14023: कारके
============
**Padacheda:** कारके | S | 7 | 1 |
Sutrartha
---------
**अधिकारसूत्रं संज्ञासूत्रं च इदम् । इतः परम् **तत्प्रयोजको हेतुश्च** (1.4.55) इति सूत्रपर्यन्तं कारकसंज्ञकाः पाठ्यन्ते ।**
इदम् **संज्ञासूत्रम्** अस्ति । अनेन सूत्रेण कारकम् इति व्याकरणविशिष्टा संज्ञा दीयते । किञ्च, इदम् **अधिकारसूत्रम्** अपि अस्ति । अस्य सूत्रस्य अधिकारः **तत्प्रयोजको हेतुश्च** (1.4.55) इति पर्यन्तं प्रचलति । अस्मिन् अधिकारे विद्यमानानि सर्वाणि अपि सूत्राणि **संज्ञासूत्राणि** सन्ति । एतैः सूत्रैः आहत्य - अपादानम्, सम्प्रदानम्, करणम्, अधिकरणम्, कर्म, तथा च कर्ता - एताः षट् संज्ञाः पाठ्यन्ते । तत्र सूत्राणां विभाजनम् एतादृशम् -
1. **ध्रुवमपायेऽपादानम्** (1.4.24) इत्यतः **भुवः प्रभवः** (1.4.31) इत्येतैः सूत्रैः अपादानम् इति संज्ञा दीयते ।
2. **कर्मणा यमभिप्रैति स सम्प्रदानम्** (1.4.32) इत्यतः **क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः** (1.4.37), तथा च तदनन्तरं **राधीक्ष्योर्यस्य विप्रश्नः** (1.4.39) इत्यतः **अनुप्रतिगृणश्च** (1.4.41), अपि च **परिक्रयणे सम्प्रदानमन्यतरस्याम्** (1.4.44) इत्येतैः सूत्रैः सम्प्रदानम् इति संज्ञा दीयते ।
3. **साधकतमं करणम्** (1.4.42) इत्यतः **परिक्रयणे सम्प्रदानमन्यतरस्याम्** (1.4.44) इत्येतैः सूत्रैः करणम् इति संज्ञा दीयते ।
4. **आधारोऽधिकरणम्** (1.4.45) इत्यनेन सूत्रेण अधिकरणम् इति संज्ञा दीयते ।
5. **क्रुधद्रुहोरुपसृष्टयोः कर्म ** (1.4.38), **दिवः कर्म च** (1.4.43) तथा च **अधिशीङ्स्थाऽऽसां कर्म ** (1.4.46) इत्यतः **हृक्रोरन्यतरस्याम् ** (1.4.53) इत्येतैः सूत्रैः कर्म इति संज्ञा दीयते ।
6. **स्वतन्त्रः कर्ता** (1.4.54) तथा च **तत्प्रयोजको हेतुश्च** (1.4.55) इत्येताभ्यां सूत्राभ्याम् कर्ता इति संज्ञा दीयते ।
**"कारकम्" इत्यस्य व्याख्या**
कारकम् इति शब्दस्य व्याख्या सामान्यरूपेण क्रियान्वयि कारकम्, अथवा क्रियाजनकं कारकम् इति क्रियते । **क्रियां कर्तुं ये ये पदार्थाः आवश्यकाः, ते सर्वेऽपि कारकसंज्ञकाः भवन्ति** इति अस्याः व्याख्यायाः आशयः । यथा, देवदत्तः महानसे स्थाल्यां अग्निना ओदनं पचति अस्मिन् वाक्ये वर्णितायाः पचनक्रियायाः कृते - "देवदत्तः", "ओदनम्", "अग्निः", "महानसः", "स्थाली" - एते सर्वेऽपि पदार्थाः आवश्यकाः, अतः एतेषां सर्वेषाम् अपि पदार्थानाम् पचनक्रियायाः संदर्भेण **कारकम्** इति संज्ञा भवति । अनेन प्रकारेण **कारकम् इति पदार्थानां संज्ञा अस्ति** इति स्मर्तव्यम् । एतेषाम् एव अग्रे अपादानादयः पृथक् संज्ञाः दीयन्ते । यथा, देवदत्तः महानसे स्थाल्यां अग्निना ओदनं पचति इत्यत्र "देवदत्त"पदार्थस्य **कर्तृसंज्ञा** भवति, "महानस"पदार्थस्य "स्थाली"पदार्थस्य च **अधिकरणसंज्ञा** भवति, "अग्नि"पदार्थस्य **करणसंज्ञा** भवति, "ओदन"पदार्थस्य च **कर्मसंज्ञा** भवति ।
