14033: रुच्यर्थानां प्रीयमाणः
=============================
**Padacheda:** रुचि-अर्थानाम् | S | 6 | 3 |
प्रीयमाणः | S | 1 | 1 |
Sutrartha
---------
**रुच्यर्थकधातूनां प्रयोगे "यस्मै रोचते" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - हरये भक्तिः रोचते ।**
**कारके** (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं द्वितीयम् सूत्रम् । **येषां धातूनाम् **रुचिः** इति अर्थः वर्तते, तेषां प्रयोगे **यः प्रीयमाणः** (इत्युक्ते यः प्रसन्नः भवति), तस्य **सम्प्रदानसंज्ञा** भवति** । यथा, हरये भक्तिः रोचते इत्यत्र "भक्तिं लब्ध्वा हरिः प्रसन्नः भवति", अतः "हरि"पदार्थस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । एवमेव, गणेशाय मोदकः रोचते, माणवकाय अपूपाः स्वदन्ते एतादृशाः प्रयोगाः अपि सङ्गच्छन्ते ।
**रुच्यर्थः इति शब्दस्य अर्थः**
**रुचिः** इत्युक्ते **स्वादः** ,**स्पृहा**, **आसक्तिः** । येषाम् धातूनाम् **रुचिः** इति अर्थः वर्तते ते धातवः **रुच्यर्थाः** नाम्ना ज्ञायन्ते । अतः व्याख्यानेषु समासविग्रहः दीयते - रुचिना समानार्थाः ते रुच्यर्थाः । अत्र मयूरव्यंसकादित्वात् समासः सिद्ध्यति ।
किञ्च, काशिकायाम् **रुचिः** इत्यस्य अर्थः दीयते -अन्यकर्तृकः अभिलाषः रुचिः । धातुपाठे **रुच्** (1.847) इत्यस्य धातोः **दीप्तिः** तथा **अभिप्रीतिः** इति द्वौ अर्थौ दीयेते । एताभ्याम् केवलम् **अभिप्रीतिः** अस्मिन् अर्थे एव प्रकृतसूत्रे **रुचि:** शब्दः प्रयुक्तः अस्ति - इति स्पष्टीकर्तुम् काशिकाकारः अत्र **अभिलाषः** इति शब्दं प्रयुङ्क्ते । किञ्च, अस्य अभिलाषस्य जनयिता कश्चन अन्यः अस्ति (यथा, गणेशे विद्यमानस्य अभिलाषस्य जनयिता मोदकः वर्तते), अतः काशिकाकारेण अत्र अन्यकर्तृकः अभिलाषः इति निर्देशं कृत्वा रुचि-शब्दस्य अर्थः स्पष्टीकृतः वर्तते ।
अपि च, प्रकृतसूत्रे **रुच्यर्थः** इति निर्देशः क्रियते, अतः केवलम् रुच्-धातुः एव न, अपितु तदर्थकानाम् अन्येषां धातूनां विषये अपि प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति । अतएव गणेशाय मोदकः स्वदते इति प्रयोगः अपि सङ्गच्छते । धातुपाठे विद्यमानः **स्वद् आस्वादने** (1.18) इति धातुः अपि रुच्यर्थः एव, अतः तस्य विषये अपि प्रकृतसूत्रेण सम्प्रदानत्वम् अवश्यं सम्भवति ।
**प्रीयमाणः इति शब्दस्य अर्थः**
प्रकृतसूत्रे प्रयुक्तः **प्रीयमाणः** इति शब्दः क्र्यादिगणस्य **प्रीञ्** (9.002) धातोः कर्मणि शानच्-प्रत्ययान्तं रूपम् अस्ति । **प्रीणाति** इत्युक्ते **तोषयति** । यथा, मोदकः गणेशं प्रीणाति । अस्यैव वाक्यस्य कर्मणि-शानच्-प्रत्ययेन सह पुनर्लेखनं क्रियते चेत् वाक्यं भवेत् - मोदकेन गणेशः प्रीयमाणः अस्ति । "मोदकः गणेशे प्रीतिं जनयति" इति अस्य आशयः । **एतादृशी प्रीतिः यस्मिन् जायते, तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति** । अतएव गणेशाय मोदकः रोचते इत्यत्र गणेशपदार्थस्य सम्प्रदानसंज्ञा भवति ।एवमेव, हरये भक्तिः रोचते इत्यत्र हरिपदार्थस्य अपि सम्प्रदानसंज्ञा भवति । अमुम् एव विषयं स्पष्टीकुर्वनम् सिद्धान्तकौमुद्यां दीक्षितः ब्रूते - हरिनिष्ठप्रीतेर्भक्तिः कर्त्री । "भक्ति"पदार्थः हरौ प्रीतिं जनयति, अतः "हरि"पदार्थस्य सम्प्रदानसंज्ञा भवति, इति अत्र आशयः ।
