14027: वारणार्थानामीप्सितः ========================== **Padacheda:** वारण-अर्थानाम् | S | 6 | 3 | ईप्सितः | S | 1 | 1 | Sutrartha --------- **"वारणं करोति" इत्यर्थकानां धातूनां प्रयोगे "यः पदार्थः ईप्सितः" तत् कारकम् अपादानसंज्ञं भवति । यथा - यवेभ्यः गां वारयति ।** **कारके** (1.4.23) इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं चतुर्थं सूत्रम् । **वारयति (अवरोधं करोति) इत्यस्य प्रयोगे **यः पदार्थः ईप्सितः (प्राप्तुम् इष्टः) अस्ति** तस्य प्रकृतसूत्रेण **अपादानसंज्ञा** भवति** । यथा, यदि काचित् गौः यवान् भक्षयितुम् यत्नं करोति, तर्हि अस्यां क्रियायाम् इप्सितः पदार्थः "यवः" इति विद्यते, अतश्च वारणक्रियायाः सन्दर्भेण "यव"पदार्थस्य अत्र प्रकृतसूत्रेण अपादानसंज्ञा भवति, येन यवेभ्यः गां वारयति इति प्रयोगः सिद्ध्यति । एवमेव, माता पुत्रम् मधुरात् वारयति, पिता माणवकम् अग्नेः वारयति इत्यादयः प्रयोगाः सिद्ध्यन्ति । **कर्तुः ईप्सितः उत कर्मणः ईप्सितः?** **ईप्सित** (= आप् + सन् + क्त) इति शब्दस्य अर्थः **अभिलषितः**, **प्राप्तुम् इष्टः** इति अस्ति । यवेभ्यः गां वारयति इत्यादिषु वाक्येषु यवानाम् **ईप्सितत्वात्** (प्राप्तुम् इष्टत्वात्) वारणक्रियायाः संदर्भेण प्रकृतसूत्रेण तेषाम् अपादानसंज्ञा भवति । अत्र वारणक्रियायाम् आहत्य त्रयः पदार्थाः वर्तन्ते -
  • 1. यः वारयति सः = **कर्ता** ।
  • 2. यस्य वारणं भवति तत् = **कर्म** ।
  • 3. यः ईप्सितः पदार्थः = **अपादानम्** । अत्र सहजः एव प्रश्नः उदेति - *कस्य ईप्सितः ? कर्तुः ईप्सितः उत कर्मणः ईप्सितः ?* - इति । अस्य उत्तरम् अस्ति - **ईप्सित** इति शब्दस्य अन्वयः **कर्तृपदेन** सह अपि कर्तुं शक्यते, अथ वा **कर्मपदेन** अपि कर्तुं शक्यते । यथा, देवदत्तः यवेभ्यः गां वारयति इत्यत्र -
  • 1. "देवदत्तस्य ईप्सिताः यवाः सन्ति, अतः गौः तान् न खादेत् इति हेतुना देवदत्तः गां यवान् प्रति गन्तुम् अवरुणद्धि" - इति आशयः स्वीक्रियते चेत् **कर्तुः यद् ईप्सितम्, तस्मात् कर्मणः वारणम् क्रियते** इति अर्थः सम्भवति ।
  • 2. "गोः ईप्सिताः यवाः सन्ति, अतः गौः तां खादितुम् प्रयतते ; तस्मात् कार्यात् देवदत्तः गाम् अवरुणद्धि:" - इति आशयः स्वीक्रियते चेत् **कर्मणः यद् ईप्सितम् तस्मात् कर्मणः एव वारणं क्रियते** - इति अर्थः सम्भवति । अनेन प्रकारेण कस्यापि ईप्सिततत्वं स्वीकृत्य प्रकृतसूत्रस्य प्रयोगः अवश्यं कर्तुं शक्यते । तथापि सामान्यरूपेण **कर्मणः ईप्सितम्** इत्यस्मिन् पक्षे उदाहरणानि सरलरूपेण घटन्ति, अतश्च भाष्ये अपि अस्यैव अर्थस्य पुरस्कारः कृतः दृश्यते । अस्मिन् विषये अधिकं पिपठिषवः सिद्धान्तकौमुद्याः बालमनोरमाव्याख्यानं पश्येयुः । ****वारणम्** इति शब्दस्य