14040: प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता
===========================================
**Padacheda:** प्रति-आङ्भ्याम् | S | 5 | 2 |
श्रुवः | S | 6 | 1 |
पूर्वस्य | S | 6 | 1 |
कर्ता | S | 1 | 1 |
Sutrartha
---------
**प्रति + श्रु, तथा च आङ् + श्रु इत्येतयोः प्रयोगे "यस्मै वचनं दीयते" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्ताय गां प्रतिशृणोति, देवदत्ताय गाम् आशृणोति ।**
**कारके** (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं अष्टमं सूत्रम् । **प्रति**-उपसर्गपूर्वकात् **श्रु**-धातोः प्रयोगे, तथा च **आ**-उपसर्गात् **श्रु**-धातोः प्रयोगे प्रकृतसूत्रेण सम्प्रदानसंज्ञायाः विधानं क्रियते । यद्यपि **श्रु (श्रवणे)** (1.1092) इत्यस्य अर्थः **श्रवणम्** इति वर्तते, तथापि **प्रति + श्रु**, एवमेव **आङ् + श्रु** इत्येतयोः अर्थः **प्रतिज्ञानम् / वचनप्रदानम्** इति भवति । अस्मिन् सन्दर्भे, **यस्य कृते प्रतिज्ञा क्रियते / यम् उद्दिश्य अभ्युपगमः क्रियते (इत्युक्ते वचनं दीयते), तस्य प्रकृतसूत्रेण **सम्प्रदानसंज्ञा** भवति** । यथा, यज्ञदत्तः देवदत्ताय गां प्रतिशृणोति, यज्ञदत्तः देवदत्ताय गां आशृणोति । देवदत्तेन "मह्यम् गां देहि" इति पृष्टे सति, यज्ञदत्तः देवदत्तम् उद्दिश्य "तुभ्यम् अहं एकां गाम् अवश्यं दास्यामि" इति प्रतिज्ञां करोति / वचनं ददाति - इति अनयोः वाक्ययोः आशयः वर्तते । एवमेव, विप्राय गां प्रतिशृणोति, विप्राय गाम् आशृणोति इत्येतौ प्रयोगौ अपि सङ्गच्छेते ।
**पूर्वस्य कर्ता इत्यस्य अर्थः**
प्रकृतसूत्रे **पूर्वस्य कर्ता** इति पदद्वयं प्रयुक्तं वर्तते । अत्र **पूर्वस्य** इत्यस्य अर्थः **पूर्वक्रियायाः / प्रथमायाः क्रियायाः** इति अस्ति । आदौ देवदत्तः यज्ञदत्तम् "मह्यं गां देहि" इति यद् प्रार्थयते सा अत्र **पूर्वक्रिया / प्रथमा क्रिया** अस्ति । अस्याः क्रियायाः प्रतिक्रियारूपेण अनन्तरम् यज्ञदत्तः देवदत्तम् "अहं तुभ्यं गां दास्यामि" इति यद् प्रतिजानाति, सा अत्र **परक्रिया / द्वितीया क्रिया** अस्ति । एताभ्याम्, "प्रतिशृणोति" / "आशृणोति" इत्येतयोः प्रयोगः द्वितीयायाः क्रियायाः सन्दर्भेण भवति, तथा च तस्मिन् प्रयोगे **प्रथमायाःक्रियायाः यः कर्ता तस्य सम्प्रदानसंज्ञा भवति** । यथा, "मह्यं गां देहि" इत्यस्य वाक्यस्य कर्ता, इत्युक्ते "देवदत्तः"; द्वितीयायाः क्रियायाः कृते, इत्युक्ते "यज्ञदत्तः प्रतिशृणोति / आशृणोति" इत्यस्य कृते सम्प्रदानसंज्ञकः भवति । अतएव यज्ञदत्तः देवदत्ताय प्रतिशृणोति, यज्ञदत्तः देवदत्ताय आशृणोति इति प्रयोगौ सङ्गच्छेते ।