**दलकृत्यम्**
**1. अर्थग्रहणं किमर्थम् ?** **रुच्**-धातोः अर्थे प्रयुज्यमानानाम् अन्येषां धातूनां विषये (यथा **स्वद्**-धातोः विषये) अपि प्रकृतसूत्रस्य प्रयोगं भवेत् इति हेतुना प्रकृतसूत्रे "अर्थ"ग्रहणं कृतम् अस्ति ।
**2. रुच्यर्थानाम् इति किमर्थम्** ? "इच्छति", "अभिलषति" इत्यादीनां प्रयोगे यद्यपि अभिलाषः वर्तते, तथापि सः **अन्यकर्तृकः अभिलाषः नास्ति** अतः एतादृशेषु स्थलेषु प्रकृतसूत्रस्य प्रयोगः मा भूत्, इति स्पष्टीकर्तुम् अत्र "रुच्यर्थानाम्" इति शब्दः प्रयुक्तः अस्ति । अतएव गणेशः मोदकम् इच्छति उत गणेशः मोदकम् अभिलषति इत्यत्र प्रकृतसूत्रं न प्रयुज्यते ।
**3. प्रीयमाणः इति किम्** ? रुच्यर्थानां प्रयोगे केवलं **प्रीयमाणस्य** (यस्मै रोचते तस्य) एव सम्प्रदानसंज्ञा भवति, अन्येषां न । अतएव "देवदत्ताय पथि मोदकः रोचते" अस्मिन् वाक्ये "पथिन्"पदार्थस्य सम्प्रदानसंज्ञा न भवति ।
Vasu English Summary
--------------------
In case of verbs having the signification of the root रुच् 'to like', the person or thing that is pleased or satisfied, is called सम्प्रदान or recipient.
Vasu English Translation
------------------------
In case of verbs having the signification of the root रुच् 'to like', the person or thing that is pleased or satisfied, is called सम्प्रदान or recipient.
The verbs having similar meaning (*artha*) as the word *ruchi* or 'liking' are रुच्यर्थ. A desire or longing caused by something else, is called *ruchi*. As देवदत्ताय रोचते मोदकः the sweet meat pleases *Devadatta*. यज्ञदत्ताय स्वदते ऽपूपः *Yajnadatta* likes *Apupa*. Here *modaka* is the agent that draws out the longing which is latent in *Devadatta*.
Why do we say 'the person pleased'? Observe देवदत्ताय रोचते मोदकः पथि. *Devadatta* likes *modak* in the way. The word *pathi* being in the 7th case.
Kashika
-------
रुचिना समानार्था रुच्यर्थाः। अन्यकर्तृकोऽभिलाषो रुचिः। रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो योऽर्थः, तत् कारकं संप्रदानसंज्ञं भवति। देवदत्ताय रोचते मोदकः। यज्ञदत्ताय स्वदतेऽपूपः। देवदत्तस्थस्याभिलाषस्य मोदकः कर्ता। प्रीयमाण इति किम्? देवदत्ताय रोचते मोदकः पथि॥
Siddhanta Kaumudi
-----------------
रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः कर्त्री । प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि ॥
Balamanorama
------------