अर्थः** सिद्धान्तकौमुद्यां **वारणम्** इति शब्दस्य अर्थः **प्रवृत्तिविघातः ** इति दीयते । **प्रवृत्तिः** इत्युक्ते ईप्सितं पदार्थं प्राप्तुम् कृतः यत्नः । अस्मात् यत्नात् कृतः विघातः (विरोधः) **वारणम्** इत्यनेन निर्दिश्यते । यथा गोः "यवाः" इति ईप्सितः पदार्थः, अतः गौः यवान् प्रति गन्तुं प्रयतते । एतादृशी गौः यवानां समीपे नैव गच्छेत् इति हेतुना कृतः यत्नः एव **वारणम्** नाम्ना ज्ञायते । अस्यां क्रियायाम् **ईप्सितपदार्थस्य** (इत्युक्ते, यवानाम्) प्रकृतसूत्रेण अपादानसंज्ञा भवति, अतश्च यवेभ्यः गां वारयति इति प्रयोगः सिद्ध्यति । **दलकृत्यम्** 1. **ईप्सितः इति किमर्थम् ? ** - वारणक्रियायां **यः पदार्थः ईप्सितः नास्ति तस्य अपादानसंज्ञा न भवति** । यथा, देवदत्तः क्षेत्रे यवेभ्यः गां वारयति इत्यत्र गोः कृते "क्षेत्रे विद्यमानाः यवाः" ईप्सिताः सन्ति, क्षेत्रम् स्वयं न । देवदत्तस्य कृते अपि, वारणक्रियायाः सन्दर्भेण "क्षेत्रम्" इति ईप्सितम् न, अपितु तत्रस्थाः "यवाः" एव ईप्सिताः । अतश्च अत्र "क्षेत्र"पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा न भवति । ** भाष्ये सूत्रस्य प्रत्याख्यानम्** भाष्यकारेण "इदं सूत्रम् अनावश्यकम् अस्ति" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् - अयमपि योगः शक्योऽवक्तुम् । कथं माषेभ्यो गा वारयतीति ? पश्यत्ययं यदीमा गावस्तत्र गच्छन्ति ध्रुवः सस्यविनाशः, सस्यविनाशेऽधर्मश्चैव राजभयं च । स बुद्ध्या सम्प्राप्य निवर्तयति । तत्र **ध्रुवमपायेऽपादानम्** (1.4.24) इत्येव सिद्धम् । - महाभाष्यम् माषेभ्यः गां वारयति इत्यादिषु प्रयोगेषु "गौः माषान् प्रति न गच्छेत्" इति हेतुना कर्ता आदौ बुद्धौ "माषेभ्यः गौः पृथक् एव तिष्ठेत्" इति चिन्तयित्वा तदनन्तरं तादृशीं स्थितिं प्रत्यक्षीकर्तुं गां वारयति । इत्युक्ते, अत्र वारणक्रियायां **बुद्धिकृतः अपायः** अवश्यं वर्तते, अतश्च इदम् **उपात्तविषयम् अपादानम्** एव मत्त्वा ध्रुवमपायेऽपादानम्>> (1.4.24) इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , अतश्च पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते । Vasu English Summary -------------------- In case of verbs having the sense of 'preventing, the desired object from which one is prevented or warded off', is called Ablation or अपदान कारक। Vasu English Translation ------------------------ In case of verbs having the sense of 'preventing, the desired object from which one is prevented or warded off', is called Ablation or अपदान कारक। The obstruction to one's natural inclination is called *varana* or prevention. As यवेभ्यो गां वारयति or निवर्तयति he wards off or withholds