किञ्च, वाक्यपदीये तृतीये काण्डे साधनसमुद्देशे भर्तृहरिणा कारकस्य व्याख्या **पदार्थेषु विद्यमाना शक्तिः** इति कृता वर्तते । यथा, वृक्षात् पर्णं पतति अस्मिन् वाक्ये "वृक्ष"पदार्थे **अपादानशक्तिः** आविर्भवति, येन "वृक्ष"पदार्थस्य अपि अपादानसंज्ञा भवति । एवमेव, देवदत्तः कटे उपविशति इत्यत्र "कट"पदार्थे **अधिकरणशक्तिः** प्रकटति, येन "कट"पदार्थस्य अधिकरणसंज्ञा भवति । अनेन प्रकारेण - **पदार्थः, तथा च तस्मिन् विद्यमाना शक्तिः** - द्वयोः अपि कारकसंज्ञा सम्भवति ।
**कारकम् तथा विभक्तिः एतयोर्मध्ये भेदः**
**कारकम्** इति पदार्थेषु विद्यमाना शक्तेः नाम इति अस्माभिः दृृष्टम् । **इमां शक्तिं शब्देन दर्शयितुम् विभक्तिप्रत्ययस्य प्रयोगः क्रियते** । यथा, वृक्षात् पर्णं पतति इत्यत्र "वृक्ष"पदार्थे विद्यमानायाः शक्तेः शब्दैः प्रकटीकरणार्थम् "वृक्ष"शब्दात् **अपादाने पञ्चमी** (2.3.28) इति सूत्रेण **पञ्चमीविभक्तेः** प्रत्ययः प्रयुज्यते । एवमेव देवदत्तः कटे उपविशति इत्यत्र "कट"पदार्थे विद्यमानायाः अधिकरणशक्तेः निर्देशार्थम् **सप्तम्यधिकरणे च** (2.3.36) अस्य सूत्रस्य आधारेण **सप्तमीविभक्तेः** प्रयोगः क्रियते । एतादृशम् सर्वेषाम् अपि कारकाणाम् शब्दैः प्रकटीकरणार्थम् भिन्नानां विभक्तिप्रत्ययानां उपयोगः भवति । कस्य कारकस्य कृते कः विभक्तिप्रत्ययः प्रयोक्तव्यः - इत्यस्य सूत्राणि **अनभिहिते** (2.3.1) अस्मिन् अधिकारे पाठितानि सन्ति ।
Vasu English Summary
--------------------
The phrase कारक (meaning 'in the special relation to a word expressing an action') is to be understood in the following aphorisms.
Vasu English Translation
------------------------
The phrase कारक (meaning 'in the special relation to a word expressing an action') is to be understood in the following aphorisms.
Any thing that helps towards the accomplishment of an action is a *karaka*. Thus in 'cooking,' the fire, the furnace, the vessel, the cook are all helpers in the accomplishment of the action. Thus '*Rama* cooks food in a vessel, by the fire from the furnace for his master.' Here *Rama* is agent *karaka*; 'food' is object *karaka*; 'vessel' is a locative *karaka*, fire is an instrumental *karaka*, 'furnace' is the ablative *karaka* and 'master' is the dative *karaka*.
The word '*karaka*' thus is synonymous with the word cause (*hetu*) and occasion (*nimitta*). All the various causes and the occasions that are required to complete an action will be *karakas*. Out of the seven cases in which a sanskrit noun is declined, six represent such relation with an action. The Genitive or the sixth case can never be directly related with an action, and thus can never stand in the relation of a *karaka* to a verb.