**रुच्यर्थानां प्रीयमाणः** - रुच्यर्थानां । रुच्यर्थानां धातूनामिति ।रुच दीप्तावभिप्रीतौ च॑ । दीप्तिरिह न रुच्यर्थः, प्रीयमाण इति विरोधात् । तथाच प्रीतिजननार्थानामित्यर्थः । प्रीयमाण इति । समवायेन प्रीत्याश्रय इत्यर्थः । हरये रोचते भक्तिरिति । भक्तिः स्वविषयां प्रीति हरौ जनयतीत्यर्थः । भक्तिगतव्यापारप्रयोज्यप्रीत्याश्रयत्वाद्धरेः कर्मत्वं प्राप्तं, तदपवादोऽयम् । नन्वेवं सति हरिर्भक्तिममिलषतीत्यत्रापि भक्तेः प्रीतिविषयत्वात्संप्रदानत्वं स्यादित्यत आह-अन्यकर्तृक इति । समवायेन प्रीत्याश्रयापेक्षया यदन्यत्, तत्कर्तृकाभिलाषो रुच्धात्वर्थः । प्रीत्याश्रयकर्तृकः किञ्चिद्विषयक इच्छाविशेषोऽभिलाषः । तथा च अभिलषते रुच्र्थकत्वाऽभावान्न तद्योगे संप्रदानत्वम् । प्रकृते च प्रीत्याश्रयो हरिः, तदपेक्षया यत् अन्यता=भक्तिः, तत्कर्तृकैव प्रीतिरिति रूच्यर्थयोगः । नन्विह भक्तेः संप्रदानत्वं कुतो न स्यात्, विषयतासंबन्धेन भक्तिरपि प्रीत्याश्रयत्वादित्यत आह — हरिनिष्ठप्रीतेर्भक्तिः कत्र्रीति । हरेरेव समवायसंबन्धेन प्रीत्याश्रयतया प्रीयमाणत्वाद्भक्तेः कर्त्र्या उक्तरीत्या प्रीयमामत्वाऽभावाच्च न संप्रदानत्वमिति भावः । भक्तिर्हरिं प्रीणाति, प्रीणयतीत्यादौ तु न भक्तेः संप्रदानत्वप्रसक्तिः, तिङा अभिहितत्वात्, समवायेन प्रीत्याश्रयत्वाऽभावाच्च । नापि हरेः, प्रीयमाण इति कर्मणि सानच्प्रयोगबलेन प्रीधातुयोगे रुच्यर्थानामित्यस्याऽप्रसक्तेर्विज्ञानात्, अन्यथा प्रीधातुकर्मणः संप्रदानत्वे कर्मणि शानचो दौर्लभ्यात् । मोदकः पथीति । अत्र पथः प्रीयमामत्वाऽभावान्न संप्रदानत्वमिति भावः ।
Tattvabodhini
-------------
**रुच्यर्थानां प्रीयमाणः** - रुच्यर्थानाम् । रुचिरर्थो येषां ते रुच्यर्थास्तेषाम् । प्रीयमाणा इति ।प्रीञ् तर्पणे अस्मात्कर्मणि लिट् । हरये रोचत इति । हरिं प्रीणयतीत्यर्थः । कर्मसंज्ञायां प्राप्तायां वचनम् । यद्यपि रुचिर्दीप्तावपि पठ्यते, तथापीह दीप्तिर्न विवक्षितेत्याह -अन्यकर्तृकोऽभिलाष इति । अत एव आदित्यो रोचते दिक्षु इत्यत्र दीप्त्यर्थे संज्ञा न भवति । हरिनिष्ठप्रीतेरिति । एतेन अन्यकर्तृकत्वमिह प्रीत्याश्रयाऽन्यकर्तृकत्वमित्युक्तं भवति । मोदकः पथीति । देवदत्तस्यैव प्रीयमाणत्वं न तु पथ इति न तस्य संप्रदानत्वम् । प्रीयमाणपदाऽभावे तु पथोऽपि स्यादिति भावः ।
Padamanjari
-----------
रुचिना समानार्था इति। वस्तुकथनमेतत्। विग्रहस्तु रुचिरर्थो येषामिति। ते च रुचिना धातुना धातुना समानार्था भवन्ति। प्रीयमाण इति।'प्रीञ् तर्पणे' इत्यस्मात् क्रैयादिकात् सकर्मकात्कर्मणि लः। दैवादिकस्तु ङ्दिकर्मकः, तर्पमाण इत्यर्थः। अन्यकर्तृक इति। योऽभिलाषस्याश्रयः प्रीयमाणस्ततोऽन्यकर्तृक इत्यर्थः। कथं पुनरन्याश्रयस्याभिलाषस्यान्यः कर्ता भवति, यावता यदाश्रयव्यापारं धातुः प्राधान्येनाचष्टे स कर्ता? नेदं कर्तृ लक्षणम्, किन्तु स्वातन्त्र्यमेव। तच्च क्वचिद्वास्तवम्, क्वचिद्वैवक्षिकम्। तदत्र माधुर्यातिशयेन स्वविषयं देवदताश्रयमभिलाषं जनयन्मोदकस्तत्र कर्तेति गीयते। न चैवं लषेरपि प्रसङ्गः, देवदतो मोदकमभिलष्यतीति? अभिधानशक्तिवैचित्र्यादाश्रयकर्तृ कोऽभिलाषो लषेर्वाच्यः, रुचेस्तु विषयकर्तृकः। द्दष्टश्चायमभिधानप्रकारनियमोऽन्यत्रापि, तद्यथा-घटः पश्यतीति द्दशेराश्रयकर्तृ कं ज्ञानं वाच्यम्। घटः प्रकाशते इत्यत्र प्रकाशेर्विषयकर्तृकम्। विषय एव हि स्पष्टालोकमध्य वर्तित्वादिना सौकर्येण देवदताश्रये ज्ञाने कर्तेति व्यपदिश्यते, न तु ज्ञानेन कश्चिदतिशयो विषयो जन्यते। कोऽयं प्रकाशो नाम, यं प्राकठ।