्ज्ञप्यृधामीत्` (7.4.55) इतीत्त्वम्। **अत्र लोपोऽभ्यासस्य** (7.4.58) इत्यभ्यासलोपः। ईप्स इति स्थिते, क्तप्रत्यये कृते, इटि च **अतो लोपः** (6.4.48) इत्यकारलोपे चेप्सितशब्दः सम्पद्यते। तेनार्थद्वयमिहोपात्तम् - प्रकृत्यर्थः, प्रत्ययार्थश्च। तत्राप्तुमित्यनेन प्रकृत्यर्थं दर्शयति,इष्टतममित्यनेन प्रत्ययार्थम्।`कर्मणः` इत। अआस्य। अत्र बन्धक्रियया आप्तमिष्टतमत्वात् कर्मत्वम्। स हि भक्षणक्रियया माषानाप्तुमिच्छति। `पयसौदनं भङ्क्ते` इति। असति हि तमब्ग्रहणे पयसोऽपि स्यात्। तदपि कर्त्तृर्भुजिक्रियया व्याप्तुमिष्टं भवति। तमब्ग्रहणे तु सति न भवत्यतिप्रसङ्गः; प्राधान्यादौदनस्यैवेप्सिततमत्वात्। प्राधान्यं त्वोदनस्य संस्कार्यत्वात्, पयसस्त्वप्राधान्यं संस्कारकत्वात्। `कर्मेत्यनुवर्तमाने` इति। `अधिशीङस्थासां कर्म` (1.4.46) इत्यतः। `पुनः`इत्यादि। पूर्व कर्मग्रहणमाधारेण सम्बद्धम्; अतस्तदनुवृत्तौ तस्यानुवृत्तिः स्यादत आधारनिवृत्त्यर्थं पुनः कर्मग्रहणं क्रियते। यदि पुनराधारोऽनुवर्तते, ततः किं स्यादित्यत्राह - `आधारस्यैव हि स्यात्` इति। `हि` शब्दो यस्मादर्थे। यस्मास्यादित्याह - `गेहम्` इत्यादि। आधारानुवृत्तौ तु यत्र न भवति तद्दर्शनयितुमाह - `ओदनं पचति` इत्यादि। आदिशब्देनौदनं भङ्क्तं इत्येवमादेग्र्रहणम्। अथ नदी कूलं कर्षतीत्यादौ कथं कर्मसंज्ञा? कथञ्च न स्यात्? नद्यादेरचेतनत्वात्, अचेतनानामीप्साया असम्भवात्, नैतदस्ति; अत्र नदीति पदान्तरसम्बन्दादीप्साया अभावोऽचेतनस्यापि भावः प्रतीयते। न च पदसंस्कारे पदानतरसम्बन्धगम्योऽर्थ उपयुज्यते, तेन कूलं कर्षतीत्यादाविच्छामात्रमाश्रिता व्याप्तिः, कर्म च संस्क्रियते। यद्यपि पश्चान्नद्या सह सम्बन्धादचेतनत्वमिच्छाया अभावश्च प्रतीयते, तथापि च तद्बहिरङ्गत्वादन्तरङ्गसंज्ञाकार्य न शक्नोति निवर्तयितुम्। अनेनैव न्यायेन यत्र व्याप्तिर्नास्ति,इच्छामात्रं च केवलम्, तत्रापि कर्मसंज्ञा भवति, यथा- ग्रामं गनतुमिच्छामि न च मे गमनशक्तिरस्तीति। तच्च कर्म त्रिविधम् - निर्वत्र्यम्, विकार्यम्, प्राप्यञ्च। तत्र निर्वर्त्त्यं यदसकदेवोत्पाद्यते, यस्य जन्म क्रियते, तन्निर्वर्त्त्यम् , यथा - कटं करोति, कटो ह्रसन्नेव क्रियते। विकार्यं यल्लब्धसत्ताकमवस्थान्तरमापाद्यते केवलं भस्माख्यामवस्थामापाद्यन्ते। प्राप्यं यत्र व्याप्तिव्यितरेकेण क्रियाकृता विशेषा न विभाव्यन्ते, यथा - आदित्यं पश्यतीति। न हि दृशिक्रियया व्याप्यमानस्य सवितुः क्रियाकृतविशेष उपलभ्यत इति प्राप्यमेतत् कर्म॥
Praudhamanorama
---------------
कर्तुरिति 'क्तस्य च वर्तमाने' इति कर्तरि षष्ठी। आप्नोतेः सन्नन्तात् 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः। मतिरिच्छा न तु बुद्धिः, पुनर्बुद्धिग्रहणात्। एवं च कर्त्रा आप्तुमिष्यमाणं कर्मेत्यर्थः। कर्ता च धातूपात्तव्यापाराश्रयः। स च केनाऽऽप्तुमिच्छतीत्याकाङ्क्षायां विशेषणीभूतेन व्यापारेणेत्यर्थाल्लभ्यते। तदेतदाह— **क्रिययेति।** क्तप्रत्ययेनोपस्थितं वर्तमानत्वं नेह विवक्षितम्। तेन 'कटं कृतवान्' 'कटं करिष्यति' इत्यादि सिद्ध्यति। **कारकमिति।** एतच्च 'कारके' इत्यधिकाराल्लभ्यते। तत्र हि व्यत्ययेन प्रथमार्थे सप्तमी। प्रतिसूत्रं वाक्यं भित्त्वा कारकसंज्ञा विधीयते। तद्यथा- अपाये ध्रुवं कारकसंज्ञं स्यात्। ततः 'अपादानम्' उक्तं कारकमपादानसंज्ञं स्यात्। पुनः कारकशब्दानुवृत्तिसामर्थ्यात् विशेषसंज्ञाभिः सह समावेशः। अन्वर्था चेयं संज्ञा— करोतीति कारकमिति। तेन क्रियाऽनन्वयिनो न भवति— ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति। इह हि ब्राह्मणः पुत्रविशेषणं न तु क्रियान्वयि। यद्वा कारकशब्दः क्रियापरः, करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः। तथा च अपादानादिसंज्ञाविधौ क्रियायामित्यस्योपस्थित्या क्रियान्वयिनामेव तत्तत्संज्ञा विधीयन्ते। 'कारकाद्दत्तश्रुतयोः' इत्यादौ तु कारकशब्दः स्वर्यते। तेनैतदधिकारोक्तं कर्त्रादिषट्कमेव गृह्यते। अस्मिन् पक्षे वृत्तावपि कारकमित्यस्य क्रियान्वयीत्यर्थः। आद्यपक्षे तु कारकसंज्ञा स्यात्। तच्च कारकं कर्मसंज्ञं स्यादिति व्याख्येयम्।
Prakriyasarvasvam
-----------------
कर्तुः क्रियया प्राप्तुमिष्टतमं यत् कारकं तत् कर्मसंज्ञम् ।।
Sutra Prayogas
--------------
* **यदाऽर्थं** (भट्टिकाव्यम्): `कर्तुरीप्सिततमं` इत्यनेन।
* **जगत्-पतिम्** (भट्टिकाव्यम्): `कर्तुरीप्सिततमम्` इति कर्मसंज्ञा।