the cow from the barley. Why do we say 'the object desired' is put in the ablative case' ? Observe गां वारयति क्षेत्रे he wards off the cow in the field. Bhashya ------- वारणार्थानामीप्सितः (267) किमुदाहरणम् ? माषेभ्यो गा वारयति । भवेद्यस्य माषा न गावः, तस्य माषा ईप्सिताः स्युः । यस्य तु खलु गावो न माषाः, कथं तस्य माषा ईप्सिताः स्युः ? तस्यापि माषा एवेप्सिताः । आतश्चेप्सिताः, यदेभ्यो गा वारयति । इह कूपादन्धं वारयतीति कूपेऽपादानसंज्ञा न प्राप्नोति । न हि तस्य कूप ईप्सितः । कस्तर्हि ? अन्धः । तस्याऽपि कूप एवेप्सितः । पश्यत्ययम् - अन्धः कूपं मा प्रापदिति । अथ वा यथैवाऽस्यान्यत्राऽपश्यत ईप्सैवं कूपेऽपि । इह-अग्नेर्माणवकं वारयतीति माणवकेऽपादानसंज्ञा प्राप्नोति । कर्मसंज्ञाऽत्र बाधिका भविष्यति । अग्नावपि तर्हि बाधिका स्यात् । तस्माद्वक्तव्यम् कर्मणो यदीप्सितमिति । ईप्सितेप्सितमिति वा । वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरीप्सिततमं कर्मेति वचनात् ॥ 1 ॥ वारणार्थेषु कर्मग्रहणमनर्थकम् । किं कारणम् ? कर्तुरीप्सिततमं कर्म (1.4.49) इति वचनात् । कर्तुरीप्सिततमं कर्मेत्येव सिद्धम् । अयमपि योगः शक्योऽवक्तुम् । कथं माषेभ्यो गा वारयतीति ? पश्यत्ययं यदीमा गावस्तत्र गच्छन्ति ध्रुवः सस्यविनाशः, सस्यविनाशेऽधर्मश्चैव राजभयं च । स बुद्ध्या सम्प्राप्य निवर्तयति । तत्र ध्रुवमपायेऽपादानम् (1.4.24) इत्येव सिद्धम् ॥ 27 ॥ Kashika ------- वारणार्थानां धातूनां प्रयोगे य ईप्सितोऽर्थः, तत् कारकमपादानसंज्ञं भवति। प्रवृत्तिविघातो वारणम्। यवेभ्यो गा वारयति। यवेभ्यो गा निवर्तयति। ईप्सित इति किम्? यवेभ्यो गा वारयति क्षेत्रे॥ Siddhanta Kaumudi ----------------- प्रवृत्तिविघातो वारणम् । वारणार्थानां धातूनां प्रयोगे ईप्सितोऽपादानं स्यात् । यवेभ्यो गां वारयति । ईप्सितः किम् ? यवेभ्यो गां वारयति क्षेत्रे ॥ Balamanorama ------------ **वारणार्थानां ईप्सितः** - वारणार्थानामीप्सितः । प्रवृत्तिविमुखीकरणं वारणम् । यवेभ्य इति । यवेषु प्रवर्तितुकामां गां प्रवृत्तिविमुखीकरोतीत्यर्थः । संयोगपूर्वकविश्लेषाऽभावात् 'ध्रुवमपाये' इत्यप्राप्ताविदं वचनम् । तत्र यवानां स्वकीयतया संरक्षणीयत्वेन ईप्सितत्वादपादानत्वं, न तु गोः, तस्याः परकीयत्वेनानीप्सितत्वात्, वारणीयतया ईप्सितत्वाव्याघाताच्च । तथा च तथायुक्तं चेति गोः कर्मत्वाद्द्वितीया । यदा तु यवाः परकीयाः, गौस्तु स्वकीया, तदा वारणमसंभावितमेव । वस्तुतस्तु यवानां परकीयत्वेऽपि तद्विनाशादधर्मः स्यात्, यवस्वामी गामपहृत्य बध्नीयात्, गोस्वामिनं च यवस्वामी दण्डयेत्, अतो यवानां रक्षितुमिष्टत्वादीप्सितत्वादपादानत्वमस्त्येव । गोस्तु स्वकीयत्वेऽपि बाधकनिवृत्त्यै वारयितुमिष्टतमत्वात्कर्मत्वम् । न