ल्माचक्षते भाट्टाः, तत्र कारकशेषत्वेन षष्ठीप्रसङ्गे वचनम्। अन्ये तु प्रीयमाणं देवदतं मोदकः प्रीणयतीति कर्मसंज्ञां प्राप्तां मन्यन्ते। अपरे त्वेवमाहुः- देवदतो रोचयति मोदकमिति हेतुत्वे प्राप्ते वचनमिति, देवदतं हि प्राप्य रोचते मोदको न सर्वान्, नानेच्छा हि प्राणिन इति। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। उक्तं च - हेतुत्वे कर्मसंज्ञायां शेषत्वे चापि कारकम्। रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यमुच्यते॥ इति। पथीति। हेतुकर्मसंज्ञावदधिकरणसंज्ञा बाध्येतेति भावः। किं च प्रीयमाणग्रहणादेवादित्यो रोचत इति दीप्तिवाचिनामग्रहणम्॥
Nyaas
-----
`रुचिना समानार्था रुच्यर्थाः` इति। रुच्यर्थानामित्यस्मादेव निपातनात - मयूरव्यंसकादित्वान्मध्यमपदलोपो समासः। `समानार्थाः` इति। एकार्था इत्यर्थः। यद्यपि `रुचिर्दीप्तौ` (धातुपाठः-745) पठते, तथापीहाभिलाषे वर्तते, अनेकार्थत्वाद्धातूनाम्; तत्रैव प्रीयमाणार्थस्य सम्भवात्। यस्य ह्यभिलाषः स प्रीयमाणः। यस्त्वभिलषति स प्रीणाति। `प्रीयमाणः` इति। तृप्यमाण इत्यर्थः। `प्रीञ् तर्पणे` (धातुपाठः- 1474) इत्येतस्मात् कर्मणि विहितस्य लस्य शानच्। `अन्यकर्त्तृकः` इत्यादिना तमभिलाषविशेषं दर्शयन् रुचिशब्दस्यार्थमाचष्टे। प्रीयमाणापेक्षयाऽन्योर्थो वेदितव्यः। प्रीयमाणादन्यः कर्ता यस्य सोऽन्यकर्त्तुकः। `रोचते स्वदते` इति। `रुच दीप्तौ`(धातुपाठः-745) `स्वद आस्वादने` (धातुपाठः-18) अनुदात्तेत्तौ। `देवदत्तस्थस्य` इत्यादिनाऽन्यकर्त्तृकतामभिलाषस्य दर्शयति।`देवदत्ताय रोचते मोदकः पथि` इति। प्रीयमाणग्रहादिहाधिकरणस्य पथः सम्प्रदानसंज्ञा न भवति। अथ देवदत्तो मोदकमभिलषतीत्यत्र देवदत्तस्य सम्प्रदानसंज्ञा कस्मान्न भवति? रुच्यर्थाभावात् `अन्यकर्त्तृको ह्यभिलाषो रुचिः, (का। 1.4.33) इत्युक्तम्। न चेहान्यकर्त्तृकोऽभिलाषः, किं तर्हि? प्रीयमाणो देवदत्तो यस्तत्रस्थोऽभिलाषस्तत्कर्त्तृकः॥
Praudhamanorama
---------------
प्रीञ् तर्पणे। अस्मात् कर्मणि लट्। **हरये रोचते इति।** कर्मसंज्ञायां प्राप्तायां वचनम्। प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि। अत्र पथो मा भूत्।
Prakriyasarvasvam
-----------------
रुच्यर्थधातूनां योगे प्रीयमाणः सम्प्रदानाख्यः । हरये रोचते स्वदते वा पयः । अत्र पयसा हरेः प्रीयमाणत्वम् ।।
Sutra Prayogas
--------------
* **तस्मै** (कुमारसम्भवम्): `रुच्यर्थानां प्रीयमाणः` इति संप्रदानत्वाच्चतुर्थी।
* **भवते** (किरातार्जुनीयम्): `रुच्यर्थानां प्रीयमाणः` इति संप्रदानत्वाच्चतुर्थी।
* **रमणीभ्यः** (किरातार्जुनीयम्): `रुच्यर्थानां प्रीयमाणः` इति संप्रदानत्वाच्चतुर्थी।
* **प्रमदाभ्यो** (शिशुपालवधम्): `रुच्यर्थानां प्रीयमाणः` इति संप्रदानसंज्ञा।