Bhashya
-------
कारके (263) किमिदं कारके इति ?(कारक इति) संज्ञानिर्देशः । किं वक्तव्यमेतत् ? न हि कथमनुच्यमानं गंस्यते ? इह हि व्याकरणे ये वैते लोके प्रतीतपदार्थकाः शब्दास्तैर्निर्देशाः क्रियन्ते , या वैताः कृत्रिमाष्टिघुभादिसंज्ञाः । न चायं लोके ध्रुवादीनां प्रतीतपदार्थकः शब्दः, न खल्वपि कृत्रिमा संज्ञा अन्यत्राऽविधानात् । संज्ञाधिकारश्चायम्। तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः संज्ञायाः । कारक इति संज्ञानिर्देशश्चेत्संज्ञिनोपि निर्देशः ॥ 1 ॥ कारक इति संज्ञानिर्देशश्चेत्संज्ञिनोपि निर्देशः कर्तव्यः । साधकं निर्वर्तकं कारकसंज्ञं भवतीति वक्तव्यम् । इतरथा ह्यनिष्टप्रसङ्गो ग्रामस्य समीपादागच्छतीत्यकारकस्य ॥ 2 ॥ इतरथा ह्यनिष्टं प्रसज्येत । अकारकस्याप्यपादानसंज्ञा प्रसज्येत । क्व ? ग्रामस्य समीपादागच्छतीति। नैषः दोषः । नात्र ग्रामोऽपाययुक्तः । किं तर्हि ? समीपम् । यदा च ग्रामोऽपाययुक्तो भवति, भवति तदाऽपादानसंज्ञा । तद्यथा, - ग्रामादागच्छतीति । कर्मसंज्ञाप्रसङ्गोऽकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति ॥ 3 ॥ कर्मसंज्ञा च प्राप्नोत्यकथितस्य । क्व ? ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति । नैषः दोषः । अयमकथितशब्दोऽस्त्येवाऽसंकीर्तिते वर्तते तद्यथा - कश्चित्कंचित्सञ्चक्ष्याह - असावत्राकथितः । असंकीर्तित इति गम्यते । अस्त्यप्राधान्ये वर्तते । तद्यथा - अकथितोऽसौ ग्रामे अकथितोऽसौ नगरे इत्युच्यते यो यत्राऽप्रधानो भवति। तद्यदाऽप्राधान्येऽकथितशब्दो वर्तते तदैष दोषः - कर्मसंज्ञाप्रसङ्गोऽकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति । अपादानं च वृक्षस्य पर्णं पततीति ॥ 4 ॥ अपादानसंज्ञा च प्राप्नोति । क्व ?वृक्षस्य पर्णं पतति, कुड्यस्य पिण्डः पततीति । न वाऽपायस्याऽविवक्षितत्वात् ॥ 5 ॥ न वैष दोषः । किं कारणम् ? अपायस्याऽविवक्षितत्वात् । नात्रापायो विवक्षितः । किं तर्हि ? सम्बन्धः । यदा चापायो विवक्षितो भवति, भवति तदाऽपादानसंज्ञा । तद्यथा, - वृक्षात्पर्णं पततीति । सम्बन्धस्तु तदा न विवक्षितो भवति न ज्ञायते कङ्कस्य वा कुरस्य वेति । अयं तर्हि दोषः - कर्मसंज्ञाप्रसङ्गश्चाऽकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति । नैषः दोषः । कारक इति महती संज्ञा क्रियते । संज्ञा च नाम यतो न लघीयः । कुत एतत् ? लघ्वर्थं हि संज्ञाकरणम् । तत्र महत्याः संज्ञायाः करणे एतत्प्रयोजनम् - अन्वर्थसंज्ञा यथा विज्ञायेत - करोतीति कारकमिति । अन्वर्थमिति चेदकर्तरि कर्तृशब्दानुपपत्तिः ॥ 6 ॥ अन्वर्थमिति चेदकर्तरि कर्तृशब्दो नोपपद्यते करणं कारकमअधिकरणं कारकमिति । सिद्धं तु प्रतिकारकं क्रियाभेदात्पचादीनां करणाऽधिकरणयोः कर्तृभावः ॥ 7 ॥ सिद्धःकरणाऽधिकरण्योः कर्तृभावः । कुतः ? प्रतिकारकं क्रियाभेदात् । पचादीनां तु प्रतिकारकं क्रिया भिद्यते । किमिदं प्रतिकारकमिति ? कारकं कारकं प्रति प्रतिकारकम् । कोसौ प्रतिकारकं क्रियाभेदः पचादीनाम् ? अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणक्रियाः प्रधानस्य कर्तुः पाकः ॥ 