च गोरीप्सिततमत्वेऽपि ईप्सितत्वस्यापि सत्त्वादपादानत्वं किं न स्यादिति वाच्यम्, ईप्सिततमत्वेवारणार्थानामित्यपादानत्वं बाधित्वाकर्तुरीप्सिततममिति कर्मत्वस्यैव परत्वात्प्राप्तेः । न च वारणार्थानामीप्सितः इत्यपादानत्वस्यकर्तुरीप्सततममिति कर्मत्वापवादत्वं शङ्क्यं,कर्तुरीप्सिततममिति कर्मत्वं हि ईप्सिततममात्रविषयम् । वारणार्थानामित्यपादानत्वं तु ईप्सितविषयम् । तस्य प्रकृते ईप्सितेषु यवेषु परकीयेषु सावकाशत्वान्नकर्तुरीप्सततममिति कर्मत्वापवादत्वम् । अतः परत्वाद्गोः स्वकीयायाः परकीययवापेक्षया ईप्सिततमत्वात्कर्मत्वमेव । न च अग्नेर्माणवकं प्रवृत्तिविमुखीकरोतीति हि तदर्थः । तत्राग्निस्पर्शे माणवकस्य दाहप्रसङ्गात्तद्विषयप्रवृकत्तिविमुखीकरणात्मकवारणक्रिययाऽऽप्तुमिष्टतमत्वेन वारयितुरीप्सिततमत्वान्माणवकस्य कर्मत्वम् । अग्नेस्तु वारणक्रियेप्सिततममाणवकीयस्पर्शक्रियया आप्तुमिष्टतमत्वेऽपि वारयितुरीप्सिततत्वादपादानत्वम् । एतेन तयोः पृथग्ग्रहणेन । एतावतैव हरिं भजति, ग्रामं गच्छंस्तृणं स्पृशति, विषं भुङ्क्ते इत्यादिसर्वलक्ष्यसङ्ग्रहादिति निरस्तम् । कर्तृव्यापारजन्यफलाश्रयः कर्मेत्युक्तौ हि वारणार्थानामिति सूत्रमस्यापवादः स्यात्, विशेषविहितत्वात् । तथाच माणवकस्य कर्मत्वं न स्यात् । न चाग्नौ वारणार्थानामिति सावकाशमिति वाच्यं, वारयतेरत्र स्पर्शफलकप्रवृत्तिविघटनमर्थः । तच्चान्यतो नयनादिरूपम् । तादृशव्यापारप्रयोज्यफलं माणवककर्तृकस्पर्शफलकप्रवृत्तिविरहः । तत्र स्पर्शांशोऽग्निनिष्ठः माणवकनिष्ठश्च, संयोगरूपस्य स्पर्शस्य द्विनिष्ठत्वात् । प्रवृत्तिविरहश्च विषयतयाऽग्निनिष्ठः, आश्रयतया माणवकनिष्ठश्च । तथा च कर्तृव्यापारप्रयोज्यफलाश्रयत्वलक्षणकर्मत्वस्य परत्वादुभयत्रापि प्राप्तौ वारणार्थानामित्यपादानत्वं निरवकाशत्वादपवादः स्यादिति माणवकादपि पञ्चमी स्यात्, तद्बाधनार्थं कर्तुरीप्सिततमं कर्मेत्यारब्धव्यम् । एवं च ईप्सितमात्रेऽग्नौ सावकाशस्यापादानत्वस्य परत्वादीप्सिततमे माणवके बाधः सिध्यति । कर्तुरीप्सिततममित्यारब्धे च द्वेष्योदासीनसङ्ग्रहार्थं तथायुक्तमित्यप्यारब्धव्यमित्यास्तां तावत् । भाष्ये तु बुद्धिकल्पितसंयोगविश्लेषकृतमपादानत्वामाश्रित्य प्रत्याख्यातमिदं सूत्रम् । Tattvabodhini ------------- **वारणार्थानां ईप्सितः** - वारणार्था । यवेभ्य इति । यवसंयोगात्प्रागेव गां निवारयतीतिध्रुवमपाये -॑इत्यनेनाऽसिद्धावयमारम्भः । बुद्धिपरिकल्पिताऽपायमङ्गीकुर्वातो भाष्यकारस्य मते तु वैयथ्र्यमेतस्य स्फुटमेव । गां वारयतीति ।वृञ् वरणे॑ चुरादिः ।गा॑मित्यत्र ईप्सितत्वप्रयुक्ताऽपादानसंज्ञा न भवति.