सिद्धान्तकौमुद्याम् पूर्वक्रियायाः कृते **प्रवर्तनरूपव्यापारः** इति शब्दः प्रयुज्यते । यः व्यापारः अन्यां क्रियां प्रवर्तयति, सः **प्रवर्तनरूपव्यापारः** नाम्ना निर्दिश्यते । देवदत्तेन गोः विषये पृष्टे सति एव यज्ञदत्तः देवदत्तं प्रतिजानाति (तस्मात् पूर्वं न), अतः अत्र "देवदत्तेन कृता पृच्छा" इति "प्रतिशृणोति / आशृणोति" इत्यस्य प्रवर्तनरूपव्यापारः अस्ति - इति अत्र कौमुदीकारस्य शब्दस्य आशयः वर्तते ।
Vasu English Summary
--------------------
In the case of the verb श्रु preceded by the prepositions प्रति and अङ् and meaning 'to promise', the person to whom promise is made (literally: the person who as the agent of the former verb) is called सम्प्रदान।
Vasu English Translation
------------------------
In the case of the verb श्रु preceded by the prepositions प्रति and अङ् and meaning 'to promise', the person to whom promise is made (literally: the person who as the agent of the former verb) is called सम्प्रदान।
The compound verb प्रतिश्रू and आश्रू means to promise. A promise is made on the motion or at the instance of another. The person so proposing who was the agent of the former action becomes the recipient of the promise in the latter case. As देवदत्ताय गां प्रतिशृणोति--आशृणोति he promises a cow to *Devadatta*.
Kashika
-------
प्रति आङ्इत्येवंपूर्वस्य शृणोतेः कारकं संप्रदानसंज्ञं भवति। कीदृशम्? पूर्वस्य कर्ता। प्रतिपूर्व आङ्पूर्वश्च शृणोतिरभ्युपगमे प्रतिज्ञाने वर्तते। स चाभ्युपगमः परेण प्रयुक्तस्य सतो भवति। तत्र प्रयोक्ता पूर्वस्याः क्रियायाः कर्ता संप्रदानसंज्ञो भवति। देवदत्ताय गां प्रतिशृणोति। देवदत्ताय गामाशृणोति। प्रतिजानीत इत्यर्थः॥
Siddhanta Kaumudi
-----------------
आभ्यां परस्य शृणोतेर्योगे पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितः प्रतिजानीत इत्यर्थः ॥
Balamanorama
------------
**प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता** - प्रत्याङ्भ्याम् । प्रत्याङ्भ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यं श्रुव इत्यस्य विशेषणम् ।श्रु श्रवणे॑ । इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते । पूर्वशब्दः प्रेरणात्मकव्यापारं परामृशति । तदाह — आभ्यामित्यादिना ।पूर्वस्ये॑त्यस्य व्याख्यानं-प्रवर्तनारूपस्येति । प्रेरणारूपस्येत्यर्थः ।प्रत्याङ्भ्या॑मित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः, किन्तु प्रत्येकमेव तयोर्निमित्तत्वम्, अन्यथाअभिनिविशश्चे॑तिवत् 'प्रत्याङ् श्रुवः' इत्येव ब्राऊयादित्यभिप्रेत्योदाहरति — विप्राय गां प्रतिश्रणोति आश्रणोति वेति । अत्र प्रतिपूर्वक आङ्पूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्यपगमे वर्तते, ततश्च प्रवर्तितः प्रतिजानीते इति लभ्यते केन प्रवर्तित इत्याकाङ्क्षायां विप्रः कर्त्तृत्वेनान्वेति । तत्र विप्रस्य प्रेरणाकर्त्तृत्वात्संप्रदानत्वं कर्त्तृ तृतीयापवाद इत्यभिप्रेत्याह — विप्रेणेति । मग्यं गवादिद्रव्यं देहीति विप्रेण पृष्टः सन् देवदत्तस्तुभ्यं ददामीत्यभ्युपगच्छतीति योजना ।
Padamanjari