8 ॥ अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिक्रियाः कुर्वन्नेव देवदत्तः पचतीत्युच्यते । तत्र तदा पचिर्वर्तते । एष प्रधान(स्यटकर्तुः पाकः । एतत्प्रधानकर्तुः कर्तृत्वम् । द्रोणं पचत्याढकं पचतीति सम्भवनक्रिया धारणक्रिया चाधिकरणस्य पाकः ॥ 9 ॥ द्रोणं पचत्याढकं पचतीति सम्भवनक्रियां धारणक्रियां च कुर्वती स्थाली पचतीत्युच्यते । तत्र तदा पचिर्वर्तते । एषोऽधिकरणस्य पाकः । एतदधिकरणस्य कर्तृत्वम् । एधाः पक्ष्यन्त्या विक्लित्तेर्ज्वलिष्यन्तीति ज्वलनक्रियां करणस्य पाकः ॥ 10 ॥ एधाः पक्ष्यन्त्या विक्लितेर्ज्वलिष्यन्तीति ज्वलनक्रियां कुर्वन्ति काष्ठानि पचन्तीत्युच्यन्ते । तत्र तदा पचिर्वर्तते । एष करणस्य पाकः । एतत्करणस्य कर्तृत्वम् । उद्यमननिपातनानि कर्तुश्चिदिक्रिया ॥ 11 ॥ उद्यमननिपातनानि कुर्वन् देवदत्तश्छिनत्तीत्युच्यते । तत्र तदा छिदिर्वर्तते । एष प्रधानकर्तुश्छेदः । एतत्प्रधानकर्तुः कर्तृत्वम् । यत्तन्न तृणेन तत्परशोश्छेदनम् ॥ 12 ॥ यत्तत्समाने उद्यमने निपतने च परशुना छिद्यते न तृणेन तत्परशोश्छेदनम् । अवश्यं चैददेवं विज्ञेयम् । इतरथा ह्यसितृणयोश्छेदनेऽविशेषः स्यात् ॥ 13 ॥ यो हि मन्यत उद्यमननिपातनादेवैतद्भवति च्छिनत्तीति, असितृणयोश्छेदने न तस्य विशेषः स्याद् यदसिना छिद्यते तृणेनापि तच्छिद्येत । अपादानादीनां त्वप्रसिद्धिः ॥ 14 ॥ अपादानादीनां (तु) कर्तृत्वस्याऽप्रसिद्धिः । यथा हि भवता करणादीनां कर्तृत्वं निदर्शितं न तथाऽपादानादीनां कर्तृत्वं निर्दश्यते । न वा स्वतन्त्र्रपरतन्त्र्रत्वात्तयोः पर्यायेण वचनं वचनाश्रया च संज्ञा ॥ 15 ॥ न वैष दोषः । किं कारणम् ? स्वतन्त्र्रपरतन्त्र्रत्वात् । सर्वत्रैवात्र स्वातन्त्र्र्य पारतन्त्र्र्यं च विवक्षितम् । तयोः पर्यायेण वचनम् । तयोः स्वातन्त्र्र्यपारतन्त्र्र्ययोः पर्यायेण वचनं भविष्यति । वचनाश्रया च संज्ञा भविष्यति । तद्यथा, - बलाहकाद्विद्योतते विद्युत् । बलाहके विद्योतते । बलाहको विद्योतत इति । किं तर्ह्युच्यते - अपादानादीनां त्वप्रसिद्धिरिति ? एवं तर्हि न ब्रूमोऽपादानादीनां कर्तृत्वस्याऽप्रसिद्धिरिति । पर्याप्तं करणाधिकरण्योः कर्तृत्वं निदर्शितमपादानादीनां कर्तृत्वनिदर्शनाय, पर्याप्तो ह्येकः पुलाकः स्थाल्या निदर्शनाय । किं तर्हि ? संज्ञाया अप्रसिद्धिः । यावता सर्वत्रैवाऽत्र स्वातन्त्र्र्य विद्यते पारतन्त्र्र्यं च। तत्र परत्वात्कर्तृसंज्ञैव प्राप्नोति। अत्रापि न वा स्वतन्त्र्रत्वात्तयोः पर्यायेण वचनं वचनाश्रया च संज्ञेत्येव । यथा पुनरिदं भवता स्थाल्याः स्वातन्त्र्र्यं निदर्शितं संभवनक्रियां धारणक्रियां च कुर्वती स्थाली स्वतन्त्रेति, क्वेदानीं परतन्त्रा स्यात् ? यत्तत्प्रक्षालनं परिवर्तनं वा । न वा एवमर्थं स्थाल्युपादीयते प्रक्षालनं परिवर्तनं च करिष्यामीति । किं तर्हि ? संभवनक्रियां धारणक्रियां च करिष्यतीति । तत्र चासौ स्वतन्त्रा । क्वेदानीं परतन्त्रा ? एवं तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा, कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा । ननु च भोः कर्तृस्थेऽपि यत्ने कथ्यमाने स्थाली संभवनक्रियां धारणक्रियां च करोति, तत्रासौ स्वतन्त्रा । क्चेदानीं परतन्त्रा स्यात् ? एवं तर्हि प्रधानेन समवाये स्थाली परतन्त्रा, व्यवाये स्वतन्त्रा । तद्यथा - अमात्यादीनां राज्ञा सह समवाये परतन्त्र्यं, व्यवाये स्वातन्त्र्यम् । किं पुनः प्रधानम् ? कर्ता । कथं पुनर्ज्ञायते - कर्ता प्रधानमिति ? यत्सर्वेषु साधनेषु संनिहितेषु कर्ता प्रवर्तयिता भवति । ननु च भोः प्रधानेनापि वै समवाये स्थाल्या अनेनार्थः अधिकरणं कारकमिति । न हि कारकमित्यनेनाऽधिकरणत्वमुक्तम्, अधिकरणमिति वा कारकत्वम् । उभौ चान्योन्यविशेषकौ भवतः । कथम् ? एकद्रव्यसमवायित्वात् । तद्यथा, - गार्ग्यो देवदत्त इति । न हि गार्ग्य इत्यनेन देवदत्तत्वमुक्तं, देवदत्त इत्यनेन वा गार्ग्यत्वम् । उभौ चान्योन्यविशेषकौ भवत एकद्रव्यसमवायित्वात् । एवं तर्हि सामान्यभूता क्रिया वर्तते, तस्या निर्वर्तकं कारकम् । अथ वा यावद् ब्रूयात् क्रियायामिति, तावत् कारके इति । एवं च कृत्वा निर्देश उपपन्नो भवति कारके इति । इतरथा हि कारकेषु इति ब्रूयात् ॥ 23 ॥
Kashika
-------
कारक इति विशेषणमपादानादिसंज्ञाविषयमधिक्रियते। कारक इत्यधिकारो वेदितव्यः। यदित ऊर्ध्वमनुक्रमिष्यामः कारक इत्येवं तद् वेदितव्यम्। कारकशब्दश्च निमित्तपर्यायः। कारकं हेतुरित्यनर्थान्तरम्। कस्य हेतुः? क्रियायाः। वक्ष्यति — **ध्रुवमपायेऽपादानम्** (१.४.२४) — ग्रामादागच्छति। पर्वतादवरोहति। कारक इति किम्? वृक्षस्य पर्णं पतति। कुड्यस्य पिण्डः पतति। **अकथितं च** (१.४.५१) — अकथितं च कारकं कर्मसंज्ञं भवति। माणवकं पन्थानं पृच्छति। कारक इति किम्? माणवकस्य पितरं पन्थानं पृच्छति। कारकसंशब्दनेषु चानेनैव विशेषणेन व्यवहारो विज्ञायते॥
Siddhanta Kaumudi
-----------------
इत्यधिकृत्य ॥
Padamanjari
-----------
अधिकारोऽनेकप्रकारः। संज्ञा, विशेषणम्, स्थानी, प्रकृतिः, निमितम्, आदेश इति।'प्रत्ययः' ,'शेषे' ,'पूर्वपरयोः' 'ङ्याप्प्रातिदिकात्' 'धातोः' ठार्द्धधातुके मूर्द्धन्यःऽ इति तदिह विधेयानिर्देशात् स्वरितत्वाच्चाधिकारत्वे स्थिते प्रकारमाह-कारक इति विशेषण॥ंअधिक्रियत इति। न तावत्सञ्ज्ञात्वेनाधिकारः; सञ्ज्ञाया भाव्यमानत्वात्सप्तम्यनुपपतेः। अथ सञ्ज्ञानुरूपः प्रथमानिर्देश एव कस्मान्न कृतः, युक्तं चैतद् कारकसंशब्दनेषु वक्ष्यमाणानामपादानादीनामेव षण्णां ग्रहणस्येष्टत्वाद्; अन्यथा नटस्य श्टणोतीति कारकशेषस्यापि प्रसङ्गात्? उच्यते; सञ्ज्ञापक्षे - अपाये यद् ध्रुवं तत् कारकसञ्ज्ञं भवति, अपादानसञ्ज्ञं चेत्ययमर्थो भवति, एवमन्यत्रापि; ततश्च कारकापादानसञ्ज्ञयोर्युगपद्विधानात् परस्परं निमितनिमितिभावाभावादकारकस्यापि व्यापारशून्यस्यापादानसञ्ज्ञा