ईप्सिततमत्वविवक्षायां परत्वात्कर्मसंज्ञाप्रवृत्तेः । नन्वेवमीप्सितग्रहणमेव व्यर्थं, क्षेत्रे वारयतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेः । सत्यम । अधिकरणस्य शेषत्वविवक्षायामिदं प्रत्युदाहरणमिति पूर्वोक्तरीत्या पदप्रयोजनस्येहापि कल्पयितुं शक्यत्वात् । Padamanjari ----------- ईप्सितशब्दोऽयमस्त्यभिप्रेतपर्यायः, तस्य ग्रहणे यवानामान्मीयत्वे गवां च परकीयत्व एव स्याद्, न विपर्यते? न खल्वस्यैतदभिप्रेतं यदुतात्मीया गावः परकीयान्यवान्मा घसन्निति, मा भूवन्यवा वारयितुमीप्सिताः; वार्यमाणानां तु गवामीप्सिताः, न वात्र विशेषः श्रुतः कर्तुरीप्सित इति। इह तर्हि न स्याद्-अग्नेर्माणवकं वारयति कूपादन्धमिति, न ह्यग्रिकूपौ वारयितुर्वार्यमाणस्य वाभिप्रेतौ? क्रियाशब्दस्य तु ग्रहणे वार्यमाणस्यान्थादेर्गमनादिक्रियया कूपादेराप्यमानत्वात् सिद्ध्यति, अन्धश्चापश्यन्नपि गन्तव्यं जिगमिषति, अन्यथा न क्वचितस्य प्रवृत्तिः स्यात्। यवेभ्यो गा वारयतीति।'वृञ् आवरणे' चुरादिः। अथात्र गवामपादानसंज्ञा कस्मान्न भवति, ईप्सिततमोऽपीप्सितो भवत्येव, यथा शुक्लतमोऽपि शुक्लः? परत्वात्कर्मसंज्ञा भविष्यति। कर्मसंज्ञाया अवकाशः- वारणार्थेभ्योऽन्यत्र, अपादानसंज्ञायास्तु प्रकर्षरहितमीत्सितम्, इप्सिततमस्य तूभयप्रसङ्गे परत्वात्कर्मसंज्ञा। अयमपि प्रपञ्चः, अस्ति ह्यत्रपि बुद्धिव्यवस्थितोऽपायः, कथम्? पश्यत्ययम्-यदि गावः क्षेत्रे गच्छेयुर्ध्रुवं सस्यविनाशः, सस्यविनाशेऽधर्मश्च राजभयं च; स बुद्ध्या संप्राप्य नविर्तयतीत्यतो न चोदनीयम्-प्रत्युदाहरणे क्षेत्रस्याधिकरणसंज्ञा भविष्यतीति॥ Nyaas ----- वारणमर्थो येषां ते वारणार्थाः। `यवेभ्यो गा वारयति` इति। `गाः` इति गवामीप्सिततमत्वेन विवक्षितत्वात्कर्मसंज्ञा, गोशब्दाच्छस, **औतोऽम्शसोः** (6.1.93) इत्यात्त्वम्, रुत्वे कृते `भोभगोअधोअपूर्वस्य` (8.3.17) इति यत्वम्, **हलि सर्वेषाम्** (8.3.22) इति यलोपः। `वारयति` इति। `वृञ् आवरणे` (धातुपाठः-1813), चुरादिणिच्। `निवर्तयति` इति। `वृतु वर्तने` (धातुपाठः- 758), हेतुमण्णिच्। `यवेभ्यो गा वारयति क्षेत्रे` इति। अत्र क्षेत्रस्यानीप्सितस्य न भवति संज्ञा; ईप्सितग्रहणम्। ननु चात्र परत्वादरधिकरणसंज्ञयैव बाधितत्वादपादानसंज्ञायाः, क्षेत्रस्यापादानसंज्ञा न भविष्यतीत्यतो न कर्तव्यमीप्सितग्रहणमिति, एतन्नाशङ्कनीयम्; उक्तोत्तरत्वात्॥ Prakriyasarvasvam ----------------- तेषां प्रयोगे ईप्सितोऽर्थोऽपादानम् । सस्याद् वारयति गाम् । सस्यविषया गोः प्रवृत्तिरिति तस्येप्सितत्वम् । तेन कूपादनन्धं रुन्ध इत्याद्यपि ।। Sutra Prayogas -------------- * **तपसो** (कुमारसम्भवम्): `वारणार्थानामीप्सितः` इत्यपादानत्वात्पञ्चमी। * **मुनिव्रतात्** (कुमारसम्भवम्): `वारणार्थानामीप्सितः` इति सूत्रेण ईप्सितत्वाभावात् अपादानत्वनिषेधशङ्का। * **दशाऽऽननात्** (भट्टिकाव्यम्): `वारणार्थानामीप्सितः` इति अपादानत्वम्।