-----------
द्विवचननिर्देशात् प्रत्येकमुपसर्गसम्बन्ध इत्याह - आङ्पूर्वस्य प्रतिपूर्वस्य चेति। कः पुनरत्र पूर्वो व्यापार इत्यत्राह - प्रत्याङ्पूर्वश्चेत्यादि परेण प्रयुक्तस्येति। इदं मे देहीत्येवं प्रार्थितस्येत्यर्थः। पूर्वस्याः क्रियाया इति। सूत्रे तु व्यापाररूपविवक्षया पूर्वस्येति निर्देशः, यत्र हेतुसञ्ज्ञायां प्राप्तायां देवदतेन प्रतिश्रावयतीति प्रयोगनिवृतये वचनमित्याहुः। विवक्षान्तरे च देवदतो गां प्रतिश्रावयतीति भवत्येव॥
Nyaas
-----
`परेण` इत्यादि। अन्येन केनचिदिदं मे क्रियतामिति प्रयुक्तो व्यापारितः सन् प्रतिजानीते। अतः प्रतिज्ञातुरन्येन प्रयुक्त्सयाभ्युपगमो भवति। प्रयोक्तेति व्यापारयिता। सूत्रे पूर्वस्येत्यर्थापेक्षया पुंल्लिङ्गेन निर्देशः।स त्वर्थो विचार्यमाणः क्रियैव भवति। यस्मात् कर्तेति क्रियाया एव भवति नान्यस्यार्थस्येत्याह - `पूर्वस्याः क्रियायाः` इति। यश्चासौ पूर्वस्याः क्रियायाः कर्ता भवति, स प्रतिज्ञातुः प्रयोजको भवतीति हेतुसंज्ञायां प्राप्तायामिदं वचनम्। `देवदत्ताय गां प्रतिशृणोति` इति। अत्र पूर्वस्या यानचक्रियाया देवदत्तः कर्ता। देवदत्तेन हि मह्रं गां देहीति याचित स यदा ददामीति प्रतिजानीते, तदैवं प्रयुज्यते - देवदत्ताय गां प्रतिशृणोतीति। पूर्वस्य कर्तेति किम्? विना तेन गवादेरभ्युपयेमानस्य कर्मण एव स्यात्। ननु च परत्वात् कर्मसंज्ञा तस्य बाधिका भविष्यति, नैतदस्ति; नाप्राप्ते हि संज्ञान्तर इदमारभ्यत इति। इहापि च देवदत्ताय गामाशृणोतीति देवदत्तस्य हेतुसंज्ञा प्राप्नोति। तत्र पूर्वस्य कर्तेत्यस्मिन्नसति यथा देवदत्तस्य हेतुसंज्ञां बाधते, तदा कर्मसंज्ञामपि बाधेत। अथ वा - `पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्` (व्या।प।9) इति कर्मसंज्ञामेव बाधेत। पूर्वस्य कर्तेत्यस्मस्तु सति हेतुसंज्ञामेव बाधते, न कर्मसंज्ञाम्॥
Prakriyasarvasvam
-----------------
आभ्यां परस्य शृणोतेर्योगे पूर्वव्यापारस्य कर्तोक्तसंज्ञः । मुनिभ्यो रक्षोवधं प्रतिशृणोति आशृणोति वा रामः । तैः प्रार्थितः प्रतिजानीत इत्यर्थः । प्रार्थनमिह पूर्वक्रिया ।।
Sutra Prayogas
--------------
* **तस्मै** (रघुवंशम्): `प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता` इति संप्रदानत्वात् चतुर्थी।
* **शृण्वद्भ्यः** (भट्टिकाव्यम्): `प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता` इति सम्प्रदानसंज्ञा।