प्राप्नोति। विशेषणाधिकारे तु-कारकेषु मध्ये यदपाये ध्रुवं सा न प्राप्नोति। अतो विशेषणानुरूप एव निर्देशः कृतः, न तु सञ्ज्ञानुरूपः। कारकसञ्ज्ञा त्वन्वर्थत्वाद् व्यापारशून्यस्य न भवति। किं च कारकसंज्ञाया अपादानादिसञ्ज्ञाभिः समावेशो न प्राप्नोति, ततश्चठ्स्तम्बेरमःऽ इत्यत्र सप्तम्यां श्रुयमाणायां गतिकारकोपपदादिति स्वरो न स्यात्,'कारके' इति निर्धारणे सप्तमी, सामान्यापोक्षं चैकवचनम्। कारकशब्दोऽयमस्ति ण्वुलन्तः-करोतीति कारकमिति, अस्त्यव्यत्पन्नः सञ्ज्ञाशब्दो निमितपर्यायः; तत्र पूर्वस्य ग्रहणेऽपादानादिषु कारकशब्दो न प्रवर्तोत, यथा कर्तृशब्दः, तेषामस्वतन्त्रत्वात्; स्वातन्त्र्ये वा पक्षे कर्तृसञ्ज्ञा प्रसज्येत, नैष दोषः; सर्वमेव खलु कारकं यथायथमवान्तरव्यापारं निर्वर्तयत् प्रधानक्रियायामुपयुज्यते, सा च सकलकारकजन्या फलभूता विक्लित्यादिरूपा क्रिया प्रधानक्रिया। यद्वा-सामान्यभूता क्रिया प्रधानक्रिया फलजनना नाम, सर्वाणि हि कारकाणि फलजननाय प्रवर्तन्ते, अतो यद्यत्फलजननारूपं तत्सर्वेष्वेव कारकेष्वविशिष्टम्। किञ्चित्खलु कारकं केनचिदेव रूपेण फलं जनयतीति फलजनना सर्वेषामभिन्नरूपा। अवान्तरभेदविवक्षायां तु करणादिरूपोन्मेषः। न च वैशेषिकाणामिवास्माकमेका क्रिया नानेकत्र समवेता, धात्वर्थो हि क्रिया, न परिस्पन्द एव। धातुना च सकलकारकानुयाय्योदनादिफलावच्छेदेन एकीकृतो व्यापारोऽभिधीयते। तस्यामेकस्यां प्रधानक्रियायामुपयोगो यथायथमवान्तरव्यापारमुखेन, तद्यथा-अपादानस्यावधिभावोपगमनं व्यापारः, सम्प्रदानस्यतु प्रेरणानुमत्यनिराकरणादिः, करणस्य काष्ठादेर्ज्वलनादिः, अधिकरणस्य सम्भवनधारणादिः, कमंणो निर्वृत्यादिः, कर्तुः प्रसिद्ध एव, प्रयोजकस्य प्रेषणादिः। न चैवं सति करणादीनामपि कर्तृसञ्ज्ञाप्रसङ्गः, परतन्त्रत्वत्। प्रधानेन हि कर्त्रा समवाये करणादीनि परतन्त्राणि, व्यवाये स्वतन्त्राणि;तद्यथा-अमात्यानां राज्ञा सह समवाये पारतन्त्रम्, व्यवाये स्वातन्त्र्यम्। यद्येवम्, कारकव्यपदेशोऽपि करणाद्यवस्थायां न स्यात्? करणम् कारकमिति अधिकारसामर्थ्यात्। कारकशब्दोपनीतस्वातन्त्र्यमवस्थान्तरगतं विज्ञास्यते। अवस्थान्तरे यत् स्वतन्त्रं तत्साधकतमं करणमिति कर्तुंरेव त्वेकस्य सांप्रतिकं स्वातन्त्र्यम्, तच्च कर्तृसञ्ज्ञाङ्गतया चोदितम्। यदि तर्हि व्युत्पत्तिपक्षेऽप्यवस्थान्तरगतमेव स्वातन्त्र्यम्, एवं तर्हि करणाद्यवस्थायां निमितभाव एवाभ्युपगतो भवति? यद्येवम्, किं दोषप्रतिविधानव्यसनेन। निमितपर्यायस्यैव ग्रहणमस्त्विति मन्यमान आह- कारकशब्दश्चेति। कस्य हेतुरिति। द्रव्यगुणविषयोऽपि हेतुः कारकं प्राप्तमित्यभिप्रायः। कारकशब्दोऽयं क्रियाहेतावेव प्रसिद्ध इत्याह-क्रियाया इति। अनाश्रितव्यापारं निमितं हेतुः, आश्रितव्यापारं कारकम्, उक्तं च - द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति। अनाश्रिते तु व्यापारे निमितं हेतुरिष्यते॥ इति च। कथं तर्हि पूर्वमुक्तम्-अनर्थान्तरमिति, न हि सामान्यविशेषवचनानामनर्थान्तरवाचित्वम्? सत्यम्; सामान्यशब्दयोरपि अर्थप्रकरणादिना विशेषवृत्तिमभिप्रेत्य तु तथोक्तम्। वृक्षस्य पर्णं पततीति। पर्णविशेषणत्वेनात्र वृक्षो विवक्षितः, न त्वपायस्य निमितत्वेनेत्यपादानसंज्ञा न भवति, न वापायस्याविवक्षितत्वात्। सति ह्यवधौ गतिरपायो भवति, नान्यथा। न चात्र वृक्षोऽवधित्वेन विवक्षितः। तथा हि - वृक्षमजहत्यपि पर्णे वृक्षस्य पर्णं पततीति भवति प्रयोगो यदा वृक्षः च्छिन्नः पततीति, सत्यम्; अत एवास्मिन्नतृप्तः सन्नाह - माणवकस्य पितरमिति। अत्र पितुः सम्बन्धित्वेन माणवको विवक्षितः, न तु प्रश्नक्रियां प्रति निमितत्वेनेति कर्मसंज्ञा न भवति; असति तु कारकाधिकारे तस्यापि स्यात्। शेषलक्षणा तु षष्ठी अकथिते दुह्यादिपरिगणनाद्राज्ञः पुरुष इत्यादौ सावकाशा। यदि तर्हि विशेषणमिदम्, ध्रुवादीनां न संज्ञा,'कारकद्दतश्रुतयोरेवाशिषि' - इत्यादौ यत्र कारकशब्दः संशब्द्यते तत्रापादानादीनां वक्ष्यमाणानां पण्णामेव ग्रहणमिष्यते, तन्न सिद्ध्यति। संज्ञापक्षे तु न दोषः, संज्ञा ह्यावर्तमाना संज्ञिनं प्रत्यायति। स्यादेतत्-प्रदेशेष्वपि क्रियानिमित्तपर्यायस्य कारकशब्दस्योपादानम्, तच्च निमितमपादानाद्येवेति, तदसत्; नटस्य श्टणोतीत्यादौ कारकशेषस्य आह-कारकसंशब्दनेषु चेति। कारकग्रहणं प्रदेशेषु स्वर्यते, स्वरितेनाधिकारावगतिर्भवतीति भावः॥
Nyaas
-----
`कारक इति विशेषणमपादानादिसंज्ञाविषयम्` इति। अपादानदयः संज्ञा विषयो यस्य तत्तथोक्तम्। आदिशब्देन सम्प्रदानादीनां ग्रहणम्। अथ वक्ष्यमाणानां ध्रुवादीनाभियं संज्ञा कस्मान्न भवति? एवं मन्यते - यदीयं संज्ञाशब्दा निर्दिश्यन्ते; अयं तु सप्तम्या निर्दिष्टः, तस्मान्नेयं ध्रुवादीनां संज्ञेति। `कारके` इति निर्धारणे सप्तमी, निर्धारणं तु बहुनां सम्भवति, तत्कथमेकवचनेन निर्देशः? सामान्यपेक्षया त्वेकवचनम्। अथ वा - `छन्दोवत् सूत्राणि भवन्ति` (म।भा।1.1.1) ततो `व्यतयो बहुलम्` (3.1.85) इति बहुवचने प्राप्त एकवचम् कारकेषु मध्ये यद् ध्रुवं कारकं तदपादानसंज्ञं भवति। एवमन्यत्रापि वेदितव्यमिति।कारकशब्दोऽयमस्त्येव व्युत्पन्नः - ण्वुलन्तः कर्तृपय्र्याय इति, अस्ति च संज्ञाशब्दः - अव्युत्पन्नो पय्र्याय इति। तत्रेह यदि पूर्वोक्तस्य ग्रहणं स्यात तदापादानादिषु कारकशब्दो न वर्तते, यथा - कर्तृशब्दः **ण्वुल्तृचौ** (3.1.133) इति कर्तरि व्युत्पादितः, तथा कारकशब्दोऽपि; कर्ता च स्वतन्त्रः, अपादानादयश्चास्वतन्त्राः, तत्कथं तेषु कारकव्यपदेशः स्यात्? असति हि कारकव्यपदेशे कारकसंशब्देषु तेषां ग्रहणं न स्यात्। अथ तेषामपि कथञ्चित् स्वतन्त्रताभ्युपेयेत, एवञ्च तत्र कर्तृसंज्ञा प्रसज्येत, ततश्च ग्रामादागच्छति, उपाध्यायाय गां ददातीत्यादौ ग्रामादिभ्यस्तृतीया प्रसज्येत, इतरेतराश्रयश्चापि दोषः स्यात्। तथा हि - कर्तृसंज्ञोत्तरकालं कारकशब्दस्य व्युत्पत्तिः, तस्यां सत्यां कारकशब्दोपक्रमेण कर्त्तृसंज्ञा स्यात् बह्वेवं प्रतिविधेयं स्यात्, प्रतिविधाने च प्रतिपत्तिगौरवं स्यात्। निमित्तपर्यायस्य तु कारकशब्दस्य ग्रहणे न दोषः स्यात्, ततः स एव गृह्रत इति मत्वाह - `कारकशब्दोऽयं निमित्तपर्यायः` इति। `ग्रामादागच्छति` इति। ग्रामस्य ध्रुस्यागमनक्रियां प्रति निमित्तभावोऽस्ति। यदीह ग्रामोऽवधिभावेन नावतिष्ठेततत आगमनं न निष्पद्येत,तस्माद्ग्रामः कारकम्।`वृक्षस्य पर्णं पतति` इति। वृक्षः सम्बन्धित्वेनात्र विवक्षितः न तु निमित्तत्वेन। अपायस्य कारकग्रहणान्निमित्तत्वेनाविवक्षितस्यापादानसंज्ञा न भवति। नैतत् कारकग्रहणस्य प्रत्युदाहरणं युक्तम्; ध्रुग्रहणेनैवात्रापादानसंज्ञाया निवर्तितत्वा#आत्, ध्रुवं हि तद्यदवधिभूतमपाये साध्ये। तथा हि वृत्तिकारो वक्ष्यति - `अपाये साध्ये यदवधिभूतम्` (का।1.4.24) इति। न चेह वृक्षोऽवधित्वेन विवक्षितः, किं तर्हि? सम्बन्धत्वेन, नैतदस्ति; विवक्षितावधिभावस्यैव वृक्षस्य सम्बन्धिभावेन विवक्षित्वात्। अवधिभूतस्य वृक्षस्य सम्बन्धिनः पर्ण पततीत्यर्थः। न हि सम्बन्धित्वेन विवक्षाऽवधिभावविक्षाया विरुध्यते। तस्माद्विवक्षितावधिभावस्यैव वृक्ष्सय सम्बन्धित्वमात्रं विवक्षितम्, न तु विद्यमानमप्यपायं प्रति निमित्तत्वमिति काऽत्रायुक्तता ! `माणवकस्य पितरं पन्थानं पृच्छति`इति। `अकथितञ्च` (1.4.51) इत्यकथितस्य कर्मसंज्ञा विधीयमाना `कारके ` (1.4.81) इत्येतस्मिन्नसति माणवकस्यापि स्यात्, कथम्? अकथितशब्दोऽयमकीर्त्तित पर्यायः। स च कस्याचिद्विशेषस्याप्रकृतत्वद्विशेषानुपादाने सति प्रयुज्यमानः सर्वत्राविशेषएणाकीर्त्तितमात्रे स्यात्। ततश्च `अकथितम्` इत्युच्यमाने कारकञ्चाकारकञ्च सर्वमकथितमिति सर्वकथितमिति गम्यते। यथा पिताऽपादानादिभिर्विशेषकथाभिर्न कथितः, तथा माणवकोऽपि, अत्स्तस्यापि कर्मसंज्ञा स्यात्। `कारके` इत्यस्मस्तु सति प्रश्नक्रियानिमित्तस्य पितुरेव भवति; न तु माणवकस्य। न ह्रसौ प्रश्नक्रियां प्रति निमित्तभावेन विवक्षितः, किं तर्हि? पितुः सम्बन्धित्वेन। यदि विशेषणमिदं ध्रुवादीनाम्; न संज्ञा, ततश्च **कारकाद्दत्तश्रुतयोरेवाशिषि** (6.2.148) इत्येवमादिषु प्रदेशेषु यत्र कारकशब्दः संशब्द्यते तदा तत्रापादानादीनां कारकग्रहणेन ग्रहणं न स्यात्। संज्ञापक्षे तु न दोषः, संज्ञा ह्रावर्तमाना संज्ञिनं प्रत्यायतीत्यत आह - कारकसंशब्दनेषु`इत्यादि। यत्र कारकशब्दस्य संशब्दनं तत्राप्यनेनैव विशेषणेन विवक्षितार्थप्रत्यायनलक्षणो व्यवहारोऽयं विज्ञायते; प्रदेशान्तरेऽपि कारकशब्दस्य निमित्तपर्यायस्यैवोपादानात्। तच्च् निमित्तमपादाननाद्येव, न हि ततोऽन्यत्क्रियानिमित्तं भवति। तस्मात् कारकग्रहमेनापादानादीनां ग्रहणं भवति।अन्ये त्वाहुः - साहचर्यात् कारकविशेषणसहचरिता अपादानादयः कारकशब्देनोच्यन्त इति तद्ग्रहणेनैव तेषां ग्रहणम्। कारकग्रहमं वा स्वरयितव्यम्। तेन **स्वरितेनाधिकारः** (1.3.11) इत्येष विधिर्भवति। तस्मात् कारकग्रहणेनापादानादीनां ग्रहणं भविष्यति।
Prakriyasarvasvam
-----------------
इतः परं क्रियानिर्वर्तकेषु कारकेषु संज्ञा उच्यन्ते ।।